समवकारः (रूपकम्)

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(समवकारः इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search


दशरूपकम् समवकारः पञ्चमः प्रभेदः । अत्र विचित्रा बहवोऽर्थाः समवकीर्णा राशीकृता भवन्तीति समवकारः इति सार्थकं नाम । सम् अव इत्युपसर्गद्वयपूर्वकात् डुकृञ् करण् इति धातोः समवकीर्यन्ते बहवोऽर्था इति ’अकर्तरि कारके संज्ञायाम्’ इत्यधिकरणे घञि समवकार इति शब्दः । अस्य लक्षणं तावदिदम् -

अत्र प्रसिद्धं तादृशं कथावस्तु भवति येद्देवासुरसम्बन्धि । विमर्शं विना अन्ये मुखादयः चत्वारोऽपि सन्धयो भवन्ति । अङ्काश्च त्रय एव । तत्र प्रथमे अङ्के मुखं प्रतिमुखं चेति सन्धिद्वयं सम्भवति । द्वितीये गर्भः । तृतीये निर्वहणम् ।

अत्र प्रसिद्धा द्वादश धीरोदात्ता नायका भवन्ति । तेषु केचित् देवाः केचिच्च दानवाः । तेषां सवेर्षामपि पृथक् पृथगेव प्रयोजनं भवति । अत्र वीरस्य प्राधान्यम् अन्येषां तु अप्राधान्यम् । भारती, सात्वती, आरभटी चेति वृत्तित्रयम् प्रचुरं भवति कैशिकी तु न्यूना । बीजं बिन्दुं च वर्जयित्वा अन्याः सर्वा अपि अर्थप्रकृतयो भवन्ति । अत्र केवलं पताका, प्रकरी, कार्यं चेति अर्थप्रकृतित्रयमेव दृश्यते नान्यत् ।

वीथीति रूपकस्य यो दशमः प्रभेदः तस्य त्रयोदश अङ्गान्यप्यत्र सम्भवन्ति । गायत्री, उष्णिक् इत्यादीनि छन्दांसि च । प्रथमे अङ्के कथावस्तु द्वादशनाडिकापरिमिते अर्थात् प्रायेण सार्धनवघण्टापरिमिते काले सम्भवितुं योग्यम् । द्वितीये नाडिकाचतुष्टयपरिमिते अर्थात् प्रायेण सपादघण्टात्रयपरिमिते काले सम्भवितुं योग्यम् । तृतीये तु नाडिकाद्वयपरिमिते अर्थात् प्रायेण सार्धैकघण्टापरिमिते काले सम्भवितुं योग्यमिति विशेषः ।

अत्र हि स्वाभाविकः कृत्रिमः दैवजोति त्रिविधोऽपि कपटः सम्भवति । कपटो नाम वञ्चना । अयं कपटो यदि स्वस्य अज्ञानादिना भवति तर्हि सः स्वाभाविकः । तत्र यो वञ्चितो भवति तस्यात्र नास्ति अपराधः, किन्तु वञ्चकस्यैव अपराधः, यथा - कश्चित् सज्जनः अन्यं कञ्चित् चोर इत्यजानन् सहवासं करोति । स च एनं वञ्चयते । यद्यप्यत्र सज्जनस्य नास्ति कोऽप्यपराधः । स तु केवलम् अन्यस्य पुरुषस्य । अयं च कपटः स्वाभाविकः ।

यदि पुरुषान्तरात् कपटो भवति तर्हि सः कृत्रिमः । अत्र यो वञ्चितो भवति तस्येवान्यस्यापि अपराधो वर्तते, यथा - किात् दुर्जनः चौयेर्ण धनं प्राप्तुं कस्यचित् अन्यस्य पुरुषस्य सहवासं करोति । किन्तु स पुरुषः, यः स्वयं चोरः, स्वं वञ्चयितुं प्रवृत्तमेतं जानन् तमेव वञ्चयित्वा धनमपहरति । अत्र उभयोरपि अपराधो वर्तते । तदयं कपटः कृत्रिमः । यदि काकतालीयन्यायेन अकस्मात् कपटो भवति सः दैवजः, यथा - किात् पुरुषः राजानमुपसृत्य स्वपाण्डित्यं प्रदर्श्य पारितोषिकं प्राप्तुमिच्छति । तदर्थं स राजगृहं गच्छति । एवमेव विचिन्तयन्नन्योऽपि पण्डितः तदेव राजगृहम् आयाति । तत्र केनापि कारणेन प्रथमः पारितोषिकं न प्राप्नोति । द्वितीयस्तु प्राप्नोति । वस्तुतोऽत्र समानस्यैव पाण्डित्यस्य सद्भावात् न कस्यापि अपराधः तथापि द्वितीयेनैव धनस्य प्राप्तिः न तु प्रथमस्य । अत्र दैवमेव कारणं न तु पुरुषः । तदयं कपटो दैवजः । एतादृशः त्रिविधोऽपि कपटः अत्र सम्भवति । अत्र शृङ्गारः धर्मसम्बन्धी, अर्थसम्बन्धी, कामसम्बन्धी चेति त्रिविधः । तत्र पुरुषस्य स्वपत्न्यां यः शृङ्गारः स धर्मसम्बन्धी । पुरुषस्य वेश्यायां यः शृङ्गारः स अर्थसम्बन्धी । पुरुषस्य परपत्न्यां कन्यायां वा यः शृङ्गारः स कामसम्बन्धी । तत्र धर्मशृङ्गारः प्रथमाङ्के एव । अन्ययोः तु नियमाभावात् शिष्ठयोः अङ्कयोः अनियमेन सम्भवः । तदेतदुक्तम् -

त्रिशृङ्गारस्त्रिकपटः कार्याायं त्रिविद्रवः ।
वस्तु द्वादशनालीभिर्निष्पाद्यं प्रथमाङ्कगम् ॥
द्वितीयेऽङ्के चतसृभिर्द्वाभ्यामङ्के तृतीयके ।

एवं विद्रवो नाम उपद्रवः । स यदि पुरुषादेः चेतनात् जायते तर्हि प्रथमः प्रभेदः । यदि अचेतनात् वाय्वग्निभूकम्पादेः जायते तर्हि स द्वितीयः । अथ चेतनाचेतनात् गजव्याघ्रादेः जायते तर्हि स तृतीयः । अत्र एते त्रयोऽपि प्रभेदाः अत्र सम्भवन्ति । एवमत्र त्रिविधः शृङ्गारः, त्रिविधः कपटः, त्रिविधो विद्रवा सम्भवतीति ज्ञातव्यम् । अस्य उदाहरणं समुद्रमन्थनम्।

"https://sa.wikipedia.org/w/index.php?title=समवकारः_(रूपकम्)&oldid=429479" इत्यस्माद् पुनः प्राप्तिः