वीथी (रूपकम्)

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(वीथी (दशरूपकम्) इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search


दशरूपके वीथी नवमः प्रभेदः । नानारसानामत्र मालारूपतया अवस्थानात् वीथीवेति प्रभेदोऽयं वीथीत्युच्यते । अन्यस्तु वक्रोक्तिमागेर्ण गमनात् प्रभेदोऽयं वीथीवेति वीथीति सार्थकं नामेति मन्यते । अस्या लक्षणं तावदिदम् - अत्र एक एवाङ्को भवति । एक एव नायकः । स आकाशभाषितैः वचनप्रतिवचने करोति । तस्य वचनेषु आधिक्येन शृङ्गाररसस्य अभिव्यञ्जनं वर्तते, तदुक्तम् -

आकाशभाषितैरुक्तैश्चित्रां प्रत्युक्तिमाश्रितः ।
सूचयेद्भूरिशृङ्गारं किञ्चिदन्यान् रसान् प्रति ।

अत एवात्र कैशिकीवृत्तेराधिक्यं दृश्यते । अन्येषां तु अल्पत्वेन अभिव्यञ्जनम् । अत्र मुखं निर्वहणं च सन्धिद्वयमात्रं भवति । अन्ये सन्धयो न भवन्ति । बीजबिन्दुपताकादयः सर्वा अपि अर्थप्रकृतयोऽत्र सम्भवन्ति ।

अङ्कानि[सम्पादयतु]

अस्याः त्रयोदश अङ्गानि सन्ति, यथा - १. उद्धात्यकम् २. अवलगितम् ३. प्रपञ्चः ४. त्रिगतम् ५. छलम् ६. वाक्केलिः ७. अधिबलम् ८. गण्डम् ९. अवस्यन्दितम् १०. नालिका ११. असत्प्रलापः १२. व्याहारः १३. मार्दवम् । क्रमेण एतेषां निरूपणं क्रियते -

१ उद्धात्यकम्[सम्पादयतु]

इदं तावत् वीथ्याः प्रथममङ्गम्, प्रस्तावनायाश्च प्रथमः प्रभेदः । तस्मादेतस्य निबन्धनं प्रस्तावनायामेव भवतीति विज्ञायते । अस्य लक्षणं तावदिदम् -

पदान्यगतार्थानि तदर्थगतये नराः ।
योजयन्ति पदैरन्यैः स उद्धात्यक उच्यते ॥

सूत्रधारेण यानि पदानि प्रयुक्तानि तेषामर्थमविजानन् तेषामर्थान्तरं प्रकल्प्य तदनुसारेणैव नटो वाक्यं प्रयुञ्जानो यत्र प्रविशति तत्र उद्धात्यकमिति प्रभेद इत्यर्थः । उदाहरणं तावत् मुद्राराक्षसे दृश्यते, यथा -

क्रूरग्रहः सकेतुश्चन्द्रमसं पूर्णमण्डलमिदानीम् ।
अभिभवितुमिच्छति बलात् . . . . . . . . . . . ॥

इत्यन्तरम् - [नेपथ्ये]

आः! क एष मयि जीवति चन्दगुप्तमभिभवितुमिच्छति ॥

अत्र क्रूरग्रहः इति वाक्यं सूत्रधारेण प्रयुक्तम् । केतुसहितः क्रूरो ग्रहो राहुः पूर्णचन्द्रम् आक्रमितुम् इच्छति अर्थात् अचिरादेव चन्द्रस्य ग्रहणं भविष्यति इति तस्यार्थः । इमं चार्थं स नटीं बोधयितुम् इच्छति । तदर्थं तां प्रति प्रयुक्तमेतद्वाक्यम् । तस्मिन्नेव समये नेपथ्ये स्थितः चाणक्यो वाक्यमिदं शृणोति । श्रुत्वा च तद्वाक्यस्य ’सम्पूर्णराष्ट्रं चन्द्रगुप्तं क्रूरदुराग्रहवान् कश्चित् मलयकेतुना सहितः सन् आक्रमितुम् इच्छति’ इत्यर्थान्तरं कल्पयन् क्रुद्धः तदनुसारेणैव वाक्यं प्रयुङ्क्ते - आः! क एष इत्यादि । मयि रक्षके जीवति सति कोऽयं दुष्टः मच्छिष्यं चन्द्रगुप्तम् आक्रमितुम् इच्छतीति तदर्थः । एवमत्र सूत्रधारेण यत् वाक्यं प्रयुक्तं तस्य तदृष्ट्या कस्मिंश्चिदर्थे सत्यपि रङ्गं प्रविशन् पुरुषः तदजानन् प्रत्युत तद्वाक्यस्य स्वबुद्ध्यनुसारेण अन्यमेवार्थं जानन् तदनुगुण्येन वाक्यं प्रयुङ्क्ते । तदिदम् उद्धात्यकम् ।

२. अवलगितम्[सम्पादयतु]

इदं वीथ्या द्वितीयमङम् यच्च प्रस्तावनायाः पञ्चमः प्रभेदोऽपि । तस्मात् पूर्वस्येव अस्यापि प्रस्तावनायामेव सम्भव इति विज्ञायते । लक्षणं तावदिदम् -

यत्रैकत्र समावेशात्कार्यमन्यत्प्रसाध्यते ।
प्रयोगे खलु तज्ज्ञेयं नाम्नावलगितं बुधैः ॥

यत्र किञ्चिकार्यार्थं क्रियमाणेन यत्नेन तत्कार्यस्येव रूपकारम्भरूपकार्यान्तरस्यापि सिद्धिर्भवति तदवलगितमिति अस्यार्थः । उदाहरणं चास्य अभिज्ञानशाकुन्तले दृश्यते, यथा - तत्र वसन्तमासमधिकृत्य नट्या कृतं गानं प्रशंसन् सूत्रधारः एवं कथयति -

तवास्मि गीतरागेण हारिणा प्रसभं यतः ।
एष राजेव दुष्यन्तः सारङ्गेणातिरंहसा ॥

अत्र अतिवेगशालिना हरिणेन आकृष्ठचित्तो दुष्यन्त इवेति कथनात् तस्य प्रवेशेन नाटकस्य आरम्भ इति विज्ञायते । एवमत्र गीतप्रशंसारूपे एकस्मिन् कायेर् कृतेन यत्नेन दुष्यन्तप्रवेशेन नाटकारम्भो भविष्यतीति कार्यान्तरमपि सूचितम् ।

३. प्रपञ्चः[सम्पादयतु]

इदं वीथ्याः तृतीयमङ्गम् । अस्य च लक्षणं तावदिददम् -
मिथो वाक्यमसद्भूतं प्रपञ्चो हास्यकृन्मतः ।
यत्र हास्यजनकानि असत्यार्थप्रतिपादकानि वाक्यानि भवन्ति तादृशं द्वयोः सम्भाषणं प्रपञ्च इत्यर्थः । अस्य चोदाहरणं विक्रमोर्वशीये दृश्यते, यथा -
अत्र वलभ्यामुपविष्ठौ चेटीविदूषकयोः सम्भाषणे असत्यार्थप्रतिपादकानि हास्यजनकानि च वाक्यानि स्पष्ठानि ।

४. त्रिगतम्[सम्पादयतु]

इदं चतुर्थमङ्गम् । अस्य लक्षणं तावदिदम् -
त्रिगतं स्यादनेकार्थयोजनं श्रुतिसाम्यतः ।
यत्र वाक्यस्य समानत्वात् श्रवणं समानम् किन्तु तद्वाक्यं प्रयोक्तृभेदात् विभिन्नार्थकम्, अत एव च तदनेकार्थकं भवति तद्वाक्यं त्रिगतमित्यर्थः । अस्यापि उदाहरणं विक्रमोर्वशीय एव, यथा - उर्वशीवियोगेन विक्रमः अत्यन्तं दुःखितो वर्तते । तद्दुःखेन तस्य तावान् मतिविभ्रमो जातः येन स तदानीं वाक्यस्य प्रयोक्ता क इत्यपि विवेक्तुं न जानाति । तच्चास्मिन् प्रसङ्गे स्फुटं भवति । उन्मत्तवत् प्रतीयमानः स विक्रमः स्वप्रेयसीमुर्वशीं सर्वत्रान्विष्यन् कञ्चन पर्वतमुपसर्पति । तं प्रति मम प्रेयसी उर्वशी कुत्रेति पृच्छत्येवम् -

राजा - सर्वक्षितिभृतां नाथ! दृष्ठा सर्वाङ्गसुन्दरी ।
रामा रम्ये वनान्तेऽस्मिन् मया विरहिता त्वया ॥
[नेपथ्ये प्रतिशब्दः]
राजा - कथम्! दृष्टेत्याह?

अत्र पर्वतं प्रति उर्वशीं ज्ञातुमिच्छन् विक्रमो यदा वाक्यं प्रयुक्तवान् तदा तद्वाक्यं पर्वते प्रतिध्वनितं सत् प्रतिनिवृत्तम् । तादृशं च वाक्यं शृण्वन् विक्रमः तद्वाक्यस्य ’हे राजन्! सर्वाङ्गसुन्दरी काचित् तन्वी त्वया विरहिता वनमध्यभागेऽस्मिन् मया दृष्टा’ इत्यर्थान्तरं गृह्णाति । एतच्च ’कथम्! दृष्टेत्याह’ इति पुनः प्रयुक्तात् तदीयादेव वाक्यात् विज्ञायते । एवमत्र वाक्यस्य समानत्वेऽपि पर्वतप्रयुक्तत्वभ्रान्त्या अर्थो भिद्यते इति स्पष्टम् ।

५. छलम्[सम्पादयतु]

इदं पञ्चममङ्गम् । अस्य लक्षणं तावदिददम् -
प्रियाभैरप्रियाख्यैर्वाक्यैर्विलोभ्य छलनाच्छलम् ।

यत्र प्रियवत् भासमानैः अप्रियैः वाक्यैः आशामुत्पाद्य वञ्चनं भवति तत्र छलमित्यर्थः । अस्योदाहरणं वेणीसंहारे वर्तते । तत्र दुर्योधनः तावत् अत्यन्तं पराजयमापन्नः । तस्य सैन्ये ये प्रमुखाः भीष्मादयः ते सवेर्ऽपि पराजिताः केचिच्च मृताः । दुर्योधना एकाकी अवशिष्ठः । अस्यान्तराले सूर्योदयात् प्रागेव दुर्योधनमवश्यं नाशयमि, नो चेदात्मानं वह्नौ पातयामि’ इति घोरं प्रतिज्ञातं भीमेन । तेन च सवेर्षां महती चिन्ता सम्पन्ना यतः अन्वेषणे कृतेऽपि दुर्योधनो न दृश्यते । स तु जलस्तम्भनमन्त्रबलेन वैशम्पायनसरोवरे निमज्य निलीनो वर्तते । यदि एकं दिवसमतियाति तर्हि प्रतिज्ञाभङ्गात् भीमः वह्निं प्रविशति । तेन सवेर् पाण्डवाः दुःखिताः सन्तः स्वसमयानुसारेण प्राणान् मुञ्चन्ति । एतेन पर्यन्ते पाण्डवानामेव विनाशो भवति । एवं विचारयन् दुर्योधनः कथञ्चिदेकं दिनं सरोवरे निलीय नयामीति विचिन्त्य तत्र निमग्नो वर्तते । तस्मिन् समये अन्वेषणं कुर्वन्तौ भीषमार्जुनौ सर्वत्रापि दुर्योधनं विचारयतः, यथा -

भीमार्जुनौ - कर्ता द्यूतच्छलानां जतुमयशरणोीपनः सोऽभिमानी
राजा दुश्शासनादेर्गुरुरनुजशतस्याङ्गराजस्य मित्रम् ।
कृष्णाकेशोत्तरीयव्यपनयनपटुः पाण्डवा यस्य दासाः
                        क्वास्ते दुर्योधनोऽसौ कथयत न रुषा द्रष्ठुमभ्यागतौ स्वः ॥
अत्र दुयोधनस्य यानि विशेषणानि इष्टवत् भासमानान्यपि अनिष्ठान्येव सन्ति । तैः जनानामशामुत्पाद्य दुर्योधनवृत्तान्तस्यावगमनं तयोरभीष्ठम् । केचित्तु छलस्य लक्षणं तावदिदं कथयन्ति -
अन्ये त्वाहुश्छलं किञ्चित्कार्यमुश्यि कस्यचित् ॥
उदीर्यते यद्वचनं वञ्चनाहास्यरोषकृत् ।
किञ्चित्स्वाकीयं कार्यं साधयितुं किात् पुरुषो यदि वञ्चनापरं हास्यजनकं रोषकारकं च वाक्यं प्रयुे तर्हि तत् छलं भवतीत्यर्थः । भरतेन तु एतदेव ’अन्यार्थमेव वाक्यं छलमभिसन्धानहास्यरोषकृत्’ इति वाक्यान्तरेणाभिहितम् ।

६. वाक्केलिः[सम्पादयतु]

इदं षष्ठमङ्गम् । अस्य लक्षणं तावदिदम् -
वाक्केलिर्हास्यसम्बन्धो द्वित्रिप्रत्युक्तितो भवेत् । बहुभिः उत्तरैः हास्यस्य जननं वाक्केलिरित्यर्थः । अस्योदाहरणं तावदिदम्, यथा - किात् भिक्षुं सम्बोधयन् कश्चित् प्रश्नान् करोति । तेषां च उत्तरं स भिक्षुरेवं ददाति, यथा -
भिक्षो! मांसनिषेवणं प्रकुरुषे, किं तेन मद्यं विना मद्यं चापि तव प्रियमहो वाराङ्गनाभिः सह । वेश्याप्यर्थरुचिः कुतस्तव धनं द्यूतेन चौयेर्ण वा चौर्यद्यूतपरिग्रहोऽपि भवतो नष्ठस्य कान्या गतिः ॥ अत्र प्रश्नानामुत्तरं भिक्षुणा दीयमानं यदस्ति तत् स्वधर्मस्य विरुद्धत्वात् हास्यं जनयति ।

७. अधिबलम्[सम्पादयतु]

इदं सप्तममङ्गम् । अस्य लक्षणं तावदिदम् -
अन्योन्यवाक्याधिक्योक्तिः स्पर्धयाधिबलं मतम् । स्पर्धया प्रयुक्तेषु वाक्येषु य उत्तरोत्तरं प्रकर्षः तदधिबालमित्यर्थः । अस्य चोदाहरणं प्रभावतीपरिणये यथा - तत्र नायकः प्रद्युम्नो वज्रनाभनामानं राक्षसं सम्बोधयन् एवं कथयति, यथा -

वज्रनाभः - अस्य वक्षः क्षणेनेव निर्मथ्य गदयानया ।
लीलयोन्मूलयायेष भुवनद्वयमद्य वः ॥
प्रद्युम्नः - अरे रे असुरापसद! अलममुना बहुप्रलापेन । मम खलु
अद्य प्रचण्डभुजदण्डसमर्पितोरुकोदण्डनिर्गलितकाण्डसमूहपातैः ।
आस्तां समस्तदितिजक्षतजोक्षितेयं क्षोणिः क्षणेन पिशिताशनलोभनीया ॥

अत्र ’अनया गदया तव वक्षःस्थलं सपद्येव विदार्य भुवनद्वयं सर्वथा नाशयामि’ इति वज्रनाभेन सक्रोधमभिहिते सति ’मम भुजदण्डे वर्तमानादस्मात् चापात् निर्गच्छता बाणसमूहेन भूतलं तथा करोमि येनेदं भूतलं राक्षसरक्तार्द्रं पिशाचादीनामतीवास्वादनीयं स्यात्’ इति तदपेक्षया प्रकषेर्ण अभिहितं प्रद्युम्नेन ।

८. गण्डम्[सम्पादयतु]

इदम् अष्ठममङ्गम् । अस्य लक्षणं तावदिदम् -
गण्डं प्रस्तुतसम्बन्धि भिन्नार्थं सत्वरं वचः ।
यत्र प्रस्तुतार्थप्रतिपादनार्थं झटिति प्रयुक्तं वाक्यम् अन्येनाथेर्न सम्बध्यते तत्र गण्डमित्यर्थः । अस्योदाहरणं तावत् वेणीसंहारे वर्तते । तत्र कुरुक्षेत्रे समरे कर्णः युद्धार्थं गतः । दुर्योधनस्तु समरात् विमुखीभूय किञ्चित् विश्रान्तिमिच्छति । तदर्थं स्वभार्यया भानुमत्या साकं विहारार्थं क्रीडापर्वतं गतो वर्तते । तत्र दुर्योधनो स्वभार्यां प्रति मम ऊरुयुग्मं तवोपवेशनार्थं पर्याप्तं वर्तते । तदत्रैवोपविश्यताम् इति यावत् कथयति तावत्येव किाूतः त्वरितं प्रविश्य दुर्योधनं प्रति ’भवतो रथकेतनं भयानकमारुतवशात् भग्नम्’ इति वृत्तान्तं निवेदयति । स च प्रसङ्गो यथा -
राजा - अध्यासितुं तव चिराज्जघनस्थलस्य पर्याप्तमेव करभोरु! ममोरुयुग्मम् ।
अनन्तरम् [प्रविश्य]
कञ्चुकी - देव! भग्नं भग्नम् - इत्यादि ।
अत्र राज्ञा ममोरुयुग्मम् इत्युक्ते सति कञ्चुकिना भग्नमिति पदेऽनुपदं प्रयुक्ते ’ममोरुयुग्मं भग्नम्’ इति वाक्ये निष्पन्ने ’तव ऊरुयुग्मं भग्नं भविष्यति’ इति अनिष्ठस्यार्थान्तरस्य प्रतीतिः । यद्यप्यत्र कञ्चुकिना सत्वरं प्रविश्य ’भग्नं भीमेन मरुता भवतो रथकेतनम्’ इ्रति वक्तुमुपक्रान्तम् । तता तन्मनसि भवतो रथकेतनं भयङ्करेण वायुना भग्नम् इत्यथेर् स्थितेऽपि पूर्ववाक्यस्थपदेन सम्बन्धात् अनर्थस्य प्रतीतिः ।

९. अवस्यन्दितम्[सम्पादयतु]

इदं नवममङ्गम् । अस्य लक्षणं तावदिदम् -
व्याख्यानं स्वरसोक्तस्यान्यथावस्यन्दितं भवेत् ।
अभिमतस्यार्थस्य प्रकाशनाय प्रयुक्तं यद्वाक्यं तस्य अर्थान्तरपरत्वेन व्याख्यानमित्यर्थः । अस्योदाहरणं छलितरामे वर्तते । तत्र वाल्मीकिः यदा लवकुशयोः रामस्यास्थानं प्रति नयने कृतसङ्कल्पः तदा माता सीता स्वपुत्रौ प्रति इदं कथयति, यथा -
सीता - जाद! कल्लं क्खु अओज्झाएण गन्तव्वम्, तहिं सो राजा विणएण पणायिदव्वो [जात! कल्यं खलु
अयोध्यायां गन्तव्यम्, तत्र स राजा विनयेन पणायितव्यः]
लवः - अथ किमावयोः राजोपजीविभ्यां भवितव्यम्?
सीता - जाद! सो क्खु तुह्माणं पिदा [जात! स खलु युष्माकं पिता]
लवः - किमावयोः रघुपतिः पिता?
सीता - [साशङ्कम्] मा अण्णदा सङ्कद्धम् । ण क्खु तुह्माणं सअलाए ज्जेव पुहवीएत्ति [मा अन्यथा शङ्कध्वम् ।
न खलु युष्माकं सकलाया एव पृथिव्याः]
अत्र स खलु युष्माकम् पिता इ्रति मनोगतमर्थं प्रतिपादयितुं प्रयुक्तस्य वाक्यस्य सत्यस्याच्छादनाय ’राजा सवेर्षामपि पिता भवति’ इति सामान्याभिप्रायेण व्याख्यानम् ।

१०. नालिका[सम्पादयतु]

इदं दशममङ्गम् । अस्य लक्षणं तावदिदम् -
प्रहेलिकैव हास्येन युक्ता भवति नालिका ।

सत्यास्याच्छादकं हासजनकं च उत्तरमित्यर्थः । अस्योदाहरणं रत्नावल्यां वर्तते । तत्र रत्नावली उपवने वत्सराजम् अन्याविदिततया प्रतीक्षमाणा वर्तते । तदानीमेव तत्रागता तत्सखी सुसङ्गता सर्वं जानत्यपि विनोदार्थं रहस्यास्य स्फोटनार्थं रत्नावलीं संलापयति, यथा -
   सुसङ्गता - सहि! जस्स किदे तुमं आअदा सो इद ज्जेव चिट्ठदि [सखि! यस्य कृते त्वमागता स इत एव तिष्ठति]
   सागरिका - कस्स किदे अहं आअदा?[कस्य कृते अहमागता?]
   सुसङ्गता - णंक्खु चित्तफलअस्स ख्ननु चित्रफलकस्य]
अत्र ’चित्रफलकस्य कृते त्वमागता’ इति वाक्येन ’वत्सराजस्य कृते त्वमागता’ इत्यर्थस्य आच्छादनं कृतम् । पूर्वत्र आच्छादितोऽर्थः अन्यस्य न भासते इह तु भासते इ्रति विशेषः ।

११. असत्प्रलापः[सम्पादयतु]

 इदम् एकादशमङ्गम् । अस्य च लक्षणं तावदिदम् -
असत्प्रलापो यद्वाक्यमसम्बद्धं तथोत्तरम् ।
अगृह्णतोऽपि मूर्खस्य पुरो यच्च हितं वचः ॥
असम्बद्धं वाक्यम् असम्बद्धम् उत्तरम् उपदेशमशृण्वतः मूर्खस्य पुरतः हितं वचनं च असत्प्रलाप इत्यर्थः । तत्र असम्बद्धं वाक्यं प्रभावतीपरिणये वर्तते । तत्र प्रभावतिविरहसन्तप्तः प्रद्युम्नः तामेव चिन्तयन् भ्रमति । तदा च तत्र किञ्चित् चूतसस्यं दृष्टिपथमायाति । तत्पश्यन् इयमेव मम प्रेयसी प्रभावतीति मनसि विचिन्तयन् एवं कथयति, यथा --
प्रद्युम्नः - [सहकारवल्लीमवलोक्य सानन्दम्] अये! कथमिहैव!
अलिकुलमञ्जुलकेशी परिमलबहला रसावहा तन्वी ।
किसलयपेशलपाणिः कोकिलकलभाषिणी प्रियतमा मे ।
अत्र चूतसस्यम् अचेतनमिति हेतोः तत् प्रति वचनमेतत् न सङ्गच्छते । तस्मादिदम् असम्बद्धं वाक्यं भवति । असम्बद्धं उत्तरं यथा विक्रमोर्वशीये - तत्र हि उर्वशीविरहपीडितो विक्रमः उन्मत्तः सन् सर्वत्र तामेव अन्विष्यति । तदानीं किात् पर्वतो दृश्यते । तं प्रति मम प्रेयसी उर्वशी कुत्रेति पृच्छति । तस्य ध्वनिः प्रतिफलितः प्रत्यायाति, तच्च वाक्यं यथा -
सर्वक्षितिभृतां नाथ! दृष्ठा सर्वाङ्गसुन्दरी ।
रामा रम्या वनान्तेऽस्मिन् मया विरहिता त्वया ॥

इदं च विक्रमदृष्ट्या पर्वतस्य उत्तरम् । पर्वतााचेतन इति हेतोः वाक्येनानेन यदुत्तरं तदसम्बद्धं भवति । एवं मृच्छकटिके शकारस्य वचनेऽपि इदं स्वयं ज्ञातव्यम् । मूर्खं प्रति हितं वचनं यथा वेणीसंहारे दुर्योधनं प्रति गान्धार्या वचनेषु ।

१२. व्याहारः[सम्पादयतु]

इदं द्वादशमङ्गम् । अस्य लक्षणं तावदिदम् -
व्याहारो यत्परस्याथेर् हास्यक्षोभकरं वचः ।
येन क्षणमुद्वेगो भवति पर्यन्ते हासा तादृशं वचनं व्याहार इत्यर्थः । अस्योदाहरणं मालविकाग्निमित्रे वर्तते, यथा - तत्र राजा मालविकायमनुरक्तः तां स्वच्छन्दं द्रष्ठुमिच्छति । तदर्थं तत्सुहृत् गौतमः हरदत्तगणदासयोः कलहमुत्पाद्य तच्छिष्ययोः नाट्यस्पर्धामायोजयन् मालविकाया दर्शनं व्यवस्थापयति । प्रथमं गणदासशिष्याया मालविकाया नाट्यं भवति तत इरावत्या हरदत्तशिष्यायाः । मालविका सम्यक् नाट्यं कृत्वा निर्गन्तुमिच्छति । तदा तर्शनानुवृत्तिं सम्पादयितुमिच्छन् गौतमः तां तत्रैव क्षणमवस्थापयितुं प्रवर्तते, यथा -
विदूषकः - भोदि! चिट्ठ । किं वि विसमरिदो कमभेदो [भवति! तिष्ठ, किमपि वो विस्मृतः क्रमभेदः]
गणदासः - वत्से! स्थीयताम् । उपदेशविशुद्धा गमिष्यसि । [
[इत्युपक्रम्य]
गणदासः - [विदूषकं विलोक्य] गौतम! वदेदानीं यत्ते मनसि वर्तते ।
विदूषकः - पुढमोपदेसदंशणे पुढमं बह्मणस्स पूआ कादव्वा । सा णं वो विसुमरिदो [प्रथमोपदेशदर्शने
ब्राह्मणस्य पूजा कर्तव्या । सा तु ननु वो विस्मृता] [मालविका मन्दहासं करोति]
[इत्यन्तं यावत्]
अत्र क्रमभेदो लक्षितः इत्युक्त्या प्रथममुद्वेगः पाात् ’ब्राह्मणस्य पूजा न कृता’ इत्युक्त्या हास इति स्पष्ठमिदं वचनं हासक्षोभकरम् ।

१३. मार्दवम्[सम्पादयतु]

इदं त्रयोदशममन्तिमं च अङ्गम् । अस्य लक्षणं तावदिदम् -
दोषा गुणा गुणा दोषा यत्र स्युर्मार्दवं हि तत् ।
यत्र दोषाणां गुणत्वं गुणानां च दोषत्वं सम्भवति तत्र मार्दवमित्यर्थः । तत्र दोषाणां गुणत्वं यथा -
प्रिय! जीवितता क्रौर्यं निःस्नेहत्वं कृतघ्नता ।
भूयस्त्वर्शनादेव ममैते गुणतां गताः ॥
अत्र यद्यपि प्रियकरे दूरं देशे गते सति प्रियकरं विना जीवनमित्यादयो यद्यपि दोषाः, प्रियवियोगेन मरणस्यैवोचितत्वात् तथापि पुनः तत्प्राप्तिरूपस्य गुणस्य लाभे त एव दोषा गुणाः सम्पन्नाः । यदि मरणमभविष्यत् तर्हि पुनः प्रियस्य दर्शनं न समभविष्यदिति वियोगकालिकजीवनादीनां तर्शनरूपगुणप्राप्त्या गुणत्वमिति बोध्यम् । गुणानां च दोषत्वं यथा -
तस्यास्तद्रूपसौन्दर्यं भूषितं यौवनश्रिया ।
सुखैकायतनं जातं दुःखायैव ममाधुना ॥

अत्र नायिकायां रूपादयो यद्यपि गुणाः तथापि तामलभमानस्य कस्यचित् विरहदुःखजननद्वरा ते दोषा एव सम्पन्ना इति गुणानां दोषत्वम् ।
इमानि तावत् त्रयोदशाङ्गानि । यद्यपि एतेषां यत्र कुत्रापि रूपकभेदे निवेशनं युज्यते, अत्रैवेति नियमो न युज्यते तथापि वीथ्यामवश्यमेतानि भवेयुरित्यभिप्रायेण अमीषां वीथ्यङ्गत्वमुक्तमिति मन्तव्यम् ।
अस्या उदाहरणं मालविका

"https://sa.wikipedia.org/w/index.php?title=वीथी_(रूपकम्)&oldid=395875" इत्यस्माद् पुनः प्राप्तिः