वक्रोक्तिः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(वक्रोक्ति इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search


केचनपद्यभागाः गद्यप्रायाः दृश्यन्त इति, केचनगद्यभागाः पद्यभागाननुकुर्वन्तीति च विमर्शकाः वदन्ति । ततश्च तस्मिन् पद्यभागे पद्यत्वसम्पादकः कश्चनधर्मो विलुप्तः इति ज्ञायते । तथाऽपरस्मिन् पद्यतया परिदृश्यमाने गद्यभागे पद्यत्वसम्पादकः कोपि धर्माः विद्योतत इति चावश्यमङ्गीकर्तव्यम् । कः सः धर्मः ? स किं केवलं शब्दाश्रितः ? उत भावाश्रितः ? आहोस्विदुभयाश्रितः ? यदि सः भावाश्रितस्तदा भावानां व्यक्तीकरणे साधारणपध्दतेरतिरिक्ता गद्यपद्यतारतम्यस्य , अथवा कवितावैशिष्ट्यस्य निरुपिका कापि विलक्षणासरणिरस्तीति विज्ञायते । क्रिस्तोरनन्तरं दशमशतके संजातः कुन्तकः तां विलक्षणां सरणिं वक्रोक्तिरिति निश्चित्य, वक्रोक्तिः काव्यजीवितमिति समुद्घोषयत् ।

ध्वनिसिध्दान्तस्य प्रकाशनानन्तरं प्रादुर्भूतेषु वादेषु वक्रोक्ति – अनुमान- औचित्यवादाः प्राचुर्यमुपगताः । स्वभावविरुध्दस्य चमत्कारयुक्तस्य, उक्तिविशेषस्य वक्रोक्तिरिति व्यवहारो भवति । एषा वक्रता न श्वपुच्छतुल्या, किन्तु चन्द्रकलासदृशी – इति मङ्खकः, श्रीकण्ठचरिते कथयामास । रघुनाथभूपालः आन्ध्रभाषायां प्रसिध्दस्य श्रीनाथस्य कवितायां हरचूडाहरिणाङ्कवक्रता विद्योतत इति प्रशशंस । वक्रोक्तिर्नाम न केवलं उक्तिगतावक्रतैवेति मन्तव्यम् । तत्र वक्रतया सह रामणीयकमप्यवश्यं स्यात् । सहृदयहृदयानन्दसन्धायिनी पदभावसङ्घटनैव वक्रोक्तिरिति, सा वैदग्ध्यभङ्गी भणितिरुपेति च कुन्तकः प्रोवाच । रमणीयौ शब्दार्थौ काव्यस्य शरीरम् । आत्मभूताया वक्रोक्ते रभावे तौ काव्यप्रयोजनं निर्वोढुं न प्रभवतः, इति कुन्तकस्य आशयः। कुन्तकादपि प्राचीनाः केचित् वक्रोक्ति मधिकृत्य प्रत्यपादयन् । भोजः, श्रॄङ्गार प्रकाशे श्लोक मिम मुदाजहार । तद्यथा –

वक्रत्वमेव काव्यानां परा भूषेति भामहः ।
श्लेषः पुष्णाति सौन्दर्यं प्रायो वक्रोक्तिषु स्थितम् ॥

इति । उत्कृष्टा सङ्घटनैव वक्रोक्तिः इति ध्वन्यालोके दृश्यत इति मनोरथो व्याचख्यौ । इयं वामनोपज्ञस्य रीतिवादस्य सन्निहिता भवति । यतोऽत्र बाह्यां पदसंघटनां केवलामाधारीकृत्य निर्वचनं कृतमस्ति न तु आन्तरमात्मानमालम्ब्य । वामनोऽपि वक्रोक्तिमलङ्कारेषु परिगणय्य सादृश्याल्लक्षणा वक्रोक्ति इति निर्वचनमदात् ।

उन्मिमीलकमलं सरसीनां
कैरवं च निमिमील मुहूर्तात् ।

इति वामनो वक्रोक्तिमुदाजहार । सरस्सु कमलानि उन्मीलन्ति, तत्क्षण एव कैरवाणि निमीलन्ति, इति वाच्योऽर्थः । जडयोः कमल कैरव पदार्थयो रुन्मीलन निमीलन क्रिये न सम्भवतः । अतोऽत्र तयो र्नेत्रसाम्य माधारीकृत्य कमलानां विकासः, कैरवाणां संकोचश्च जात इति पार्यन्तिकोऽर्थोऽत्र ग्राह्यः । इदं वक्रोक्ते रुदाहरण मिति वामनस्य मतं भवति । एतत् दण्डिना प्रदत्ते समाधिगुणस्योदाहरणे स्फुरन्तं ध्वन्यर्थं स्मारयति ।

कुन्तको यद्यपि वक्रोक्तिसिध्दान्तस्य व्यवस्थापकस्तथापि रसध्वनिवादयोर्विरुध्दो न भवति । कुन्तकः, आनन्दवर्धनस्य ध्वनिवादे आदरातिशयं प्राकटयत् । अपि च रसध्वनिसम्बन्धिनो विविधान् भेदान् वक्रोक्तिभेदेषु, अन्तर्भावयामास । अनुमानवादस्य स्थापको महिभट्टस्तु ध्वनिसिध्दान्तं खण्डयन् ध्वनिवक्रोक्तिसिध्दान्तावुभावपि न भिन्नाविति संभावयामास । आधुनिकाः अपि विमर्शकाः बहवोऽत्र एवमेव व्याचख्युः । कुन्तकः, वक्रोक्तिनामकं भावं विशालतमं विधाय, उत्तमकवित्वस्य, आवश्यकानि सकलानि लक्षणानि वक्रोक्तौ सन्निवेशितवान् ।

भामहो वक्रोक्तेस्तथा मम्मटोऽतिशयोक्तेश्च प्राधान्यमूचतुः। वक्रोक्तिशून्यत्वादेव स्वभावोक्ति- क्रम –सूक्ष्म –लेशादीन् भामहोऽलङ्कारेषु न पर्यगणयत् । सर्वेष्वलङ्कारेषु अनुस्यूततया वक्रोक्तिरवश्यं भवेदिति, तदभावेऽलङ्काराः मनो विनोदयितुमशक्ताः एव भवेयुरिति च भामहस्समभावयत् । मम्मटस्तु सर्वेऽलङ्काराः अतिशयोक्तिमूलका इति, अतिशयोक्तिरेव वक्रतां जनयतीति च भावयामास । कवयो मुखं चन्द्रः इति वदन्ति । किं वस्तुतो मुखचन्द्रयोर्भेदो नास्ति ? अस्त्येव । एवं कथने काचिदतिशयोक्तिर्वर्तते । एषा अतिशयोक्तिरेवालङ्कारसौन्दर्यस्य मूलस्तम्भभूता भवति इति मम्मटस्याशयः । अतिशयः, वक्रता चारुत्वमितिशब्दाः मम्मटस्य मते पर्यायभूताः भवन्ति ।

भिन्नं द्विधा स्वभावोक्तिर्वक्रोक्तिश्चेति वाङ्मयम् इति वदन् दण्डी, वाङ्मयं सर्वमपि स्वभावोक्ति –वक्रोक्ति भेदेन द्विविधं भवतीति प्रोक्तवान् । स्वाभावोक्ति र्नाम यथास्थित मुपवर्णनं भवति । वक्रोक्तिरित्युक्ते वक्रतया, अर्थात् चमत्कारबन्धुरतया वस्तुनो वर्णनं भवति । केषुचित्, स्थलेषु स्वभावोक्तिरपि मोदमातन्वत इति सत्यमेव तथापि, आनन्दानुभूतिप्रदाने वक्रोक्तिरेवातिशेते इत्यभ्युपगन्तव्यम् ।

कुन्तको वक्रोक्तेष्षाड्विध्यमकथयत्[सम्पादयतु]

(१) वर्णविन्यासवक्रता – एषा शब्दालङ्कारप्राया भवति ।
(२) पदपूर्वार्थवक्रता – एषा पद पूर्वावयवेन प्रातिपदिकेन धातुना वा सम्बध्दा भवति । अत्रापि पुनः, रुढि वैचित्र्य वक्रता पर्याय वक्रतादयो बहवो भेदा भवन्ति । आसु वक्रतासु उपचार वक्रता मुख्या भवति । अत्रैव भेदे सर्वे ध्वनिभेदास्संगृहीताः ।
(३) प्रत्ययवक्रता – एषा कृत्तध्दितप्रत्ययसम्बध्दा । तेषां प्रत्ययानां संयोगेनात्र चारुतातिशयो भवति ।
(४) वाक्यवक्रता – अत्रार्थालङ्कारमूलकं सौन्दर्यं प्रधानम् ।
(५) प्रकरणा वक्रता – अत्र रसाननुगुणस्य कथावस्तुनः, रसानुगुणतया विपरिवर्तनेन जातं सौन्दर्यं प्रधानम् । शाकुन्तले दुर्वासश्शापोऽत्रोदाहरणम् ।
(६) प्रबन्धवक्रता – अत्र कथायां प्रधानरसस्य विपरिणामपूर्वकमन्यरसप्राधान्यसम्पादनं भवति । महाभारतकथा शान्तरसप्रधाना । भट्टनारायणो वेणीसंहारे कथामेतां वीररौद्ररसप्रधानतया विपरिणमयामास । उपर्युक्तेषु भेदेषु वक्रतापदस्य सौन्दर्य मित्यर्थो वेदितव्यो भवति । तदर्थं कविभिस्समुचितो यत्नः कार्य इति कुन्तकस्याशयो भवति ।

"https://sa.wikipedia.org/w/index.php?title=वक्रोक्तिः&oldid=373234" इत्यस्माद् पुनः प्राप्तिः