कुन्तकः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search
वक्रोक्तिजीवितम्

प्रस्तुतिः[सम्पादयतु]

निरन्तररसोद्गारगर्भसन्दर्भनिर्भराः ।
गिरः कवीनां जीवन्ति न कथामात्रसंश्रिताः ॥

इति कुन्तक (Kunthaka) नामा आलङ्कारिकः स्वस्य अलङ्कारशास्त्रग्रन्थे ’वक्रोक्तिजीवितम्’ नाम्नि उद्गिरति । कुन्तकः संस्कृतसाहित्ये एकः प्रसिद्धः आल्ङ्कारिकः वर्तते । एषः दशमे शतमाने उत्तरार्धे आसीदिति ज्ञायते । क्रि.श.९७५ अस्य जीवितकाल आसीत् । एतस्य मातापितृविषये किमप्यधिकम् मया न ज्ञायते । अयम् निजग्रन्थे वक्रोक्तिजीविते शब्दार्थयोः औचित्यम् अधिकेन गौरवेण मार्मिकतया सोदाहरणं प्रतिपाद्य, अनौचित्यं तिरस्करोति । काव्येषु औचित्यम् एको गुण इति कुन्तकः निरूपयति । पूर्वाचार्याणाम् अभिमतं अनूद्य वक्रोक्तिरपि काव्यस्य जीवितम् इति व्यवस्थापयति ।

वक्रोक्तिजीवितस्य प्रवर्धनम्[सम्पादयतु]

काव्येषु वक्रोतेः रसाभिव्यञ्जकत्वेन प्रतिपादकेषु आलङ्कारिकेषु कुन्तक एव न प्रथमः । भोजः अपि निजकृतौ शृङ्गारप्रकाशे वदति यथा-

वक्रत्वमेव काव्यानां परा भूषेति भामहः ।
श्लेषः पुष्णाति सौन्दर्यं प्रायो वक्रोक्तिषु स्थितम् ॥ इति ।

वामनोऽपि वक्रोक्तिम् अलङ्कारेषु परिगणयति । सह्दयानां मनोऽभिरुचिसन्दायिनी रसनिस्यन्दिनी पदार्थसंयोजनैव वक्रोक्तिरिति कुन्तकमतम् । सा च वक्रोक्तिः वैदग्ध्यपूर्णा, विचित्रभाङ्गिभणितिभिरुपेता मनोज्ञा भवतीति अभिप्रैति ।

कुन्तकस्य कृतौ को विशेषः?[सम्पादयतु]

दृश्यकाव्येषु, श्रव्यकाव्येषु, चम्पूकाव्येषु औचित्यं परमो गुण इति अलङ्कारशास्त्रे राजशेखरादिभिः या चर्चा प्रारब्धाऽऽसीत् तमेव सिद्धान्तमनुसृत्य विशिष्य च स्वग्रन्थं रचयति । वक्रोक्तिः काव्येषु एको गुणः । काव्यसम्बद्धेषु तत्वेषु "जीवितम्" इति पदं प्रथमतया प्रयुक्तं कुन्तकेन । अभिनवगुप्तस्य समकालीनोऽपि अयं तस्मात् कनीयान् । क्षेमेन्द्रः अपि कुन्तकस्य अभिप्रायमेव समर्थयन् औचित्यं काव्यस्य जीवितम् इत्युक्तवान् । कुन्तकः स्वग्रन्थे साहित्येन सह औचित्यम्, सौभाग्यम् इति सामान्यधर्मद्वयं च प्रतिपादयति । अपि च तेनोक्ताः सुकुमारः, विचित्रः, मध्यमः इति त्रयोऽपि मार्गाः पूर्वोक्तैः साधारणधर्मैः समन्विताः काव्यशोभायै भवन्ति । कुन्तकेन दत्तम् औचित्यलक्षणम् एवमस्ति ।

अञ्जसेव स्वभावस्य महत्वं येन पोष्यते ।
प्रकारेण तदौचित्यं उचिताख्यानजीवितम् ॥
यत्र वक्तुः प्रमातुर्वा वाच्यं शोभातिशायिना ।
आच्छाद्यते स्वभावेन तदप्यौचित्यमुच्यते ॥(वक्रोक्तिजीविते कुन्तकः)

पद-पदार्थयोः उत्कर्षः यथा स्पष्टतया गोचरीभवति तथा भङ्गि-भणित्योः वैचित्र्येण समुचितेनाख्यानेन च समन्वितं जीवद्वर्णनमेव औचित्यं भवितुमर्हति । तथा च यत्र कविवचनम् वक्तुः श्रोतुश्च स्वभावानुसारं चमत्कारैः मनो हरति , तदौचित्यम् ।

उचिताख्यानम्[सम्पादयतु]

उचिताख्यानम्=औचित्यम् । कुन्तकः काव्येषु रसानां पात्राणां च प्राधान्यं परिगणय्य, भरत-आनन्दवर्धन-अभिनवगुप्तैः यदुक्तं तत्सम्बद्धम् वक्रोक्तिसिद्धान्तमतम् औचित्यम् अङ्गीकरोति । तदितरान् औचित्यप्रकारानपि रसाभिव्यक्तिसहायान् वक्रोक्तिप्रकारान् विवृणोति । वक्रोक्तिर्नाम काव्यस्य सौन्दर्यम् । यथा लतासु वृक्षेषु वा ऋजुतापेक्षया वक्रता सौन्दर्यहेतुः तथा काव्येषु स्वभावोक्तेरपि वक्रोक्तिरेव सौन्दर्यवर्धकं भावयति । वक्रोक्तिः षड्विधा भवति इति कुन्तकः प्रकारयति । तदेवमस्ति - १)शब्दानां वर्णविन्यासे वक्रता । २)पदानां प्रकृत्यर्थे वक्रता । ३)कृत्प्रत्ययेषु तद्धितादिषु प्रत्ययेषु वक्रता । ४)वाक्येषु वक्रता । ५)आख्यानएषु वक्रता । ६)प्रकरणेषु वक्रता । इति षड्विधवक्रोक्तयः । एवं च औचित्यपूर्णा वक्रोक्तिरेव काव्यस्य जीवितम् इति कुन्तकस्य सिद्धान्तः ।

सम्बद्धाः लेखाः[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=कुन्तकः&oldid=438436" इत्यस्माद् पुनः प्राप्तिः