प्रकरणम् (रूपकम्)
दशरूपके प्रकरणम् इत्येषः द्वितीयः प्रभेदः । अत्र कथावस्तुनः कल्पनात् प्रकरणमिति अस्य नाम । प्रकर्षेण क्रियते कल्प्यते कथावस्तु नायका अत्रेति प्र इत्युपसर्गपूर्वकात् डुकृञ् करणे इति धातोः ’करणाधिकरणयोश्च’ इत्यधिकरणे ल्युटि प्रकरणशब्दः । भरतमुनिनाभिधीयते -
- यत्र कविरात्मशक्त्या वस्तुशरीरं च नायकं चैव ।
- औत्पत्तिकं प्रकुरुते प्रकरणमिति तद्बुधैज्ञेर्यम् ॥
यत्र कविः स्वप्रतिभया कथावस्तु नायकं च प्रकल्पयति तत्प्रकरणमिति ज्ञेयमित्यर्थः ।
लक्षणम्
[सम्पादयतु]अस्य लक्षणं तावदिदम् -
अत्र कथावस्तु कल्पितं लौकिकं च भवति । नायकः क्वचित् ब्राह्मणो भवति, यथा - मृच्छकटिके चारुदत्तः । क्वचित् अमात्यो भवति, यथा - मालतीमाधवे माधवः । क्वचित्तु वणिक् भवति, यथा - पुष्पभूषिते अशोकदत्तः । स च नायकः धीरशान्तो भवतीति शृङ्गारोऽत्र प्रधानः । धर्मार्थकामेषु अन्यतमः पुरुषार्थोऽत्र प्रधानो भवति, उक्तमेतद्दर्पणे -
- भवेत्प्रकरणे वृत्तं लौकिकं कविकल्पितम् ॥
- शृङ्गारोऽङ्गी नायकस्तु विप्रोऽमात्योऽथवा वणिक् ।
- सापायधर्मकामार्थपरो धीरप्रशान्तकः ॥
नायिका क्वचित् सत्कुलप्रसूता भवति, यथा - पुष्पभूषिते । क्वचित् वेश्या भवति, यथा - रङ्गवृत्ते । क्वचित्तु सत्कुलप्रसूतस्त्री वेश्या चेति उभये अपि भवतः, यथा - मृच्छकटिके । एवमत्र नायिकाभेदात् त्रयः प्रभेदाः । तत्र यः तृतीयः प्रभेदः स वञ्चकैः द्यूतकरैः विटैः चेटैश्च सङ्कुलो भवति । विटश्च भोगप्रियः निर्धनः कश्चित् पुरुषः, तल्लक्षणं च यथा दर्पणे -
- सम्भोगहीनसम्पद्विटस्तु धूर्तः कलैकदेशज्ञः ।
- वेशोपचारकुशलो वाग्ग्मी मधुरोऽथ बहुमतो गोष्ठ्यम् ॥
यो भोगेनैव व्ययितसमस्तधनः विज्ञातसकलविद्यालेशः, वेश्यागामी, भाषणे कुशलः, सभायां बहुमान्यः, स्निग्धः, धूर्तश्च भवति स विटः । चेटो नाम तद्भृत्यः । अन्यत्सर्वं नाटकवत् ।