नीतिशतकम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्


नीतिशतकं (Neethishatakam) इत्येषः भर्तृहरिणा रचितः ग्रन्थः । अस्मिन् १०० श्लोकाः विद्यन्ते । अयं कविः गृहस्थानां प्रापञ्चिकजनानां च प्रायोगिकमार्गदर्शकः वर्तते । अस्मिन् विवेकः, हितचिन्तनम्, ज्ञानसाधनम्, शौर्यधैर्यविवरणम्, शान्तत्वम्, सौशील्यम् इत्यादिषु विषयेषु बोधनं दृश्यते । अत्र बलवतः धनिकाञ्च उद्दिश्य विनयः दानशीलता च अभ्यसनीया इति सूच्यते । दुर्बलान् दरिद्रान् च उद्दिश्य वदति जीवने सरलता आत्मगौरवञ्च सम्पादनीयमिति। सर्वैः सह स्नेहभावेन व्यवहरणीयमिति उपदिशति । अन्येभ्यः सहाय्यकरणम्, पीडितानां विषये अनुकम्पः, आत्मनिग्रहः, तत्त्वबद्धता च अत्र बहुधा प्रतिपादितः अस्ति । अन्येषां गुणान् श्लाघमानाः अन्येषां दुर्गुणादिविषये मौनाचरणञ्च, स्वस्य उत्तमतायाः गोपनञ्च अवश्यं भाव्यमिति कथयति इदं शतकम् । एते गुणाः अस्मिन् जगति जीवद्भिः एव अभ्यसनीयाः न तु अरण्ये एकान्ते । नीतिशतकस्य मङ्गलश्लोकः -

दिक्कालाद्यनवच्छिन्नानन्तचिन्मात्रमूर्तये ।
स्वानुभूत्येकमानाय नमः शान्ताय तेजसे ॥

विषयसूची[सम्पादयतु]

नीतिशतके एते १० विभागाः दृश्यन्ते ।

  1. मूर्खपद्धतिः
  2. विद्वत्पद्धतिः
  3. मानशौर्यपद्धतिः
  4. अर्थपद्धतिः
  5. दुर्जनपद्धतिः
  6. सुजनपद्धतिः
  7. परोपकारपद्धतिः
  8. धैर्यपद्धतिः
  9. दैवपद्धतिः
  10. कर्मपद्धतिः

स्वरूपम्[सम्पादयतु]

संस्कृतवाङ्मये नीतिग्रन्थपरम्पराऽन्यकाव्यविधापरम्परेव नितरां प्राचीना । तस्यामेव परम्परायां भर्तृहरिप्रणीतनीतिशतकमतिहत्त्वमावहति । नीतिशतकं नैतिकव्यावहारिकोपदेशानां भाण्डागारोऽस्ति । वस्तुतः तत् (नीतिशतकम्) दैनन्दिनजीवनोपयोगिनां सुभाषितानामप्यमूल्यो निधिः । नीतिशतके नैकनैतिवसिद्धान्तानां प्रतिपादनमस्ति, ये मानवजीवनस्य प्रतिक्षेत्रं महनीयसाहाय्यरूपां भूमिकां निर्वाहयन्ति । नीतिशतकगता उपदेशाः शाश्वताः सार्वजनीना जातिधर्मसम्प्रदायनिरपेक्षाश्च सन्ति । वस्तुतो जीवनस्याखिलाङ्गानि दृष्टिगतानि विधायैव तेषां रचना जाता । नीतिशतके व्यावहारिकजीवनोपयोगीन्यनेकविधानि सुभाषितानि नयनगोचरतां यान्ति । नीतिशतकस्य वर्णविषयाणां क्षेत्रमतिविशालमस्ति । तस्मिन्, मूर्खस्य, विदुषः, दुर्जनस्य, सुजनस्य, दैवस्य, कर्मणः, शौरस्य, शीलस्य, धनस्य, धैरस्य, परोपकारस्य, विद्यायाः, सत्सङ्गेतश्चाटुकारित्वस्य च नितरामाह्लादजनकानि वर्णनानि समुपलभ्यते । अपरे विषया अपि तस्मिन् वर्ण्यतां याताः सन्ति। नीतिशतकं मुक्तककाव्यविधायां गण्यते, येषामनुशीलनेन भर्तृहरेर्विविधविषयगतज्ञानस्यावबोधो जायते तथा कोऽपि तेषामध्यनेन स्वजीवने महत्सौविध्यं प्राप्तुं शक्नुयात् । कतिपयोदाहरणान्युद्धृत्य कथ्यमिदं विस्तरशः प्रकाशयितुं काम्यते ।

चितानि कानिचन सुभाषितानि[सम्पादयतु]

‘तावत् शोभते मूर्खो यावत् किञ्चिन्न भासते’ लोकश्रुतिं गतामुक्तिमिमां मनसि विधाय भर्तृहरिर्व्यञ्जनया कथयति यद् विधात्रा मूर्खाणां कृते मौनरूपमेतादृशं छादनं निर्मितं यदाश्रयणेन मूर्खः स्वमौढ्याच्छादनं विधातुं समर्थः स्यात् । मौनरूपाच्छादनं स्वाधीनं, गुणयुक्तं विद्यते । पण्डितानां समाजे तु (सभायान्तु) तदाभूषणमिव मूर्खान् शोभयति-
           स्वायत्तमेकान्तगुणं विधात्रा विनिर्मितं छादनमज्ञतायाः ।
           विशेषतः सर्वविदां समाजे विभूषणं मौनमपण्डितानाम् ।। (नी० श० ७)

अल्पज्ञे मनुष्ये स्ववैदुष्यस्याभिमानो जागर्ति । परन्तु शनैः शनैर्विद्वज्जनसम्पर्कादवाप्ते च विशेषज्ञाने तदीयोऽभिज्ञानः सद्य चूर्णतां व्रजति । यथार्थमिदमधस्तने श्लोके शोभनरूपेण प्रकाशं यातम्-
          यदा किञ्चिज्ज्ञोऽहं द्विप इव मदान्धः समभवं
            तदा सर्वज्ञोऽस्मीयभवदवलिप्तं मम मनः ।
            यदा किञ्चित्किञ्चिद् बुधजनसकाशादवगतं
            तदा मूर्खोऽस्मीति ज्वर इव मदो मे व्यपगतः ।। (नी० श० ८)
अनेन श्लोकेन सारतत्त्वमिदमनायासेन समक्षमापतति यदज्ञ एव स्वल्पज्ञानविषयेऽभिमानमाश्रयते न विशेषज्ञः ।

मूर्खस्य मूर्खतामपसारयितुं नास्ति कश्चिदुपायो लोक इति तथ्यं प्रकाशयितुं भर्तृहरिर्ब्रूते यत् समेषां रोगाणां शास्त्रोक्तमौषधमस्ति परन्तु मौढ्यरोगस्य नास्ति शास्त्रविहितमौषधम् । विभिन्नदृष्टान्तैर्भर्तृहरिः स्पष्टयति यदग्निना जलस्य, छत्रेण सूर्यातपस्य, मदोन्मत्तगजराजस्य तीक्ष्णाङ्कुशेन, गोगर्दभयोर्दण्डेन, औषधसेवनेन रोगस्य, विभिन्नमन्त्रप्रयोगेण विषस्य निवारणं कर्तुं शक्यते परन्तु मूर्खस्य मौढ्यं दुरीकर्तुं न शक्यते-
        शक्यो वारयितुं जलेन हुतभुक् छत्रेण सूर्यातपो
        नागेन्द्रो निशिताङ्कुशेन समदो दण्डेन गोगर्दभौ ।
        व्याधिर्भेषजसङ्ग्रहैश्च विविधैर्मन्त्रप्रयोगैर्विषं
        सर्वस्यौषधमस्ति शास्त्रविहितं मूर्खस्य नास्त्यौषधम् ।। ११ ।।

यः साहित्यं सङ्गीतं कलाञ्च न जानीते स साक्षात्पशुरेव । भर्तृहरिः स्ववर्ण्यं प्रभावकरं विधातुं व्यञ्जनया वृत्त्या कथयति यत् सङ्गीतादिविहीनो नरः श्रृङ्गपुच्छविहीनण् पशुरिव मूल्यहीनोऽस्ति । यद्युच्येत् केनचिद् यत् पशुस्तु तृणमत्ति परन्तु मनुष्यरूपपशुस्तु तृणं नात्ति, भर्तृहरिर्व्यनक्ति यत्तृणाभक्षणमीदृशानां पशूनां (मूर्खाणां) वास्तविकपशूनां कृते हितकरमेव-
       साहित्यसङ्गीतकलाविहीनः साक्षात्पशुः पुच्छविषाणहीनः ।
       तृणं न खादन्नपि जीवमानस्तद्भागधेयं परमं पशूनाम् ।। १२ ।।

साधारणतो धनधान्यादिसमृद्धिशालिनो जना (राजानः) आश्रयदातृत्वेन विदुषः प्रत्यभिमानं दधति । ईदृशान् राज्ञः (धनाढ्यजनान्) प्रति भर्तृहरिर्ब्रवीति यद् राजभिः कदापि विद्वांसो नावमन्तव्या यतो हि ते खल्वीदृशविधानां गुप्तं धनं धरन्ते यददृश्यं, कल्याणकरं व्यवस्थायां वर्धनशीलं शाश्वतमक्षुण्णञ्चास्ति-
          कल्पान्तेष्वपि न प्रयाति निधनं विद्याख्यमन्तर्धनम् ।
          येषां तान् प्रति मानमुज्झत नृपाः कस्तैः सह स्पर्धते ।। १६ ।।

यथा कुपितोऽपि ब्रह्मा हंसस्य नीरक्षीररूपां विवेकशक्तिं कथमपि हर्त्तुं न क्षमस्तथैव कुपितोऽपि राजा विद्वांसं विविधदण्डैर्दण्डयितुं समर्थः स्यात्, परन्तु स विदुषो जन्मजातं वैदुष्यमपहर्त्तुं न क्षमः स्यात्-
         अम्भोजिनीवनविहारविलासमेव
         हंसस्य हन्ति नितरां कुपितो विधाता ।
         न त्वस्य दुग्धजलभेदविधौ प्रसिद्धां
         वैदग्ध्यकीर्त्तिमपहर्तुमसौ समर्थः ।। १८ ।।

अधस्तने श्लोके वाणीरूपस्य (विद्यारूपस्य) आभूषणस्य यथार्थतां साधयिंतु भर्तृहरिः प्रतिपादयति यत् केयूराद्याभूषणानि सन्ति तथा तानि न तथा पुरुषं भूषयन्ति यथा वाग्भूषणम्-
        क्षीयन्ते खलु भूषणानि सततं वाग्भूषणं भूषणम् ।। १९ ।।

संस्कृतवाङ्मये सत्सङ्गस्य महत्त्वमङ्गीकृतं तत् प्रशक्तिश्चानेकत्र कृता विभाति । ‘ससर्गजा दोषगुणा भवन्ति’ अर्थात् सत्सङ्गाद् गुणाण् कुसङ्गाच्च दोषा भवन्ति’ इति सदुक्तिमनुसृत्य सत्सङ्गतिरेव मानवकृते हितापहाऽस्ति न कुसङ्गति । मानवैः सदा सत्सङ्गतिरेवाश्रयणीयेति मनसि निधाय नीतिविशारदो भर्तृहरिः सत्सङ्गत्या गुणान् वर्णयति तथाऽन्त तउद्घोषयति यत्सङ्गत्या सर्वाभीष्टं साधयितुं शक्नोति मनुजः । सत्सङ्गतिर्बुद्धेर्जडतां हरति, वाण्यां सत्यं निवेशयति, सम्मानवृद्धिं जनयति, पापं दूरिकरोति, मानसं प्रसादयति, सर्वासु दिक्षु च कीर्तीं विस्तारयति, वस्तुतः सत्सङ्गत्या किमभीष्टमवापुं न शक्यम् ?-
        जाड्यं धियो हरति सिञ्चति वाचि सत्यं
        मानोन्नतिं दिशति पापमपाकरोति ।
        चेतः प्रसादयति दिक्षु तनोति कीर्तिं
        सत्सङ्गतिः कथय किं न करोति पुंसाम् ।। २३ ।।

महाकविना भर्तृहरिणा निम्नाङ्किते श्लोके निर्दिष्टाः कल्याणमार्गा नूनं मानवानां कृते कल्याणप्रदाः । तेषां समाश्रयणेन मनुष्यो निश्चितरूपेण स्वीयं व्यापकं हितं विधातुं समर्थः स्यात् । प्राणिहिंसाया विरतिः, परसम्पत्तिहरणान्निवृत्तिः, सत्यवादित्वं, समये स्वशक्त्यनुसारं दानं, स्त्रीविषयकचर्चायां मौनाश्रयणं, लोभावरोधः, गुरुजनान् प्रति विनयश्च निर्विवादरूपेण मानवकल्याणकरा मार्गाः सन्ति-
        प्राणघातान्निवृत्तिः परधनहरणे संयमः सत्यवाक्यं
        काले शक्त्या प्रदानं युवतिजनकथामूकभावः परेषाम् ।
        तृष्णास्त्रोतो विभङ्गो गुरुषु च विनयः सर्वभूतानुकम्पा
        सामान्यः सर्वशास्त्रेष्वनुपहतविधिः श्रेयसामेष पन्थाः ।। २६ ।।

कार्यसम्पादनदृष्ट्या भर्तृहरिणा मनुष्याणां कृतं श्रेणीत्रियतं निश्चितरूपतया प्रभावकरं युक्तञ्च विद्यते-
        प्रारभ्यते न खलु विघ्नभयेन नीचैः
        प्रारभ्य विघ्नविहता विरमन्ति मध्याः ।
        विघ्नैः पुनः पुनरपि प्रतिहन्यमानाः
        प्रारभ्य चेत्तमजना न परित्यजन्ति ।। २७ ।।

सज्जनैः समाश्रितं कर्मव्रतं खड्गधारेव तीक्ष्णं वर्तते । तद्व्रतं नूनमतिकठिनम्-
       सतां केनोद्दिष्टं विषममसिधाराव्रतमिदम् ।। २८ ।।

महाकविभर्तृहरिर्विभिन्नस्वभाववर्णने नितरां प्रवीणः । श्लोकेऽस्मिन् कुक्कुरस्य हस्तिनश्च माध्यमेन क्षुद्रजनस्य स्वाभिमानिनश्च सहजस्वभाववर्णनं सुतरां मनोहरं यथार्थञ्चास्ति । एकतः श्वा स्वभोजनदातुः समक्षं पुच्छचालनं तच्चरणावपातं तथा धरण्यां पतित्वा निजमुखमुदरञ्च दर्शयति परन्त्वेतद्विपरीतं गजराजः स्वसमक्षं स्वामिद्वारा समानीतं खाद्यपदार्थं गम्भीरं पश्यति’ । शतशोऽभ्यर्थ्यमानञ्च सन् भुङ्क्ते । श्लोकेनानेन चाटुकाराणां स्वाभिमानिनाञ्च स्वभाववर्णनमत्यत्तं प्रभावकरमस्ति-
      लाङ्गुलचालनमधश्चरणावपातं
      भूमौ निपत्य वदनोदरदर्शनं च ।
      श्वा पिण्डदस्य कुरुते गजपुङ्गवस्तु
      धीरं विलोकयति चाटुशतैश्च भुङ्क्ते ।। ३१ ।।
संसारे धनस्य महिमाऽपूर्वोऽस्ति यतो हि तेनाकुलीनोऽपि कुलीनोऽपण्डितोऽपि पण्डितोऽमर्मज्ञोऽपि मर्मज्ञोऽगुणज्ञोऽपि तथा गुणज्ञो मन्यते जनैः । सर्वे गुणाः काञ्चनामेवाश्रयन्तिअर्थात् सर्वगुणानां मूलं धनमस्ति-
      यस्यास्ति वित्तं स नरः कुलीनः
      स पण्डितः स श्रुतवान् गुणज्ञः ।
      स एव वक्ता स च दर्शनीयः
      सर्वे गुणाः काञ्चनमाश्रयन्ति ।। ४१ ।।

संसारे विकासस्य हेतूनां ज्ञानं यथाऽऽवश्यकन्तथैव विनाशस्य कारणानामपि बोधोऽप्यपेक्षितः । अधोलिखिते श्लोके केन हेतुना को विनश्यति? इति प्रश्नस्य समाधिरत्यन्तं क्षेमकरः । भर्तृहरिमते कुमन्त्रणात् राज्ञः, आसक्तेः संन्यासिनः, लालनात्पुत्रेस्य, अनध्ययनाद् ब्राह्मणस्य, कुपुत्रात् वंशस्य, दुर्जनसेवनात् सदाचारस्य, मदिरापानात् लज्जायाः, अनन्वेक्षणात् कृषेः, परदेशवासात् स्नेहस्य, प्रेमाभावात् मैत्र्याः, अनीतेः समृद्धेः, प्रमादपूर्वकव्ययाद् धनस्य च विनाशो भवति। एकस्मिन्नेव श्लोके बहूनां नाशहेतुत्ववर्णनं नितरां महनीयम्-
      दौर्मन्त्र्यात्रृपतिर्विनश्यति यतिः सङ्गात्सुतो लालना-
      द्विप्रोऽनध्ययनात्कुलं कुतनयाच्छीलं खलोपासनात् ।
      ह्रीर्मद्यादनदेक्षाणादपि कृषिः स्नेहः प्रवासाश्रया-
      न्मैत्री चाप्रणयात्समृद्धिरनयात्त्यागात्प्रमादाद्धनम् ।। ४२ ।।

संसारे राजनीतेर्नास्ति किञ्चित् सुनिश्चितं रूपम् । विभिन्नावसरेषु तस्याः स्वरूपवैविध्यं दृश्यतेतराम् । भर्तृहरिमते राजनीतिर्वेश्येव परस्परविरोधिस्वरूपं धरते । तस्यां (राजनीत्यां) कदाचित्सत्याश्रयणं, क्वचिद्सत्याश्रयणं, क्वचित्परुषत्वाङ्गीकरणं,क्वचिच्च प्रियवादित्वाङ्गीकरणं, क्वचिद् हिंसायाः क्वचिद् दयायाश्च समाश्रयाणं क्रियते । क्वचिदर्थपरता दृश्यते पुनः क्वचिदुदारत्वं विलोक्यते, क्वचिन्नित्यव्ययता क्वचिच्च धनागमश्च दृष्टिगोचरतां यान्ति-
       सत्याऽनृता च परुषा प्रियवादिनी च
       हिस्रा दयालुरपि चाऽर्थपरा वदान्या ।
       नित्यव्यया प्रचुरनित्यधनागमा च
       वाराङ्गनेव नृपनीतिरनेकरुपा ।। ४७ ।।

निम्नाङ्किते पद्ये भर्तृहरिणा अगुणापेक्षयां लोभस्य, पातकापेक्षया पिशुनतायाः, तपोऽपेक्षया सत्यस्य, तीर्थापेक्षया मनः शुद्धेः, गुणापेक्षया सौजन्यस्य, मण्डनापेक्षया महिम्नः, अन्यधनापेक्षया विद्याधनस्य, तथा मरणापेक्षयाऽपयशसोऽधिक माहात्म्यं प्रख्यापयति । अर्थात् तन्मते लोभः, पिशुनता, सत्यं, मनःशुद्धिः, सौजन्यं, महिमा, विद्याधनम्, अपयशः क्रमशोऽ गुणात्, पातकात्, तपसः, तिर्थात्, गुणात्, मण्डनात्, भौतिकधनात्, मरणाच्चाधिको हानिकरा जायते मानवानां कृते-
      लोभश्चेदगुणेन किं पिशुनता यद्यास्ति किं पातकैः
      सत्यं चेत्तपसा च किं शुचि मनो यद्यस्ति तीर्थेन किम् ।
      सौजन्यं यदि किं गुणैः सुमहिमा यद्यस्ति किं मण्डनैः
      सद्विद्या यदि किं धनैरपयशो यद्यस्ति किं मृत्युना ।। ५५ ।।
 
‘लोके सेवाधर्मो नितान्तकठिनो विद्यते इति सर्वे जानन्ति । तपस्विनामपि कृते सेवाधर्मपरिपालनं दुष्करमेव’ इति तथ्यं प्रकाशं नेतुं कविः प्रभावोत्पादिकां शैलीमाश्रित्य कथयति यत् सेवको मौनाश्रयणात् स्वाम्यादिभिर्मूकः, प्रवचनपाटवाद् वाचालो, बहुभाषी वा, सान्निध्यवासाद् धृष्टो दूरवासाद् बुद्धिहीनः, क्षमाश्रयणात् कायरोऽसहनकरणाद कुलीनश्च मन्यते । सेवकस्यैतादृशी स्थितिः सेवकवृत्त्याश्रयणाद् भवति-
     मौनान्मूकः प्रवचनपटुर्वातुलो जल्पको वा
     धृष्टः पार्श्वे वसति च तदा दूरतश्चाऽप्रगल्भः ।
     क्षान्त्या भीरुर्यदि न सहते प्रायशो नाभिजातः
     सेवाधर्मः परमगहनो योगिनामप्यगम्यः ।। ५८ ।।

अधस्तने पद्ये स्वाभाविकगुणानां वर्णनं कीदृशमाह्लादजनकमस्ति । महात्मानो विपत्तौ धैर्यं, अभ्युन्नतौ क्षमां, सभायां वाक्पटुत्वं, युद्धे पराक्रमं, यशः प्राप्यै कामनां, वेदाध्ययन उद्योगञ्च समाश्रयन्ति-
      विपदि धैर्यमथाभ्युदये क्षमा
      सदसि वाक्पटुता युधि विक्रमः ।
      यशसि चाभिरुचिर्व्यसनं श्रुतौ
      प्रकृतिसिद्धमिदं हि महात्मनाम् ।। ६३ ।।

सज्जनाः सत्पात्रेभ्यो गुप्तरूपेण धनं ददति । दत्त्वा च तत्प्रचारं न कुर्वन्ति, गृहमागतमतिथिं सत्कुर्वन्ति, कस्यचित्प्रियं (हितं) विधायापि न तद्वदन्ति, स्वम्प्रत्यन्यकृतमुपकारं सभायामपि निःसङ्कोचं वदन्ति, स्वसम्पत्तिकाले गर्वं न धारयन्ति, परचरित्रवर्णने निन्दां नाश्रयन्ति, एतत्सर्वाणि समुल्लेख्यानि कृत्यानि सज्जना स्वयमेव सम्पादयन्ति । कस्यचित् प्रेरणाभाव एव ते तीक्ष्णखड्गधारेव कठोरं व्रतं पालयन्ति-
    प्रदानं प्रच्छन्नं गृहमुपगते सम्भ्रमविधिः
    प्रियं कृत्वा मौनं सदसि कथनं चात्युपकृतेः ।
    अनुत्सेको लक्ष्म्यां निरभिभवसाराः परकथाः
    सतां केनोद्दिष्टं विषममसिधाराव्रतमिदम् ।। ६४ ।।

घनवृक्षसज्जनदृष्टान्तेन परोपकारिणां जनानां सहजस्वभाववर्णनमप्रतिमरूपेणाकर्षकं भव्यञ्चास्तेऽधोलिखिते पद्ये-
   भवन्ति नम्रास्तरवः फलोद्गमै-
   र्नवाम्बुभिर्दूरविलम्बिनो घनाः ।
   अनुद्धताः सत्पुरुषाः समृद्धिभिः
   स्वभाव एवैष परोपकारिणाम् ।। ७१ ।।

अधोऽङ्किते श्लोके प्रतिपादितं सन्मित्रस्यातिभव्यं लक्षणं कं न प्रभावयति?-
   पापान्निवारयति योजयते हिताय
   गुह्यं निगूहति गुणान्प्रकटीकरोति ।
   आपद्गतं च न जहाति ददाति काले
   सन्मित्रलक्षणमिदं प्रवदन्ति सन्तः ।। ७३ ।।

परहितसम्पादनदृष्ट्या मनुष्याणां (दुर्जनानां) श्रेणीचतुष्टयस्य स्वरूपं ज्ञापयितुं भर्तृहरिर्वदति यत्प्रथमश्रेण्यां ते महापुरुषाः परिगण्यन्ते ये स्वार्थं विहाय परार्थं साधयन्ति । द्वितीयश्रेण्यां त आपतन्ति ये स्वार्थसाधनेन साकं परार्थमपि साधयन्ति । तृतीयश्रेण्याञ्च तेषां मानुषराक्षसानां गणना क्रियते ये खलु स्वार्थाय परार्थं नाशयन्ति । श्रेणीत्रयगतानां नराणां व्यक्तिरिक्ता ईदृशा अपि नराधमाः सन्ति ये निरर्थकमेव परहितं विघ्नन्तितेषां गणना कस्यां श्रेण्यां क्रियेत्? –इति न ज्ञायते । श्लोकेऽस्मिन् कारणमन्तरैव परहितहननशीलानां जनानां दुष्कृतं भृशं गर्हितम्-
   एके सत्पुरुषाः परार्थघटकाः स्वार्थं परित्यज्य ये
   सामान्यास्तु परार्थमुद्यमभृतः स्वार्थाविरोधेन ये ।
   तेऽमी मानुषराक्षसाः परहितं स्वार्थाय निघ्नन्ति ये
   ये निघ्नन्ति निरर्थकं परहितं ते के न जानीमहे ।। ७५ ।।

भर्तृहरिणा ‘विद्याविहीनः पशुः’ इति प्रतिपादयितुं विद्याया अनेकान् गुणान् निम्नाङ्किते श्लोके वर्णयति । तत्रूनं हृदयावर्जकं समाकर्षकञ्च-
विद्या मनुष्यस्य विशेषं रूपमस्ति तच्चातिगुप्तं धनं विद्यते तच्चौरैरपि न हार्यं भवति, विद्या भोगं यशः सौख्यञ्च प्रदत्ते । विद्या गुरूणामपि गुरुरस्ति विदेशगमनकाले विद्या बन्धुवत् साहाय्यं विधत्ते । विद्या समुत्कृष्टको देवोऽस्ति । विद्या राजभिरपि पूज्यते न हि धनं पूज्यते । वस्तुतः एतादृशगुणसम्पन्नया विद्यया हीनो मनुष्यः पशुरेवास्ति-
   विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनं
   विद्या भोगकरी यशःसुखकरी विद्या गुरुणां गुरुः ।
   विद्या बन्धुजनो विदेशगमने विद्या परं दैवतं
   विद्या राजसु पूज्यते नहि धनं विद्याविहीनः पशुः ।। २० ।।

‘शीलं परं भूषणमिति कथ्यं स्पष्टं प्रकाशं नेतुं कविः कस्य किमाभूषणमिति वर्णयति पद्येऽस्मिन् । तदनुसारं सौजन्यमैश्वर्यस्य, वाक्यसंयमः शौर्यस्य, शान्तिर्ज्ञानस्य, विनम्रता विद्यायाः (शास्त्रज्ञानस्य), सुपात्रदानं धनस्य, क्रोधविहीनता तपस्यायाः, समर्थप्रभोः क्षमा, धर्मस्य निश्छलत्वं च भूषणं भवति । परन्तु सकलानामैश्वर्यादीनामपिश्रेष्ठमाभूषणं शीलं (सद्वृत्तम्) अस्ति । न केवलमेतावदेव शीलनामकमाभूषणानां सुजनतादीनां कारणभूतमस्ति यतो हि शीलं विना सुजनातादयो नोत्पद्यन्ते-
   ऐश्वर्यस्य विभूषणं सुजनता शौर्यस्य वाक्संयमो
   ज्ञानस्योपशमः श्रुतस्य विनयो वित्तस्य पात्रे व्ययः ।
   अक्रोधस्तपसः क्षमा प्रभवितुर्धर्मस्य निर्व्याजता
   सर्वेषामपि सर्वकारणमिदं शीलं परं भूषणम् ।। ८३ ।।

‘न्यायपथमारूढा धैर्यशालिनो निन्दां, स्तुतिं, लक्ष्मीगमनागमनं, सद्यो युगान्तरे वा मरणमनपेक्षैवाविचलरूपेण न्यायपथपथिका भवन्ति’ द्रष्टव्यमेतद्विषयं चारुचित्रमधस्तने श्लोके-
    निन्दन्तु नीतिनिपुणा यदि वा स्तुवन्तु
    लक्ष्मीः समाविशतु गच्छतु वा यथेष्टम् ।
    अद्यैव वा मरणमस्तु युगान्तरे वा
    न्याय्यात्पथः प्रविचलन्ति पदं न धीराः ।। ८४ ।।

नीतिशतकात् उद्धृताः सूक्तयः[सम्पादयतु]

वस्तुतो नीतिशतकमेतादृशो ग्रन्थोऽस्ति यद्गता उपदेशा जनताजनार्दनस्य हृदयहारतां याताः सन्तो नितान्तं लोकप्रियत्वमवाप्ताः । प्रबुद्धा जनाः पदेपदे नीतिशतकगतानुपदेशानुद्धरन्ति । तदाङ्कितानि सुभाषितानि तु मानवजीवनयात्रायाः सम्बलरूपतयैव जातानि । तेषां कतिपयानि विशिष्टानि निम्नाङ्कितानि सन्ति-

(१) ज्ञानलवदुर्विदग्धं ब्रह्माऽपि तं नरं न रञ्चयति ।
(२) विभूषणं मौनमपण्डितानाम् ।
(३) नहि गणयति क्षुद्रो जन्तुः परिग्रहफल्गुताम् ।
(४) विवेकभ्रष्टानां भवति विनिपातः शतमुखः ।
(५) मूर्खस्य नास्त्यौषधम् ।
(६) कवयस्त्वर्थं विनापीश्वराः ।
(७) विद्याविहीनः पशुः ।
(८) क्षीयन्ते खलु भूषणानि सततं वाग्भूषणं भूषणम् ।
(९) सत्सङ्गतिः कथय किं न करोति पुंसाम् ।
(१०) न खलु वयस्तेजसो हेतुः ।
(११) प्रारब्धमुत्तमजनाः न परित्यजन्ति ।
(१२) सतां केनोद्दिष्टं विषममसिधाराव्रतमिदम् ।
(१३) सर्वः कृच्छ्रगतोऽपि वाञ्छति जनः सत्त्वानुरूपं फलम् ।
(१४) स जातो येन जातेन याति वंशः समुन्नतिम् ।
(१५) सर्वे गुणाः काञ्चनमाश्रयन्ति ।
(१६) वाराङ्गनेव नृपनीतिरनेकरूपा ।
(१७) दुर्जनः परिहर्तव्यः विद्ययालङ्कृतोऽपि सन् ।
(१८) छायेव मैत्री खलसज्जनानाम् ।
(१९) हेतारमपि जुह्वानं स्पृष्टो दहति पावकः ।
(२०) सेवाधर्मः परमगहनो योगिनामप्यगम्यः ।
(२१) अनुद्धताः सत्पुरुषाः समृद्धिभिः ।
(२२) सन्तः स्वयं परहिते विहिताभियोगाः ।
(२३) विभाति कायः करुणापराणां परोपकारैर्न तु चन्दनेन ।
(२४) न निश्चितार्थाद्विरमन्ति धीराः ।
(२५) शीलं परं भूषणम् ।
(२६) मनस्वी कार्यार्थी गणयति न दुःखं न च सुखम् ।
(२७) न्याय्यात् पथः प्रविचलन्ति पदं न धीराः ।
(२८) नास्त्युद्यमसमो बन्धुः ।
(२९) आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः ।
(३०) सन्तः सन्तप्यन्ते न दुःखेषु ।
(३१) कर्मायत्तं फलं पुंसाम् ।
(३२) रक्षन्ति पुण्यानि पुराकृतानि ।
(३३) तेजस्विनः सुखमसूनपि सन्त्यजन्ति सत्यव्रतव्यसनिनः न पुनः प्रतिज्ञाम् ।

एतदत्रावश्यमेवावधेयम् । यद्यपि नीतिशतकाभिधानग्रन्थो नीतिप्रकाशानपर एवास्ति । तथापि तस्य स्थितिः शुक्रनीतिचाणक्यनीतिप्रभृतय इव नास्ति । नीतिशतकं वस्तुतो मुक्तकाव्यविद्यायां परिगण्यते । अतस्तस्मिन् काव्यसौन्दर्यमपि राजतेतराम् । तस्मिन् छन्दसामलङ्काराणां विशदः प्रयोगः । स्वल्पकायात्मके ग्रन्थेऽस्मिन् चतुर्दशछन्दसां प्रयोगो जाता येषु शार्दूलविक्रीडितछन्दोऽधिकरूपेण प्रयोगं यातम् । शार्दूलविक्रीडितछन्दः समाश्रित्यैव भर्तृहरिकेस्मिन्नेव श्लोके नैकप्रतिपाद्यविषयाणां समावेशः कृतः ।

नीतिशतकेऽलङ्कारसमावेशोऽपि नितान्तं चारुतरः । भर्तृहरिणा स्वकविताकामिनीमलङ्कर्त्तुं विविधा अलङ्काराः प्रयुक्ताः । अनुप्रासच्छटा तु पदे-पदे नयनगोचरतां याति । साधर्म्यमूलकालङ्कारनिवेशे भर्तृहरिकाव्यचातुर्यं निरतिशयेन प्रकाशते। उपमायाः प्रयोगो बाहुल्येन यातः । उपमेतरालङ्कारेषु रूपकदृष्टान्तातिशयोक्तिसमासोक्तिनिदर्शनाऽर्थान्तरन्यासप्रभृतीनां विद्यमानतया नीतिशतके मनोहरं काव्यसौन्दर्यं निविष्टम्।

एवं विविधविषयकमहनीयनीतिवचनदृष्ट्या नीतिशतकमेकतो स्वपाठकान् सम्यग् दिशानिर्देशं विधत्ते पुनरपरतः स्वकाव्यगतसौन्दर्येण सहृदयजनचित्तचञ्चरीकं रससिक्तञ्च कुरुते । नूनं नीतिशतकमिदं स्वीयमहनीयवैशिष्ट्यात् चिरकालं यावत् प्रभावा भारितं त्स्थास्यतीये ।


"https://sa.wikipedia.org/w/index.php?title=नीतिशतकम्&oldid=426559" इत्यस्माद् पुनः प्राप्तिः