भासः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्

भासो हासः[सम्पादयतु]

गीतगोविन्दकारः जयदेवः भासं स्तौति यथा-"भासो हासः " कविकुलगुरुः कालिदासो विलासः- इति । महाकविः भासः (Bhaasa) कश्चित् महान् संस्कृतनाटककारः। भासस्य त्रयोदशनाटकानि उपलभ्यन्ते । १९०९ क्रिस्ताब्दौ त्रिवेन्द्रम् निवासी महामहोपाध्याय: टी० गणपतिशास्त्रीमहोदयः तिरुवाङ्कोर राज्यात् तालपत्रलिखितानि एतानि प्राप्तवान् । तेषां नाटकानाम् नामानि सन्ति अधोलिखितानि। एतेषां त्रयोदशानामपि नाटकानां कर्ता भास इति लब्धयशसः टि.गणपतिशास्त्रिणः निरणयन् । प्राचीनः नोनराजस्य पुत्रः जोनराजः स्वग्रन्थे "सोऽग्निरपि भासमुनेः काव्यं विष्णुधर्मान्मुखात्त्यक्तवान् । नादहदित्यर्र्थः" इत्युक्तवान् । लाक्षणिकग्रन्थकारः रामचन्द्रगुणचन्द्रः नाट्यदर्पणे "यथा भासकृते स्वप्नवासवदत्ते" इत्येव वदति । किन्तु अन्ये विद्वांसः सर्वेषाम् एककर्तृत्वं पूर्वं नाङ्गीकृतवन्तः । ततः एतेषु स्वप्नवासवदत्तम् नाम्नि नाटके भासस्य नाम कर्तृत्वेन प्रस्तुतम् । अन्यत्र कुत्रापि नाटके कर्तुः नाम न गोचरति । तथा च एतेषु सर्वेषु नाटकेष्वपि "नान्द्यन्ते ततः प्रविशति सूत्रधारः" इति एकरीत्या प्रारम्भः भवति । "प्रस्तावना" इत्यस्मिन् स्थाने "स्थापना" इति निहितम् । अपि च सर्वेषु नाटकेष्वपि भरतवाक्यानि समानानि वर्तन्ते । एतदतिरिच्य आपञ्चदशशतकपर्यन्तं यावत्, संस्कृतकवयः स्वीयासु कृतिषु भासं तस्य ग्रन्थाणां वाक्यानि च समुदाहरन् । अपि च एतानि सर्वाण्यपि नाटकानि एकत्रैव प्राप्तानि । अतः एतानि सर्वाण्यपि रूपकाणि प्रायशः भासकृतानीति विद्वद्भिः सिद्धान्तितमस्ति । किन्तु एतस्मिन् विषये ऐकमत्यं न सिद्धम् । इमं कविं महाकविः कालिदासः मालविकाग्निमित्रम्इति नामके स्वस्य नाटके ’प्रथितयशसां भाससौमिल्लकविपुत्रादीनां प्रबन्धानतिक्रम्य वर्तमानकवेः क्रियायां कथं परिषदो बहुमानः?’ इति सबहुमानं भासम् अश्लाघत । बाणोऽपि स्वकाव्ये हर्षचरितम् नाम्नि काव्ये "सूत्रधारकृतारम्भैः नाटकैर्बहुभूमिकैः । सपताकैर्यशो लेभे भासो देवकुलैरिव" इति भासकविम् अस्तौत् । कविः राजशेखरः अपि भासो रामिलसोमिलौइति, "भासो हासः" इति जयदेवःमुरारिश्च भासम् अस्तुवन् ।

भासस्य कालः[सम्पादयतु]

अनेके कवयः भासं प्राशंसन् । काव्यशास्त्रकाराः भासकृतान् श्लोकान् स्वग्रन्थेषु समुदाहरन् । एतेन ज्ञायते यत् भासः कालिदासादपि प्राक्तनः तदर्वाचीनकवीनाम् आत्मीयश्च स्यादिति । अनेकेषां कवीनाम् यथा तथैव भासस्यापि देश-कालयोः विषये कोऽपि निश्चयः नास्ति । तथापि विमर्शकानाम् अभिप्रायानुसारं क्रि.पू.१थमे शतमाने भास आसीदिति निर्णेतुं शक्यते । शार्ङधरपद्धतिः, सूक्तिमुक्तावलिः, सदुक्तिकर्णामृतम्, सुभाषितावलिः, इत्यादिषु प्राचीनेषु सुभाषितग्रन्थेषु भासाङ्कितानि पद्यानि लभ्यन्ते । एतादृशानि सर्वाणि साक्ष्याणि उद्धृत्य भासः क्रिस्तात् पूर्वं सप्तमे शतके आसीदित्यपि विमर्शकाः निर्णीतवन्तः । केचन विपश्चितः भासः क्रि.श.२तीये शतके आसीदित्यपि अभिप्रयन्ति । गते शतके समुपलब्धम् यज्ञफलम् नाम रामायणकथावस्तु नाटकमपि भासकविकृतमेवेति तस्य अध्येतारः दोषज्ञाः निरचिन्वन् । भासस्य देशविषये, मातापित्रोः विचारे च कापि कथा नोपलभ्यते । अयं दाक्षिणात्यः इति केचन साधारं प्रतिपादयन्ति ।

==भासस्य रुपकाणि : प्रतिज्ञायौगन्धरायणस्वप्नवासवदत्ताऽविमारकाणि त्रीणि बृहत्कथाऽऽधाराणि । प्रतिमानाटकभिषेकश्चेति द्वे रामायणमूले । मध्यमव्यायोगपञ्चरात्रदूतघटोत्कचकर्णभारोरुभङ्गयज्ञफलदूतवाक्यानि सप्त महाभारताश्रयाणि, बालचरितं भागवताश्रयम् दरिद्रचारुदत्तं च कल्पितकथमिति विवेकः ।।

१. मध्यमव्यायोगे – हिडिम्बानामकराक्षस्या सह भीमस्य प्रणयः, घटोत्कचनामकपुत्रद्वारा चिरविरहितयोस्तयोः सङ्गश्च वर्णितः ।
२. दूतघटोत्कचे –हिडिम्बाभीमयोरात्मजस्य घटोत्कचस्य महाभारतीयं चरितम् ।
३. कर्णभारे –कर्णस्योदात्तं चरितम्, तेन हीन्द्राय कवचकुण्डले दत्ते ।
४. ऊरुभङ्गे –भीमेन प्रियापरिभवप्रतप्तेन दुर्योधनस्य जङ्घे भग्ने । संस्कृतसाहित्ये शोकान्तनाटकस्येदमेकं निदर्शनम् ।
५. दूतवाक्ये –दूतभूतस्य श्रीकृष्णस्य सदाशयतया सहैव दुर्योधनस्याभिमानित्वं वर्णितम् ।
६. पञ्चरात्रे –कल्पिता कथा । द्रोणेन कौरवाणां यज्ञे आचार्यकत्वं कृतम्, दक्षिणायां स पाण्डवानां राज्यं याचितवान् ।
पञ्चदिनाभ्यन्तरेऽन्वेषणेक्रियमाणे लभ्यं तदिति दुर्योधनस्याश्वासने द्रोणेन तथा कृतम् ।
७. बालचरिते –कृष्णस्य बाललीला भागवताधारेणा कृता ।
८. अविमारके –या कथा सा सम्भवतो गुणाढ्यकृतबृहत्कथातो गृहीता राजकुमारस्याविमारकस्य कुन्तिभोजकुमार्या कुरङ्ग्या सह प्रणयोऽत्र वर्णितः ।
९. प्रतिज्ञायौगन्धरायणे – मन्त्री यौगन्धरायणं पद्मावत्या मगधराजभगिन्या सहोदयनस्य विवाहं कारयित्वा राजशक्तिं वर्ध्दयिउमैच्छत् । ध्रियमाणायां च वासवदत्तायां न सम्भवतीदमिति कदाचिदुदयने मृगयार्थं गते मन्त्रिसम्मत्या वासवदत्ता दग्धेति प्रचार्यते । राज्ञा चिरं विषद्यापि न तत्प्रेमणि मालिन्यमानीयते पश्छात् पदमावत्यां परिणीतायां स्वप्नक्रमेणैव वासवदत्ता लभ्यते ।
१०. दरिद्रचारुदत्ते-वसन्तसेनाचारुदत्तयोः प्रणयकथा वर्णिता । अस्य चत्वार एवाङ्का उपलभ्यन्ते ।
११. अभिषेके- रामायणोक्ता वालिवधादारभ्य रामराज्याभिषेकान्ता कथा वर्णिता ।
१२. प्रतिमानाटके – रामायणप्रोक्तं रामस्य पूर्वचरितमुपनिबध्दम् ।
१३. यज्ञफले –कथाभागोऽत्यल्प एव युधिष्ठिरयज्ञसम्बन्धी ।

सर्वेषामेषां रुपकाणामेककर्तृकत्वम्[सम्पादयतु]

उपरिदिर्निष्टनामानि रुपकाणि समानकर्तृकाणि यत् एषु आश्चर्यजनकं साम्यं प्रतिभासते ।
यथा –
१. सर्वाण्यपीमानि नाटकानि- ‘नान्द्यन्ते ततः प्रविशति सूत्रधारः’ एभिरेव शब्दैः प्रारभ्यन्ते ।
२. एषु रुपकेषु क्वापि रचयितुर्नाम परिचयादिकं नोपलभ्यते ।
३. प्रायः सर्वत्र प्रस्तावनायाः स्थाने स्थापनाशब्दप्रयोगः कृतः । कर्णभारमात्रे प्रस्तावनाशब्दप्रयोगः ।
४. एषु सर्वत्र भरतवाक्यं समानम् ।
५. एषां रुपकाणां भाषाऽऽश्चर्यजनकं साम्यं वहति ।
६. सर्वेष्वप्येषु रुपकेषु पताकास्थानस्य मुद्रालङ्कारस्य च समानः प्रयोगः ।
७. अप्रधानपात्राणां नामसाम्यम्, व्याकरणलक्षणहीनप्रयोगप्राचुर्यम् समाः वाक्यम्, सर्वत्र बाहुल्येन लभ्यते ।
८. भरतकृतनाट्यशास्त्रीयनियमानां सर्वत्र समभावेनानादरः ।
९. नाट्यनिर्देशस्य अभावः समानः ।
१०. एषां सर्वेषां रुपकाणां नामानि केवलमन्त एव ग्रन्थस्य लभ्यन्ते नान्यत्र क्वापि ।

भासस्य द्विरवतारः[सम्पादयतु]

यद्यपि बहवो विद्वांसो गुणपतिशास्त्रिणा प्र्काशितानि सर्वाण्यपि रुपकाणि प्रचीनभासकृतानीत्युक्तवन्तः प्रमाणानि चोपस्थापितवन्तः, परन्तुजातेन बहुविधानुसन्धानेनेषां कर्त्ता प्राचीनो भासो न सिद्ध्यति, यतो भासकृतत्वेनोदाहृतानि पद्यानि लभ्यमानग्रन्थेषु नासाद्यन्ते, अतः सर्वाण्यपीमानि रुपवाणि केरलदेशीयेन केनचित् कविना कृतानीति सुवचम् । मदृ मदृ रामावतारशर्माऽपि लभ्यमानरुपकाणामंशविशेष एव भासकृता इति मन्यते । अत एव चैषां केरल एवोपलब्धिरिति समुपन्यस्यति तदुपोद्बलकं प्रमाणम् । केरलीया नटा अद्यापि भासनाटकान्यभिनीय लोकान् रञ्जयन्ति ।

अस्यां स्थितौ युक्तमिदं यद् भासद्वयं मन्यताम्, तत्रैकः प्राचीनो भासो ये महा रुविकालिदासादिना स्मृतः । अपरश्च केरलीयो नवो द्वादशशताब्दीसमुद्भवो भासो यस्य रुपकाणि चतुर्दश मदृमगणपतिशास्त्रिभिः प्रकाश्यं नीतानि ।

भासस्य नाटकनिर्माणनैपुण्यम्[सम्पादयतु]

बहूनां रुपकाणां लेखको भासो जीवनस्य विविधानि क्षेत्राणि दृशोः पात्रतां नित्वानिति वक्तुं सुशकम्, अत एव चास्य रुपकेषु विविधता समायाता । एतदीयकृतिषु कतिचन नाटकानि पूर्णवि कसितानि नाटकानि, यथा- स्वप्नवासवदत्तम्, प्रतिज्ञायौगन्धरायणम्, प्रतिमानाटकञ्च । मध्यमव्याव्योगदूतघटोत्कचद्वतवाक्यकर्णभारोरुभङ्गानि एकाङ्करुपकाणि कथयितुं शक्यन्ते । भासस्य रुपकेषु अभिनययोग्यतैवासाधारमभावेन स्थिता सती तानि प्रख्यापयति । अभिनेयताहेतवश्च –एषां रुपकाणामादितोऽन्तं यावदभिनये सौकर्यम्, सुबोधा सरला संक्षेपवती च वाक्यावलिः, वर्णनविरहः, अविस्तृतानि पात्राणां कथनोपकथनानि, इत्यादिकाः सर्वेषु रुपकेषु दृश्यन्ते । भासः संवादतत्त्वाभिज्ञ इति तदीयाः कृतयः संवादसौष्ठवं बिभ्रति सर्वत्र सुलभम् । भासो व्रिजेषु रुपकेषु स्वाधारभूताः कथास्तयैवोपन्यस्यापि केवलेन सरलत्वकथनोपकथनचातुर्यादियोजनेन तानि स्मवीयतां प्रापयतीति भासस्य नाटकनिर्माणनैपुण्यं सुखमवगन्तुं शक्यम् ।

भासकृतिभिरन्यकविकृतिसाम्यम्[सम्पादयतु]

भासस्य कृतयोऽन्येषां कृतिभिः सह साम्यं बिभ्रति । यथा –शाकुन्तले चर्त्येऽङ्के वृक्षलतादीन् प्रति शकुन्तलाया यः कोमलो मनोभावः –‘पातुं न प्रथमं व्यवस्यति जलं युष्मास्वपीतेषु य इत्यादिना वर्णितस्तत्तुल्य एव भासस्याभिषेके ‘यस्यां न प्रियमण्डनापि महिषी देवस्यमन्दोदरी’ इत्यादौ मनोभावो वर्ण्यते । यथा शाकुन्तले आश्रमवासिनां पीडनं परिहर्तुमादिश्यते तथैव स्वप्नवासवदत्ते – ‘न परुषमाश्रमवासिषु प्रयोज्यम् ’ इत्यादिश्य समानं दृश्यते । तथैव स्वप्नवासदत्ते- ‘ श्रुतिसुखनिददे कथं नु देव्याः स्तनयुगले जघनस्थले च सुप्ता’ इति वीणादौर्भाग्यमाक्रुश्यते । एवमेव शूद्रकस्य मृच्छकटिकेन सह चारुदत्तस्य सर्वाशगतं सादृश्यमासाद्यते । तदत्र केन कस्याधमर्ण्यं गृहीतमिति विचारे क्रियमाणे कालिदासशुद्रकौ एवोत्तमर्णो भास एव तयोः अधमर्ण इति मम विश्वासस्तत्रायं भासोद् द्वितीयो भास इति च । प्रथमो भासः कालिदासादीनां पाथि प्रदर्शकः सम्भवति, परं तदीयाः कृतयः नोपलभ्यन्ते , यश्चायं केरलीयो रुपकसमूहः स तु नवस्य भासस्य एव हि मन्यमाने सर्वमप्युपपन्नं भवतीति ।


भासभारत्याः निदर्शनानि[सम्पादयतु]

स्वप्नवासवदत्तस्य षष्ठाङ्कस्य अन्ते भरतवाक्यम्, यथा-

इमां सागरपर्यन्तां हिमवद्विन्ध्यकुण्डलाम् ।
महीमेकातपत्राङ्कां राजसिंहः प्रशास्तु नः ॥

चारुदत्तनाटकस्य प्रथमाङ्के १३तमः श्लोकः, यथा-

परिचिततिमिरा मे शीलदोषेण रात्रिः, बहुलतिमिरकालास्तीर्णपूर्वा विघट्टाः ।
युवतिजनसमक्षं काममेतन्नवाच्यम्, विपणिषु हतशेषा रक्षिणः साक्षिणो मे ॥

नाटकानि[सम्पादयतु]

  1. स्वप्नवासवदत्तम्
  2. प्रतिज्ञायौगन्धरायणम्
  3. उरुभङ्गम्
  4. दूतवाक्यम्
  5. पञ्चरात्रम्
  6. बालचरितम्
  7. दूतघटोत्कचम्
  8. मध्यमव्यायोगः
  9. प्रतिमानाटकम्
  10. अभिषेकनाटकम्
  11. अविमारकम्
  12. चारुदत्तम्
  13. कर्णभारम्

(महाकवि भासरचितं नाटकं मध्यमव्यायोगात् गृहीतम् ) भासस्य कालः ई०पू० पञ्चमशताब्दिः इति मन्यन्ते इतिहासकाराः। तस्य नाटकानि अद्यापि कूडियाट्टेन प्रशासितानि।

मातुराज्ञा गरीयसी[सम्पादयतु]

(ततः प्रविशति सुतत्रयकलत्रसहितः केशवदासः पृष्ठतः घटोत्कचः च ) घटोत्कचः -- भो वृद्ध । इहैव तिष्ठ।पदम् अपि अग्रे न गन्तव्यम् । वृद्धः -- भो पुरुष।किमर्थम् अस्मान् अग्रे गमनात् निवारयसि? घटोत्कचः -- मम माता उपवास निसर्गार्थम् एकं मानुषं माम् आनेतुम् आदिशत् ।अतः अहं भवत्सु एकं नेष्यामि। वृद्धः-- प्रिये नास्ति मोक्षः राक्षसात् ।अहमेव अनेन सह गच्छामि। मया सांसारिक भोगाः भुक्ताः।अतः निज शरीर दानेन कुलं रक्षितुम् इच्छामि। घटोत्कचः -- अपसरतु भवान् ।मम माता वृद्धं नेच्छति। पत्नी-- आर्य । तर्हि मम शरीरेण रक्षितव्यम् कुलम्। घटोत्कचः -- नहि नहि स्त्री जनो न अभिमतः तत्रभवत्या। प्रथमः पुत्रः-- ज्येष्ठोऽहं कुलस्य रक्षणार्थे प्राणान् दातुमिच्छामि। तृतीयः पुत्रः-- ज्येष्ठः भवान् कुलं पालयतु। अहं प्राणान् ददामि। द्वितीयः पुत्रः-- त्वं कनिष्ठोऽसि ।तव प्राण त्यागः नोचितः।(घटोत्कचं प्रति) भो पुरुष ।अहं त्वया सह चलामि। घटोत्कचः -- प्रीतोऽस्मि आगच्छ चलावःद्वितीयः पुत्रः-- क्षणं तिष्ठतु भवान् ।वनान्तरे जलाशयात् अहं पिपासां शमयितुं इच्छामि। घटोत्कचः -- गत्वा पिपासां शमय। शीघ्रं आगन्तव्यम्।अतिक्रामति मातुः आहारवेला।द्वितीय पुत्रः--भो तात ।एष गच्छामि। (निष्क्रान्तः) घटोत्कचः -- चिरायते कुमारः ।(ज्येष्ठं प्रति) अयि कुमार ।किं नाम तव भ्रातुः?प्रथम पुत्रः-- तस्य नाम मध्यमः इति। घटोत्कचः -- भो मध्यम , मध्यम ।शीघ्रं आगच्छ।( ततः प्रविशति भीमसेनः ) भीमसेनः--कोऽयं मध्यम मध्यम इति शब्दैः मम व्यायामविघ्नं उत्पादयति । अस्तु पश्यामि ।(घटोत्कचं दृष्ट्वा ) भो पुरुष ।ब्रुहि किमर्थं माम् आह्वयसि ?अहं अस्मि मध्यमः। घटोत्कचः -- (आत्मगतम्) न खलु अयं कुमारः।किम् एषः अपि मध्यमः? (प्रकाशम्) अहं मध्यमं शब्दापयामि। भीमसेनः--अतः खल्वहं प्राप्तः। घटोत्कचः -- किं भवान् अपि मध्यमः? भीमसेनः--न तावदपरः। अहमेव भ्रातृणां मध्यमः। वृद्धः--भो मध्यम।अस्मान् परित्रायस्व ।एष राक्षसः अस्मान् हन्तुमिच्छति'। भीमसेनः--भो पुरुष। किमर्थं वृद्धस्य परिवारं त्रासयसि ? मुञ्च एनम्। घटोत्कचः--न मुञ्चामि । मातुराज्ञया गृहीतोऽयम्।भीमसेनः--(आत्मगतम्) कथं मातुराज्ञया इति। माता किल मनुष्याणां देवतानां च दैवतम्। मातुराज्ञां पुरस्कृत्य वयमेतां दशां गताः।। (प्रकाशम्)किं नाम भवतः माता? घटोत्कचः--हिडिम्बा। भीमसेनः--(आत्मगतम्) एवम् हिडिम्बायाः पुत्रोऽयम्।सदृशो हि अस्य गर्वः।(घटोत्कचं प्रति) आदेशय गृहमार्गम्। घटोत्कचः--अनुसरतु माम्। (सर्वे परिक्रामन्ति) भोः इदमस्माकम् गृहम्।( गृहं प्रविश्य अम्बां प्रति) अम्ब। आनीतः तब चिराभिलसितः मानुषः। हिडिम्बा-- (भीमसेनम् अवलोक्य) जयतु आर्यपुत्रः । घटोत्कचः--भवति कोऽयम्? हिडिम्बा-- उन्मत्तक । दैवतम् अस्माकम्।अभिवादय पितरम्। घटोत्कचः--तात। घटोत्कचोऽहम् अभिवादये।मम चापलं क्षन्तुमर्हसि। भीमसेनः--एहि पुत्र एहि ।(उभौ परिष्वजतः)वृद्धः-- भो वृकोदर । रक्षितमस्मत्कुलम्, स्वकुलमुद्धृतं च । गच्छामस्तावत्।( निष्क्रान्तः सकलपुत्रः केशवदासः) भीमसेनः--हिडिम्बे । वत्स घटोत्कच ।इतस्तावत् ।केशवदासं आश्रमपद द्वारमात्रं त्यक्त्वा सम्मावयिष्यामः।( सर्वे निष्क्रान्तः)

बाह्यबन्धुकानि[सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=भासः&oldid=253271" इत्यस्माद् पुनः प्राप्तिः