दशरूपकम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(दशरूपक इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search

काव्यं दृश्यं श्रव्यं चेति द्विविधम् । तत्र तत् ’श्रव्यम्’ इत्युच्यते यत्र श्रवणमात्रं सम्भवति न पुनः दर्शनम् । तस्मादत्र श्रोत्रेन्द्रियमात्रस्य प्रवृत्तिः । अत्र हि गानकुशलः कियता मधुरस्वरेण काव्यं गायति यच्छ्रवणेन सहृदया आनन्दमनुभवन्ति । तदेवं श्रवणस्य सद्भावात् काव्यमिदं श्रव्यम् । यत्र पुनः श्रवणं दर्शनं च सम्भवति तत् ’दृश्यम्’ इत्युच्यते । इदं च नटैरभिनीयते इति अभिनेयम् इत्यप्युच्यते । नटादौ रामादेः स्वरूपस्य आरोपात् अस्य ’रूपकम्’ इति पदेनापि व्यवहारः, तदुक्तम् - ’तद्रूपारोपात्तु रूपकम्’ ॥ अत्र श्रोत्रेन्द्रियस्येव नयनेन्द्रियस्यापि प्रवृत्तिः । दर्शनस्य चात्र प्राधान्यादस्य दृश्यमिति व्यवहारः । तदेवम् इन्द्रियद्वयस्य प्रवृत्त्या कथावस्तुनो बोधः सहृदयानां साधु भवति रसास्वादाः। अत एव ’काव्येषु नाटकं रम्यम्’ ’नाटकान्तं साहित्यम्’ इत्यादिकं वाक्यं प्रसिद्धम् । अस्मिन् प्रभेदद्वये रामायण-महाभारत-रघुवंशादिकं प्रथमे प्रभेदे अन्तर्भवति । अभिज्ञानशाकुन्तल-मालविकाग्निमित्र-उत्तररामचरितादिकं तु द्वितीये प्रभेदे ।

संस्कृतसाहित्ये प्रायशः दुःखान्तं रूपकं नास्ति । यावदस्ति रूपकं प्रायेण तत्सर्वमपि सुखान्तम् । कुतः? विचारे कृते इदं प्रतिभाति - काव्यात् ’रामादिवत् वर्तितव्यम् न रावणादिवत्’ इत्युपदेशो भवतीति निर्विवादम् । तदर्थमेव काव्यमार्गस्याविष्कारः व्यासवाल्मीकिप्रभृतिभिः । यदि न भवति तादृश उपदेशः तर्हि तस्य काव्यत्वमेव न भवति, प्रयोजनाभावात् । स्थिते चैवम्, रूपकं यदि दुःखान्तं भवति तर्हि नायकस्य अवनतिः मरणं वा तत्र नियमेन प्रतिपादनीयं सम्पद्यते येन ’नायकवत् वर्तितव्यम्’ इत्युपदेशः गगनकुसुममिव निरवकाशं जायेत । तस्मात् भाषान्तरे इव संस्कृते न दुःखान्तं रूपकं दृश्यते । यद्यपि भासेन ऊरुभङ्गमित्यादीनि कानिचित् दुःखान्तानि रूपकाणि रचितानि तथापि तत्र नायकस्य युधिष्ठिरादेः नास्ति मरणम् प्रत्युत प्रतिनायकस्य दुर्योधनादेरिति नास्ति दुःखान्तत्वम् ।

नाटकं सङ्गीतेन युक्तम् ।'गीतं वाद्यं तथा नृत्यं त्रयं सङ्गीतमुच्यते । 'एभिः त्रिभिः युक्तं नाटकं बहु जनप्रियम् अभवत् । 'काव्येषु नाटकं रम्यम्' इत्युक्तिः प्रसिद्धा । यद्यपि लोको भिन्नरुचिः तथापि नाटकं तान् सर्वान् समाराधयति (सन्तोषयति) । संस्कृतसाहित्ये भासः, कालिदासः, शूद्रकः, हर्षः, भवभूतिः इत्यादयः प्रसिद्धाः कवयः नाटकानि रचितवन्तः ।

रूपकभेदाः[सम्पादयतु]

कवयः स्वतन्त्रा इति नियमस्तेषां यद्यपि न सम्भवति तथापि ’एवं कृते शोभनं भवति’ इति मन्यमानेन भरतमुनिना दशैव प्रभेदा अङ्गीकृताः सन्ति लक्षणं च निरूपितमस्ति । ’मुनिवचनं प्रमाणत्वात् न केनापि तस्य लङ्घनं प्रायेण न क्रियते । तस्मात् संस्कृतकाव्यप्रपञ्चे यावन्ति दृश्यकाव्यानि सन्ति तानि सर्वाण्यपि एतेषु दशस्वेव प्रभेदेषु अन्तर्भवन्ति । अद्यत्वे तु उच्छृङ्खलैः स्वेच्छयैव रूपकं रच्यते इति न तत्र भरतोक्तनियमानां सर्वथा सङ्गमनं निर्बद्धव्यम् । तस्मात्तस्य आधुनिकदृष्ठ्यैव कथञ्चित् साधुत्वमुपपादनीयम् न तु शास्त्रदृष्ट्या । तेषां चात्र अन्तर्भावः न सर्वथा सम्भवति, नापि च कर्तुं शक्यते ।
रूपकस्य मुख्यरूपेण त्रयो भेदाः सन्ति - वस्तु, नेता,रसश्च | एषामेव आधारेण रूपकानि विविधानि भवन्ति | एतेषां वस्तु व्दिधाभवति -

1- आधिकारिक कथावस्तु 

2- प्रासंगिक कथावस्तु

रूपकाणि तावत् दश, तानि यथा -

नाटकमथ प्रकरणं भाणव्यायोगसमवकारडिमाः ।
ईहामृगाङ्कवीथ्यः प्रहसनमिति रूपकाणि दश ॥

अत्र नाटकमिति दृश्यकाव्यस्य प्रथमः प्रभेदः । प्रकरणमित्यादयः अन्ये प्रभेदाः । केचित्तु वस्तुस्थितिमजानन्तः सर्वत्राप्यविशेषेण नाटकशब्दमेव प्रयुञ्जते - तदसाधु, अन्यस्य प्रभेदस्य अन्यप्रभेदनाम्ना व्यपदेशस्य अयुक्तत्वात् । एषु च दशसु प्रभेदेषु प्रकृतिविकृतिभावो वर्तते । स च प्रकृतिविकृतिभावो न साङ्ख्यसम्मतः, मृद्घटयोरिव कस्यचिद्वस्तुनः परिणामस्य अदर्शनात् । किन्तु मीमांसकसम्मतः । ते हि ’प्रकृतिवत् विकृतिः कर्तव्या’ इति मन्यमाना यागेषु कश्चित् प्रकृतिः भवति अन्यश्च विकृतिः इत्यभिप्रयन्ति । ततश्च तेषां मतेन यस्मिन् इतिकर्तव्यता सर्वेऽपि अंशाः उपदिश्यन्ते तस्मात् सा प्रकृतिः, यस्मिन् विशेषमात्रं सा विकृतिः । अत्रापि नाटकाख्ये प्रथमप्रभेदे दृश्यकाव्यसम्बन्धिनः सर्वेऽपि अंशा उपदिश्यन्ते । तस्मात् सा प्रकृतिः । अन्येषु च विशेषमात्रम् । तस्मात् सा सर्वापि विकृतिः । क्रमेणैतेषां निरूपणं विधीयते -

नाटकम्[सम्पादयतु]

नट अवस्पन्दने इति धातोः चौरादिकात् ’ण्वुल्तृचौ’ इति कर्तरि ण्वुलि नाटकशब्दः । नाटयति सहृदयानां हृदयं सन्तोषजननेन नर्तयति इत्यर्थः । अस्य लक्षणं तावदिदम् - नाटके रामायणमहाभारतादौ प्रसिद्धं किञ्चिदितिवृत्तं भवति । अत्र मुखम्, प्रतिमुखम्, गर्भः, विमर्शः, निर्वहणं चेति पञ्चापि सन्धयो भवन्ति । सन्धिः नाम कथावस्तुनः खण्डः । अत्र नायकादिषु विलासः अभ्युदयः इत्यादीनां गुणा वर्ण्यन्ते ।

अत्र दुःखजनकस्य सुखजनकस्य च वृत्तान्तस्य वर्णनं भवति । शृङ्गारादिरसविशिष्ठेऽस्मिन् अवरतः पञ्च अङ्का भवन्ति, अधिकता दश, तदुक्तं साहित्यदर्पणे - ’पञ्चादिका दशपराः तत्राङ्काः परिकीर्तिताः’ ॥ तत्र मालविकाग्निमित्रे पञ्च अङ्काः सन्ति । वेणीसंहारे अभिज्ञानशाकुन्तले च षट् । उत्तररामचरिते सप्त । एवं नाटकान्तरेऽपि ज्ञेयम् ।

अत्र प्रसिद्धः कश्चित् राजा नायको भवति । स सत्कुलप्रसूतः धीरोदात्तः विक्रमी गुणयुक्तश्च भवति । धीरोदात्तस्य लक्षणं तावत् साहित्यदर्पणे इदमुक्तमस्ति -

अविकत्थनः क्षमावानतिगम्भीरो महासत्त्वः ।
स्थेयान्निगूढमानो धीरोदात्तो दृढव्रतः कथितः ॥

यः आत्मश्लाघां न करोति, सहनागाम्भीर्यपराक्रमैः गुणैः युक्तो भवति, सुखे दुुःखे च विकारं न प्राप्नोति, अङ्गीकृतस्य कार्यस्य च साधु निर्वाहको भवति स धीरोदात्त इत्यर्थः । स क्वचित् दिव्यो भवति, यथा - कृष्णादिः । क्वचित् अदिव्यः अर्थात् मर्त्यः, यथा - दुष्यन्तादिः । क्वचिच्च दिव्यादिव्यो भवति, यथा - रामादिः । अयं साक्षात् महाविष्णुः इति दिव्यः । मनुष्यवत् रोदनादिकं करोतीति मर्त्यः । तस्माददिव्यः ।

अत्र ये रसा अपि सम्भवन्ति तेषु कश्चिद्रसः प्रधानो निणेर्यः । रसान्तरं तु अप्रधानम् । उपसंहारावसरे तु आकस्मिकघटनस्य योजनेन अद्भुतरसो निबन्धनीयः ।

नायकस्य चात्र पञ्चषाः प्रबलाः सहाया भवन्ति, यथा - श्रीरामस्य सुग्रीवः, विभीषणः, लक्ष्मणः, आञ्जनेया इति चत्वारः । ते सर्वेऽपि नायककार्यस्य सिद्धौ यतमाना भवेयुः । अत्र अङ्कानां संयोजनं गोपुच्छाग्रसमानतया भवेत्, तदुक्तम् - ’गोपुच्छाग्रसमानं तु बन्धनं तस्य कीर्तितम्’ ॥ यथा गोपुच्छे कानिचित् रोमाणि दीर्घानि भवन्ति कानिचित्तु ह्रस्वानि । एवं नायकस्य कार्याणि कानिचित् दीर्घाणि भवन्ति । अत एव विलम्बेन तेषां सिद्धिः । कानिचित्तु लघूनि । अत एव शीघ्रं सिद्धिः ।

केचित्पुनः गोपुच्छाग्रसमानतया भवेदित्यस्य ’यथा गोपुच्छं मूले मूले पीनं भवति अग्रे अग्रे तु कृशं तथा नाटके अङ्का आदौ आदौ महन्तो भवन्ति अन्ते अन्ते तु लघवः’ इत्येवं विवरणं कुर्वन्ति ।

प्रकरणम्[सम्पादयतु]

दशरूपके प्रकरणम् इत्येषः द्वितीयः प्रभेदः । अत्र कथावस्तुनः कल्पनात् प्रकरणमिति अस्य नाम । प्रकर्षेण क्रियते कल्प्यते कथावस्तु नायका अत्रेति प्र इत्युपसर्गपूर्वकात् डुकृञ् करणे इति धातोः ’करणाधिकरणयोश्च’ इत्यधिकरणे ल्युटि प्रकरणशब्दः । भरतमुनिनाभिधीयते -

यत्र कविरात्मशक्त्या वस्तुशरीरं च नायकं चैव ।
औत्पत्तिकं प्रकुरुते प्रकरणमिति तद्बुधैज्ञेर्यम् ॥

यत्र कविः स्वप्रतिभया कथावस्तु नायकं च प्रकल्पयति तत्प्रकरणमिति ज्ञेयमित्यर्थः ।

लक्षणम्[सम्पादयतु][सम्पादयतु]

अस्य लक्षणं तावदिदम् -

अत्र कथावस्तु कल्पितं लौकिकं च भवति । नायकः क्वचित् ब्राह्मणो भवति, यथा - मृच्छकटिके चारुदत्तः । क्वचित् अमात्यो भवति, यथा - मालतीमाधवे माधवः । क्वचित्तु वणिक् भवति, यथा - पुष्पभूषिते अशोकदत्तः । स च नायकः धीरशान्तो भवतीति शृङ्गारोऽत्र प्रधानः । धर्मार्थकामेषु अन्यतमः पुरुषार्थोऽत्र प्रधानो भवति, उक्तमेतद्दर्पणे -

भवेत्प्रकरणे वृत्तं लौकिकं कविकल्पितम् ॥
शृङ्गारोऽङ्गी नायकस्तु विप्रोऽमात्योऽथवा वणिक् ।
सापायधर्मकामार्थपरो धीरप्रशान्तकः ॥

नायिका क्वचित् सत्कुलप्रसूता भवति, यथा - पुष्पभूषिते । क्वचित् वेश्या भवति, यथा - रङ्गवृत्ते । क्वचित्तु सत्कुलप्रसूतस्त्री वेश्या चेति उभये अपि भवतः, यथा - मृच्छकटिके । एवमत्र नायिकाभेदात् त्रयः प्रभेदाः । तत्र यः तृतीयः प्रभेदः स वञ्चकैः द्यूतकरैः विटैः चेटैश्च सङ्कुलो भवति । विटश्च भोगप्रियः निर्धनः कश्चित् पुरुषः, तल्लक्षणं च यथा दर्पणे -

सम्भोगहीनसम्पद्विटस्तु धूर्तः कलैकदेशज्ञः ।
वेशोपचारकुशलो वाग्ग्मी मधुरोऽथ बहुमतो गोष्ठ्यम् ॥

यो भोगेनैव व्ययितसमस्तधनः विज्ञातसकलविद्यालेशः, वेश्यागामी, भाषणे कुशलः, सभायां बहुमान्यः, स्निग्धः, धूर्तश्च भवति स विटः । चेटो नाम तद्भृत्यः । अन्यत्सर्वं नाटकवत् ।

भाणः[सम्पादयतु]

संस्कृतसाहित्ये प्राचीनतादृष्ट्या भाणस्यापि स्थानं नाटकवत् प्रतिष्ठितम् । धूर्त्तस्य नायकस्य चरितम्, एक एवाङ्कः, हास्यरसस्य प्राधान्ये सत्यपि सौभाग्यशौर्यादिवर्णनया शृङ्गारवीररससूचना, भारतीवृत्तिश्च भवति । भाणरचनायां यशोलाभः प्रयाससाध्यो भवति, यथोक्तम् –

वररुचिरीश्वरदत्तः श्यामिलकः शूद्रकश्च चत्वारः ।
एते भाणान् बभूणुः का शक्तिः कालिदासस्य ॥

भाणग्रन्थेषु वररुचेः उभयाभिसारिका, शुद्रकस्य पद्माप्राभृतकम्, ईश्वरदत्तस्य धूर्त्तिविटसंवादः, श्यामिलकस्य पादताडितकम्, वामनभट्टबाणस्य शृङ्गारभूषणम्, रामभद्रदीक्षीतस्य शृङ्गारतिलकम्, वरदाचार्यस्य वसन्ततिलकम्, शङ्करकवेः शारदातिलकम्, नल्लाकवेः शृङ्गारसर्वस्वम्, युवराजस्य रससदनभाणः, साहित्यदर्पणोक्तः लीलामधुकरश्चेत्यादयो ग्रन्थाः स्मर्यन्ते । व्यायोगग्रन्थेषु द्वादशशतकोत्तरार्धभाववत्सराजकविकृतः किरारार्जुनीयव्यायोगः, भासस्य मध्यमव्यायोगः, प्रहलादनदेवविरचितः पार्थपराक्रमः, काञ्चनार्यस्य धनञ्जयविजयः, रामचन्द्रस्य निर्भयभीमव्यायोगः, विश्वनाथस् सौगन्धिकाहरणम् इत्यादयो ग्रन्थाः प्रख्याताः ।

भाणः दशरूपके तृतीयः प्रभेदः । अत्र आकाशभाषितद्वारा स्वस्य परस्य वा वृत्तं नायको भणतीति भाण इति सार्थकं नाम । भाणः नाट्यस्य एक पात्री प्रयोगं अस्ति  । भण शब्दे इति धातोः भणत्यत्रेति ’करणाधिकरणयोा’ इत्यधिकरणाथेर् ल्युटि भाणशब्दः । अस्य लक्षणं तावदिदम् -

अत्र धूर्तानां नानावस्थं वृत्तान्तस्य वर्णनं भवति । एकाङ्कयुक्तेऽस्मिन् बुद्धिमान् निपुणा विटो नायकः । यद्यपि नटस्य एकत्वात् सम्भाषणं निरवकाशं तथापि आकाशभाषितद्वारा स वचनं प्रतिवचनं च करोति । आकाशभाषितं नाम पात्रं विना आकाशं दृष्ट्वा भाषणम्, तदुक्तं दर्पणे -

किं ब्रवीषीति यन्नाट्ये विना पात्रं प्रयुज्यते ।
श्रुत्वेवानुक्तमप्यर्थं तस्यादाकाशभाषितम् ॥

अकाशं पश्यन् किं कथयसि? अस्तु, नगरं गच्छामीति? भवतु भवतु, भवान् गच्छतु’ इत्यनेन प्रकारेण प्रश्नमुत्तरं च यत् स्वयमेव कथयति तदाकाशभाषितमित्यर्थः । नायकः स्ववाक्ये शौर्यसौभाग्यादीनां गुणानां सूचनां करोति । तेन वीरस्य शृङ्गारस्य च रसस्य प्रतितिर्भवति ।

कल्पितकथावस्तुसंयुतेऽत्र प्रायेण भारती वृत्तिः दृश्यते । अत एव संस्कृतस्य बाहुल्यम् । भारती वृत्तिर्नाम संस्कृतबहुलं भाषणम्, तदुक्तम् - भारती संस्कृतप्रायो वाग्व्यापारो नटाश्रयः । तदभावे कैशिकी वृत्तिः । कैशिकी नाम सुन्दरनेपथ्यवान् स्त्रीप्रधानः नृत्यगीतयुक्तः सुविलासः कामोपपभोगादिरूपो व्यापारः । मुखं प्रतिमुखं चेति केवलं सन्धिद्वयमत्र सम्भवति । गेयपदं स्थितपाठ्यम् इत्यादीनि लास्यस्य दशापि अङ्गान्यत्र भवितुमर्हन्ति, तदुक्तं दर्पणे -

तत्रेतिवृत्तमुत्पाद्यं वृत्तिः प्रायेण भारती ।
मुखनिर्वहणे सन्धी लास्याङ्गानि दशापि च ॥

अस्योदाहरणम् ’लीलामधुकरः’ ।

व्यायोगः[सम्पादयतु]

दशरूपके नाटकानां दश प्रकाराः निर्दिष्टाः सन्ति। दृश्यकाव्यस्य अपरं नाम रुपकम् ! साहित्यदर्पणग्रन्थे विश्वनाथः रुपकाणां दश प्रधानप्रभेदान् दर्शयति, ते च नाटकं, प्रकरणं, भाणः प्रहसनं, डिमः,व्यायोगःसमवकारः, वीथी, अङ्कः ईहामृगः च । तत्र व्यायोगप्रभेदस्य उत्तमोदाहरणत्वेन मध्यमव्यायोगः वर्तते । व्यायोगः इत्येषः चतुर्थः प्रभेदः । अत्र विशेषेण कार्यार्थं बहवः आयुज्यन्ते-प्रवृत्ता भवन्तीति व्यायोग इति सार्थकं नाम । वि आङ् इत्युपसर्गद्वयपूर्वकात् युजिर् योगे इति धातोः दैवादिकात् ’करणाधिकरणयोश्च’ इत्यधिकरणे ल्युटि व्यायोग इति शब्दः । बहूनां प्रवृत्तेरधिकरणमित्यर्थः । अस्य लक्षणं तावदिदम् - मनुष्यबहुलेऽस्मिन् अत्र कथावस्तु रामायणमहाभारतादेः स्वीकारात् प्रसिद्धम् । स्त्रीपात्राणि न्यूनानि । अत्र मुखम्, प्रतिमुखम्, निर्वहणं चेति त्रय एव सन्धयः, तदुक्तं दर्पणे -

ख्यातेतिवृत्तो व्यायोगः स्वल्पस्त्रीजनसंयुतः ।
हीनो गर्भविमर्शाभ्यां नरैर्बहुभिराश्रितः ॥

एकाङ्केऽत्र स्त्रीनिमित्तं युद्धं सम्भवति । भारती, सात्वती, आरभटी चेति वृत्तित्रयमात्रस्य अत्र सम्भवः । रामायणादौ प्रसिद्धः कश्चित् राजा इह नायको भवति दिव्यो वा कश्चित् पुरुषः । स पुनः धीरोद्धतो भवतीति विशेषः । धीरोद्धतस्य लक्षणं तावदिदम् - मायापरः प्रचण्डापलोऽहङ्कारदर्पभूयिष्ठः । आत्मश्लाघानिरतो धीरैर्धीरोद्धतः कथितः ॥ अत्र करुणः, रौद्रः, वीरः, भयानकः, बीभत्सः, अद्भुतश्च इत्येतेषु रसेष्वन्यतमो रसः प्रधानो भवति । कथञ्चिदपि हास्य-शृङ्गार-शान्ता अत्र न भवन्ति । अस्य उदाहरणं सौगन्धिकाहरणम् । मध्यमव्यायोगः इत्यप्यस्यैव प्रसिद्धमुदाहरणान्तरम् ।

व्यायोगस्य लक्षणम्[सम्पादयतु]

  • व्यायोगस्य नायकः प्रसिध्दः पुरुषः भवेत् ।
  • पुरुषपात्राणि अधिकानि, स्त्रीपात्राणि न्यूनानि च भवेयुः ।
  • अत्र नाटके एकः एव अङ्कः भवेत् ।
  • व्यायोगस्य कथा (इतिवृत्तं) प्रसिद्धा भवेत् । सा च कथा एकस्मिन् एव दिने प्रवृत्ता स्यात् ।
  • नायकः दिव्यः राजर्षिः क्षत्रियः वा भवेत् । सः धीरोध्दतः भवेत् ।
  • अस्मिन् युध्दस्य, नियुध्दस्य, सङ्घर्षस्य दृश्यं भवितुमर्हति । एतानि सर्वाणि लक्षणानि मध्यमव्यायोगे अन्वितानि भवन्ति ।

समवाकारः[सम्पादयतु]

समवकारे देवासुराश्रयं ख्यातं वृत्तम्, द्वादश नायकाः, वैदिकानि गायत्र्यादीनिच्छन्दांसि, वीरः प्रधानो रसः । समवकीर्त्यन्ते बहवो रसा यत्रेति व्युत्पत्त्या सर्वरसावस्थानं सूच्यते । एतत्प्रभेदसाहित्यमल्पम्, यथा वत्सराजस्य समुद्रमथनम् ।

दशरूपकम् समवकारः पञ्चमः प्रभेदः । अत्र विचित्रा बहवोऽर्थाः समवकीर्णा राशीकृता भवन्तीति समवकारः इति सार्थकं नाम । सम् अव इत्युपसर्गद्वयपूर्वकात् डुकृञ् करण् इति धातोः समवकीर्यन्ते बहवोऽर्था इति ’अकर्तरि कारके संज्ञायाम्’ इत्यधिकरणे घञि समवकार इति शब्दः । अस्य लक्षणं तावदिदम् -

अत्र प्रसिद्धं तादृशं कथावस्तु भवति येद्देवासुरसम्बन्धि । विमर्शं विना अन्ये मुखादयः चत्वारोऽपि सन्धयो भवन्ति । अङ्काश्च त्रय एव । तत्र प्रथमे अङ्के मुखं प्रतिमुखं चेति सन्धिद्वयं सम्भवति । द्वितीये गर्भः । तृतीये निर्वहणम् ।

अत्र प्रसिद्धा द्वादश धीरोदात्ता नायका भवन्ति । तेषु केचित् देवाः केचिच्च दानवाः । तेषां सवेर्षामपि पृथक् पृथगेव प्रयोजनं भवति । अत्र वीरस्य प्राधान्यम् अन्येषां तु अप्राधान्यम् । भारती, सात्वती, आरभटी चेति वृत्तित्रयम् प्रचुरं भवति कैशिकी तु न्यूना । बीजं बिन्दुं च वर्जयित्वा अन्याः सर्वा अपि अर्थप्रकृतयो भवन्ति । अत्र केवलं पताका, प्रकरी, कार्यं चेति अर्थप्रकृतित्रयमेव दृश्यते नान्यत् ।

वीथीति रूपकस्य यो दशमः प्रभेदः तस्य त्रयोदश अङ्गान्यप्यत्र सम्भवन्ति । गायत्री, उष्णिक् इत्यादीनि छन्दांसि च । प्रथमे अङ्के कथावस्तु द्वादशनाडिकापरिमिते अर्थात् प्रायेण सार्धनवघण्टापरिमिते काले सम्भवितुं योग्यम् । द्वितीये नाडिकाचतुष्टयपरिमिते अर्थात् प्रायेण सपादघण्टात्रयपरिमिते काले सम्भवितुं योग्यम् । तृतीये तु नाडिकाद्वयपरिमिते अर्थात् प्रायेण सार्धैकघण्टापरिमिते काले सम्भवितुं योग्यमिति विशेषः ।

अत्र हि स्वाभाविकः कृत्रिमः दैवजोति त्रिविधोऽपि कपटः सम्भवति । कपटो नाम वञ्चना । अयं कपटो यदि स्वस्य अज्ञानादिना भवति तर्हि सः स्वाभाविकः । तत्र यो वञ्चितो भवति तस्यात्र नास्ति अपराधः, किन्तु वञ्चकस्यैव अपराधः, यथा - कश्चित् सज्जनः अन्यं कञ्चित् चोर इत्यजानन् सहवासं करोति । स च एनं वञ्चयते । यद्यप्यत्र सज्जनस्य नास्ति कोऽप्यपराधः । स तु केवलम् अन्यस्य पुरुषस्य । अयं च कपटः स्वाभाविकः ।

यदि पुरुषान्तरात् कपटो भवति तर्हि सः कृत्रिमः । अत्र यो वञ्चितो भवति तस्येवान्यस्यापि अपराधो वर्तते, यथा - किात् दुर्जनः चौयेर्ण धनं प्राप्तुं कस्यचित् अन्यस्य पुरुषस्य सहवासं करोति । किन्तु स पुरुषः, यः स्वयं चोरः, स्वं वञ्चयितुं प्रवृत्तमेतं जानन् तमेव वञ्चयित्वा धनमपहरति । अत्र उभयोरपि अपराधो वर्तते । तदयं कपटः कृत्रिमः । यदि काकतालीयन्यायेन अकस्मात् कपटो भवति सः दैवजः, यथा - किात् पुरुषः राजानमुपसृत्य स्वपाण्डित्यं प्रदर्श्य पारितोषिकं प्राप्तुमिच्छति । तदर्थं स राजगृहं गच्छति । एवमेव विचिन्तयन्नन्योऽपि पण्डितः तदेव राजगृहम् आयाति । तत्र केनापि कारणेन प्रथमः पारितोषिकं न प्राप्नोति । द्वितीयस्तु प्राप्नोति । वस्तुतोऽत्र समानस्यैव पाण्डित्यस्य सद्भावात् न कस्यापि अपराधः तथापि द्वितीयेनैव धनस्य प्राप्तिः न तु प्रथमस्य । अत्र दैवमेव कारणं न तु पुरुषः । तदयं कपटो दैवजः । एतादृशः त्रिविधोऽपि कपटः अत्र सम्भवति । अत्र शृङ्गारः धर्मसम्बन्धी, अर्थसम्बन्धी, कामसम्बन्धी चेति त्रिविधः । तत्र पुरुषस्य स्वपत्न्यां यः शृङ्गारः स धर्मसम्बन्धी । पुरुषस्य वेश्यायां यः शृङ्गारः स अर्थसम्बन्धी । पुरुषस्य परपत्न्यां कन्यायां वा यः शृङ्गारः स कामसम्बन्धी । तत्र धर्मशृङ्गारः प्रथमाङ्के एव । अन्ययोः तु नियमाभावात् शिष्ठयोः अङ्कयोः अनियमेन सम्भवः । तदेतदुक्तम् -

त्रिशृङ्गारस्त्रिकपटः कार्याायं त्रिविद्रवः ।
वस्तु द्वादशनालीभिर्निष्पाद्यं प्रथमाङ्कगम् ॥
द्वितीयेऽङ्के चतसृभिर्द्वाभ्यामङ्के तृतीयके ।

एवं विद्रवो नाम उपद्रवः । स यदि पुरुषादेः चेतनात् जायते तर्हि प्रथमः प्रभेदः । यदि अचेतनात् वाय्वग्निभूकम्पादेः जायते तर्हि स द्वितीयः । अथ चेतनाचेतनात् गजव्याघ्रादेः जायते तर्हि स तृतीयः । अत्र एते त्रयोऽपि प्रभेदाः अत्र सम्भवन्ति । एवमत्र त्रिविधः शृङ्गारः, त्रिविधः कपटः, त्रिविधो विद्रवा सम्भवतीति ज्ञातव्यम् । अस्य उदाहरणं समुद्रमथनम् ।

डिमः[सम्पादयतु]

रौद्ररसप्रधानः, ख्यातेतिवृत्तः चतुरङ्कः, षोडशभिरुध्दतनायकैरुपेतः, शान्तहास्यशृङ्गारभिन्नै रसैरुपस्कृत, कैशिक्यतिरिक्तवृत्तिशाली च भवति डिमः । अस्योदाहरणं च रिपुरदाहः’ इति महर्षिः । तदुक्तम् –

इदं त्रिपुरदाहे तु लक्षणं ब्रह्मणोदितम् ।
ततस्त्रिपुरदाहश्च डिमसंज्ञः प्रयोजितः ॥

डिम- सङ्घाते इति नायकसंघातव्यापारात्मकत्वाड्डिम इति संज्ञेति धनिकः । वेङ्कटवर्यस्य ‘कृष्णविजयः’ रामकवेः ‘मन्मथोन्मथनम्’ इति च परे उदाहरणे ।

ईहामृगः[सम्पादयतु]

ईहामृगे ख्यातं कल्पितकिञ्चिदंशं च वृत्तम, चत्वारोऽङ्कास्त्रयः सन्धयः, सङ्घर्षसङ्कुलं कथानकं भवन्ति । मृगवदलभ्यायां नायिकायामभिलाषस्य वर्णनीयतया ईहामृग इति नामकरणम् । प्रचीनयोः ‘वीरविजयः’ ‘रुक्मिणीहरण’ नामकयोरीहामृगग्रन्थयोः यद्यप्युपलब्धिर्न भवति, तथापि वत्सराजकृतं रुक्मिणीहरण’ नामकयोहीहामृगग्रन्थयोः यद्यप्युपलब्धिर्न भवति, तथापि वत्सराजकृतं रुक्मिणीपरिणयपुस्तक प्राप्यत इति तदेवैकमस्योदाहरणं लभ्यम् । साहित्यदर्पणोक्तः ‘कुसुमशेखरविजय’ नामकोऽपीहामृगग्रन्थोऽप्राप्य एव ।

वीथी[सम्पादयतु]

वीथीनामनि रुपकप्रभेदे भाणसमानैव कथा, एकोऽङ्कः शृङ्गारोऽनुद्भिन्नरुपो रसः, कैशिकी वृत्तिश्च । माधवीवीथी इति नाममात्रशेषोऽस्य निदर्शनग्रन्थः । दशरूपके वीथी नवमः प्रभेदः । नानारसानामत्र मालारूपतया अवस्थानात् वीथीवेति प्रभेदोऽयं वीथीत्युच्यते । अन्यस्तु वक्रोक्तिमागेर्ण गमनात् प्रभेदोऽयं वीथीवेति वीथीति सार्थकं नामेति मन्यते । अस्या लक्षणं तावदिदम् - अत्र एक एवाङ्को भवति । एक एव नायकः । स आकाशभाषितैः वचनप्रतिवचने करोति । तस्य वचनेषु आधिक्येन शृङ्गाररसस्य अभिव्यञ्जनं वर्तते, तदुक्तम् -

आकाशभाषितैरुक्तैश्चित्रां प्रत्युक्तिमाश्रितः ।

सूचयेद्भूरिशृङ्गारं किञ्चिदन्यान् रसान् प्रति ।

अत एवात्र कैशिकीवृत्तेराधिक्यं दृश्यते । अन्येषां तु अल्पत्वेन अभिव्यञ्जनम् । अत्र मुखं निर्वहणं च सन्धिद्वयमात्रं भवति । अन्ये सन्धयो न भवन्ति । बीजबिन्दुपताकादयः सर्वा अपि अर्थप्रकृतयोऽत्र सम्भवन्ति ।

अङ्कानि[सम्पादयतु][सम्पादयतु]

अस्याः त्रयोदश अङ्गानि सन्ति, यथा - १. उद्धात्यकम् २. अवलगितम् ३. प्रपञ्चः ४. त्रिगतम् ५. छलम् ६. वाक्केलिः ७. अधिबलम् ८. गण्डम् ९. अवस्यन्दितम् १०. नालिका ११. असत्प्रलापः १२. व्याहारः १३. मार्दवम् । क्रमेण एतेषां निरूपणं क्रियते -

१ उद्धात्यकम्[सम्पादयतु][सम्पादयतु]

इदं तावत् वीथ्याः प्रथममङ्गम्, प्रस्तावनायाश्च प्रथमः प्रभेदः । तस्मादेतस्य निबन्धनं प्रस्तावनायामेव भवतीति विज्ञायते । अस्य लक्षणं तावदिदम् -

पदान्यगतार्थानि तदर्थगतये नराः ।
योजयन्ति पदैरन्यैः स उद्धात्यक उच्यते ॥

सूत्रधारेण यानि पदानि प्रयुक्तानि तेषामर्थमविजानन् तेषामर्थान्तरं प्रकल्प्य तदनुसारेणैव नटो वाक्यं प्रयुञ्जानो यत्र प्रविशति तत्र उद्धात्यकमिति प्रभेद इत्यर्थः । उदाहरणं तावत् मुद्राराक्षसे दृश्यते, यथा -

क्रूरग्रहः सकेतुश्चन्द्रमसं पूर्णमण्डलमिदानीम् ।
अभिभवितुमिच्छति बलात् . . . . . . . . . . . ॥

इत्यन्तरम् - [नेपथ्ये]

आः! क एष मयि जीवति चन्दगुप्तमभिभवितुमिच्छति ॥

अत्र क्रूरग्रहः इति वाक्यं सूत्रधारेण प्रयुक्तम् । केतुसहितः क्रूरो ग्रहो राहुः पूर्णचन्द्रम् आक्रमितुम् इच्छति अर्थात् अचिरादेव चन्द्रस्य ग्रहणं भविष्यति इति तस्यार्थः । इमं चार्थं स नटीं बोधयितुम् इच्छति । तदर्थं तां प्रति प्रयुक्तमेतद्वाक्यम् । तस्मिन्नेव समये नेपथ्ये स्थितः चाणक्यो वाक्यमिदं शृणोति । श्रुत्वा च तद्वाक्यस्य ’सम्पूर्णराष्ट्रं चन्द्रगुप्तं क्रूरदुराग्रहवान् कश्चित् मलयकेतुना सहितः सन् आक्रमितुम् इच्छति’ इत्यर्थान्तरं कल्पयन् क्रुद्धः तदनुसारेणैव वाक्यं प्रयुङ्क्ते - आः! क एष इत्यादि । मयि रक्षके जीवति सति कोऽयं दुष्टः मच्छिष्यं चन्द्रगुप्तम् आक्रमितुम् इच्छतीति तदर्थः । एवमत्र सूत्रधारेण यत् वाक्यं प्रयुक्तं तस्य तदृष्ट्या कस्मिंश्चिदर्थे सत्यपि रङ्गं प्रविशन् पुरुषः तदजानन् प्रत्युत तद्वाक्यस्य स्वबुद्ध्यनुसारेण अन्यमेवार्थं जानन् तदनुगुण्येन वाक्यं प्रयुङ्क्ते । तदिदम् उद्धात्यकम् ।

२. अवलगितम्[सम्पादयतु][सम्पादयतु]

इदं वीथ्या द्वितीयमङम् यच्च प्रस्तावनायाः पञ्चमः प्रभेदोऽपि । तस्मात् पूर्वस्येव अस्यापि प्रस्तावनायामेव सम्भव इति विज्ञायते । लक्षणं तावदिदम् -

यत्रैकत्र समावेशात्कार्यमन्यत्प्रसाध्यते ।
प्रयोगे खलु तज्ज्ञेयं नाम्नावलगितं बुधैः ॥

यत्र किञ्चिकार्यार्थं क्रियमाणेन यत्नेन तत्कार्यस्येव रूपकारम्भरूपकार्यान्तरस्यापि सिद्धिर्भवति तदवलगितमिति अस्यार्थः । उदाहरणं चास्य अभिज्ञानशाकुन्तले दृश्यते, यथा - तत्र वसन्तमासमधिकृत्य नट्या कृतं गानं प्रशंसन् सूत्रधारः एवं कथयति -

तवास्मि गीतरागेण हारिणा प्रसभं यतः ।
एष राजेव दुष्यन्तः सारङ्गेणातिरंहसा ॥

अत्र अतिवेगशालिना हरिणेन आकृष्ठचित्तो दुष्यन्त इवेति कथनात् तस्य प्रवेशेन नाटकस्य आरम्भ इति विज्ञायते । एवमत्र गीतप्रशंसारूपे एकस्मिन् कायेर् कृतेन यत्नेन दुष्यन्तप्रवेशेन नाटकारम्भो भविष्यतीति कार्यान्तरमपि सूचितम् ।

३. प्रपञ्चः[सम्पादयतु][सम्पादयतु]

इदं वीथ्याः तृतीयमङ्गम् । अस्य च लक्षणं तावदिददम् -

मिथो वाक्यमसद्भूतं प्रपञ्चो हास्यकृन्मतः ।

यत्र हास्यजनकानि असत्यार्थप्रतिपादकानि वाक्यानि भवन्ति तादृशं द्वयोः सम्भाषणं प्रपञ्च इत्यर्थः । अस्य चोदाहरणं विक्रमोर्वशीये दृश्यते, यथा -

अत्र वलभ्यामुपविष्ठौ चेटीविदूषकयोः सम्भाषणे असत्यार्थप्रतिपादकानि हास्यजनकानि च वाक्यानि स्पष्ठानि ।

४. त्रिगतम्[सम्पादयतु][सम्पादयतु]

इदं चतुर्थमङ्गम् । अस्य लक्षणं तावदिदम् -

त्रिगतं स्यादनेकार्थयोजनं श्रुतिसाम्यतः ।

यत्र वाक्यस्य समानत्वात् श्रवणं समानम् किन्तु तद्वाक्यं प्रयोक्तृभेदात् विभिन्नार्थकम्, अत एव च तदनेकार्थकं भवति तद्वाक्यं त्रिगतमित्यर्थः । अस्यापि उदाहरणं विक्रमोर्वशीय एव, यथा - उर्वशीवियोगेन विक्रमः अत्यन्तं दुःखितो वर्तते । तद्दुःखेन तस्य तावान् मतिविभ्रमो जातः येन स तदानीं वाक्यस्य प्रयोक्ता क इत्यपि विवेक्तुं न जानाति । तच्चास्मिन् प्रसङ्गे स्फुटं भवति । उन्मत्तवत् प्रतीयमानः स विक्रमः स्वप्रेयसीमुर्वशीं सर्वत्रान्विष्यन् कञ्चन पर्वतमुपसर्पति । तं प्रति मम प्रेयसी उर्वशी कुत्रेति पृच्छत्येवम् -

राजा - सर्वक्षितिभृतां नाथ! दृष्ठा सर्वाङ्गसुन्दरी ।

रामा रम्ये वनान्तेऽस्मिन् मया विरहिता त्वया ॥

[नेपथ्ये प्रतिशब्दः]

राजा - कथम्! दृष्टेत्याह?

अत्र पर्वतं प्रति उर्वशीं ज्ञातुमिच्छन् विक्रमो यदा वाक्यं प्रयुक्तवान् तदा तद्वाक्यं पर्वते प्रतिध्वनितं सत् प्रतिनिवृत्तम् । तादृशं च वाक्यं शृण्वन् विक्रमः तद्वाक्यस्य ’हे राजन्! सर्वाङ्गसुन्दरी काचित् तन्वी त्वया विरहिता वनमध्यभागेऽस्मिन् मया दृष्टा’ इत्यर्थान्तरं गृह्णाति । एतच्च ’कथम्! दृष्टेत्याह’ इति पुनः प्रयुक्तात् तदीयादेव वाक्यात् विज्ञायते । एवमत्र वाक्यस्य समानत्वेऽपि पर्वतप्रयुक्तत्वभ्रान्त्या अर्थो भिद्यते इति स्पष्टम् ।

५. छलम्[सम्पादयतु][सम्पादयतु]

इदं पञ्चममङ्गम् । अस्य लक्षणं तावदिददम् -

प्रियाभैरप्रियाख्यैर्वाक्यैर्विलोभ्य छलनाच्छलम् ।

यत्र प्रियवत् भासमानैः अप्रियैः वाक्यैः आशामुत्पाद्य वञ्चनं भवति तत्र छलमित्यर्थः । अस्योदाहरणं वेणीसंहारे वर्तते । तत्र दुर्योधनः तावत् अत्यन्तं पराजयमापन्नः । तस्य सैन्ये ये प्रमुखाः भीष्मादयः ते सवेर्ऽपि पराजिताः केचिच्च मृताः । दुर्योधना एकाकी अवशिष्ठः । अस्यान्तराले सूर्योदयात् प्रागेव दुर्योधनमवश्यं नाशयमि, नो चेदात्मानं वह्नौ पातयामि’ इति घोरं प्रतिज्ञातं भीमेन । तेन च सवेर्षां महती चिन्ता सम्पन्ना यतः अन्वेषणे कृतेऽपि दुर्योधनो न दृश्यते । स तु जलस्तम्भनमन्त्रबलेन वैशम्पायनसरोवरे निमज्य निलीनो वर्तते । यदि एकं दिवसमतियाति तर्हि प्रतिज्ञाभङ्गात् भीमः वह्निं प्रविशति । तेन सवेर् पाण्डवाः दुःखिताः सन्तः स्वसमयानुसारेण प्राणान् मुञ्चन्ति । एतेन पर्यन्ते पाण्डवानामेव विनाशो भवति । एवं विचारयन् दुर्योधनः कथञ्चिदेकं दिनं सरोवरे निलीय नयामीति विचिन्त्य तत्र निमग्नो वर्तते । तस्मिन् समये अन्वेषणं कुर्वन्तौ भीषमार्जुनौ सर्वत्रापि दुर्योधनं विचारयतः, यथा -

भीमार्जुनौ - कर्ता द्यूतच्छलानां जतुमयशरणोीपनः सोऽभिमानी

राजा दुश्शासनादेर्गुरुरनुजशतस्याङ्गराजस्य मित्रम् ।

कृष्णाकेशोत्तरीयव्यपनयनपटुः पाण्डवा यस्य दासाः

क्वास्ते दुर्योधनोऽसौ कथयत न रुषा द्रष्ठुमभ्यागतौ स्वः ॥

अत्र दुयोधनस्य यानि विशेषणानि इष्टवत् भासमानान्यपि अनिष्ठान्येव सन्ति । तैः जनानामशामुत्पाद्य दुर्योधनवृत्तान्तस्यावगमनं तयोरभीष्ठम् । केचित्तु छलस्य लक्षणं तावदिदं कथयन्ति -

अन्ये त्वाहुश्छलं किञ्चित्कार्यमुश्यि कस्यचित् ॥

उदीर्यते यद्वचनं वञ्चनाहास्यरोषकृत् ।

किञ्चित्स्वाकीयं कार्यं साधयितुं किात् पुरुषो यदि वञ्चनापरं हास्यजनकं रोषकारकं च वाक्यं प्रयुे तर्हि तत् छलं भवतीत्यर्थः । भरतेन तु एतदेव ’अन्यार्थमेव वाक्यं छलमभिसन्धानहास्यरोषकृत्’ इति वाक्यान्तरेणाभिहितम् ।

६. वाक्केलिः[सम्पादयतु][सम्पादयतु]

इदं षष्ठमङ्गम् । अस्य लक्षणं तावदिदम् -

वाक्केलिर्हास्यसम्बन्धो द्वित्रिप्रत्युक्तितो भवेत् । बहुभिः उत्तरैः हास्यस्य जननं वाक्केलिरित्यर्थः । अस्योदाहरणं तावदिदम्, यथा - किात् भिक्षुं सम्बोधयन् कश्चित् प्रश्नान् करोति । तेषां च उत्तरं स भिक्षुरेवं ददाति, यथा -

भिक्षो! मांसनिषेवणं प्रकुरुषे, किं तेन मद्यं विना मद्यं चापि तव प्रियमहो वाराङ्गनाभिः सह । वेश्याप्यर्थरुचिः कुतस्तव धनं द्यूतेन चौयेर्ण वा चौर्यद्यूतपरिग्रहोऽपि भवतो नष्ठस्य कान्या गतिः ॥ अत्र प्रश्नानामुत्तरं भिक्षुणा दीयमानं यदस्ति तत् स्वधर्मस्य विरुद्धत्वात् हास्यं जनयति ।

७. अधिबलम्[सम्पादयतु][सम्पादयतु]

इदं सप्तममङ्गम् । अस्य लक्षणं तावदिदम् -

अन्योन्यवाक्याधिक्योक्तिः स्पर्धयाधिबलं मतम् । स्पर्धया प्रयुक्तेषु वाक्येषु य उत्तरोत्तरं प्रकर्षः तदधिबालमित्यर्थः । अस्य चोदाहरणं प्रभावतीपरिणये यथा - तत्र नायकः प्रद्युम्नो वज्रनाभनामानं राक्षसं सम्बोधयन् एवं कथयति, यथा -

वज्रनाभः - अस्य वक्षः क्षणेनेव निर्मथ्य गदयानया ।

लीलयोन्मूलयायेष भुवनद्वयमद्य वः ॥

प्रद्युम्नः - अरे रे असुरापसद! अलममुना बहुप्रलापेन । मम खलु

अद्य प्रचण्डभुजदण्डसमर्पितोरुकोदण्डनिर्गलितकाण्डसमूहपातैः ।

आस्तां समस्तदितिजक्षतजोक्षितेयं क्षोणिः क्षणेन पिशिताशनलोभनीया ॥

अत्र ’अनया गदया तव वक्षःस्थलं सपद्येव विदार्य भुवनद्वयं सर्वथा नाशयामि’ इति वज्रनाभेन सक्रोधमभिहिते सति ’मम भुजदण्डे वर्तमानादस्मात् चापात् निर्गच्छता बाणसमूहेन भूतलं तथा करोमि येनेदं भूतलं राक्षसरक्तार्द्रं पिशाचादीनामतीवास्वादनीयं स्यात्’ इति तदपेक्षया प्रकषेर्ण अभिहितं प्रद्युम्नेन ।

८. गण्डम्[सम्पादयतु][सम्पादयतु]

इदम् अष्ठममङ्गम् । अस्य लक्षणं तावदिदम् -

गण्डं प्रस्तुतसम्बन्धि भिन्नार्थं सत्वरं वचः ।

यत्र प्रस्तुतार्थप्रतिपादनार्थं झटिति प्रयुक्तं वाक्यम् अन्येनाथेर्न सम्बध्यते तत्र गण्डमित्यर्थः । अस्योदाहरणं तावत् वेणीसंहारे वर्तते । तत्र कुरुक्षेत्रे समरे कर्णः युद्धार्थं गतः । दुर्योधनस्तु समरात् विमुखीभूय किञ्चित् विश्रान्तिमिच्छति । तदर्थं स्वभार्यया भानुमत्या साकं विहारार्थं क्रीडापर्वतं गतो वर्तते । तत्र दुर्योधनो स्वभार्यां प्रति मम ऊरुयुग्मं तवोपवेशनार्थं पर्याप्तं वर्तते । तदत्रैवोपविश्यताम् इति यावत् कथयति तावत्येव किाूतः त्वरितं प्रविश्य दुर्योधनं प्रति ’भवतो रथकेतनं भयानकमारुतवशात् भग्नम्’ इति वृत्तान्तं निवेदयति । स च प्रसङ्गो यथा -

राजा - अध्यासितुं तव चिराज्जघनस्थलस्य पर्याप्तमेव करभोरु! ममोरुयुग्मम् ।

अनन्तरम् [प्रविश्य]

कञ्चुकी - देव! भग्नं भग्नम् - इत्यादि ।

अत्र राज्ञा ममोरुयुग्मम् इत्युक्ते सति कञ्चुकिना भग्नमिति पदेऽनुपदं प्रयुक्ते ’ममोरुयुग्मं भग्नम्’ इति वाक्ये निष्पन्ने ’तव ऊरुयुग्मं भग्नं भविष्यति’ इति अनिष्ठस्यार्थान्तरस्य प्रतीतिः । यद्यप्यत्र कञ्चुकिना सत्वरं प्रविश्य ’भग्नं भीमेन मरुता भवतो रथकेतनम्’ इ्रति वक्तुमुपक्रान्तम् । तता तन्मनसि भवतो रथकेतनं भयङ्करेण वायुना भग्नम् इत्यथेर् स्थितेऽपि पूर्ववाक्यस्थपदेन सम्बन्धात् अनर्थस्य प्रतीतिः ।

९. अवस्यन्दितम्[सम्पादयतु][सम्पादयतु]

इदं नवममङ्गम् । अस्य लक्षणं तावदिदम् -

व्याख्यानं स्वरसोक्तस्यान्यथावस्यन्दितं भवेत् ।

अभिमतस्यार्थस्य प्रकाशनाय प्रयुक्तं यद्वाक्यं तस्य अर्थान्तरपरत्वेन व्याख्यानमित्यर्थः । अस्योदाहरणं छलितरामे वर्तते । तत्र वाल्मीकिः यदा लवकुशयोः रामस्यास्थानं प्रति नयने कृतसङ्कल्पः तदा माता सीता स्वपुत्रौ प्रति इदं कथयति, यथा -

सीता - जाद! कल्लं क्खु अओज्झाएण गन्तव्वम्, तहिं सो राजा विणएण पणायिदव्वो [जात! कल्यं खलु

अयोध्यायां गन्तव्यम्, तत्र स राजा विनयेन पणायितव्यः]

लवः - अथ किमावयोः राजोपजीविभ्यां भवितव्यम्?

सीता - जाद! सो क्खु तुह्माणं पिदा [जात! स खलु युष्माकं पिता]

लवः - किमावयोः रघुपतिः पिता?

सीता - [साशङ्कम्] मा अण्णदा सङ्कद्धम् । ण क्खु तुह्माणं सअलाए ज्जेव पुहवीएत्ति [मा अन्यथा शङ्कध्वम् ।

न खलु युष्माकं सकलाया एव पृथिव्याः]

अत्र स खलु युष्माकम् पिता इ्रति मनोगतमर्थं प्रतिपादयितुं प्रयुक्तस्य वाक्यस्य सत्यस्याच्छादनाय ’राजा सवेर्षामपि पिता भवति’ इति सामान्याभिप्रायेण व्याख्यानम् ।

१०. नालिका[सम्पादयतु][सम्पादयतु]

इदं दशममङ्गम् । अस्य लक्षणं तावदिदम् -

प्रहेलिकैव हास्येन युक्ता भवति नालिका ।

सत्यास्याच्छादकं हासजनकं च उत्तरमित्यर्थः । अस्योदाहरणं रत्नावल्यां वर्तते । तत्र रत्नावली उपवने वत्सराजम् अन्याविदिततया प्रतीक्षमाणा वर्तते । तदानीमेव तत्रागता तत्सखी सुसङ्गता सर्वं जानत्यपि विनोदार्थं रहस्यास्य स्फोटनार्थं रत्नावलीं संलापयति, यथा -

सुसङ्गता - सहि! जस्स किदे तुमं आअदा सो इद ज्जेव चिट्ठदि [सखि! यस्य कृते त्वमागता स इत एव तिष्ठति]

सागरिका - कस्स किदे अहं आअदा?[कस्य कृते अहमागता?]

सुसङ्गता - णंक्खु चित्तफलअस्स ख्ननु चित्रफलकस्य]

अत्र ’चित्रफलकस्य कृते त्वमागता’ इति वाक्येन ’वत्सराजस्य कृते त्वमागता’ इत्यर्थस्य आच्छादनं कृतम् । पूर्वत्र आच्छादितोऽर्थः अन्यस्य न भासते इह तु भासते इ्रति विशेषः ।

११. असत्प्रलापः[सम्पादयतु][सम्पादयतु]

इदम् एकादशमङ्गम् । अस्य च लक्षणं तावदिदम् -

असत्प्रलापो यद्वाक्यमसम्बद्धं तथोत्तरम् ।

अगृह्णतोऽपि मूर्खस्य पुरो यच्च हितं वचः ॥

असम्बद्धं वाक्यम् असम्बद्धम् उत्तरम् उपदेशमशृण्वतः मूर्खस्य पुरतः हितं वचनं च असत्प्रलाप इत्यर्थः । तत्र असम्बद्धं वाक्यं प्रभावतीपरिणये वर्तते । तत्र प्रभावतिविरहसन्तप्तः प्रद्युम्नः तामेव चिन्तयन् भ्रमति । तदा च तत्र किञ्चित् चूतसस्यं दृष्टिपथमायाति । तत्पश्यन् इयमेव मम प्रेयसी प्रभावतीति मनसि विचिन्तयन् एवं कथयति, यथा --

प्रद्युम्नः - [सहकारवल्लीमवलोक्य सानन्दम्] अये! कथमिहैव!

अलिकुलमञ्जुलकेशी परिमलबहला रसावहा तन्वी ।

किसलयपेशलपाणिः कोकिलकलभाषिणी प्रियतमा मे ।

अत्र चूतसस्यम् अचेतनमिति हेतोः तत् प्रति वचनमेतत् न सङ्गच्छते । तस्मादिदम् असम्बद्धं वाक्यं भवति । असम्बद्धं उत्तरं यथा विक्रमोर्वशीये - तत्र हि उर्वशीविरहपीडितो विक्रमः उन्मत्तः सन् सर्वत्र तामेव अन्विष्यति । तदानीं किात् पर्वतो दृश्यते । तं प्रति मम प्रेयसी उर्वशी कुत्रेति पृच्छति । तस्य ध्वनिः प्रतिफलितः प्रत्यायाति, तच्च वाक्यं यथा -

सर्वक्षितिभृतां नाथ! दृष्ठा सर्वाङ्गसुन्दरी ।

रामा रम्या वनान्तेऽस्मिन् मया विरहिता त्वया ॥

इदं च विक्रमदृष्ट्या पर्वतस्य उत्तरम् । पर्वतााचेतन इति हेतोः वाक्येनानेन यदुत्तरं तदसम्बद्धं भवति । एवं मृच्छकटिके शकारस्य वचनेऽपि इदं स्वयं ज्ञातव्यम् । मूर्खं प्रति हितं वचनं यथा वेणीसंहारे दुर्योधनं प्रति गान्धार्या वचनेषु ।

१२. व्याहारः[सम्पादयतु][सम्पादयतु]

इदं द्वादशमङ्गम् । अस्य लक्षणं तावदिदम् -

व्याहारो यत्परस्याथेर् हास्यक्षोभकरं वचः ।

येन क्षणमुद्वेगो भवति पर्यन्ते हासा तादृशं वचनं व्याहार इत्यर्थः । अस्योदाहरणं मालविकाग्निमित्रे वर्तते, यथा - तत्र राजा मालविकायमनुरक्तः तां स्वच्छन्दं द्रष्ठुमिच्छति । तदर्थं तत्सुहृत् गौतमः हरदत्तगणदासयोः कलहमुत्पाद्य तच्छिष्ययोः नाट्यस्पर्धामायोजयन् मालविकाया दर्शनं व्यवस्थापयति । प्रथमं गणदासशिष्याया मालविकाया नाट्यं भवति तत इरावत्या हरदत्तशिष्यायाः । मालविका सम्यक् नाट्यं कृत्वा निर्गन्तुमिच्छति । तदा तर्शनानुवृत्तिं सम्पादयितुमिच्छन् गौतमः तां तत्रैव क्षणमवस्थापयितुं प्रवर्तते, यथा -

विदूषकः - भोदि! चिट्ठ । किं वि विसमरिदो कमभेदो [भवति! तिष्ठ, किमपि वो विस्मृतः क्रमभेदः]

गणदासः - वत्से! स्थीयताम् । उपदेशविशुद्धा गमिष्यसि । [

[इत्युपक्रम्य]

गणदासः - [विदूषकं विलोक्य] गौतम! वदेदानीं यत्ते मनसि वर्तते ।

विदूषकः - पुढमोपदेसदंशणे पुढमं बह्मणस्स पूआ कादव्वा । सा णं वो विसुमरिदो [प्रथमोपदेशदर्शने

ब्राह्मणस्य पूजा कर्तव्या । सा तु ननु वो विस्मृता] [मालविका मन्दहासं करोति]

[इत्यन्तं यावत्]

अत्र क्रमभेदो लक्षितः इत्युक्त्या प्रथममुद्वेगः पाात् ’ब्राह्मणस्य पूजा न कृता’ इत्युक्त्या हास इति स्पष्ठमिदं वचनं हासक्षोभकरम् ।

१३. मार्दवम्[सम्पादयतु][सम्पादयतु]

इदं त्रयोदशममन्तिमं च अङ्गम् । अस्य लक्षणं तावदिदम् -

दोषा गुणा गुणा दोषा यत्र स्युर्मार्दवं हि तत् ।

यत्र दोषाणां गुणत्वं गुणानां च दोषत्वं सम्भवति तत्र मार्दवमित्यर्थः । तत्र दोषाणां गुणत्वं यथा -

प्रिय! जीवितता क्रौर्यं निःस्नेहत्वं कृतघ्नता ।

भूयस्त्वर्शनादेव ममैते गुणतां गताः ॥

अत्र यद्यपि प्रियकरे दूरं देशे गते सति प्रियकरं विना जीवनमित्यादयो यद्यपि दोषाः, प्रियवियोगेन मरणस्यैवोचितत्वात् तथापि पुनः तत्प्राप्तिरूपस्य गुणस्य लाभे त एव दोषा गुणाः सम्पन्नाः । यदि मरणमभविष्यत् तर्हि पुनः प्रियस्य दर्शनं न समभविष्यदिति वियोगकालिकजीवनादीनां तर्शनरूपगुणप्राप्त्या गुणत्वमिति बोध्यम् । गुणानां च दोषत्वं यथा -

तस्यास्तद्रूपसौन्दर्यं भूषितं यौवनश्रिया ।

सुखैकायतनं जातं दुःखायैव ममाधुना ॥

अत्र नायिकायां रूपादयो यद्यपि गुणाः तथापि तामलभमानस्य कस्यचित् विरहदुःखजननद्वरा ते दोषा एव सम्पन्ना इति गुणानां दोषत्वम् ।

इमानि तावत् त्रयोदशाङ्गानि । यद्यपि एतेषां यत्र कुत्रापि रूपकभेदे निवेशनं युज्यते, अत्रैवेति नियमो न युज्यते तथापि वीथ्यामवश्यमेतानि भवेयुरित्यभिप्रायेण अमीषां वीथ्यङ्गत्वमुक्तमिति मन्तव्यम् ।

अस्या उदाहरणं मालविका ।

अङ्कः[सम्पादयतु]

पुराणेतिहासप्रसिध्दं कथानकम्, करुणः प्रधानो रसः, वास्तवयुध्दाभावेऽपि वाग्युध्दम्, इत्यादिसामग्री अङ्केऽपेक्ष्यते । एतदुदाहरणं ‘शर्मिष्ठाययाति’ नामकमप्राप्यम् । भास्करकवेः उन्मत्तराधवं नाम अङ्कस्योदाहरणपुस्तकं लभ्यते, परन्तु तद्रचनाकालो नावधीर्यते ।

दशरूपके अङ्कः अष्टमः प्रभेदः । रूपके अवान्तरभागस्यापि अङ्क इति नाम वर्तते । तेन संशयो भवतीति प्रायेण सवेर् एतं प्रभेदम् ’उत्सृष्टिकाङ्कः’ इति वदन्ति । उत्सृष्टिश्च विपरीता सृष्टिः । सात्र वर्तते इति नामास्य सार्थकम् । लोकविरुद्धस्य क्रमस्य इह दर्शनं भवतीति तात्पर्यम् । अभिनवगुप्तस्तु शोकं कुर्वत्यः स्त्रियः बह्व्यः अत्र सन्तीति उत्सृष्टिकाङ्क इति नाम सार्थकमिति वदति । स तावदेवं व्युत्पत्तिं प्रदर्शयति - उत्सृष्टिका उत्क्रमणीया सृष्टिः जीवितं यासां ता इति शोचन्त्यः स्त्रिय उत्सृष्य्यिकाः । तादृशीभिः अङ्कितो भवत्यङ्कः अत्रेति उत्सृष्टिकाङ्कः । अस्य लक्षणं तावदिदम् -

अत्र एक एवाङ्कः । नीचा जना अत्र नायकाः । अत्र करुणो रसः प्रधान इति स्त्रीणां रोदनमधिकं भवति । अत्र प्रसिद्धं कथावस्तु कविः स्वबुद्धिबलेन विस्तारयति, तदुक्तम् -

रसोऽत्र करुणः स्थायी बहुस्त्रीपरिदेवितम् ।
प्रख्यातमितिवृत्तं च कविर्बुद्ध्या प्रपञ्चयेत् ॥

भाणे इवात्रापि मुखं प्रतिमुखं चेति सन्धिद्वयमात्रं भवति । प्रायेण भारती वृत्तिः दृश्यते । दशापि लास्याङ्गानि इह सम्भवन्ति । अत्र वाचा युद्धं भवति न त्वायुधेन । प्रायेण वैराग्यजनकानि वचनानि अधिकानि भवन्ति । अन्यत्सर्वं नाटकवत् बोध्यम् ।

अस्योदाहरणं शर्मिष्ठाययातिः ।

प्रहसनम्[सम्पादयतु]

हास्यरसस्य समाजे महानुपयोगेः, शिष्टहासस्य बहुल आदरः, समाजविरोधितत्त्वस्य मार्गस्थाने हास्यरसप्रधानकाव्यस्य उपयुक्तभावश्च प्रहसनकाव्यस्य सृष्टौ कारणतां गतः । यथाऽधुना हास्यरसप्रधानं व्यङ्ग्यमयं च काव्यं कामपि विशिष्टां मर्यादां रक्षति, नानायासं लिख्यते, तथैव प्रागपि प्रहसनं बहुलतया नालिख्यत, तथाऽपि संस्कृतसाहित्ये प्रहसनग्रन्थस्यैकान्ततोऽभावो नास्ति ।

प्रहसने भाणवत् सन्ध्यादयः, निन्दनीयत्वेन वर्ण्यमानानां कल्पितं वृत्तम्, विष्कम्भकप्रवेशकराहित्यम्, हास्यरसप्राधान्यश्च भवति । सर्वप्राचीनः प्रहसनग्रन्थः ‘मत्तविलासः’ । तस्य रचयिता पल्लवनरेशस्य सिन् सिंहविष्णुवर्मणः पुत्रो महेन्द्रविक्रमवर्माऽऽसीत् । अयं च राजा हर्षवर्धनपुलकेशिद्वितीययोः समकालिक इत्यस्य समयः ख्रीष्टयसप्तमशतकस्य पूर्वार्ध भागो मान्यः ।

अस्य मत्तविलासप्रहसनस्य भाषा सरला, शैली प्रसन्नमनोहरा च । एकं प्रारम्भिकं पद्यं दृश्यताम् –

                           पेया सुरा प्रियतमामुखमीक्षितव्यं
                                      ग्राह्यः स्वभावललितो विकृतश्च वेषः ।
                           येनेदमीदृशमदृश्यनत मोक्षवर्त्म
                                      दीर्घायुरस्तु भगवन् स पिनाकपाणिः ॥

मत्तविलासप्रहसननैर्माणकालात् पञ्चशताब्द्याः परतः कान्यकुब्जाधीशगोविन्दचन्द्रस्य समापण्डितः कविराजशङ्खधरः ‘लटकमेलकं’ नाम लोकप्रियं प्रहसनं प्राणैषीत् । गोविन्दचन्द्रो हर्षस्तुतस्य तदाश्रयदातुर्जयचन्द्रस्य पितेति लटकमेलकं नैषधीयचरितसमकालिकम् –

गुरोर्गिरः पञ्च दिनान्यधीत्य वेदान्तशास्त्राणि दिनत्रयञ्च ।
अमी समाघ्राय च तर्कवादानुपागताः कुक्कुटमिश्रपादाः ॥

इति विश्वनाथोद्धृतं पद्यं लटकमेलकस्यैव । ज्योतिरीश्वरकविशेखरकृतं ‘धूर्त्तसमागम’ नामकं प्रहसनम्, जगदीश्वरकृतं ‘हास्यार्णव’ नामकं प्रहसनम्, गोपीनाथचक्रवर्त्तिकृतं ‘कौतुकसर्वस्व’ नामकम्, सामराजदीक्शितकृतं ‘धूर्त्तनर्त्तक’ नामकं च प्रहसनं प्रसिध्दम् । रुपकनिरुपणानन्तरमुपकनिरुपणं प्राप्तकालमिति तत्प्रसङ्गे किञ्चिदुच्यते ।

"https://sa.wikipedia.org/w/index.php?title=दशरूपकम्&oldid=429471" इत्यस्माद् पुनः प्राप्तिः