मालतीमाधवम्
इदं द्शभिरङ्कैर्विरचितमेकं विशालं प्रकरणम् । कविकल्पनाप्रसूतो मालतीमाधवयोः प्रेमाऽतिसुन्दरप्रकारेणात्रावतार्य वर्णितः । यौवने उन्मत्तस्य प्रेम्णोऽत्र प्रगाढं निदर्शनम् । माधवेन मालतीवियोगे क्रियमाणा विलापाः विक्रमोर्वशीयं नाम कालिदासीय रुपकं स्मारयन्ति । नवमेऽङ्के प्रियतमां प्रति सन्देशं प्रेषयितुं माधवेनानुरुध्यमानो मेघो मेघदूतकाव्यस्मरणाय वाचकान् बलवत् प्रेरयति । ओजः समासभूयस्त्वमेतद्-गद्यस्य जीवितम्’ इति ब्रुवाणो रीतिकारो भवभूतिनाऽत्र प्रकरणे दीर्घसमासां गद्यावलिं प्रयुज्य बहुसम्भावितः । अत्र हास्यरसस्य सर्वथाऽभावो यद्यपि वैरस्यावहस्तथापि धोरभीषणातिमानुषवस्तुजातवर्णनाकर्णनाक्षिप्तहृदयो वाचकस्तन्न चेतयते ।
प्रास्ताविकम्
[सम्पादयतु]एतद् भवभूतिना लिखितं कल्पनारम्यनाटकं वर्तते। रूपकेषु इदम् "प्रकरणम्" इति प्रकारे अन्तर्भवति । अस्य दश अङ्काः सन्ति । एषा काल्पनिका कथा । कविः स्वस्य कल्पनानुगुणं तत्कालीनजनानाम् आचारविचारान् समाजधर्मान् च अस्मिन् संयोज्य कथाविस्तरं कृतवान् । अत्र शृङ्गाररसः प्रधानः रसः । उज्ज्वले रसेऽपि कविः निजनैपुणीम् अत्र प्रकटयति, रसानां, रसयोः मिश्रणेऽपि । यथात्र पञ्मेऽङ्के-
- अन्त्रैः कल्पितमङ्गलप्रतिसराः स्त्रीहस्तरक्तोत्पलव्यक्तोत्तंसभृतः पिनह्य सहसा हृत्पुण्डरीकस्रजः ।
- एताः शोणितपङ्ककुङ्कुमजुषः सम्भूय कान्तैः पिबन्त्यस्थिस्नेहसुरां कपालचषकैः पीताः पिशाचाङ्गनाः ॥
कथालता
[सम्पादयतु]सतीर्थ्यौ देवरात,भूरिवसुश्च वयस्यौ च । एतौ भाविनि जीवने आत्मीयसन्तत्योः अन्योन्यं विवाहं करिष्याव इति स्वब्रह्मचर्ये वयसि मिथः वाग्दानं कृतवन्तौ आस्ताम् । कालक्रमेण देवरातः कुण्डिनपुरे, भूरिवसुः पद्मवटीनगरे च मन्त्रिणौ अभवताम् । देवरातस्य पुत्रः माधवः विद्याभ्यासार्थं पद्मवट्याः बौद्धविहारं गतवान् । "कामन्दकी" तस्य बौद्धविहारस्य अधिकारिणी आसीत् । आवयोः मध्ये पुरा दत्तं वाग्दानं कामन्दक्याः द्वारा भूरिवसवे ज्ञापयितुम् इच्छति देवरातः । भूरिवसोः पुत्री मालती अत्यन्तं सौन्दर्यवती अभवत् । भूरिवसुश्च मालतीं माधवाय दातुम् अनुमन्यते । परन्तु राजा अनयोः सम्बन्धम् नेच्छति । एतन्मध्ये भूरिवसुप्रेरणया मठाधिकारिणी कामन्दकी मालत्यै माधवं दर्शयति । तस्य सौन्दर्येण आकृष्टा मालती माधवं कामयति । माधवः अपि तां दृष्ट्वा मोहपरवशः चारमुखेन मालत्या विलिखितम् आत्मनः चित्रम् अवलोक्य मालती "त्वयि अनुरक्ता" इति मित्रेण मकरन्देन उक्तं वचनम् अङ्गीकरोति ।
ततः परम्
[सम्पादयतु]परं मालतीनन्दनयोः विवाहः भवेत् इति एव राज्ञः इच्छा बलवती । भूरिवसुः राजाज्ञाम् अतिक्रान्तुम् असमर्थः आसीत् । किन्तु कामन्दकी वासवदत्ताम् शकुन्तलाम् च उदाहृत्य मातापित्रोः परामर्शं विनापि एते निजप्रियतमौ अचिनुताम् इत्युक्त्वा मालतीं माधवं वोढुं प्रोत्सहते । अपि च मालत्याः सविधे कठोरहृदयं मन्त्रिणं भूरिवसुं निन्दति, मालत्याः प्रेम प्रशंसति च । माधवः कामन्दक्याः सहायेन उद्याने सखीसहितां मालतीं यथेष्टम् अवलोकते,यदा तदा कश्चन व्याघ्रः नन्दनस्य भगिनीम् आक्रमते । मकरन्दः तं व्याघ्रं हन्ति । तत्र राजा मालत्याः नन्दनेन सह विवाहं निश्चिनोति । राजादेशेन भग्नप्र्णया माल्ती हताशया खिद्यति । श्मशाने तान्त्रिकपूजादिकं प्रचलति । श्मशाने पिशाचेभ्यो बलिं दातुं तत्र मालती नीयते । तत्र घोरं युद्धं भवति । बहूनि कष्टानि सोढ्वा माधवः मालतीम् अन्ते परिणयति ।
बाह्यसम्पर्कतन्तुः
[सम्पादयतु]