सामग्री पर जाएँ

स्वप्नवासवदत्तम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


एतदेकम् प्रसिद्धम् संस्कृतनाटकम् । महाकविः भासः एतस्य रचयिता इति अस्मिन् ग्रन्थ एव उल्लेखः लभ्यते । क्षेमेन्द्रस्य बृहत्कथामञ्जरीं सोमदेवस्य कथासरित्सागरं च आधृत्य विरचितमिदं नाटकम्, समग्रे संस्कृतवाङ्मये दृश्यकाव्यप्रकारेषु आदर्शकृतिरिति जेगीयते दशरूपकविद्वद्भिः ।

नाटकसाहित्ये महाकविभासस्य महती प्रसिध्दिरस्ति । अन्येषां नाटककाराणां का कथा ? स्वयं महाकविः कालिदासोऽपि भासस्य वैशिष्ट्यं मुक्तकण्ठेन स्वीकरोति मालविकाग्निमित्रस्य प्रस्तावनायां स्पष्टमुक्तं सूत्रधारेण प्रथितयशसां भाससौमिल्ल कविपुत्रादीनां प्रबन्धानतिक्रम्य कथं वर्तमानस्य कवेः कालिदासस्य कृतौ बहुमानः । अनेन ज्ञायते यत् कालिदासस्य समये भासस्य महती प्रसिध्दिरासीदिति । अस्य कृतयः सर्वसाधारणजनेषु विख्याता आसन् । अत एव कालिदासस्य कमनीयनाटकमपि जनाः समादरेण नावलोक्यन्ति स्म । कालिदासस्य परवर्तिनः कायोऽपि भासं भृशं प्रशंसयामासुः । श्रीबाणभट्टेन हर्षचरितस्यादौ भासस्यातिप्रशंसा कृता । महाकविः राजशेखरः तु एवं लिखति यत् यदा नाटकस्याग्निपरीक्षा जाता तदा भासस्य नाटकचक्रं प्रज्वलितेषु विह्निषु प्रक्षिप्तं, परन्तु स्वप्नवासवदत्तस्य दाहकः पावकोऽपि नाभूत् ।

भासनाटकचक्रेऽपि छेकैः क्षिप्ते परीक्षितुम् ।
स्वप्नवासवदत्तस्य दाहकोऽभून्न पावकः ॥

स्वप्नवासवदत्ते कविः भासः पात्राणं चरित्रचित्रणे नाट्य कलायाः अद्भुतं चित्रं चित्रयति । विशुध्दस्य विशदप्रेम्णः यादृशं वर्णनं भासेन कृतं, तादृशं संस्कृतसाहित्ये सुदुर्लभम् । नाटकेऽस्मिन् नाटकीयघटनानामीदृशं मनोहरस्वरुपं प्राप्यते, यत् अस्वाभाविकतायाः दर्शनमेव कुत्रापि न भवति । स्वप्नवासवदत्तं संस्कृतसाहित्यस्य जाज्वल्यमानं महार्हं रत्नं विद्यते इति नात्र संशयः । नाटकमिदं यथैव साहित्यिकदृष्ट्या महत्त्वास्पदं, तथैव व्यावहारिकदृष्ट्यापि परमोच्चस्थानं लभते ।

यौगन्धरायणो हि आदर्शमन्त्री, सदैव राज्ञः राज्यस्य च सुरक्षां चिन्तयति, निजकर्तव्यपालनार्थं राज्ञः प्रियं कर्तुं यौगन्धरायणः वासवदत्तायाः वह्नौ ज्वलनस्य मिथ्यावृत्तं प्रसारयति । शत्रून् पराजयितुं दर्शकस्य सहायताऽत्यावश्यकीति ज्ञात्वा तेन कौशलेन पद्मावत्या स ह वत्सराजस्य विवाहः विहितः । विजयानन्तरं सः पुनः राज्ञः समीपे वासवदत्ताम् आनयति । लध्वपि वाक्यं विचित्रं भावार्थं द्योतयति । भासस्य कविता –कामिनी पदविन्यासेषु यादृशं प्रकृष्टं स्थानं भजते तादृशमेव भावप्रकाशनेऽपि । भासः मानव –हृदय –विकार- मर्मज्ञः, प्रकृतिवर्णनस्य महान् शिल्पी, रसालङ्कारयोः कलापक्षस्य च प्रियः कविरिति प्रतिभाति ।

स्वप्नवासवदत्तम्

[सम्पादयतु]

नाट्यशास्त्रकृता रामचन्द्रेण स्वग्रन्थे नाट्यदर्पणम् नाम्नि स्वप्नवासवदत्तस्य विमर्शं कुर्वता "यथा भासकृते स्वप्नवासवदत्ते शेफालिकाशिलातलमवलोक्य वत्सराजः ’पादाक्रान्तानि पुष्पाणि सोष्म चेदं शिलातलम् । नूनं काचिदिहासीना मां दृष्ट्वा सहसा गता ॥’ इति उदाह्रियते ।
अस्य नाटकस्य नामकरणे पञ्चमाङ्कस्य प्रकरणमेव कारणमिति ज्ञायते, यथोक्तम् भोजदेवेन स्वग्रन्थे शृङ्गारप्रकाशे -"स्वप्नवासवदत्ते पद्मावतीमस्वस्थां द्रष्टुं राजा समुद्रगृहकं गतः पद्मावतीरहितं च तदवलोक्य तस्या एव शयनीये सुष्वाप; वासवदत्तां च स्वप्नवदस्वप्ने ददर्श ; स्वप्नायमानश्च वासवदत्तामाबभाषे। स्वप्नशब्देन चेह स्वापो वा स्वप्नदर्शनं वा स्वप्नायितं वा विवक्षितम् ।" इति । एवमिदम् अभिधातुम् शक्यम् यथा-स्वप्ने (इव)दृष्टा स्वप्नदृष्टा , स्वप्नदृष्टा चासौ वासवदत्ता च स्वप्नवासवदत्ता; ताम् अधिकृत्य कृतं नाटकम् इति "स्वप्नवासवदत्तम्" । अस्मिन् नाटके षट् अङ्काः भवन्ति । एकैकशः अङ्कगता कथा इतः परं निर्दिश्यते ।

स्वप्नवासवदत्तम्, नाटकस्य पात्राणां परिचयः

[सम्पादयतु]

अत्र नाटके अष्टौ पुरुषपात्राणि भवन्ति । १)राजा-उदयनो नाम वत्सदेशस्य नृपतिः । २)यौगन्धरायणः-उदयनस्य मन्त्री । ३)विदूषकः-वसन्तकनामा उदयनस्य नर्मसचिवः । ४)ब्रह्मचारी -लावाणकग्रामे वेदाध्ययनकर्ता छात्रः । ५)काञ्चुकीयः-मगधराजकुले सेवकः । ६)सम्भषकः-पद्मावत्याः सेवकः । ७)भटः -अन्यः पद्मावत्याः सेवकः । ८)काञ्चुकीयः-अवन्तिराजकुले भृत्यः । एते अष्टौ पुरुषपात्राणि । नव स्त्रीपात्राणि च भवन्ति । यथा-१)वासवदत्ता-अवन्तिराजपुत्री, उदयनस्य प्रथमा भार्या; आवन्तिकाऽपरनाम्नी । २)पद्मावती- मगधराजस्य दर्शकनाम्नः स्वसा ; उदयनस्य द्वितीया भार्या । ३)तापसी-मगधदेशे तपोवनप्रदेशे किमपि व्रतमाचरन्ती कापि वृद्धा । ४)कुञ्जरिका-पद्मावत्याः दासी चेटीति नाम्नी । ५)मधुकरिका -पद्मावत्याः सखी चेटी च । ६)पद्मिनिका- पद्मावत्याः चेटी । ७)धात्री- पद्मावत्याः उपमाता । ८)विजया- वत्सराजस्य प्रासादे द्वारपालिका । ९)धात्री -वासवदत्ताया उपमाता ।

प्रथमाङ्ककथा

[सम्पादयतु]

कदाचित् वत्सदेशस्य राजा उदयनः मृगयाविनोदार्थं लावाणकग्राममार्गात् महद्वनं प्रविष्टः । तदवसरे लब्धावकाशाः यौगन्धरायणप्रभृतयो मन्त्रिणः स्वामिहितार्थं महाराज्ञ्या वासवद्त्तया सह संमन्त्र्य "प्रवृत्ते ग्रामदाहे वासवदत्ता तद्रक्षणपरः यौगन्धरायणश्च भस्मीभूतौ इति वार्तां यथा राजा शृणुयात् तथा सर्वत्र प्रसारितवन्तः । स्वयं च मन्त्री यौगन्धरायणः परिव्राजकवेषं धृत्वा राज्ञीं वासवदत्तां अवन्तिदेशीयैः भूषणैर्विभूष्य गूढं देशान्तरं प्रस्थाय मगधदेशस्य राजधान्याः समीपे विद्यमानं तपोवनं प्राविशत् । तदा तत्रत्याया वृद्धतापस्याः पादवन्दनाय समागता मगधदेशराजस्य दर्शकस्य भगिनी पद्मावती तत्रोपस्थिता आसीत् । यौगन्धरायणः तां सम्प्रार्थ्य एषा मम भगिनीति नाम्ना "अवन्तिका" इति च निर्दिश्य वासवदत्तां तस्याः समीपे न्यासभूतां कृतवान् च । तदैव कस्यचिद् ब्रह्मचारिणॊ मुखात् सामात्यां वासवदत्तां अग्निदग्धां श्रुत्वा पद्मावती उदयनगुणरागवशंवदा सती तदनुरागपरवशा भवति ।

द्वितीयाङ्ककथा

[सम्पादयतु]

मन्त्रालोचनवत् कार्यं कुर्वद्भिः रुमण्वदादिभिः उदयनाय द्वितीयविवाहार्थं पद्मावत्येव कन्या व्रियते । अयं मे भगिन्या अनुरूपॊ वर इति निश्चित्य पद्मावतीभ्रात्रा दर्शकेन सा वाचा द्त्ता इति रहस्योद्भेदः संवृत्तः । तद्वृत्तान्तमाकर्ण्य यथा पद्मावत्याः कौतुकमङ्गले सर्वेषां मनः त्वरते तथा वासवदत्तायाः हृदयम् अन्धताम् अन्वभवत् ।

तृतीयाङ्ककथा

[सम्पादयतु]

"अन्धीकरोति मे हृदयम्" इति यथा पूर्वमुक्तम् तथा वासवदत्ता, परिजनेषु पद्मावत्याः कौतुकमङ्गलोत्सवेषु व्यग्रेषु सत्सु स्वयं सपत्नीशङ्काव्याकुलितमानसा मनोविनोदाय विहाराकामा प्रमदवनं गच्छति । पद्मावत्याः कौतुकमाला तु अवन्तिकया (एवं गुप्ताभिधानया वासवदत्तया) एव गुम्फनीयेति पद्मावत्या भ्रातृजायया दर्शकपत्न्या समादिष्टम् । तदर्थं च काचित् चेटी पुष्पभाजनं गृहीत्वा वासवदत्ताम् अन्विष्य तत्रागच्छति । तदभिप्रायं ज्ञात्वा पुनरपि अधिकतरमेव सन्तप्यमाना सा, पद्मावत्याः स्नेहवशंवदा समुचितकार्यव्याकुलतया तत्कार्यम् अङ्गीकरोति । मालां च गुम्फित्वा समर्पयति । तथापि विनोदम् अलभमाना सा निद्रयाऽपि शमो लभ्येत इति कृत्वा शय्यास्थानं गतवती ।

चतुर्थाङ्ककथा

[सम्पादयतु]

विवाहस्तु संवृत्तः । उदयनस्य नर्मसचिवः वसन्तकः राज्ञा सह नानाकष्टानि अनुभूयमान औदरिकः कानिचनाहानि यापयति । उदयनपद्मावत्योः विवाहप्रसङ्गेन यथेष्टाहारविहारलाभेन च सन्तृप्तः वसन्तकः कृतभोजनादीनां विपरिणामैः क्लिश्यन् भोजनमेव द्वेष्टि । अथैकदा पद्मावती सपरिवारा वासवदत्तया सह शेफालिकागुल्मकाः कुसुमिता वा न वेति परिज्ञातुं प्रमदवनं गच्छति । तत्र परस्परं संल्लापमग्ने ते उभे । अत्रान्तरे वसन्तकेन सह सम्भाषमाण उदयनोऽपि तदेव वनं प्रविशति । उदयनदृशः वासवदत्तामपवारितुकामा पद्मावती तया सह माधवीलतामण्टपं प्रविशति । शृणोति च तयोः संल्लापम् । ततः वसन्तकेन पृष्टः उदयनः वासवदत्तायां पद्मावत्यां च स्वस्य स्नेहं समानं विशदयति । पुनः पुनः तस्याः गुणान् संस्मृत्य मुह्यति च । तदा पद्मावती तत्रागत्य वसन्तकेन आनीतं जलम् तस्य मुखे संसिच्य तमुपचरति ।

पञ्चमाङ्ककथा

[सम्पादयतु]

अत्र प्रथममेव पद्मावत्याः शिरोवेदना श्रूयते । अथ परिजनः तस्याः शिरोवेदनायाः शमनाय समुद्रगृहके शयनं परिकल्पयति । उदयनोऽपि तस्या अनामयं प्रष्टुकामः विदूषकेन साकं तत्रोपस्थितः । किन्तु तत्र सा इतोऽपि नागताऽऽसीत् । उदयनोऽपि तदागमनं प्रतीक्षमाणः तस्मिन्नेव शयन उपाविशत् । निद्रापीडितश्च ततः वसन्तकात् सरसाभिः कथाभिः मनोविनोदमिच्छन् कथाकथनाय तमादिशति । वसन्तके कथां कथयति निद्रामुपगतः । वसन्तकोऽपि तदवसरे प्रावारकमानेतुं बहिर्गच्छति । अत्रान्तरे पद्मावतीं द्र्ष्टुकामा वासवदत्तापि तत्रागत्य सुप्तम् उदयनं पद्मावतीं ज्ञात्वा तस्यामेव शय्यायामुपविशति । तदा स्वप्नायितेन उदयनेन सह सम्भाषते । ततः यौगन्धरायणस्य प्रतिज्ञां स्मृत्वा कोऽपि मां पश्येदिति निष्क्रान्ता भवति । अत्रान्तरे काञ्चुकीय आगत्य दर्शकः अरुणिना परराज्ञा सह योद्धुं सन्नद्ध इति वार्ता श्राविता ।

षष्ठाङ्ककथा

[सम्पादयतु]

अरुणिना सह योद्धुं उदयनोऽपि सहकरोति । राज्यं च जितं भवति । पुनः कारणान्तरेण वासवदत्तायाः स्मृत्या शोकाविष्टं पद्मावती सान्त्वयति । अङ्गारवत्या वासवदत्तायाः मात्रा तद्विनोदाय प्रेषितं विवाहसमये लिखितं चित्रमेकं काञ्चुकीयो राज्ञे उपाहरति । तत्र वासवदत्ताचित्रे अवन्तिकासादिश्यं समुत्प्रेक्षमाणा पद्मावती निजाशङ्कां उदयनाय कथयति । यावद्राजापि अवन्तिकां द्रष्टुमुद्युक्तः तावद्यौगन्धरायणः पुनरपि ब्राह्मणवेषेण तत्रागत्य पूर्वं न्यासरूपेण स्थापितां स्वभगिनीं प्रत्यर्पयितुं प्रार्थयति । ततः क्रमेण सर्वं रहस्योद्भेदं स एव करोति । ततो राजा सर्वं वृत्तान्तं श्वशुराय महासेनाय कथयितुं वासवदत्तया साकम् उज्जयिनीं गच्छति ।

बाह्यसम्पर्कतन्तुः

[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=स्वप्नवासवदत्तम्&oldid=444107" इत्यस्माद् प्रतिप्राप्तम्