भवभूतिः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्

भवभूतेः परिचयः[सम्पादयतु]

भवभूतिः (Bhavabhuti) संस्कृतनाटककर्तृषु कविषु अतीव प्रसिद्धः । बहूनां संस्कृतकवीनां यथा तथैव भवभूतेरपि जीवनचरितम् नातीव ज्ञायते । अयम् स्वकृतौ महावीरचरिते नाटके स्वस्य विषये किञ्चिदिव विवृणोति; यथा- तत्र केचित् तैत्तरीयिणः काश्यपाश्चरणगुरवः पङ्तिपावनाः पञ्चाग्नयो धृतव्रताः सोमपीथिन उदुम्बरनामानो ब्रह्मवादिनः इति । तत्र स्वपरिचयं वदता भवभूतिना भट्टगोपालस्य पौत्रः पवित्रकीर्तेः नीलकण्ठस्य आत्मसम्भवः श्रीकण्ठपदलाञ्छनो जातुकर्णीपुत्रः इति अभिहितम् । भवभूतेः प्रथमं नाम "श्रीकण्ठः" इति श्री एम्.आर्.तेलङ्गमहाशयः स्वग्रन्थे मालतीमाधवस्य संस्कृतभाषाकथानुवादे लिखितवान् । अयं भवभूतिनामा कविः वेदान्तशास्त्रे, न्यायशास्त्रे, व्याकरणशास्त्रे ब्रह्मविद्यायां च निष्णातः आसीत् इति अस्य कवेः कृतिभिः ज्ञायते । एष काश्यपगोत्रजः । आपस्तम्बसूत्रस्य उदुम्बरब्राह्मणशाखायाम् जनिम् अलभत । अस्य माता जातुकर्णी । पिता नीलकण्ठः । पितामहः भट्टगोपालः । ज्ञाननिधिः भवभूतेः गुरुः । एष दाक्षिणात्यः । विदर्भदेशे विद्यमानं पद्मपुरम् अस्य जन्मभूमिः इतिमात्रम् ज्ञातुं शक्यते । विद्वांसः श्रीतेलङ्गमहोदयाः वदन्ति यत्-" अस्ति दक्षिणापथे विद्र्भेषु पद्मपुरम् नाम नगरम् । तत्र केचित्तैत्तरीयाः काश्यपा उदुम्बरोपाभिधाना ब्रह्मवादिनो द्विजा वसन्ति स्म । तेषां वंशे महाकविर्नाम कश्चिद्वाजपेययाजी विप्रो बभूव । अस्मात् पञ्चमः पुरुषो भवभूतिः । अधीतवानयं तर्क-व्याकरण-पूर्वोत्तरमीमांसादीनि शास्त्राणि । अस्य पितृकृतं नाम श्रीकण्ठ इति ।" अपि च सः भवभूतिरिति नाम्नः कारणं निरूपयति यथा-

तपस्वी कां गतोऽवस्थाम् इति स्मेराननाविव ।
गिरिजायाः स्तनौ वन्दे भवभूतिसिताननौ

तथा च

साम्बा पुनातु भवभूतिपवित्रमूर्तिः इति परशिवम् अस्तौत् इति तस्यैव भवभूतिरिति नामान्तरं जातम्" इति । एष स्वस्य शाखाया आपस्तम्बशाखाया एतदहर्विजानीयाद् अहर्भार्यामावहते । त्रिरात्रमुभयोरधश्शय्या ब्रह्मचर्यं क्षारलवणवर्जनं च । एतद् वाक्यं "मालतीमाधवे" नाटके उल्लिखति । एतेन कवेः स्वाभिमानिता द्योतते ।

कालः[सम्पादयतु]

भवभूतिः कुमारिलभट्टस्य शिष्य इति पण्डिताः त्रिपाठीमहोदयाः स्वस्य " कविताकौमुदी" इति पुस्तके व्यलिखन् । कुमारिल भट्टाश्च क्रि.श.८मे शतमाने आसन् । अतः भवभूतेः कालः अष्टमशतकम् । तथा च कन्याकुब्जे श्रीहर्षवर्धनात्(द्वितीयशिलादि्त्यात्) अनन्तरम् राजसु मुख्यः "यशोवर्मा" एषः क्रि.श.६९३ तः ७२९ पर्यन्तम् राज्यभारम् अकरोत् । यशोवर्मा क्रि.श.७३० तमे वर्षे चीनदेशं प्रति राजप्रतिनिधिं प्रेषितवान् आसीत् । ततः दशवर्षानन्तरम् काश्मीरराजात् ललितादित्यमुक्तापीडात् पराजितः । अयं यशोवर्मा एव भवभूतेः आश्रयदाता आसीत् । इममेव विषयं "राजतरङ्गिण्याः" एतेन श्लोकेन अवगन्तुम् शक्यते । यथा-

कविवाक्पतिराजश्रीभवभूत्यादिसेवितः ।
जितो ययौ यशोवर्मा तद्गुणस्तुतिवन्दिताम् ॥

यशोवर्मणः पराजयानन्तरं "भवभूतिः" काश्मीरराजम् ललितादित्यम् आश्रितवान् । एतैः कारणैः भवभूतेः कालः अष्टमशतमानस्य पूर्वार्धम् इति निश्चेतुं सुलभम् ।

चरितम्[सम्पादयतु]

संस्कृतसाहित्ये बहवः सन्ति नाटकरचयितारः। तेषु दिगन्तव्याप्तैः यशोभिः विलिसितौ कविवरौ द्वौ स्तः - कालिदासः भवभूतिश्च । "कनिष्ठिका ऽधिष्ठितकालिदासा" "उत्तरे रामचरिते भवभूतिर्विशिष्यते" इति वचने इममेवाभिप्रायं समर्थयतः । अत्र महाकवेः भवभूतेः जीवितविशेषान् कांश्चन संस्मरामः । महानाटककारेण भवभूतिना उत्तररामचरितम्‌ इति करुणरसपूर्णम्‌ एकं रूपकम्‌ रचितम्‌ । स एव मालतीमाधवं महावीरचरितं च अलिखत्। तस्य जन्म अष्टमशतके विदर्भे पद्मपुरे अभवत्। पद्मपुरस्य पद्मवटी, पाटलिपुत्रम् इति नामद्वयं च भवति । सः श्रीकान्तनीलकण्ठः इति उदाहृतः। तस्य पिता नीलकण्ठः माता जातुकर्णी गुरुः ज्ञाननिधिः च आसन्। सः कल्प्यां वसन् नाटकानि अलिखत्। सः कन्याकुब्जस्य राज्ञः यशोवर्मणः सभायाम् आसीत् । भवभूतिरिति नाम तस्य शिवभक्तिं सूचयति । अस्य ‘उम्बेकः’ इति नामान्तरमप्यस्ति । अस्य पोषकः यशोवर्मा यद काश्मीरराजेन ललितादित्येन पराजितोऽभूत्, तदारभ्य असौ महाकविः बहूनि कष्टान्यनुभूतवान्। महाकवेरस्य नाटककलायां विशेषासक्तिरासीत् । सैव अस्य नाटकरचनायां प्रधानं कारणमित्यूह्यते । कविवरेणानेन त्रीणि रुपकाणि विरचितानि -महावीरचरितम् , मालतीमाधवम्, उत्तररामचरितं चेति। तेषु क्रमशः वीरश्रृङ्गारकरुणरसाः प्राधान्यं वहन्ति।

बिरुदावलिः[सम्पादयतु]

वश्यवाक्यं कवेर्वाक्यम् इति महावीरचरिते अनेनैव उक्तत्वात् "वश्यवाक्’ कविरिति अस्य बिरुदम् भवति । व्याकरणन्यायमीमांसादिषु शास्त्रेषु परिणतः इति हेतोः "पदवाक्यप्रमाणज्ञ" इति चतुश्शास्त्राभिज्ञत्वात् "भट्ट" इति नामभिः भवभूतिम् आह्वयन्ति । महाव्याख्यानकर्ता "जगद्धरः" श्रीकण्ठ इति भवभूतेः पाण्डित्येन प्राप्तम् बिरुदम् इति स्पष्टतया वदति ।

नाटकानि[सम्पादयतु]

चतुशशास्त्रपारङ्गतस्य भवभूतेः मनसि स्त्रीषु महानादरः । तेषु दिवसेष्वेव अयं महाकविः स्त्रीशिक्षां प्रोत्सहते स्म । अयं विषयः तस्य रचनासु दृश्यते । यथा-

सर्वथा व्यवहर्तव्यं कुतो ह्यवचनीयता । यथा स्त्रीणां तथा वाचां साधुत्वे दुर्जनो जनः ॥

अस्य करुणरसपप्रधानम् उत्तररामचरितनाटकं न केवलं भारते देशे किन्तु प्रपञ्चेऽस्मिन् विशिष्टं स्थानमलभत । शाकुन्तलनाटकेन कालिदास इव उत्तररामचरितनाटकेन भवभूतिः जगत्प्रसिद्धः अभवत् । अत एवोक्तम् । उत्तरे रामचरिते भवभूतिर्विशिष्यते इति ।

कालिदासस्य भवभूतिना सह तुलना[सम्पादयतु]

कालिदास: भवभूति:
शृङ्गारसप्रधानं वर्णनम् वीरकरुणरसप्रधानं वर्णनम्
नाटके विदूषक: अस्ति विदूषक: न अस्ति
प्रयोगप्रधानं नाटकम् काव्यप्रधानं नाटकम्
"https://sa.wikipedia.org/w/index.php?title=भवभूतिः&oldid=395653" इत्यस्माद् पुनः प्राप्तिः