डिमः (रूपकम्)
दशरूपके डिमः षष्ठः प्रभेदः । डिमो नाम उपद्रवः । स अत्रास्तीति डिम इति सार्थकं नाम । ’अर्शआदिभ्योऽच्’ इति मतुबर्थिकेऽचि डिम इति शब्दः । केचित् पुनः डयन्ते दर्पेण सञ्चरन्ति इति डिमाः । दृप्ता नायका इत्यर्थः । ते सन्ति अत्र अस्य वा इति डिमः । तन्मतेन प्रथमान्तात् तच्छब्दात् स एव अच् प्रत्ययः षष्ट्यर्थे सप्तम्यर्थे वा इति बोध्यम् । अस्य लक्षणं तावदिदम् -
अत्र कथावस्तु पुराणादौ प्रसिद्धम् । माया, इन्द्रजालम्, युद्धम्, क्रोधाविष्टस्य भर्त्सनादिकम्, सूर्यादिग्रहणम् इत्यादयो विशेषा अत्र भवन्ति, तदेतदुक्तम् -
- मायेन्द्रजालसंग्रामक्रोधोद्भ्रान्तचेष्टितैः ।
- उपरागैा भूयिष्टो डिमः ख्यातेतिवृत्तकः ॥
अत्र रौद्रो रसः प्रधानः । रसान्तरं तु सर्वम् अप्रधानम् । अत्र चत्वारः अङ्का भवन्ति । चूलिका, अङ्कावतारः, अङ्कमुखं चेति त्रय एव अर्थोपक्षेपकाः सम्भवन्ति । अत्र नायकाः षोडश सन्ति । तेषु केचित् देवाः, केचित् गन्धर्वाः, केचित् यक्षाः, केचित् उरगाः, केचित् भूताः, केचित् प्रेताः, केचित् पुनः पिशाचा इति नानाविधाः । एते सर्वेऽपि अहङ्कारिणः । अत्र कैशिकी वृत्तिः न भवति । सात्वती, आरभटी, भारती चेति अन्याः सर्वा अपि वृत्तयः सम्भवन्ति । विमर्शं विना मुखं प्रतिमुखं गर्भः निर्वहणं चेति चत्वारोऽपि सन्धयो भवन्ति । अत्र शान्तः हास्यः शृङ्गारा रसो न भवति ।
अस्य उदाहरणं त्रिपुरदाहः ।