विद्धशालभञ्जिका
विद्धशालभञ्जिका | |
---|---|
श्रेणी:पुस्तकानि यस्य मुखपृष्ठं नास्ति | |
लेखकः | राजशेखरः |
देशः | भारतम् |
भाषा | संस्कृतम् |
विद्धशालभञ्जिका नाटिका नायिकायाः प्रतिकृतिं शालभञ्जिकापरपर्यायां निबध्नती नाम-सार्थक्यं धारयति । शालभञ्जिकां हि समालोक्य नायकस्य रागोऽवर्धतेति, राजशेखरस्याभिनवोद्भावना। मध्यप्रदेशस्थाय त्रिपुर्यां ९३६ ईसवीयेऽब्दे नाटिकेयं विरचिता । तत्र हि राजशेखरः कलचुरिराजसभाजितः कियन्तं चित् कालमवसत्।
कथावस्तु
[सम्पादयतु]त्रिपुर्यां कलचुरिसम्राड् विद्याधरमल्लोऽत्र नायको नायिका च मृगाङ्कावली लाटराजस्य चन्द्रवर्मणस्तनूजा बभूव सा सन्तानान्तरविहीनस्य पितुगृहे पुरुषवेषा सती पुत्रप्रेम्णा परिललिता । तदनुरूपं च सा मृगाङ्कवर्मेति नाम्ना ख्याताभवत् । त्रिलिङ्गाधिपतेः विद्याधरमल्लस्य कृते तन्मन्त्री भागुरायणस्तां चन्द्रवर्माणमयाचत । दैवज्ञगणनामनुरुध्य सा चक्रर्वर्ति पत्नी भविष्यतीति आशान्वित एव तथोपायं रचयामास भागुरायणः । असौ निद्रावसरे विद्याधरमल्लं नायिकया मृगाङ्कावहारं परिधापयामास । तामेव स स्वप्नेऽदर्शत् । स्वप्नं गलस्थहारं च नायको विदूषकं चर्चितवान् । विदूषकोऽपि प्रागेव कुवलयमालां नाम कुन्तलराजपुत्रीं प्रति नायकस्य रागमवर्धयत् । राज्याद् भ्रष्टो हि कुन्तलनृपतिश्चण्डसेनः सपरिजनो यदा नर्मदायां स्नानायावतीर्णस्तदा नायकः कुवलयमालामवालोकयत् । सापि तदा त्रिपुरीराजभवनमेव शरणं कृतवत्यासीत् ।
विदूषकः स्वप्नश्रवणानन्तरं विद्याधरमल्लस्यान्यमनस्कतां विनोदयितुं भागुरायणकारितं स्फाटिकं केलि-कैलास-मन्दिरं तं नीतवान् । तत्र तद्भित्तिलिखितां स्वप्नदृष्टायाः नायिकायाः शालभञ्जिकां प्रत्यभिज्ञायासौ तदङ्गलावण्यं प्राशंसत् -
चक्षुर्मेचकमम्बुजं विजयते वक्त्रस्य मित्रं शशी
भ्रूसूत्रस्य सनाभिमन्मथधनुर्लावण्य-पण्यं वपुः।
रेखा कापि रदच्छदे च सुतनोर्गात्रे च तत्कामिनी-
मेनां वर्णयिता स्मरो यदि भवेद् वैदग्ध्यमभ्यस्यति।।[१]
स्तुतसौन्दर्यायाः शालभञ्जिकायाः कण्ठे स तमेव हारमधारयत् । भागुरायणस्याभिसन्धिं साफल्यं नयन्तो मृगाङ्कावली तमेव केलिकैलासमध्यवसत् । रफटिकभित्तेः परतो राजा तां दर्शं दर्शमात्मानं विनोदयामास । किन्तु प्रतिभासानन्तरं सान्तर्हिता बभूव।
अथ कुटविवाहरचनानिपुणा राज्ञी वधूवेषेण चेटेन डमरुकहासेन विदूषकस्य परिणयं समपादयत्, रहस्यं च सत्वरमेव प्रकाशितम् । कुटविवाहप्रतिकाराय चिन्ता-परस्य विदूषकस्य सान्त्वनायै धात्रीदुहिता मेखला मृत्युभयं प्रदर्श्य विदूषक-पादयोर्मध्यान्निःसारितेति प्रतिशोधेन सोऽतुष्यत् । अपरं कूटविवाहं कल्पयन्ती महिषी स्वकूट-पङ्के एवावासीदिति परिहासमयी कथाये सरति।
मृगाङ्कवर्मवेषेण मृगाङ्कावली त्रिपुरीप्रासादेऽवसदिति भागरायणः प्रकटयामास । पश्चात् राज्ञी वधूवेषसम्भारीकृत्य मृगाङ्कवर्माणं राज्ञे दत्तवती । वधूपित्रोद्घाटिते रहस्ये कूटपरिणयः वास्तविको जातः । अन्यच्च राज्ञी पूर्वं कुवलयमालायाः विवाहं मृगाङ्कवर्मणा सह संकल्प्य विफलीभूतां तामपि राज्ञ एवावरोधे निधाय सन्तुष्टा बभूव।
सम्बद्धाः लेखाः
[सम्पादयतु]उद्धरणानि
[सम्पादयतु]- ↑ १.३३