वाग्भटः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


वाग्भटः (Vagbhatta) कश्चन आलङ्कारिकः वर्तते । एषः जैनधर्मीयः असीत् । एतेन वाग्भटालङ्कारः इति अलङ्कारशास्त्रग्रन्थः, नेमिनिर्वाणनामकं महाकाव्यं च लिखितम् । अयं १२ शतमानस्य अन्त्यभागे आसीत् । गुजरातस्य जयसिंहराजः अस्य समकालीनः । सर्वासु अपि भाषासु पाण्डित्यसम्पादनाय काव्यनाटकादीनि एव साधनानि भवन्ति । काव्यनाटकेषु अलङ्कारः, रसविवरणानि च प्रभूततया उपलभ्यन्ते । अलङ्कारादीनाम् अवगमनं यथा अवश्यं तथैव तेषां दोषाणामपि अवगमनम् अपेक्ष्यते । एतेषाम् अध्ययनाय संस्कृतभाषया बहवः ग्रन्थाः उपलभ्यन्ते । किन्तु आरम्भस्तरीयं शिक्षणं प्राप्तुं सुलभग्रन्थाः विरलतया एव उपलभ्यन्ते । जनोपयोगाय अयं ग्रन्थकर्ता वाग्भटालङ्कारग्रन्थं सरलशैल्या रचितवान् अस्ति । एतं प्राकृतभाषया बाहदः इति निर्दिश्यते स्म इति अस्य ग्रन्थस्य चतुर्थे प्रकरणे सङ्करालङ्कारस्य उदाहरणे स्पष्टं भवति -

बम्भण्ड शुक्तिसपुण्ड मुत्ति अमणिण्णोपहासमूहव्व ।
सिरिवाहडत्ति तणवो आसि बुहो तस्स सोमस्स । (वाग्भटालङ्कारः, ४ परिच्छेदः, १४८ गाढः)

अस्य संस्कृतच्छाया एवमस्ति -

ब्रह्माण्डशुक्तिसम्पुटमौक्तिकमणेः प्रभासमूह इव ।
श्रीबाहड इति तनय असीद्बुधस्तस्य सोमस्य ॥

अस्य श्लोकस्य जिनवर्धनसूरेः व्याख्यानतः स्पष्टं भवति यत् अस्य पितुः नाम सोमः इति । अस्य एव श्लोकस्य 'सिंहदेवगणेः' व्याख्यानम् अस्ति - 'इदानीं ग्रन्थकार इदमलङ्कारकर्तृत्वख्यापनाय वग्भटाभिधस्य महाकवेर्महामात्यस्य तन्नामगाथयैकया दर्शयति' इति । अस्याः अवतारिकायाः परिशीलनेन ज्ञायते यत् वाग्भटः कश्चन महाकविः, महामात्यश्च आसीत् इति । अस्मिन् एव ग्रन्थे समुच्चयालङ्कारस्य उदाहरणत्वेन विद्यमाने १३२ तमे श्लोके -

अणहिल्लपाटकपुरमवनिपतिः कर्णदेवनृपसूनुः ।
श्रीकलशनामधेयः करी च रत्नानि जगतीह ॥ इति उक्तवान् अस्ति ।

नगरेषु अणहिल्लपाटकपुरम्, राजसु कर्णदेवराजस्य पुत्रः, हस्तिषु श्रीकलशः च श्रेष्ठतमाः इति वर्णितवान् अस्ति । कर्णदेवराजस्य पुत्रः जयसिंहनृपः इति व्याख्याने विद्यते । अस्य ग्रन्थस्य ४ परिच्छेदे व्यतिरेकालङ्कारस्य उदाहरणमस्ति -

अस्त्वस्तु पौरुषगुणाज्जयसिंहदेव
पृथ्वीपतेर्मृगपतेश्च समानभावः ।
किन्त्वेकतह् प्रतिभटास्समरं विहाय
सद्यो विंशति वनमस्यमशङ्कमानः ॥ (परिच्छेदः ४, श्लोकः ८५)

विंशति इत्येतत् पदं वर्तमानकालं सूचयति इत्यतः वाग्भटः जयसिंहश्च समकालीनौ इति ऊह्यते । इण्डियन् आण्टिक्वैरि ४ सम्पुटे जयसिंहस्य कालः हूणशक १०९३-११४३ इति निर्दिष्टः अस्ति । एतेन ज्ञायते यत् १०१५ तः पूर्वं १०६५ पर्यन्तं शालिवाहनशकः इति । एतेन ज्ञायते यत् जयसिंहः वाग्भटः च क्रि श १२ शतमाने स्यात् इति ।

कृतयः[सम्पादयतु]

वाग्भटालङ्कारः
२ नेमिनिर्वाणकाव्यम्
अस्मिन् महाकाव्ये १५ सर्गाः सन्ति । २४ तीर्थङ्करेषु २२ तमस्य नेमिनाथस्य चरितम् अत्र उपस्थापितम् । अयं नेमिनाथः द्वारावत्याः राज्ञः समुद्रराजस्य पुत्रः, अस्य ग्रन्थकारः प्राग्वादिवंशस्य दाहटस्य पुत्रः वाग्भटनामकः अरिच्छन्नपुरीयः इत्यपि उल्लिखितम् अस्ति । ग्रन्थस्य अन्ते 'इति श्रीवग्भटविरचिते नेमिनिर्वाणे महाकाव्ये (निर्वाणगमनम्) नाम पञ्चदशः सर्गः इति अस्ति । तदग्रे -

अरिच्छन्नपुरोत्पन्नः प्राग्वादिकुलशालिनः ।
दाहटश्च (स्य) सुतश्चक्रे प्रबन्धं वाग्भटः कविः ॥
नेमेरभूत् प्रबन्धोऽयं वाग्भटेन सुबोधिना ।
नेमेर्धर्मरहस्यास्य............. ॥ इति उक्तमस्ति ।

आदौ सोमस्य पुत्रः बाहडः इति अस्ति । अत्र दाहटस्य पुत्रः वाग्भटः इति उल्लिखितम् । 'बाहड' इत्येतत् वाग्भटः इति ज्ञायते । किन्तु सोमः कथं 'दाहटः' जातः इति न ज्ञायते ।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=वाग्भटः&oldid=443997" इत्यस्माद् प्रतिप्राप्तम्