भाणः (रूपकम्)
भाणः (रूपकम्) | |
---|---|
नाट्यशस्त्र |
भाणः (रूपकम्) | |
---|---|
एक प्रस्तुतकर्ता |
भाणः (रूपकम्) | |
---|---|
एक पात्री नाट्यं प्रस्तुतकर्ता |
भाणः दशरूपके तृतीयः प्रभेदः । अत्र आकाशभाषितद्वारा स्वस्य परस्य वा वृत्तं नायको भणतीति भाण इति सार्थकं नाम । भाणः नाट्यस्य एक पात्री प्रयोगं अस्ति [१] । भण शब्दे इति धातोः भणत्यत्रेति ’करणाधिकरणयोा’ इत्यधिकरणाथेर् ल्युटि भाणशब्दः । अस्य लक्षणं तावदिदम् -
अत्र धूर्तानां नानावस्थं वृत्तान्तस्य वर्णनं भवति । एकाङ्कयुक्तेऽस्मिन् बुद्धिमान् निपुणा विटो नायकः । यद्यपि नटस्य एकत्वात् सम्भाषणं निरवकाशं तथापि आकाशभाषितद्वारा स वचनं प्रतिवचनं च करोति । आकाशभाषितं नाम पात्रं विना आकाशं दृष्ट्वा भाषणम्, तदुक्तं दर्पणे -
- किं ब्रवीषीति यन्नाट्ये विना पात्रं प्रयुज्यते ।
- श्रुत्वेवानुक्तमप्यर्थं तस्यादाकाशभाषितम् ॥
अकाशं पश्यन् किं कथयसि? अस्तु, नगरं गच्छामीति? भवतु भवतु, भवान् गच्छतु’ इत्यनेन प्रकारेण प्रश्नमुत्तरं च यत् स्वयमेव कथयति तदाकाशभाषितमित्यर्थः । नायकः स्ववाक्ये शौर्यसौभाग्यादीनां गुणानां सूचनां करोति । तेन वीरस्य शृङ्गारस्य च रसस्य प्रतितिर्भवति ।
कल्पितकथावस्तुसंयुतेऽत्र प्रायेण भारती वृत्तिः दृश्यते । अत एव संस्कृतस्य बाहुल्यम् । भारती वृत्तिर्नाम संस्कृतबहुलं भाषणम्, तदुक्तम् - भारती संस्कृतप्रायो वाग्व्यापारो नटाश्रयः । तदभावे कैशिकी वृत्तिः । कैशिकी नाम सुन्दरनेपथ्यवान् स्त्रीप्रधानः नृत्यगीतयुक्तः सुविलासः कामोपपभोगादिरूपो व्यापारः । मुखं प्रतिमुखं चेति केवलं सन्धिद्वयमत्र सम्भवति । गेयपदं स्थितपाठ्यम् इत्यादीनि लास्यस्य दशापि अङ्गान्यत्र भवितुमर्हन्ति, तदुक्तं दर्पणे -
- तत्रेतिवृत्तमुत्पाद्यं वृत्तिः प्रायेण भारती ।
- मुखनिर्वहणे सन्धी लास्याङ्गानि दशापि च ॥
अस्योदाहरणम् ’लीलामधुकरः’ ।