वैदर्भी
दिखावट
- बन्धपारुष्यरहिता शब्दकाठिन्यवर्जिता ।
- नातिदीर्घ समासा च वैदर्भीरीतिरिष्यते ॥
रचनागतं शब्दगतं वा काठिन्यं यत्र न विद्यते, यत्र च रचना असमासाः अल्पसमासाः वा भवति तत्र वैदर्भीरीतिरित्यर्थः । यथा –
- वितरणगुणलीलातोषिताशेषलोके
- विभवति नरनाथे काकतीयान्वयेन्दौ ।
- सुरतरुगणनायां कामधेनुप्रसङ्गे
- क्षितिसुरजनतेयं वीतकौतूहलासीत् ॥
अत्र बन्धपारुष्यस्य शब्दकाठिन्यस्य वाऽदर्शनात् नातिदीर्घसमासत्वात् वैदर्भीरीतिर्भवति ।