वैदर्भी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः



बन्धपारुष्यरहिता शब्दकाठिन्यवर्जिता ।
नातिदीर्घ समासा च वैदर्भीरीतिरिष्यते ॥

रचनागतं शब्दगतं वा काठिन्यं यत्र न विद्यते, यत्र च रचना असमासाः अल्पसमासाः वा भवति तत्र वैदर्भीरीतिरित्यर्थः । यथा –

वितरणगुणलीलातोषिताशेषलोके
विभवति नरनाथे काकतीयान्वयेन्दौ ।
सुरतरुगणनायां कामधेनुप्रसङ्गे
क्षितिसुरजनतेयं वीतकौतूहलासीत् ॥

अत्र बन्धपारुष्यस्य शब्दकाठिन्यस्य वाऽदर्शनात् नातिदीर्घसमासत्वात् वैदर्भीरीतिर्भवति ।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=वैदर्भी&oldid=419399" इत्यस्माद् प्रतिप्राप्तम्