सामग्री पर जाएँ

जगन्नाथः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
पण्डितजगन्नाथः
'-'
[[image:{{{भावचित्रम्}}}|250px]]
कालः क्रि.श. सप्तदशशताब्धिः
जन्मस्थानम् तैलङ्गदेशः
मरणस्थानम् दिल्ली नगरम्
भाषा संस्कृतम्
विभागः पद्यम्
काव्यनामः {{{काव्यनाम}}}
आश्रयदाता शहजहान् सर्वभौमः
आवासस्थानम् दिल्ली नगरम्
प्रमुख कृतयः रसगङ्गाधरः
भामिनीविलासः
पिता पेरुभट्टः
माता लक्ष्मीदेवी
पुत्रः

पण्डितजगन्नाथः (Pandita Jagannātha) संस्कृत भाषायाम् उत्तण्डकविरासीद् । सः शहजहान्सार्वभौमस्य आस्थाने कविरासीदित्यवगम्यते । पितुः पेरुभट्टस्य मातुर्लक्ष्म्याश्च पुत्रो तैलङ्गदेशावयवमुनागुण्डाभिधग्रामवासी वेजिनतीजातीयो जगन्नाथो गोदावरीमण्डलस्य भूषणमासीत् । तस्याभिजनं नाम 'उपद्रष्टा’ इत्यासीत् । स स्वाध्य्यनविषये स्वयं लिखति –

                                            श्रीमज्ज्ञानेन्द्रभिक्षोरधिगतसकलब्रह्मविद्याप्रपञ्चः
                                                            काणादीराक्षपादीरपि गहनगिरो यो महेन्द्रादवेदीत् ।
                                            देवादेवाध्यगीष्ट स्मरहरनगरे शासनं जैमिनीयं
                                                            शेषाङ्कप्राप्तशेषामलभणितिरभूत् सर्वविद्याधरो यः ॥

जगन्नाथः शाहजहानमकस्य मुस्लिमशासकस्य सभायामासीत् । शाहजहां १६२८ तः १६३८ ई. पर्यन्तं राज्यमकरोत् । अतो जगन्नाथस्य समयविषये कोऽपि संशयो नोदयते । शाहजहांनृपतेः पुत्रो दारासिकोहो जगन्नाथस्य पोषकः आसीत् ।

जगन्नाथः कस्यांचन यवनयुक्त्यामासक्तो जातिच्युतो भूत्वा तामुपयेमे इति प्रवादो जगन्नाथस्य नाम्ना प्रचारिताभिः कविताभितपि पुष्टिं नीयते । तस्यां मृतायां जगन्नाथो राजाश्रयं परित्यज्य मथुरामायातो यत्र तस्य १६७४ ई. वर्षे मृत्युरभवत् । मृत्योः पूर्वं स प्रायश्चितं कर्तुमपि सन्नध्द आसीत् परं तत्कालप्रसिध्दौ पण्डितौ भट्टोजिदीक्षिताप्पय्यदीक्षितौ नानुमेनाते । तत्र कारणं तयोर्जगन्नाथेन सहशास्त्रीयमतभेद एवोच्यते ।

देशकालः

[सम्पादयतु]

पण्डितराजो जगन्नाथः क्रि. श. सप्तदशशतके तैलङ्गदेशे जनिमलभत ।

अस्य पिता पेरुभट्टः, माता च लक्ष्मीदेवी । पेरुभट्टः महापण्डितः आसीत् । जगन्नाथपण्डितविषये अनेकाः दन्तकथाः प्रचलिताः भवन्ति । अस्य यवनतरुणीसम्बन्धं वर्णयन्तः बहवः श्लोकाः समुपलभ्यन्ते । परन्तु अस्मिन् विषये सुदृढं प्रमाणं नोपलभ्यते ।

जगन्नाथेन बहवो ग्रन्थाः विरचिताः । अलङ्कारशास्त्रे अनेन विरचितः रसगङ्गाधरः सर्वानपि प्राचीनालङ्कारग्रन्थानतिशेते । जगन्नाथः न केवलं कविः शास्त्रज्ञ: च अपि तु महान् भगवद्भक्तोऽपि बभूव । तन्निर्मिताः पञ्चलहर्यः तस्य भगवद्भक्तिं सूचयन्ति ।

  1. गङ्गालहरी गङ्गायाः,
  2. आमृतलहरी यमुनायाः,
  3. सुधालहरी सूर्यस्य,
  4. करुणालहरी विष्णोः,
  5. लक्ष्मीलहरी लक्ष्म्याश्च स्तुतये निबध्दाः ग्रन्थाः ।

अन्यग्रन्थाः

[सम्पादयतु]

प्रशंसा

[सम्पादयतु]

जगन्नाथः दिल्लीश्वरस्य शहजहान् -सार्वभौमस्य तत्पुत्रस्य दाराशिकोहस्य च बहुमानपत्रं बभूव । भामिनीविलासनाम्नि ग्रन्थे जगन्नाथः स्वयमेव कथयति -

"सार्वभौम श्री शहजहांप्रसादाधिगतपण्डितराजपदवीराजितेन-" इति ।

जगन्नथपण्डितः अप्पय्यदीक्षितानां समकालिकः इति प्रवादोऽपि प्रमाणकोटिं नाधिरोहति ।

सम्बद्धाः लेखाः

[सम्पादयतु]
"https://sa.wikipedia.org/w/index.php?title=जगन्नाथः&oldid=478137" इत्यस्माद् प्रतिप्राप्तम्