काव्यरीतयः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search


विशिष्टायाः पदरचनायाः रीतिः इति नाम । राष्ट्रे देशे वा सर्वत्र वर्तमानाः जनाः एकविधामेव पदरचनां न कुर्वन्ति । पदरचना तावत् तत्तत्कवीनामभिरुचिमाधारीकृत्य प्रवर्तते । स्थानभेदं प्रदेशभेदं वा समभिलक्ष्य तत्तद्रीतीनां तानि तानि नामान्यासन् ।

रीतेर्भेधाः[सम्पादयतु]

भामहात् पूर्वं वैदर्भी, गौडी नामके द्वे एव रीती वर्तेते इति, तयोर्वैदर्भी उत्तमा रीतिरिति, गौडी, अधमा रीतिरितिच सम्भाव्यते स्म । भामहस्तु रीत्योर्मध्ये उत्तमाधमभावं निरस्य, यदि वक्रोक्तिस्स्यात् तदा या कापि रीतिरुपादेयैवेति प्रत्यपादयत् । दण्डी रीतिशब्दस्य स्थाने मार्ग- वर्त्मशब्दावुपायुङ्क्ते । सः वैदर्भी गौडी नामकं मार्गद्वयमेव स्वीकृत्य तौ मार्गौ गुणैः प्रादुर्भवत् इत्यवोचत् । वामनो वैदर्भी गौडीभ्यां पाञ्चालीरीतिमप्यङ्गीकृत्य, गुण्संघटनात्मिका भवति रीतिरिति, सैव काव्यात्मेति च निरणैषीत् । सः, अलङ्काराः काव्यसौन्दर्याऽभिवर्धकाः इत्यमन्यत । रुद्रटो लाटीनाम्नीं चतुर्थीं रीतिमङ्गीचकार । भोजः सरस्वतीकण्ठाभरणे पूर्वोक्तानां चतुसृणां रीतीनां, मागधी- अवन्ती नामकं रीतिद्वयं अतिरिक्तमङ्गीकृत्य, आहत्य षड्रीतीरङ्गीचकार । शारदातनयो रीतयः प्रतिपुरुषं प्रतिवचनं च भिन्नभिन्ना भवन्तीति, कैश्चित् पञ्चोत्तरशतं रीतयः प्रोक्ता इति, परं प्राधान्येन चतस्रो रीतयोऽङ्गीकर्तव्या भवन्तीति चाऽकथयत् । ग्रन्थकर्तृननुसृत्य रीतयः प्रादुर्भवन्तीति तस्याशयः । परं तन्नसमीचीनम् । रसानुकूलतामाश्रित्य केवलं रीतयो भवन्ति, न तु तत्कर्तृन् । विद्यानाथ- नरसभूपालीयकर्तारौ वामनमनुसृत्य तिस्रो रीतीरभ्युपागच्छताम् ।


यद्यपि रीतिमतं प्रथमं दण्डिनैवाऽऽविष्कृतं तथापि तस्य हेतुवादबलेन दार्ढ्यसम्पादको वामनः एव । सः विशिष्टा (गुणसहिता) पदरचना रीतिरिति, सूक्ष्मैस्तन्तुभिः रज्जुरिव गुणसमुदायेन रीतिः प्रादुर्भवतीति, रीतिरेव काव्यस्य आत्मेति च स्पष्टमकथयत् । तस्य मतेरसापेक्षयाऽपि रीतेरेव प्राधान्यम् । आनन्दवर्धनो रीतिवादमनङ्गीकृत्य वस्त्वलङ्काररसात्मको ध्वनिरेव काव्यस्याऽऽत्मेति, शौर्यधैर्यादयो यथा आत्मनो धर्मा भवन्ति, तथा माधुर्यादिगुणास्तत्समुदायात्मिका रीतयश्च आत्मभूतरसधर्माः भवन्तीति च न्यरुपयत् । स रीतिं संघटनाशब्देन व्यवहृत्य सा प्रायशो रसानुसारिणी भवति, कदाचित्तु वक्तृ –वाच्य- प्रबन्धौ चित्यमनुसृत्यापि प्रवर्तत इत्युक्तवान् । अत्र वक्तृ- वाच्य- प्रबन्धौचित्यं नाम तदाश्रितरसौचित्यमेव ग्राह्यं वक्ता कविस्तन्निबध्दो नायको वा स्यात् । वाच्यो नाम वर्णनीयो विषयः । प्रबन्धो नाम काव्यभेदः । एवं च नायकं वर्णनीयविषयं काव्यभेदं च नाटकादिरुपमाधारीकृत्य, तदनुगुणं संघटना प्रयोज्येतिः, आनन्दवर्धनस्याऽऽशयः । पाश्चात्येष्वपि डेमिट्रियन् मुर्रे प्रभृतयः काव्यशैली तावत् वक्तृ –वाच्यानुसारिणी भवेदित्यकथयन् । केशवमिश्रोऽपि रीतयस्तत्तद्रसोपस्कारिका भवेयुरिति समसूचयत् । कलापूर्णोदयकाव्यकर्ता पिङ्गलिसूरन्ननामा आन्ध्रभाषाकविरपि रीतयो रसभावानुगुणा भवेयुरिति प्रतिपादितवान् । परमान्ध्रभाषाकविरपि रीतयो रसभावानुगुणा भवेयुरिति प्रतिपाद्तवान् । परमान्ध्रभाषाप्रबन्धनिर्मातारः केचन कवयः वक्तृवाच्यप्रबन्धौचित्यमानादृत्य यथेच्छं दीर्घसमासबहुलां संघटनां रीतिं चादृतवन्तः । परमालङ्कारिकनियमाननुसृत्य रसाननुगुणरीतिप्रयोगो निन्द्य एव भवति । उपात्ता रीतिरभिव्यञ्जनीयस्य रसस्य, अनुपस्कारिका भवतीत्येवात्र दोषः ।

विद्यानाथः प्रतापरुद्रीये गुणाश्लिष्टां पदसंघटनां रीतिमुक्त्वापि, तस्या रसानुबुणत्वमावश्यकमिति न निर्दष्टवान् । दण्डिवामनौ यद्यपि रीतिप्रस्थाननिर्मातारौ रीतिप्राधान्यवादिनौ च भवतस्तथापि तौ रसप्राधान्यं नाङ्गीकृतवन्तौ । अतस्तौ रीति – गुणानां रससम्बन्धमधिकृत्य स्पष्टं न किञ्चिदवोचताम् । परं रसधर्मा गुणाः, गुणसमुदायात्मिकाः रीतयश्च रसानुगुणाः अवश्यं भवेयुरिति कथनं समुचितं युक्तिसङ्गतां च भवति ।

"https://sa.wikipedia.org/w/index.php?title=काव्यरीतयः&oldid=372628" इत्यस्माद् पुनः प्राप्तिः