ईहामृगः (रूपकम्)
ईहामृगः | |
---|---|
ईहामृगः |
दशरूपके ईहामृगः सप्तमः प्रभेदः । यथा वेगेन धावन्मृगः ग्रहीतुं न शक्यते तथा दुर्जनसमावृतत्वादिना कारणेन नायिकात्र ग्रहीतुं न शक्यते । तादृशीं नायिकां नायकोऽत्र ईहते-इच्छतीति ईहामृग इति सार्थकं नाम । ईहायुक्तो मृग इति मध्यमपदलोपी कर्मधारयः । नायके तु औपचारिकः प्रयोगः । अस्य लक्षणं तावदिदम् - अत्र कथावस्तु किञ्चिदंशेन प्रसिद्धं भवति किञ्चिदंशेन तु कल्पितम् । अत एव मिश्रमिति कथयितुं शक्यते । अङ्कचतुष्टययुक्तेऽत्र मुखम्, प्रतिमुखम्, निर्वहणं चेति त्रय एव सन्धयो भवन्ति । नायको यदि दिव्यः तर्हि प्रतिनायकः मर्त्यो भवति । अथ नायको मर्त्यः तर्हि प्रतिनायको दिव्यः । अत्र यः प्रतिनायकोऽस्ति स बलात् देवस्त्रीहरणादिना गोप्यतया नायकस्य अनर्थमाचरति । अत एवात्र शृङ्गाररसाभासो नियमेन सम्भवति ।
अत्र पताकानायकाः दश भवन्ति । पताका नाम महति कथावस्तुनि बहुदूरव्यापि इतिवृत्तम्, तदुक्तं दर्पणे - व्यापि प्रासङ्गिकं वृत्तं पताकेत्यभिधीयते ॥ तत्र यो नायकः स पताकानायकः, यथा - रामचरितप्रधाने रामायणे सुग्रीवः । एवं विभीषणादिरपि पताकानायको भवति । पताकानायकाा देवाः मर्त्या वा भवितुमर्हन्ति । ते च सर्वेऽपि अहङ्कारिणः । तत्र केचित् नायकस्य पक्षे सन्ति, केचित्तु प्रतिनायकस्येति विशेषः । अत्र घोरं युद्धं प्रवर्तमानमिव भाति किन्तु केनापि कारणेन तन्न प्रवर्तते । अत्र महात्मानोऽपि घोरमपराधं कुर्वन्ति तथापि न तेषां हननं भवति ।
केचित् एकाङ्के अस्मिन् देवो नायक इति कथयन्ति । अपरे तु नायकाः षट्, दिव्यस्त्रीनिमित्तेन तेषु युद्धं भवतीति विशेषः ।
अस्योदाहरणं कुसुमशेखरविजयः ।