वाग्भटालङ्कारः
वाग्भटेन वाग्भटालङ्कारः(Vagbhatalankara) इति ग्रन्थः लिखितः । अस्मिन् प्रधानाः अलङ्काराः सर्वेऽपि सन्ति । अस्मिन् ५ परिच्छेदाःसन्ति । अत्र च काव्यलक्षणम्, काव्यसमयः, काव्यभाषा, गुणाः, दोषाः, अलङ्काराः, रीतयः, रसाः, इत्यादयः विचाराः निरूपिताः ।
प्रथमपरिच्छेदः
[सम्पादयतु]अस्मिन् व्युत्पत्तिः, अभ्यासः, कविसमयः च विद्यते ।
द्वितीयपरिच्छेदः
[सम्पादयतु]प्राकृतादिभाषालक्षणम्, काव्यदोषविवरणम्, उदाहरणानि च विद्यन्ते ।
तृतीयपरिच्छेदः
[सम्पादयतु]औदार्यसमतादिकाव्यगुणलक्षणानि विवृतानि सन्ति ।
चतुर्थपरिच्छेदः
[सम्पादयतु]शब्दालङ्कारलक्षणानि, अर्थालङ्कारलक्षणानि, काव्यरीतिः च अत्र उच्यन्ते ।
पञ्चमपरिच्छेदः
[सम्पादयतु]नवरसलक्षणानि, विभावानुभावरीतयः च मनोहरशैल्या सङ्गृहीताः सन्ति ।
अत्रत्यानि उदाहरणानि किं स्वयं रचितानि उत अन्येभ्यः ग्रन्थेभ्यः स्वीकृतानि इति न ज्ञायते । अस्य शैली सरसा इत्यत्र न विप्रतिपत्तिः । बोधप्रदाः केचन श्लोकाः अत्र उदाह्रियन्ते ।
- पतितानां संसर्गम् त्यजन्ति दूरेण निर्मला गुणिनः ।
- इति कथयन् जरतीनां हारः परिहरसि कुचयुगलम् ॥ (४, ८३)
- ग्रामे वासो नायको निर्विवेकः ।
- कौटिल्यानामेकपात्रं कलत्रम् ।
- नित्यं रोगः पारवश्यं च पुंसाम् ।
- एतत्सर्वं जीवतामेव मृत्युः ॥ (पृ १०७, श्लोकः १३३)
इदम् अत्यपकृष्ट-समुच्चयालङ्कारस्य उदाहरणम् ।
प्रश्नोत्तरालङ्कारस्य उदाहरणम् -
- क्व वसन्ति श्रियो नित्यं भूभृतां वद कोविद ।
- असावतिशयः कोऽपि यदुक्तमपि नोह्यते ॥ (पृ १०, श्लो १४६)
व्याख्यानकाराः
[सम्पादयतु]१ आदिनाथः / जिनवर्धनसूरिः
२ सिंहदेवगणि
३ मूर्तिधरः
४ क्षेमहंसगणिः
५ समयसुन्दरः
६ अनन्तभट्टस्य पुत्रः गणेशः
७ राजहंसः
८ वाचनाचार्यः
अन्यौ अनामधेयौ च व्याख्यानं लिखितवन्तौ स्तः ।