योगिन्येकादशी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search

लुअ दोषः : expandTemplate: template "Short description" does not exist.

योगिन्येकादशी


योगिनी एकादशी
Avatars of Vishnu.jpg
कथामूलानि पद्मपुराणं, ब्रह्मवैवर्तपुराणं च
पात्राणि श्रीकृष्णः, मार्कण्डेयः, युधिष्ठिरः, हेममाली, कुबेरः,
यक्षाः, पुष्पसमागतसमीक्षकः, विशालाक्षी
विशेषम् एतस्याः कथायाः आधारेण महाकविकालिदासेन
मेघदूतस्य रचना कृता इति मन्यते।
व्रतसमयः आषाढकृष्णैकादशी

योगिन्येकादशीव्रतकथा पद्मपुराणस्य उत्तरखण्डे प्राप्यते। आषाढमासस्य कृष्णैकादशी एव "योगनी" उत "शयनी" एकादशी उच्यते। अस्याः व्रतकथायाः वक्ता श्रीकृष्णः, मार्कण्डेयश्च वर्त्तेते। श्रोतारौ च युधिष्ठिरः, हेममाली च। यदा युधिष्ठिरः आषाढकृष्णैकादस्याः नाम, महत्त्वं च पृच्छति, तदा वासुदेवः कथामेनां कथयति।

मेघदूते महाकविः कालिदासः कस्यचित् शापितस्य यक्षस्य विषये उल्लिखति। मेघदूते सः यक्षः मेघमेव दूतं स्वीकृत्य तस्य माध्यमेन स्वप्त्न्याः कृते सन्देशं प्रेषयति इति कथानकं वर्तते। कालिदासस्य सा मेघदूतीया कथा एतस्याः कथायाः प्रभाविता इति मन्यते।

कथा[सम्पादयतु]

पूर्वाभासः[सम्पादयतु]

यधिष्ठिरः वासुदेवं कृष्णं पृच्छति यत्, हे वासुदेव! आषाढकृष्णपक्षे या एकादशी भवति, तस्याः नाम, माहात्म्यं च मां कथयतु इति। प्रत्युत्तरत्वेन श्रीकृष्णः आषाढमासीयायाः योगिन्याः एकादश्यायाः सर्वपापक्षयकारिण्याः, सर्वमुक्तिप्रदायिकायाः च कथां कथयति।

कुबेर-यक्षसेवकयोः कथा[सम्पादयतु]

अलकायां शिवभक्तिपरायणस्य कुबेरस्य हेममालि-नामकः पुष्पबटुकः (पुष्पाणि चित्वा आनयति, सः) आसीत्। हेममालिनः विशालाक्षीति नामतः सुरूपा पत्नी आसीत्। एकदा मानसरोवरात् पुष्पाणि चिन्वानः सः कामपाशवशं पत्न्याम् आसक्तः। अतः कुबेरालयम् अगत्वा सः पत्नीप्रेमरसासक्तिं तुष्टयितुं गृहे एव स्थितः। शिवसदने शिवपूजनरतः राजन् पुष्पागमसमीक्षकैः सूचितः यत्, हेममाली स्वभवने कान्तया सह रमते इति। अतः यक्षराजः उच्चस्वरेण हेममालिनः विषये अपृच्छत्। तदा सर्वेऽपि उपस्थिताः यक्षाः वनिताकामुकतायाः विवरणेन सह तस्य उपस्थितिं गेहे अपुष्यन् (पुष्टिम् अकुर्वन्)। सर्वेषां वाक्यं समाकर्ण्य कुपितः कुबेरः तं पुष्पबटुकं हेममालिनम् आह्वयामास। यक्षराजस्य आह्वाहनसन्देशं प्राप्तः भयव्याकुललोचनः हेममाली अस्नात्वा एव कुबेरस्य सम्मुखे समुपस्थितः। तं दृष्ट्वैव क्रुद्धसरक्तलोचनः कोपप्रस्फुरिताधरः कुबेरः उक्तवान् यत्,

आः पाप! दुष्ट! दुर्वृत्त! कृतवान्देवहेलनम्।।१४।।
अष्टादशकुष्ठवृतो वियुक्तः कान्तया तया।
अस्मात्स्थानादपध्वस्तो गच्छ स्थानमथाऽधमम्।।१५।। इति। [१]

शापग्रस्तः सः तस्मात् स्थानात् पतित्वा कुष्ठरोगेण पीडितः महादुःखम् अनुभवन् मृत्युलोके इतस्ततः भ्रमति स्म। दिवसे सुखं, निशि निद्रां च सः न प्राप्नोति स्म। शिवपूजनस्य प्रभावेण तस्य पापकर्मणः स्मृतिः अपि आसीत्। पूर्वं कर्म स्मरन् असौ पातकाभिभूतः हेमाद्रिनामकं पर्वतं गतः। तस्मिन् पर्वते तपोनिधिः मार्कण्डेयमुनिः निवसति स्म। तं तपोनिधिं दृष्ट्वा हेममालिः दूरतः तस्य चरणयोः वन्दनम् अकरोत्। मार्कण्डेयमुनिः अपि तं कम्पितं हेममालिनं दृष्ट्वा समाहूय उक्तवान् यत्, कस्मात् त्वं कुष्ठाभिभूतः, कुतः निन्द्यतरः असि? इति। सः महामुनिं प्रत्यवदत् यत्, अहं धनदस्य हेममालीति नामतः अनुचरः अस्मि। हे मुने! प्रत्यहं अहं मानसात् पद्मनिचयमानीयः तस्मै शिवपूजनवेलायां समपर्यामि स्म। एकस्मिन् दिने पत्नीसौख्यप्रसक्तेन मया कालः न विदितः। ततः कुद्धेन राज्ञा शप्तोऽहं कुष्ठाभिभूतः, कान्तया तया वियुक्तश्च शुभकर्मणा अधुना तव सान्निध्यं प्राप्तोऽस्मि। हे मुनिश्रेष्ठ! सत्पुरुषाणां स्वभावतः चित्तं परोपकरणे क्षमं भवति इति ज्ञात्वा मां कृतागसं (हानिकृतवन्तं) प्रशाधि (प्रशाधय - adorn) इति।

मार्कण्डेयः उक्तवान् यत्, त्वया सत्यं हि भाषितम्। अतः ते शुभप्रदं व्रतोपदेशं कथयामि। आषाढे कृष्णपक्षे त्वं योगिनीव्रतम् आचर। अस्य व्रतस्य पुण्येन ध्रुवं वै तव कुष्ठं यास्यति इति। मुनेः वचनं श्रुत्वा हेममाली तं दण्डवत् प्रणामम् अकरोत्। ततः मार्कण्डेयमुनेः उपदेशानुसारं तेन व्रतम् आचरितम्। तस्य सर्वशः कुष्ठानि अष्टादशेव गतानि। मुनेः वचनानुसारं व्रतं कुर्वन् सः सुखी अभवत्।

महत्त्वम्[सम्पादयतु]

हे नृपश्रेष्ठ! ईदृग्विधं योगिनीव्रतं कथितम् इति श्रीकृष्णः युधिष्ठिरम् अकथयत्। ततः माहात्म्यं वदन् सः उक्तवान् यत्, अष्टाशीतिसहस्राणि द्विजान् तु यः भोजयते, तत्समं फलं योगिनीव्रतकृन्नरः प्राप्नोति। महापापप्रशमनस्य, महापुण्यफलप्रदायकस्य व्रतस्यास्य पठनेन, श्रवणेन च मनुष्यः सर्वपापैः विमुक्तः भवति इति।

सम्बद्धाः लेखाः[सम्पादयतु]

उद्धरणम्[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=योगिन्येकादशी&oldid=428044" इत्यस्माद् पुनः प्राप्तिः