मेघदूतम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search

मेघदूतं खण्डकाव्यमस्ति, यस्य रचयिता महाकविः कालिदासः। काव्यमिदं पूर्वमेघदूतम्, उत्तरमेघदूतम् इति खण्डद्वये विभक्तमस्ति । काव्येस्मिन् १काचित् विरह-गुरुणा पीडितस्यैकस्य यक्षस्य कथाऽस्ति । अस्य रचयितुः कालिदासस्य परिचयादिकं प्रकरणान्तरे उक्तम् ।

मेघदूतस्य मौलिकता[सम्पादयतु]

कालिदासेन मेघदूते विरहिणो लोकस्य मनः स्थितेर्वर्णना कृता, पूर्वमेघे आदितोऽवसानपर्यन्तं बाह्यप्रकृतिश्चित्रिता, एवमेव उत्तरमेघे अन्तः प्रकृतिः । सन्देशप्रेषणस्य प्रवृत्तिस्तदाधारेण काव्यप्रणयने प्रवृत्तिश्चेयं पुराणेषु रामायणे महाभारते चापि प्राप्यते । नलचरिते हंसेन संवादप्रेषणे उपकृतम्, युधिष्ठिरेण कृष्णद्वारा संवादः प्रेषितः,रामेण हनूमता संवादः प्रापितः । तदत्र कालिदासेन रामायणमनुसृत्य मेघदूतं प्रणीतमिति कथनं नासत्यम् । कालिदासः स्वयमपि तथ्यमिदं गोपयितुं नैच्छत् ।यद्यसौ तत्थमिदं गोपयितुमैषिष्यत्, तदा स्वकाव्ये- ‘इत्याख्याते पवनतनयं मैथिलीवोन्मुखी सा’ इति पद्यं कथमपि नायोजयिष्यत् ।

रामायणाधारेण कृतमपीदं खण्डकाव्यं स्वीयां मौलिकतां न जहाति । मौलिकता हि कथायाः प्रकारस्य वाऽनुकरणमात्रेण् नापहीयते, सा हि पद्यानां निर्माणे कथया उपस्थापने नवीनां पध्दतिमपेक्षते । माघेनापि पुराणेतिहासप्रथितं वृत्तमादायैव शिशुपालवधं प्रणीतमथापि तस्य मौलिकत्वमक्षतमेव, तथैव मेघदूतस्यापि मौलिकता शैल्या नवीनतायां मनोभावानां चित्रणे नूतनतायां च निहिता । कालिदासेन मेघो दूततां गमितस्तद्विषये भामहेनापत्तिः कृता –

अयुक्तिमद्यथा दूता जलभृन्मारुतेन्दवः । तथा भ्रमरहारीतचक्रवाकशुकादयः ॥
अवाचोऽयुक्तवाचश्च दूरदेशविचारिणः । कथं दूत्यं प्रपद्येरत्रिति युक्त्या न युज्यते ॥

अत्र प्रसङ्गे उत्तरमपि स्वयमेव तेन दत्तम् –

यदि चोत्कण्ठया यत्तदुन्मत्तं इव भाषते ।
तथा भवतु भूम्नेदं सुमेघोभिः प्रयुज्यते ॥

कालिदासेनापि – ‘कामार्त्ता हि प्रकृतिकृपणाश्चेतनाचेतनेषु’ इति कथयित्वा सकलाप्येतद्विषयाऽऽपत्तिः परिहृता ।

मेघदूतस्यापरकविभिरनुकरणम्[सम्पादयतु]

मेघदूतं निर्माय कालिदासेन मन्ये एको मार्ग इव प्रवर्त्तितः । प्रसिध्दकविर्भवभूतिरपि मालतीमाधवे नाम स्वरुपकं मेघं दूतं कृत्वा –

दैवात्पश्येर्जगति विचरन् मत्प्रियां मालर्ती चेद्
आश्वास्यादौ तदनु कथयेर्माधवीयामवस्थाम् ॥

इति संवादं प्रेषितवान् । घटखर्परनामा कविरपि घटखर्परकाव्यनाम्नैव प्रथिते खण्डकाव्ये मेघमेव दूतं कृत्वा स्वप्रियासमीपे संवादं प्रेषितवान् –

निचितं समुपेत्य नीरदैः प्रियहीनाहृदयावनीरदैः ।
सलिलैर्निहतं रजः क्षितौ रविचन्द्रावपि नोपलक्षितौ ॥

एवमन्येऽपि कवयो मेघदूतानुकरणेन खण्डकाव्यानि दूतकाव्यनाम्ना प्रथयितुं प्रावर्त्तन्ते । एवं संस्कृतसाहित्ये सन्देशकाव्यस्यैका श्रेणी एव समजायत । सन्देशकाव्येषु धोयीकविप्रणीतं ‘पवनदूतम्’ मेघदूतस्यानन्तरकनिष्ठम् । अयं धोयीकविरेव गीतगोविन्दकृता जयदेवेन कविक्ष्मापतिशब्देन स्मर्थते । वेदान्तदेशिक-वामनभट्ट्- बाण- रुपगोस्वामिप्रभृतयः कतिपये परे कवयः हंसदूतनामकानि काव्यानि रचितवन्तः । चातकदूत – कोकिलदूतादयोऽपि ग्रन्थाः प्रथन्ते । भागवताधारकं भ्रमरदूताखं काव्यं तु स्वगुणगौरवख्यातमेव ।

परवर्त्तिनो जैनकवयो मेघदूतस्य चरणानि समस्थारुपेणावलम्ब्य दूतकाव्यानि कृतवन्तः । तदयं सम्प्रदायः कालिदासप्रवर्तित एवेति कालिदासस्य परमं गौरवस्थानम् ।

मेघदूतस्य काव्यशैली[सम्पादयतु]

प्रायः श्लोकशतकमितोऽयं ग्रन्थः किमपि अलौकिकं मादकं तत्त्वं रक्षति येन लोको ‘माघे मेघे गतं वयः’ इति साभिमानं वक्तुमुत्सहते । मेघदूते विरहशालिनो युवजनस्य मनः स्थितेस्तादृशं व्यक्तं चित्रं प्रस्तुतं तदधीयानो जनः स्वचित्रमिव प्रदर्श्यमानः कामपि आत्मविस्मृतमिव प्रतिपद्यते । इदमेव हि मेघदूतस्य वैशिष्ठ्यं यतत्र वर्णनप्रवृत्तानि पद्यान्यपि मनोगतान् विरहिजनभावानभिव्यज्जयन्ति –

वेणीभूतप्रतनुसलिलासाक्तीतस्य सिन्धुः
पाण्डुच्छायातटरुहतरुभ्रशिभिर्जीर्णपर्णैः ।
सौभाग्यं ते सुभग विरहावस्थया व्यञ्जयन्ती
कार्श्यं येन त्यजति विधिना स त्वयैवोपपाद्यः ॥

पद्येऽत्र सिन्दोर्दशा दूरं गच्छति, विरहिण्या दशैव पुर उपेत्य विरहिणे हृदये कामपि पीडामवतारयति, याऽध्येतृरसिकानां हृदये विप्रलम्भशृङ्गारं प्रवाहयति ।

कालिदासेन मेघदूते सौन्दर्यसृष्टेः पराकाष्ठा प्रकाशिता – तन्वी श्यामा शिखरिदशना पक्वबिम्बाधरोष्ठी । इति सर्वाणि विशेषतान्युपन्यस्याप्यपरितुष्यता ‘या तत्र स्याद्युवतिविषये सृष्टिराद्येव धातुः’ इत्युक्त्वा प्रकर्षः प्रकटीकृतः नैतावदेव, भौगोलिकं ज्ञानं वैज्ञानिकं च ज्ञानमत्र ग्रन्थे स्थितिमित्यप्याधुनिका अभिप्रयन्ति ।

कालिदासेन रामायणं दृष्ट्वैव मेघदूतमुद्भावितमिति प्रागवोचाम् । वाल्मीकिना कथितोऽप्यर्थोऽनेन कथं चमत्कारिशैल्यां प्रकाशित इति निदर्श्यते – रामायणे वाल्मीकिना सीतां सन्तोषयितुं धैर्यं धारयितुञ्च –

कल्याणी बत गाथेयं लौकिकी प्रतिभाति मे ।
एति चीवन्तमानन्दो नरं वर्षशतादपि ॥

इत्युक्तम् । अयमेवार्थः कालिदासेन कथा पध्दत्योच्यते ? तद् दृश्यताम्-

इत्यात्मानं बहु विगणयन्नात्मनैवावलम्बे
तत्कल्याणि त्वमपि सुतरां मा गमः कातरत्वम् ।
कस्यात्यन्तं सुखमुपनतं दुःखमेकान्ततो वा
नीचैर्गच्छत्युपरि च दशा चक्रनेमिक्रमेण ॥

सफलकाव्ये हि कङ्कालाङ्ग्यपि युवतिरुपतां यातीति कथनमेतादृगुक्तिदर्शनमूलकमेवेति ।

कथाबीजम्[सम्पादयतु]

यक्षः कुबेरस्य सेवकः आसीत् । सः स्वकार्येषु प्रमत्तः अभवत् । कुबेरस्य शापेन सः एकवर्षपर्यन्तं रामगिरिपर्वते न्यवसत् । तत्र अबला विप्रयुक्त: स कामी यत्र यत्र पश्यति तत्र तत्र कामोद्दीपकवस्तूनि सम्पश्यानः अस्वस्थ: सन् अस्तं गमितमहिमा भूत्वा कृश; भूत्वा कनकवलयभ्रश्प्रकोष्ठ् भूत्वा रामगिरे: (नवीनं रामगढ्) विजनगुहासु वासम् चक्रे। एवम् विरहकातर: स: सानुम् आश्लिष्य्माणम् मदेन् वप्रकीडाम् कुर्वाणम् गजसदृशम् च प्रेक्ष्य्माणम् मेघम् पश्यति।न् यद्यपि मेघ: धूमज्योतिसलिलमरुत्भि निर्मित; अचेतन: स कामातुर: न्यायान्यायचिन्तने असमर्थ्; सन् स्वप्रेयसीं प्रति मेघद्वारा संदेशं प्रेषयति ।

गम्यमाने सति मेघेन क: क: मार्गा: स्वीकरणीया: , के नगरा: ग्रामा: च मार्गे सन्ति के के दृश्या: द्रष्टव्या: कथम् तेषाम् अवगति: इत्यादय: पूर्वमेघस्य विषया: । रामगिरे: आरभ्य उत्तराभिमुखे गते अमरकूटपर्वतम्नर्मदा नदीविदिशा नगरीवेत्रवती नदीमाल्वस्य राजधानी, कुरुक्षेत्रम् इत्यादय: द्रष्टव्या: काशि हिन्दूविश्वविद्यालयस्य नेपाळि विभागीयेन श्रीमत् शेषराज शर्मणा 'चन्द्र्कला' व्याख्यया प्रसिद्धीकृतमस्ति ।

कश्चित् कान्ता विरहगुरुणा स्वाधिकारात् प्रमत्तः
शापेनास्तङ्गमितमहिमा वर्षभोग्येण भर्तुः।
यक्षश्चक्रे जनकतनयास्नानपुण्योदकेषु
स्निग्धच्छायातरुषु वसतिं रामगिर्याश्रमेषु।।

पूर्वमेघः[सम्पादयतु]

एकदा यक्षाणां स्वामी कुबेरः कस्मैश्चित् यक्षाय कार्यदायित्वम् अयच्छत्, परन्तु सः यक्षः तस्मिन् कार्ये प्रमादम् अकरोत्। अतः कुबेरः तम् अशप्यत्। एकवर्षं यावत् सः स्वप्रियायाः वियुक्तो भवेत् इति शापः आसीत्। शापकारणात् तस्य यक्षत्वं व्यगंतं, सश्च मानवरूपेण मृत्युलोकं प्राप्तः। रामगिरि-नामकस्य पर्वतस्य आश्रमेषु तस्य निवासस्थानम् आसीत्। तस्य आश्रमस्य जले सीतया स्नानं कृतम् आसीत्, अतः तत् पवित्रं जातम् आसीत्। आश्रमस्थाः वृक्षाः अपि छायान्तः आसन्।

महाकविकालिदासेन शापितयक्षस्य यस्याः कथायाः आधारेण मेघदूतस्य रचना कृता अस्ति, तस्याः कथायाः उल्लेखः पद्मपुराणे, 'चारित्रवर्धिनी'-नामिकायां मेघदूत-टीकायां च प्राप्यते। पद्मपुराणे योगिन्यैकादश्याः माहत्म्यावसरे कृष्णः एतस्याः कथायाः उल्लेखं करोति।[१]

प्रियाविरहेण व्यथितः यक्षः अष्टौ मासान् यावत् रामगिरौ यापितवान्। विरहदौर्बल्येन तस्य शरीरं कृषम् अभवत्। हस्ते यत् कङ्कणम् आसीत्, तदपि कृषात् हस्तात् पतितम्। कामुकः यक्षः पर्वतशीर्षे स्थित्वा समयं यापयति स्म। एवम् आषाढमासः समारब्धः। अतः आषाढस्य प्रथमे दिवसे तेन आकाशे उत्खातकेलिं [२] कुर्वन् हस्तिरूपी प्रक्षणीयः पर्वतालिङ्गनसदृशः मेघः दृष्टः। सः कुबेरस्य भृत्यः स्वाश्रूणि अवरुध्य अभिलाषायाः जनकस्य मेघस्य सम्मुखं पश्यन् कथमपि आत्मानं वशीकृत्य दीर्घकालं यावत् किमपि चिन्तनं करोति। मेघस्य दर्शनेन सुखसमन्विताः अर्थात् ये प्रियायाः समीपे सन्ति, तेषामपि चित्तम् उत्कण्ठितं भवति, तर्हि प्रियायाः सङ्गमाय लालायितस्य विरहयुक्तस्य पुरुषस्य विषये तु किं विक्तव्यम्? एवम् उत्कण्ठितः सः यक्षः मेघं दृष्ट्वा श्रावणमासस्य प्रत्यासन्नताम् अजानत्। श्रावणीयवर्षाकाले मम पत्न्याः उत्कण्ठा चरमे स्यात् इति विचिन्त्यमानः पत्नीप्राणरक्षणेच्छोः तस्य मनसि स्वकुशलक्षेमस्य सन्देशं प्रेषयितुं विचारः समुद्भूतः। तेन विचारेण एव सः प्रसन्नः अभवत्। ततः सः कुटजपुष्पैः (गिरिमल्लिका), प्रेमाधिक्यवचनैः च सह तस्य मेघस्य स्वागतम् आचरत।

धूमतेजोजलवायुभिः निर्मितः जडः मेघः कुत्र? कार्यसम्पादनशक्तेन्द्रियैः जीवैः प्रापयितव्याः सन्देशाविषयाः कुत्र? अर्थात् उभयोः मध्ये कुत्रापि सम्बन्ध एव नास्ति। जडः मेघः सन्देशवहने सर्वथा असमर्थः इति उत्कण्ठावशात् अविचारयन् यक्षः तं सन्देशनयनार्थं याचितवान्। यतः कामपीडिताः पुरुषाः चेतनाचेतनयोः भेदं कर्तुम् अपि असर्थाः भवन्ति। मेघे सन्देशवहनयोग्यतां प्रकटीकृत्य यक्षः तं वदयति यत्, लोकप्रसिद्धयोः पुष्कर-आवर्तकयोः कुले समुत्पन्नं, स्वेच्छया शरीरधारिणं, इन्द्रस्य प्रधानपुरुषं त्वाम् अहं जाने। गुणयुक्तेभ्यः याच्ञा निष्फला अपि वरा, परन्तु अधमेभ्यः पूर्णा याच्ञा अपि अधमा। अतः दैवयोगेन प्रियजनवियुक्तः अहं तुभ्यं याचनां करोमि इति।

हे जलद! त्वं सूर्य-कामयोः तापात् पीडितानाम् आश्रयः असि। अतः कुबेरस्य कोपात् प्रियावियोजितस्य मम सन्देशं प्रियायाः समीपं नय। बाह्योद्याने विद्यमानस्य शिवस्य मूर्ध्नि स्थितया चन्द्रिकया प्रक्षालितैः भवनैः युक्ता यक्षपुरी अलका त्वया गन्तव्या। पथिकानां प्रियाः (प्रियागमनस्य) विश्वासेन सधैर्यं केशाग्रभागम् उपरि कृत्वा उत्कण्ठापूर्वकम् आकाशे आरूढन्तं त्वां विलोकयिष्यन्ति। तव आकाशव्याप्तौ सत्यां मत्सदृशं परवशजनं विहाय कः अन्यः विरहव्यथितां पत्नीम् उपेक्षेत? अवरोधरहितगतियुक्त! दिनगणनायां रतां पतिव्रतां स्वस्य भ्रातृजायां त्वं जीवतम् अवश्यं द्रक्ष्यसि। यतः प्रियागमनस्य आशायाः बन्धनं सन्दरीणां पुष्पतुल्य-वियोगे तत्कालं नश्यमानं प्रेमि हृदयं प्रायशः नाशात् निवारयति। मन्दं मन्दं तवानुकूलः वायुः त्वां नुदति। अपि च ते वामपार्श्वस्थितः निकटवर्ती गर्वान्वितः चातकः श्रोत्रप्रियं गायति। सम्भोगकालज्ञानाः बद्धपङ्क्तयः बलाकाः (प्रियाः) लोचनाकर्षकं त्वां नभसि आश्रयिष्यन्ते। यत् उद्गतकन्दगलिकां धरां फलवतीं कर्तुं शक्नोति, तत् श्रोत्रमधुरं तव गर्जनं श्रुत्वा मानसरोवरं गन्तुम् उत्सुकाः राजहंसाः गगने कैलासं यावत् तव सहचराः भविष्यन्ति। जनानां पूज्यै रामचरणन्यासैः मेखलायां चिह्नितं स्निग्धमित्रम् एनम् उच्चं गिरिं समालिङ्ग्य गच्छ। प्रतिवर्षायां तव संयोगं प्राप्य दीर्घकालवियोगसमुद्भूतम् उष्णं नेत्रजलम् उत उष्माणं त्यजतः पर्वतस्य प्रेमाभिव्यक्तिः वर्तते।

इतः परं यक्षः सौन्दर्यपूर्वकं गमनमार्गं कथयति। 'किं वायुः पर्वतशिखरं नीत्वा गच्छति' इति साश्चर्यम् उपरि दृश्यमानानां सिद्धपुरुषप्रियाणां दृश्यः त्वं मार्गे दिग्गजानां हस्ताक्रमाणस्य परित्यागं कुर्वन् इदं वेतयुक्तस्थलं त्यक्त्वा उत्तराभिमुखी सन् गच्छ। मणिकान्तीनां मिश्रणसदृशं धनुष्खण्डं वल्मीकाग्रभागात् निर्गच्छति, येन उज्ज्वलकान्तियुक्तस्य पिच्छेन गोपवेशधारिणः कृष्णस्य समानं तव श्यामशरीरम् अत्यधिकशोभां प्राप्यस्यति। सस्यं त्वयि अधीनम् अस्ति। अतः प्राकृतिप्रमाद्रैः, भ्रूविकार-अपरिचितैः, जनपदवधूलोचनैः सादरं वीक्ष्यमाणः त्वं 'माल'-प्रदेशं तत्कालमेव हलोत्कर्षणसुरभिः यथा स्यात्, तथा वर्षाः कृत्वा किञ्चित् पश्चिमदिशं प्रति गत्वा पुनः उत्तरमार्गेणैव गच्छ। आम्रकूटः पर्वतः धारासम्पातवर्षाभिः वनोत्पातस्य शान्तकर्तारं, मार्गक्लान्तिविमुक्तं च त्वां निश्चयेन स्वशिरसि धारणं करिष्यति। क्षुद्रजनः अपि आश्रयाय सम्प्राप्तस्य मित्रस्य आगमने सति पूर्वकृतोपकारस्य विचारं कृत्वा विमुखः न भवति, तर्हि उन्नतः सः आम्रकूटः कथं विमुखः भवेत्? परिपक्वफलैः शोभितस्य, वन्याम्रवृक्षैः आच्छादितमार्गयुक्तस्य च पर्वतस्य शिखरे आरूढे सति पीतपृथ्व्याः स्तनसमाने मध्ये कृष्णवर्णीयः विस्तृतभागे देवदम्पतीभ्यां दर्शनीयाम् अवस्थायां त्वं प्राप्स्यसि।

किरातादिनां वनवासिनां ललनाद्वारा उभभोगकृते कुञ्जे आम्रकूटपर्वते किञ्चित् विश्रम्य, वर्षाः कृत्वा च त्वम् अधिकं वेगेन अग्रे गन्तुं प्रभविष्यसि। ततः अग्रिमे मार्गे त्वं विन्ध्याचलस्य तलक्षेत्रे विशीर्णां नर्मदानदीं गजशरीरे रेखावत् चित्रितां द्रक्ष्यसि। कृतवृष्टिः त्वं वन्यगजानां मदैः कटुः उत सुगन्धितं, जम्बूकस्य वृक्षाणां कुञ्डैः अवरुद्धवेगयुक्तं नर्मदाजलं नीत्वा अग्रे गच्छेः। जलरूपे सारे सति वायुः त्वां कम्पयितुं न शक्ष्यति। यतः सर्वेऽपि सारगुणहिनाः पदार्थाः अगुरवः भवन्ति, समग्रत्वञ्च गुरुत्वात् अकम्पनयोग्यं भवति।

उत्तरमेघः[सम्पादयतु]

उद्धरणानि[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=मेघदूतम्&oldid=437203" इत्यस्माद् पुनः प्राप्तिः