अभिषेकनाटकम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
भास

अभिषेकनाटकस्य कर्ता महाकविः भासः । भासः त्रयोदशनाटकानि रचितवान् ।

भासस्य देशः न निश्चितः । परं तस्य नाटकानि दृष्ट्वा एषः दक्षिणदेशीयः इति ज्ञायते ।

अभिषेकनाटके षट् अङ्काः सन्ति । प्रथमाङ्के सुग्रीवसख्यम्, वालिवधा, द्वितीयाङ्के सीतान्वेषणम्, तृतीये सागरोल्लङ्घनं, लङ्कादहनम्, चतुर्थे च समुद्रमार्गात् लङ्कागमनं, पञ्चमे मायाशिरसः घटना, इन्द्रजितः संहारः, षष्ठे च रावणवधा, अग्निपरीक्षा, रामस्य पट्टाभिषेकः इत्यादिविचाराः सन्ति ।

"https://sa.wikipedia.org/w/index.php?title=अभिषेकनाटकम्&oldid=454633" इत्यस्माद् प्रतिप्राप्तम्