हेमचन्द्राचार्यः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search
आचार्यः
हेमचन्द्रः
सूरीजी
Hemachandra
मातृकाग्रन्थे प्राप्यं हेमचन्द्राचार्यस्य छायाचित्रम्
Official name आचार्यः हेमचन्द्रः सूरी
Religion जैनधर्मः
Sect श्वेताम्बरः
Personal
Born चाङ्गदेवः
1088 ई.
धंधुका
Died 1173 ई.
अन्हिलवाड-पाटण
Parents चाचिङ्गा, पहिनीदेवी
Religious career
Initiation सोमचन्द्रः
खम्भात
by देवचन्द्रसुरी

हेमचन्द्रः(गुजराती: હેમચન્દ્ર, आङ्ग्ल: Hemachandra ) कश्चन संस्कृतस्य आलङ्कारिकः वर्तते । एतस्य जन्मनाम चङ्गदेवः इति । ४७ वर्षाणि एषः जीवनं यापितवान् । एतेन काव्यानुशासनम् इति ग्रन्थः लिखितः ।

यथा शिवाजी रामदासेन विना, विक्रमः कविकुलगुरुकालिदासेन विना, भोजः धनपालेन विना शून्यः आसीत् तथैव सिद्धराजकुमारपालौ हेमचन्द्राचार्येण विना शून्यौ आस्ताम् । ९०० वर्षेभ्यः प्राक् गुर्जर-प्रान्ते प्रतापिनां सोलङ्कीवंशीयानां राज्ञां शासनम् आसीत् । तेषां शासने पाटण-नगरं गुर्जर-प्रान्तस्य केन्द्रम् आसीत् । कालान्तरे सोलङ्कीराज्ञा कर्णदेवेन नूतनस्य कर्णावती-नगरस्य निर्माणं कृतं, शासनस्य केन्द्रत्वेन तस्य स्थापनं च कृतम् । तस्य शासने सम्पूर्णे राज्ये जनाः सदाचारं, न्यायं, नीतिं च अनुसरन्ति स्म । तस्मिन् वंशे राज्ञः सिद्धराजजयसिंहस्य जन्म अभवत् । तस्य शासने सर्वत्र व्यापारवृत्तिः चलति स्म । सा च वृत्तिः मूलतया वणिक्जातेः हस्तगता आसीत् । ते च जैनधर्मम् अनुसरन्ति स्म ।

जन्म, परिवारश्च[सम्पादयतु]

1089 तमस्य वर्षस्य नवम्बर-मासे वा दिसम्बर-मासे (वि.सं ११४५ तमस्य वर्षस्य कार्त्तिक-मासस्य शुक्लपक्षस्य पूर्णिमायां तिथौ) कर्णावती-नगरस्य धन्धुका-ग्रामे जैनधर्मपालके कुटुम्बे एकस्य बालकस्य जन्म अभवत् । तस्य नाम चाङ्गदेव इति । कालान्तरे स एव हेमचन्द्र अभवत् । तस्य पितुः नाम चामिग, मातुः नाम पाहिणी च आसीत् ।

बाल्यम्[सम्पादयतु]

चाङ्गदेवः बाल्याकालादेव जैनमन्दिरं गच्छति स्म । उपाश्रयं गत्वा धर्मकथाञ्च शृणोति स्म । एकदा चाङ्गदेवः मित्रैः सह क्रीडितुम् अगच्छत् । नियमानुसारं सर्वाणि मित्राणि जैनमन्दिरे दर्शनं कृत्वा उपाश्रयं प्रति अगच्छन् । उपाश्रयं गच्छन्तः “प्राक् धर्मकथां शृण्मः अनन्तरं क्रीडामः” इति सर्वे निश्चितवन्तः । उपाश्रयं प्राप्य गुरुं च प्रणम्य बालकाः धर्मकथायाः क्रीडायां क्रीडारताः अभूवन् । तस्यां क्रीडायाम् एकः व्याख्याता, अन्ये च श्रावकाः अभूवन् । तत्र चाङ्गदेवः व्याख्यातृपदम् आलङ्करोत् । तदा देवचन्द्रसूरिनामकः महात्मा तत्र समागतः । चाङ्गदेवं प्रवचनस्य पीठे आरूढं दृष्ट्वा सः अपि आश्चर्यचकितः अभवत् । महात्मा चाङ्देवस्य ललाटं दृष्ट्वा अयं बालकः महापुरुषः भविष्यति इति अकथयत्, श्रावकान् तस्य पित्रोः विषये अपृच्छत् च । ततः परम् “अयं बालकः धर्मकार्याय जातः अस्ति । अतः एनं मह्यं ददातु” इति महात्मा पितृभ्याम् अयाचत । माता पाहिणी स्वस्याः अहोभाग्यं मत्वा सोत्साहं स्वपुत्रं महात्मने अयच्छत् ।

प्रथमः विहारः[सम्पादयतु]

देवचन्द्रसूरिणा धन्धुका-ग्रामात् चाङ्गदेवेन सह विहारस्य आरम्भः कृतः । ततः तौ स्तम्भनपुरम् अर्थात् अद्यतनं खम्भात-नगरं प्राप्तवन्तौ । तदानीं गुर्जर-प्रान्तस्य केन्द्रं कर्णावती-नगरम् आसीत् । तस्य अमात्यः उदयन आसीत् । सः स्तम्भनपुरस्य कार्यभारं वहति स्म । स्वेन सह चाङ्गदेवः स्तम्भनपुरम् आगच्छति इति देवचन्द्रसूरिः उदयनम् असूचयत् । अतः मन्त्रिणा चाङ्गदेवस्य स्वागतं कृतम् ।

दीक्षायै पितुः अनुमतिः[सम्पादयतु]

मुनिना सह चाङ्गदेवस्य गमनविषये अज्ञः पिता गृहं प्रतिगत्वा “क्व गतः मे चाङ्गः?” इति स्वपत्नीम् अपृच्छत् । पत्नी घटितं वृत्तं श्रावितवती । वृत्तं श्रुत्वा द्वीतीये दिवसे पिता स्तम्भनपुरं गतः । तत्र गत्वा “मम पुत्रः साधुः भवेत् इति नेच्छामि” इति आचार्यम् असूचयत् । आचार्यः देवचन्द्रसूरिः चामिग इत्येतम् उद्बोधितवान् किन्तु सः न आवगच्छत् । ततः परं मन्त्री उदयन तं नीतिपूर्वकं सत्यम् औपदिशत् । चामिग सर्वम् आवगच्छत् दीक्षायै अनुज्ञां च अयच्छत् ।

अध्ययनं दीक्षा च[सम्पादयतु]

चाङ्गदेवः स्तम्भनपुरे निवासं कृत्वा, गुरोः देवचन्द्रसूरिणः आज्ञया अनेकानां शास्त्राणाम् अध्ययनम् अकरोत् । अनन्तरं नववर्षस्य वयसि सः सोत्साहं दीक्षाम् अगृण्हत् । दीक्षान्ते देवचन्द्रसूरिः चाङ्गदेवाय सोमचन्द्र इति नाम अयच्छत् ।

संन्यासिजीवनम्[सम्पादयतु]

मुनिना सोमचन्द्रेण साधुजीवनस्य आरम्भः कृतः । गुरुसेवा, देवेषु श्रद्धा, धर्मस्य पालनम् इत्येते विषयाः तस्य जीवनलक्ष्यम् अभवत् । आद्वादशवर्षं न्यायव्याकरणसाहित्यसदृशां गहनविषयाणां, विश्वस्य पृथक्-पृथक् धर्मशास्त्राणां च अभ्यासं कृत्वा सः विद्वान् अभवत् । अभ्यासान्ते तस्य मनसि नूतनग्रन्थनिर्माणाय विचारः समुद्धृतः । तदर्थं किं करोमि इति सः गुरुम् अपृच्छत् । गुरुः देवचन्द्रसूरिः काश्मीर-नगरं गत्वा सरस्वती-देव्याः साधनां कुरु इति असूचयत् । गुरोः आज्ञां मनसि निधाय सोमचन्द्रः देव्याः साधनां कर्तुम् आवर्षं काश्मीर-नगरे स्थितवान् । भगवती प्रसन्ना भूत्वा वरं प्रदत्तवती । ततः परं मुनिः सोमचन्द्रः विद्याशक्तिभ्याम् अलङ्कृतः अभवत् । सः स्वस्य अपूर्वकान्त्या विद्वत्सभासु शोभमानः अभवत्, सर्वत्र स्वप्रभावं च प्रासारयत् । शिष्यस्य योग्यतां दृष्ट्वा, जैनसमाजस्य अग्रणिजनानां कथनेन च सोमचन्द्र इत्यस्मै आचार्यपदं प्रदातुं गुरणा निर्णयः कृतः । विक्रम सं. ११६६ वैशाखशुक्लतृतीयायाः दिवसे राजस्थानराज्यस्य नागौर-नगरे जैनाः सोमचन्द्र इत्यस्मै समहोत्सवम् आचार्यपदं दत्त्वा हेमचन्द्र इति उपाधिम् अददन् ।

हेमचन्द्र इति उपाधिप्रदानस्य कारणम्[सम्पादयतु]

हेमचन्द्र इति नाम प्रदाने एका लघुकथा अस्ति । पाटण-नगरे धनदनामकः कश्चन व्यापारी वसति स्म । सः एकवारं सोमचन्द्रं स्वगृहम् आहूतवान् । सोमचन्द्रः एकेन वृद्धेन साधुना सह व्यापारिणः गृहम् अगच्छत् । तत्र सः अङ्गारकसमूहं हेमसमूहम् इव अपश्यत् । तत् वृत्तं धनदम् असूचयत् । व्यापारी धनदः इदं वृत्तं देवचन्द्रसूरिणम् अकथयत् । सोमचन्द्रस्य नाम हेमचन्द्रः भवेदिति प्रार्थयत् च । अतः सोमचन्द्रः हेमचन्द्र इति उपाधिं प्रापत् । आचार्यपदं प्राप्तवान् अतः विश्वस्मिन् हेमचन्द्राचार्य इति नाम्ना विख्यातः अभवत् । इदं प्रसङ्गं श्रुत्वा तस्य माताऽपि संन्यासम् अगृह्णत् । सा साध्वीजीवने गूढम् अध्ययनम् कृत्वा वि.सं १२११ तमे वर्षे कालधर्मं प्रापत् ।

सिद्धराजहेमचन्द्रयोः मेलनम्[सम्पादयतु]

सिद्धाराजः कुशलः राजा धर्मरसिकः विद्यारसिकश्च आसीत् । अतः धर्माचार्याणां पण्डितानाम् आवाहनं कृत्वा सभाः आयोजयति स्म । सभासु धर्मकथाः, धर्मसम्बन्धिन्यः वार्ताः, शास्त्रार्थं च कारयति स्म । एकदा राजा सभायां देवचन्द्रसूरिणम् आह्वयत् । देवचन्द्रसूरिणा सह हेमचन्द्रः अपि सभां गतवान् । यदा राज्ञा विदुषोः देवचन्द्रसूरिकुमुदचन्द्रयोः शास्त्रार्थः आयोजितः तदा देवचन्द्रसूरिणः विजयः अभवत् । तस्मिन् हेमचन्द्रस्यापि योगदानम् आसीत् । अतः हेमचन्द्रः राज्ञः, सभाजनानां च प्रीतिपात्रः अभवत् । तत्र सिद्धराजहेमचन्द्रयोः मेलनम् अभवत् ।

सिद्धराजहेमचन्द्रयोः प्रगाढः सम्पर्कः[सम्पादयतु]

कालान्तरे हेमचन्द्राचार्यस्य ख्यातिवशात् सिद्धराजः धर्मविषयकचर्चायै तम् आह्वयत् । चर्चायां हेमचन्द्राचार्यः आत्मा, परमात्मा, पुण्यं, पापं, स्वर्गः, नरकं, जन्म, मरणम् इत्येतेषां सर्वेषां विषयाणां तात्विकचर्चया राजानम् असन्तोषयत् । तस्माद्दिनात् उभयोः प्रगाढः सम्पर्कः अभवत् ।

सिद्धहेमव्याकरणस्य रचना[सम्पादयतु]

एकदा सिद्धराजेन मालवा-नगरं पराजितं, ततः धनादिकं च लुण्ठितम् । तस्मिन् भोजराजस्य संस्कृतस्य व्याकरणम् अपि आसीत् । राजसभायां विद्वद्भिः तस्य व्याकरणस्य बहुप्रशंसा कृता । सिद्धराजः ताम् प्रशंसाम् सोढुं न अशक्नोत् । सः क्रोधाविष्टः अभवत्, भोजराजस्य व्याकरणात् श्रेष्ठतमं व्याकरणं निर्मातुं समर्थः मम राष्ट्रे कश्चन अस्ति न वा इति अपृच्छत् च । तत् श्रुत्वा विद्वद्भिः हेमचन्द्राचार्यस्य नाम प्रदत्तम् । राजा श्रेष्ठतमं व्याकरणं निर्मातुं हेमचन्द्राचार्यम् प्रार्थयत् । राज्ञः प्रार्थनां श्रुत्वा हेमचन्द्राचार्यः ग्रन्थस्य रचनां कर्तुं सामग्रीः अयाचत, कार्यं च आरभत । एकवर्षस्य कठोरपरिश्रमान्ते आचार्यस्य ग्रन्थरचनायाः कार्यं सम्पन्नम् अभवत् । तस्मिन् ग्रन्थे व्याकरणस्य सर्वे विषयाः आवृत्ताः आसन् । तस्मिन् ग्रन्थे लक्षाधिकपञ्चविंशतिः श्लोकाः सन्ति यत्र अपभ्रंशप्राकृतयोः भाषयोः व्याकरणमपि आवृत्तम् अस्ति ।

सिद्धहेम इति नामप्रदानस्य कारणम्[सम्पादयतु]

हेमचन्द्राचार्यः व्याकरणस्य ग्रन्थं सिद्धराजस्य आज्ञया लिखितवान्, अतः आत्मना सह राज्ञः नाम अपि अङ्कितं भवेत् इति व्यचारयत् । अतः ग्रन्थाय सिद्धहेम इति नाम अददात् । तस्मिन् ग्रन्थे शब्दानाम् अनुशासनमस्ति, अतः ग्रन्थाय सिद्धहेमशब्दानुशासनम् इति नाम अयच्छत् । सिद्धराजः ग्रन्थं हस्थिनः उपरि स्थापयित्वा पाटण-नगरे शोभायात्राम् अकरोत् । कालान्तरे सुवर्णाक्षरैः तस्य टङ्कणं, मुद्रणम्, अभ्यासक्रमे चयनं च अभवत् । साम्प्रतं सः ग्रन्थः सिद्धहेम इति लघुनाम्ना विख्यातः अस्ति ।

सिद्धहेमस्य पत्रनिर्माणं पाठशालोद्घाटनं च[सम्पादयतु]

अस्य व्याकरणस्य प्रचारार्थं सिद्धराज्ञा बहूनि पत्राणि निर्मितानि । तानि च पत्राणि भारतस्य प्रत्येके राज्ये, नेपालदेशे, श्रीलङ्कादेशे, इरानदेशे च प्रेषितानि । व्याकरणमिदं पठितुं पाटण-नगरे एका पाठशाला निर्मिता । तत्र क्ककल नामा विद्वान् पण्डितः अध्यापयति स्म । पाठशालायां प्रतिमासस्य पञ्चम्यां छात्राणां परीक्षा भवति स्म, यस्याम् उत्तीर्णे सति राज्यात् छात्राय पुरस्कारः दीयते स्म ।

सिद्धराजस्य प्रश्नः हेमचन्द्राचार्यस्य उत्तरम्[सम्पादयतु]

एकदा विद्वत्सभायां सिद्धराजः जगति सत्यः धर्मः कः इति प्रश्नम् अपृच्छत् । तदानीं प्रत्येकं धर्मविद्वान् स्वधर्मस्य सत्यतां प्रादर्शयत् । किन्तु हेमचन्द्राचार्यः भिन्नम् उत्तरम् अददात् । सः अवदत् प्रप्रथमम् एकां कथां श्रावयामि इति । शङ्खपुर-नामनि ग्रामे शङ्खनामा व्यापारी वसति स्म । तस्य पत्नी यशोमतिः आसीत् । शङ्खः येन केनापि कारणेन स्वपत्न्या सह अधिकं न वदति स्म । दिनस्य अधिकं समयं सः बहिरेव वसति स्म । सः बहिः वसति अतः यशोमतिः खिन्ना आसीत् । स्वपतिः स्ववशे भवेत् तदर्थं यशोमतिः उपायान् विदधाति स्म किन्तु सफला न भवति स्म । एकदा ग्रामे योगिन्यः आगताः, तासु एकया योगिन्या यशोमत्यै मन्त्रः प्रदत्तः । तेन मन्त्रेण अभिमन्त्रितं जलं यं कम् अपि पाययेत् सः वशे भवेत् इति मन्त्रस्य शक्तिः आसीत् । तत् श्रुत्वा यशोमतिः स्वपतिं जलम् अपास्यत् । जलं पित्वा पतिः वृषभः अभवत्, तदन्ते यशोमतिः तं यत्र नेतुं वाञ्छति स्म सः तत्रैव गच्छति स्म । यत्र चारयति स्म तत्र चरति स्म । यशोमतिः स्वपतिं कार्याय प्रेरयति स्म, सः प्रेरितश्च भवति स्म । किन्तु अनेन जनाः यशोमतिं धिक्कारयन्ति स्म । अतः सा पुनः खिन्ना अभवत्, योगिनीम् अन्वेष्टुं प्रारभत च । किन्तु साऽपि ग्रामात् निर्गता । यशोमतिः प्रतिदिनं क्षेत्रं गत्वा दुःखेन दिवसं यापयति स्म । एकदा सा वृक्षस्य अधः उपविष्टा आसीत् । तदा शिवपार्वत्यौ आकाशमार्गेण निर्गतौ । पार्वती स्वपतिम् अपृच्छत् इयं स्त्री किमर्थं रोदिति ? भगवता शिवेन उक्तम् हस्ताभ्याम् कृतम् कार्यम् हृदये अङ्कितम् अभवत् । पार्वती पुनः अपृच्छत् अस्य उपायः अस्ति खलु । भगवता उक्तम् अस्योपायः तस्याः क्षेत्रे एव अस्ति । तस्याः क्षेत्रे एका औषधिः अस्ति । तस्याः भक्षणेन वृषभः पुनः मनुष्यः भविष्यति इति । यशोमत्या क्षेत्रस्य सर्वाः औषध्यः भक्षणार्थं वृषभत्वेन स्थितस्य स्वपत्युः पुरतः स्थापिताः । अतः वृषभत्वेन स्थितः तस्याः पतिः पुनः मनुष्यत्वं प्रापत् । हेमचन्द्राचार्यः कथान्ते अवदत् - राजन् यथा यशोमतिः क्षेत्रस्य औषधिषु मनुष्यत्वं प्रदातुं गुणयुताम् औषधिम् अन्वेष्टुं यावत् कष्टम् असहत, तावत् सत्यः धर्मः कः इति ज्ञातुम् इच्छुकेन अपि सोढव्यं भवति इति । यदि सर्वासु औषधिषु एकया औषध्या वृषभः मनुष्यः अभवत् तर्हि सर्वेषां धर्माणाम् अध्ययनेन सत्यधर्मस्य ज्ञानं भवितुं शक्यम् इति । आचार्यस्य एतादृशं तटस्थं भावपूर्णम् उत्तरं श्रुत्वा राजा प्रसन्नः अभवत् ।

मार्गदर्शकत्वेन हेमचन्द्राचार्यस्य स्वीकारः[सम्पादयतु]

हेमचन्द्राचार्यस्य गुणैः प्रभावितः सिद्धराजः आत्मनः परममित्रत्वेन, मार्गदर्शकत्वेन च तस्य स्वीकारम् अकरोत् । हेमचन्द्राचार्यस्य कथनेन सिद्धराजः स्वराज्ये हिंसायाः, विधवास्त्रीणां धनहरणस्य च प्रतिबन्धम् अकरोत् ।

सिद्धराजस्य पुत्रकाम्या सोमनाथयात्रा[सम्पादयतु]

सिद्धराजस्य वंशजः (पुत्रः) नासीदतः पुत्रकाम्या सः सोमनाथयात्राम् अगच्छत् । सः हेमचन्द्राचार्याय निमन्त्रणम् अददात् । हेमचन्द्राचार्यः तस्य निमन्त्रणं स्वीकृत्य शत्रुञ्जयपर्वतस्य, गिरनारपर्वतस्य च मार्गेण सोमनाथः गन्तव्यः इति आदिशत् । हेमचन्द्राचार्यस्य इच्छायै मानं दत्त्वा राजा पालिताणा-ग्रामस्य विख्यातं जैनतीर्थं शत्रुञ्जयं गत्वा तत्र पूजां भक्तिं च अकरोत् । ततः गिरनारपर्वतम् अगच्छत् । तत्र जैनमन्दिरस्य रमणीयतां दृष्ट्वा राजा मन्दरस्य निर्मापयितुः प्रशंसाम् अकरोत् । निर्माणकारः अकथयत् इदं मन्दिरं भवतः राजकोशस्य धनेन निर्मितम् अस्ति तद् मया भवते दातव्यम् इति । इदानीं भवान् पुण्यम् इच्छति वा धनम् ? राजा पुण्यं स्वीकृतवान् । ततः तौ यात्रायाः मुख्यं स्थानं सोमनाथं प्राप्तवन्तौ । तत्र तौ मन्दिरं गतौ । आचार्येण मन्दिरे अर्थगर्भिता प्रार्थना कृता । इत्थम् उभावपि निकटवर्तिनौ अभवताम् । मन्दिरस्य पुनरुद्धारं कर्तुम् हेमचन्द्रः राजानम् अप्रेरयत् ।

कोडिनार-नगरे सिद्धराजस्य आराधना[सम्पादयतु]

अन्ते तौ कोडिनार-नगरं गतौ । तत्र अम्बिका देव्याः स्थानम् आसीत् । राजा देव्याः आराधनाम् अकरोत् । भगवती प्रसन्ना भूत्वा राजानम् अकथयत् हे राजन् ! शापवशाद् तव गृहे पुत्रजन्म न भविष्यति, कुमारपालः तव राज्यशासकश्च भविष्यति इति । सिद्धराजः अन्तिमं कालं यावत् सन्ततिं न प्राप्तवान् । राज्यासनं कः स्वीकरिष्यति इति चिन्तायां सः दिनानि यापयति स्म ।

कुमारपालं मारयितुं सिद्धराजस्य प्रयत्नाः[सम्पादयतु]

अनेकैः कारणैः त्रिभुवनदासस्य पुत्रः कुमारपालः सिद्धराजस्य राज्यासनं स्वीकर्तुं योग्यः आसीत् । किन्तु तद् सिद्धराजः नेच्छति स्म । सः कुमारपालं मारयितुं बहून् प्रयत्नान् अकरोत् । किन्तु चतुरः कुमारपालः वशी न भवति स्म । एकदा राज्यस्य शासनविषये ज्ञातुं कुमारपालः गुप्तवेषेण पाटण-नगरे भ्रमन् आसीत् । तत् ज्ञात्वा सिद्धराजः कुमारपालं वशीकर्तुं सैनिकान् प्रेषितवान् । किन्तु कुमारपालः ततः निर्गतः । कतिचित् मासान्ते कुमारपालः संन्यासी भूत्वा पुनः पाटण-नगरं गतः । तं सन्देशं प्राप्य सिद्धराजः कुमारपालं वशीकर्तुं संन्यासिभ्यः भोजनार्थं निमन्त्रणं प्रैषयत् । भोजनात् प्राक् संन्यासिनां पादप्रक्षालनाय गुप्तचराः योजिताः । गुप्तचराः कुमारपालस्य पदयोः राजचिह्नस्य आधारेण तम् अजानन् । किन्तु चतुरः कुमारपालः ततः निर्गच्छन् हेमचन्द्राचार्यस्य उपाश्रयम् अगच्छत् । हेमचन्द्राचार्यः कुमारपालः अपराधी नास्ति भावी राजा अस्ति इति जानाति, अतः तं ताडपत्राणामधः रक्षितवान् । रात्रौ ततः तस्य पलायनम् अकारयत् ।

पुनः हेमचन्द्राचार्यस्य आश्रये कुमारपालः[सम्पादयतु]

एकदा हेमचन्द्राचार्यः पाटण-नगरात् विहारं कुर्वन् स्तम्भनपुरं गतः । हेमचन्द्रस्य चातुर्मासव्रतं तत्र एव आसीत् । पलायितः कुमारपालः स्तम्भनपुरं गतः । हेमचन्द्राचार्यः तत्रापि तस्मै आश्रयम् अयच्छत् । आचार्यः तम् उपाश्रयस्य गुहायाम् अरक्षत् । सा गुहा अद्यापि तत्र अस्ति । तदनन्तरम् आचार्यः कष्टस्य शमनं यावत् राज्यात् बहिर्गन्तुं कुमारपालम् आदिशत् । कुमारपालस्य साहाय्यार्थम् उदयनम् असूचयत् । इत्थं कुमारपालः गुर्जरप्रान्ताद् बहिः अगच्छत् ।

उदयनसिद्धराजयोः मृत्यृः[सम्पादयतु]

एकस्मिन् युद्धे उदयनस्य मृत्युः अभवत् । तदनन्तरं तस्य पुत्रौ वाग्भट्टः आम्रभट्टश्च मन्त्रीत्वेन चितौ । तौ अपि सिद्धराजस्य प्रीतिपात्रौ अभवताम् । तौ अन्येषां मन्त्रिणां, प्रजानां च प्रीतिपात्रौ अभवताम् । उदयनस्य मृत्योः अल्पीयसि काले 1143 तमे वर्षे सिद्धराजस्य मृत्युः अभवत् ।

कुमारपालस्य राज्याभिषेकः[सम्पादयतु]

सिद्धराजस्य मृत्योः सन्देशं प्राप्य कुमारपालः सज्जः सन् पाटण-नगरं गतः, गत्वा मन्त्रिणः स्ववृत्तम् अश्रावयत् च । तत् वृत्तम् मन्त्रिणः प्रजाः असूचयन्त । अन्ते प्रजानाम् इच्छया कुमारपालः राजा अभवत् । राजा कुमारपालः हेमचन्द्राचार्याय आमन्त्रणम् अददात् ।

प्रजाभ्यः, राज्ञे च हेमचन्द्राचार्यस्य उपदेशः[सम्पादयतु]

यदा आचार्यः राज्ञः आमन्त्रणम् अङ्गीकृत्य राज्यं गतः तदा राजा स्वयम् आचार्यस्य स्वागतम् अकरोत् । कुमारपालस्य राजकक्षे प्रतिदिनं धर्मसभायाः आयोजनं भवति स्म । सभायां हेमचन्द्रः सर्वान् धर्मस्य सिद्धान्तान् बोधयति स्म । मानवः धर्मस्य आधारेण कथं शान्तिं प्राप्नोति तत् ज्ञापयति स्म । सः राजानं राष्ट्रकल्याणस्य, प्रजाकल्याणस्य च मार्गं दर्शयति स्म । नीतेः, सदाचारस्य, अहिंसायाः च विषये प्रजाः बोधयति स्म ।

कुमारपालस्य प्रतिज्ञा[सम्पादयतु]

एकदा राजा स्वस्य शाश्वतकीर्त्यै स्वेन किं करणीयम् इति हेमचन्द्राचार्यम् अपृच्छत् । तदा आचार्यः देवपट्ट-नगरस्य ध्वस्तस्य मन्दिरस्य पुनर्निर्माणं कर्तुम् असूचयत् । यदा राजा मन्दिरस्य पुनर्निर्माणं कर्तुम् प्रतिज्ञाम् अकरोत् तदा आचार्यः मन्दिरस्य पुनर्निर्माणपर्यन्तं, शिखरे ध्वजारोपणपर्यन्तं मद्यमांसयोः त्यागं कर्तुं कुमारपालम् आदिशत् । गुरोः आज्ञया कुमारपालः प्रजानामुपस्थितौ प्रतिज्ञाम् अकरोत् । मन्दिरस्य जिर्णोद्धारकार्यं झटिति समाप्तं भवेत् तथा कार्यं कर्तुं सः कर्मकरान् असूचयत् । वर्षद्वयान्ते जीर्णोद्धारकार्यं समाप्तम् । कलशस्थापनं, ध्वजारोपणं च अभवत् । तदा राजा नियमस्य विषये आचार्यम् अपृच्छत् । सोमनाथमन्दिरस्य यात्रान्ते नियमोद्यापनाय हेमचन्द्राचार्येण कुमारपालः सूचितः ।

कुमारपालहेमचन्द्रयोः सोमनाथयात्रा[सम्पादयतु]

कुमारपालेन हेमचन्द्राचार्याय सोमनाथदर्शनार्थम् आगच्छतु इति निमन्त्रणं प्रदत्तम् । यात्रा तु साधूनां जीवनम् अस्ति इति उक्त्वा आचार्यः निमन्त्रणं स्वीकृतवान् । तदनन्तरं सर्वे शत्रुञ्जयस्य गिरनारपर्वतस्य यात्रां कृत्वा सोमनाथं गताः । तत्र पण्डितैः सह हेमचन्द्राचार्यः अपि पूजायां सम्मिलितः अभवत् । तस्मिन् प्रसङ्गे स्वस्य व्यापकभावनया महत्तायाः प्रमाणभूतं श्लोकद्वयम् उक्त्वा आचार्यः महादेवस्य स्तुतिम् अकरोत् । तौ च श्लोकौ


भवबीजाङ्कुरजनना, रागाद्याः श्रयमुपागता यस्य ।
ब्रह्मा वा विष्णुर्वा, हरोजिनौ वा नमस्तस्मै ।।
यत्र तत्र समये यथा तथा, योऽसि सोऽस्यभिधया यया तया ।
वीतदोषकलुषः स चेत् भवान्, एक एव भगवान् ! नमोऽस्तु ते ।।

सोमनाथस्य साक्षात्कारः[सम्पादयतु]

हेमचन्द्राचार्यस्य महत्तायाः अत्यन्तः प्रभावितः कुमारपालः अन्यान् बहिर्गन्तुम् आदिशत् । तदनन्तरं नम्रभावनया सोमनाथस्य साक्षात्कारं कारयतु इति आचार्याय निवेदनम् अकरोत् । आचार्यः अन्तरिक्षे स्थितस्य भगवतः शङ्करस्य ध्यानं करोतु इति उक्तवान्, सोमनाथस्य साक्षात्कारं च कारितवान् । भगवान् शङ्करः कुमारपालम् अवदत् – अयं साधुः सर्वेषां देवानाम् अवतारः, कलिकालसर्वज्ञः च अस्ति । सः यद् सूचयति तद् निश्चयेन मुक्तिमार्गः इति ज्ञात्वा भवता तस्य पालनं विधेयम् इति ।

कलिकालसर्वज्ञः हेमचन्द्राचार्यः[सम्पादयतु]

कुमारपालः गुरुं प्रणम्य मार्गदर्शनम् अयाचत । आचार्येण आजीवनं मद्यमांसयोः त्यागं कर्तुं कुमारपालः आदिष्टः । हेमचन्द्राचार्यस्य कथनेन राजा मद्यमांसौ त्यक्त्वा स्वराज्ये प्राणिनां वधस्य प्रतिबन्धम् अकरोत् । प्रत्येकस्मिन् ग्रामे तडागं चिकित्सालयं मन्दिरं च अरचयत् । स्वजीवनशैल्यां परिवर्तनानि च अकरोत् । हेमचन्द्राचार्यः सामान्यः नासीत् । स्वस्य प्रतिभया, ज्ञानेन, गरिमया, दीर्घदृष्ट्या, उदारतया, तेजसा, ओजसा, प्रभावेन च कलिकालसर्वज्ञः आसीत् । अत एव राज्ञा कुमारपालेन हेमचन्द्राचार्याय कलिकालसर्वज्ञः इति उपाधिः प्रदत्ता ।

हेमचन्द्राचार्यस्य उपदेशः, ग्रन्थवैशिष्ट्यं च[सम्पादयतु]

आचार्येण प्रजाभ्यः अपि बोधः प्रदत्तः । सः विदुषां पण्डितानां च मार्गदर्शकः अभवत् । स्वशिष्यान् अपि विद्वांसः अकरोत् । राज्यस्य श्रेष्ठं सञ्चालनं कर्तुं राजानम् असूचयत् । स्वज्ञानम् अन्येभ्यः अपि उपयोगी भवेत् इति ग्रन्थान् अरचयत् । कुमारपालः तेषां ग्रन्थानां प्रचारम् अकरोत् । तेषु केचन ग्रन्थाः लोकोपयोगिनः, केचन पण्डितोपयोगिनः च आसन् । तस्य एतादृशान् शास्त्रीयान् ग्रन्थान् दृष्टवा सम्पूर्णस्य विश्वस्य विद्वांसः अद्यापि तस्य प्रसंशां कुर्वन्ति । स्वस्य ग्रन्थैः सः अन्ताराष्ट्रियां ख्यातिम् अलभत । सः स्वस्य ग्रन्थस्य अन्तःस्थान् विषयान् ग्रन्थस्य नामनि एव प्रकटं करोति स्म । यथा द्वयाश्रयमहाकाव्यम् । तस्मिन् ग्रन्थे सिद्धहेमस्य नियमैः सह सोलङ्की-वंशस्य इतिहासः अपि आवृत्तः अस्ति ।

मृत्योः घोषणा[सम्पादयतु]

मृत्योः षण्मासात् प्राक् हेमचन्द्राचार्येण स्वस्य मृत्युकालः उद्घोषितः । चारित्र्यवता, योगिना, संयमिना एव एतत् शक्यम् । अन्तिमदिनेषु अन्नजलयोः त्यागं कृत्वा सः सर्वेषां क्षमाम् अयाचत ।

मृत्युः[सम्पादयतु]

1173 तमे वर्षे (वि.सं. १२२९) आचार्यस्य मृत्युः अभवत् । राजा कुमारपालः अन्तिमं वन्दनं कृत्वा गुरवे श्रद्धाञ्जलिम् अयच्छत् । प्रजाः पण्डिताः च शोकमग्नाः सन्तः तं वन्दनम् अकुर्वन्त । सर्वेषाम् अक्षीणि क्लिन्दाः अभवन्, सर्वे आर्तनादं च कृतवन्तः । किन्तु कलिकालसर्वज्ञः आचार्यहेमचन्द्रः अमरः अभवत् । तस्य ज्ञानं, शक्तिः, गुणाः, उदारता, धर्मभावना च तम् अमरः अकरोत् । अप्रतिमया संस्कारदृष्ट्या सः गुजरातराज्यस्य इतिहासे, परम्परायां च स्वस्य चिह्नानि अस्थापयत् । इत्थं स्वकार्यैः हेमचन्द्राचार्यः इदानीमपि जनमनसि स्थितः अस्ति ।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=हेमचन्द्राचार्यः&oldid=454337" इत्यस्माद् प्रतिप्राप्तम्