सोमनाथः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
सोमनाथः
સોમનાથ
Somnath
—  सोमनाथमन्दिरम् वेरावळ  —
सोमनाथस्य मन्दिरम् वेरावळ
स्थितिः वेरावळ (सौराष्ट्रः), गुजरातराज्यम्
मुख्योत्सवः महाशिवरात्रिः (माघमासस्य कृष्णा चतुर्दशी)
स्थापकः चन्द्रः
जालस्थानम् www.somnath.org

सोमनाथमन्दिरं ( ( शृणु) /ˈsmənɑːθəh/) (गुजराती: સોમનાથ, आङ्ग्ल: Somnath) गुजरातराज्यस्य पश्चिमभागे अर्थात् सौराष्ट्रे प्रभासपाटणपत्तने समुद्रतटे स्थितं भव्यमन्दिरं वर्तते । समुद्रस्य तरङ्गाः सोमनाथस्य पादक्षालनेच्छया पौनःपुन्येन आगच्छन्तः तस्य पादपद्मे लीनाः भवन्ति । सोमनाथः द्वादशज्योतिर्लिङ्गेषु प्रप्रथममं महत्तमञ्च ज्योतिर्लिङ्गं वर्तते । सोमेश्वरः इत्यप्यस्य नामान्तरम् । चन्द्रः (सोमः) अस्य लिङ्गस्य स्थापनां कृतवान् । अत्रैव कपिलानदी-सरस्वतीनदी-हिरण्यानदीनां सङ्गमः भवति । अत एतद् क्षेत्रं त्रिवेणीक्षेत्रमिति नाम्नापि प्रसिद्धम् ।

पुराणे सोमनाथः[सम्पादयतु]

पुराणेषूल्लेखोस्ति यत् त्रेतायुगे वैवस्वतमन्वन्तरे शुक्लपक्षस्य तृतीयायां अस्य मन्दिरस्य स्थापना बभूव । अत्रैव चन्द्रः तपः कृतवानासीत् । एतल्लिङ्गं चन्द्र एव अस्थापयत् । पौराणिककथानुसारं चन्द्रः दक्षस्य सप्तविंशतिकन्याभिः सह विवाहं कृतवान् आसीत् । परन्तु चन्द्रः (दक्षस्य लघुत्तमा कन्या) रोहिण्याम् अधिकं स्निह्यति स्म । तेन अन्ये चन्द्रपत्नीनाम् अवगणना तु भवति स्म, परन्तु तेषामपमानमपि भवति स्म । द्विवारं दक्षः स्वजामातरं "एवं न करु" इति पर्यबोधयत । परन्तु चन्द्रः स्वव्यवहारं न परिवर्तितवान् । तेन कुपितः दक्षः चन्द्रं "त्वं क्षयरोगी भव" इति अशप्यत् । चन्द्रे क्षये सति देवाः भीताः सन्

भगवान् श्रीसोमनाथः

ब्रह्मणः समीपं गताः । ब्रह्मा अवदत्, चन्द्रः प्रभासपाटणक्षेत्रे शिवोपासनां करोति चेत् तस्य शापशमनं भवेत् इति । चन्द्रः सौराष्टे स्थितं प्रभासपाटणक्षेत्रम् गत्वा शिवलिङ्गञ्च निर्माय शिवोपासनां प्रारभत । शिवे प्रसन्ने सति चन्द्रं शापमुक्तम् अकरोत् । तदा शिवः अकथयत्, इतः परम् अहमत्र सोमनाथरूपेण निवसामीति । सोमलिङ्गस्य दर्शनेन भक्तानां सर्वाणि पापानि नश्यन्ति । अपेक्षितं फलं प्राप्य मरणानन्तरं स्वर्गं प्राप्नुवन्ति इति विश्वासः अस्ति । प्रभासक्षेत्रस्य परिभ्रमणेन पृथ्वीप्रदक्षिणफलं प्राप्यते इति शिवपुराणस्य कोटिरुद्रसंहितायाम् उक्तम् अस्ति ।

स्कन्दपुराणे “प्रभासखण्डः” इति पृथक् विभागः एव अस्ति । तत्र प्रभासतीर्थस्य एव वर्णनं कृतम् अस्ति । ऋग्वेदस्य खिलसूक्ते अपि सोमनाथक्षेत्रस्य उल्लेखः अस्ति ।

यत्र गङ्गायमुना यत्र प्राची सरस्वती
यत्र सोमेश्वरो देवस्तत्र माममृतं कृधीन्द्रायिन्दो परिस्रव ॥
                             (ऋग्वेदः, खिलसूक्तम् ९.२०.५)

श्रीकृष्णेन स्वावतारस्य अवसानकाले अन्तिमानि दिनानि अत्रैव यापितानि इति पुराणानां वचनम् । श्रीकृष्णावतारस्य परिसमाप्तिकाले यदा जराव्याधेन मुक्तः बाणः कृष्णस्य पादम् अघातयत् । तदा श्रीकृष्णः अत्र अन्तर्धानोऽभूदिति वर्णनमायाति । तस्य देहोत्सर्गस्थाने हिरण्यानद्याः तीरे यादवस्थली नामकं क्षेत्रम् अस्ति । अत्रैव यादवाः अन्तःकलहेन नाशं प्राप्नुवन् इति कथा श्रूयते । राज्ञा बलिना अत्र अश्वमेधयागः कृतः इत्यपि स्कन्दपुराणे वर्ण्यते ।

इतिहासः[सम्पादयतु]

पुरा मुख्यमन्दिरस्य पुरोभागे २०० किलोभारयुता स्वर्णशृङ्खलायुता महाघण्टा आसीत् । कर्मकराणां कार्यसमयस्य परिवर्तनावसरे एतां घण्टां वादयन्ति स्म । मन्दिरस्य पूजादिकार्यनिर्वहणाय १००० ब्राह्मणाः नियुक्ताः आसन् । यात्रिकाणां क्षौरकार्यार्थम् एव ३०० नापिताः नियुक्ताः आसन् । देवालयस्य नित्यनैमित्तिक-गायनवादननिमित्तं ३०० गायकानां, ५०० कलाविदां च नियुक्तिः कृता आसीत् । मन्दिरस्य निर्वहणार्थं १०,००० ग्रामेभ्यः ३० कोटिमितानां रूप्यकाणां निधिः सङ्गृहीतः आसीत् ।

१८६९ तमे वर्षे सोमनाथः

चन्द्रस्थापितम् एतन्मन्दिरं बहुवारं ध्वस्तं जातमस्ति । परन्तु सर्वदा शिवभक्ताः एतस्य पुनर्निर्माणं कृतवन्तः । सर्वप्रथमं चन्द्रः इदं मन्दिरं स्वर्णेन निर्मापितवान्, यस्य ध्वंसानन्तरं रावणः रजतेन मन्दिरस्य पुनर्निर्माणं कारितवान्, अस्यापि ध्वंसानन्तरं भगवान् विष्णुः चन्दनकाष्ठैः अस्य मन्दिरस्य पुनर्निर्माणं कारयामास । तदनन्तरमपि अस्य मन्दिरस्य ध्वंसः, पुनर्निर्माणश्च बहुवारं अभूत् ।

ध्वस्तं सोमनाथमन्दिरम्

७२५ तमे वर्षे 'जूनायद' नामकः 'आरब'शासकः एतन्मन्दिरम् अलुण्ठत् अध्वंसत च । ततः ८१५ तमे वर्षे नागभट्टनामकः कश्चन राजा पुनर्निर्माणं कारितवान् । पुनः १०२६ तमे वर्षे 'महमद गजनी' नामकः यवनराजा मन्दिरम् अलुण्ठत् । एषोऽपि मन्दिरं ध्वस्तं कृतवान् परन्तु कथं चेद् असख्यकानां यात्रिकानां वधं कृत्वा, अन्ते मन्दिरं अग्निसात्करोत् । पश्चाद् १०२६-१०४२ मध्ये राजा भीमदेवः पुनर्निर्माणं कारितवान् । १७०६ तमे वर्षे मोगल राजा औरङ्गजेब सोमनाथं अलुण्ठत् अध्वंसत च ।

सम्पूर्णे इतिहासे सोमनाथ-मन्दिरस्य बहुवारं नाशः अभवत् । बहवः यवनराजानः, मुगलराजानः च सोमनाथ-मन्दिरस्य सम्पत्तिं लुण्ठितवन्तः ।

  • सोमनाथस्य प्रथमं मन्दिरं ईसाई-युगस्य प्रारम्भे एव अभवत् इति उच्यते [१]। तदनन्तरं गुजरात-राज्यस्य वल्लभी-प्रदेशस्य मैतृक-राजभिः सोमनाथ-मन्दिरस्य द्वितीयवारं निर्माणं कारितम् आसीत्[२]
  • पुनश्च ई. स. ७२५ तमे वर्षे सिन्ध-प्रदेशस्य अरबशासकेन द्वितीयमन्दिरस्य नाशं कर्तुं स्वस्य सैन्यं प्रेषितम् आसीत् ।
  • तदनन्तरं ई. स. ८१५ तमे वर्षे प्रतिहार-वंशस्य राज्ञा नागभट्टद्वितीयेन सोमनाथस्य तृतीयमन्दिरस्य रक्तसिकतापाषाणैः निर्माणं कारितम्[३], [४]
  • पुनश्च गजनी-साम्राज्यस्य महमूद इत्याख्येन ई. स. १०२६ तमे वर्षे मन्दिरस्य नाशं कृतम् । तेन शिवलिङ्गम् अपि त्रोटितम् । अतः प्रमुखशिवलिङ्गं पूर्णतया नष्टम् जातम् आसीत् ।
  • ई. स. १०२६ तमे वर्षे चतुर्थवारं मालवा-प्रान्तस्य परमार-वंशस्य राज्ञा भोजेन मन्दिरस्य निर्मार्णं कारितम् । पुनश्च ई. स. १०४२ तमे वर्षे गुजरात-राज्यस्य सोलङ्की-वंशस्य राज्ञा भीमेन अपि अस्य पुनर्निर्माणं कारितम् आसीत् ।
  • काष्ठैः मन्दिरस्य निर्माणं कारितम् आसीत् । अतः सोलङ्की-वंशस्य राज्ञा कुमारपालेन पुनः पाषाणैः मन्दिरस्य निर्माणं कारितम् आसीत् ।
  • पुनश्च १३०० तमे वर्षे अलफ खान इत्याख्येन राज्ञा मन्दिरं नाशितम् [५]
  • तदनन्तरं ई. स. १३९४ तमे वर्षे गुजरात-राज्ये पुनः देहली-साम्राज्यस्य सार्वभौमत्वम् अभवत् । ई. स. १७०६ तमे वर्षे औरङ्गजेब् इत्याख्येन मुगल-राज्ञा मन्दिरस्य नाशः कृतः ।[६]

लुण्ठकः “महमद”[सम्पादयतु]

महमद इत्याख्यः एकः यवनशासकः आसीत् । सः निर्दयी, निकृष्टः च शासकः आसीत् । सः सोमनाथ-मन्दिरस्य ऐश्वर्यं ज्ञातवान् आसीत् । अतः लोभकारणेन सः सोमनाथ-मन्दिरं लुण्ठितुम् ऐच्छत् ।

सोमनाथ-मन्दिरं गन्तुं उत्तर-पूर्वदिशि मार्गः आसीत् । किन्तु तस्मिन् मार्गे अवरोधः भवितुं शक्यते स्म । अतः महमद अन्यमार्गेण सोमनाथ-नगरं प्राप्तवान् । किन्तु सः कुतः सोमनाथ-मन्दिरं प्राप्तवान् आसीत्, तस्य किमपि प्रमाणं नास्ति । तथापि अनुमानम् अस्ति यत् – “सः राजस्थान-राज्यस्य रणप्रदेशं प्राप्य गतवान् स्यात् इति” ।

तस्य मार्गे अन्हीलवाड अपि आगतम् । तस्मिन् समये भीमदेवः तत्रत्यः राजा आसीत् । सः सोलङ्की-वंशीयः आसीत् । सहसा महमद इत्याख्यस्य सेनया सह आगमनेन भीमदेवः भीतः जातः । यतः भीमदेवः तदा नूतनः एव आसीत् । किन्तु महमद-इत्याख्येन अन्हीलवाड-प्रदेशस्य वा निवसतां काऽपि क्षतिः न कृता ।

तदनन्तरं तस्य मार्गे बहुचराजी, वीरमगाम, धन्धुका, ऊना देलवाडा, कोडीनार इत्यादयः प्रदेशाः आगताः । तेन कोडीनार-प्रदेशस्य देवालयं नाशितम् । अनेन ज्ञायते यत् – महमद इत्याख्येन सोमनाथ-मन्दिरस्य प्राप्तेः पूर्वं कुत्रापि युद्धं न कृतम् ।

कोडीनार-प्रदेशानन्तरं मार्गे कोऽपि तेन सह युद्धं कर्तुं समर्थः नासीत् । यदा सः गीर-प्रदेशस्य सीमां प्राप्तवान् आसीत्, तदा गीर-प्रदेशस्य आदिवासिजनैः तेन सह युद्धं कृतम् । तस्मिन् युद्धे महमद-इत्याख्यस्य बहवः सैनिकाः मृताः ।

१०२६ तमस्य वर्षस्य जनवरी-मासे महमद सोमनाथ प्रभास-नगरं प्राप्तवान् आसीत् [७]।। साम्प्रतं प्रभास-नगरं सोमनाथ इति नाम्ना ज्ञायते । यदा सः सोमनाथ-नगरं प्राप्तवान् आसीत्, तदा सोमनाथमन्दिरस्य रक्षणार्थं सैन्यम् एव नासीत् । यतो हि भारतवर्षे तस्य मन्दिरस्य प्रतिष्ठा आसीत् यत् - कोपि भारतीयराजा तस्य मन्दिरस्य हानिं न कुर्यात् ।

यदा महमद इत्ययं स्वस्य सैन्येन सह सोमनाथ-मन्दिरं प्राप्तवान्, तदा तत्रत्यैः क्षत्रियैः लघुसैन्यं रचितम् । क्षत्रियाः लघुसैन्येन एव युद्धम् अकुर्वन् । तद्युद्धं आदिनम् अभवत् । रात्रौ युद्धस्य विरामः अभवत् । अपरे दिने प्रातःकाले पुनः महमद इत्याख्येन आक्रमणं कृतम् । तावत्पर्यन्तं रा’नवघण इत्याख्यः राजा सोमनाथ-मन्दिरस्य रक्षणार्थं प्राप्तवान् आसीत् ।

रा’नवघण इत्यस्य सैन्यबलं ज्ञात्वा तस्मिन् दिने महमद इत्याख्येन युद्धम् अवरोधितम् । अनेन सोमनाथ-मन्दिरस्य रक्षकाः निश्चिन्ताः अभवन् । ते आनन्दम् अन्वभवन् । किन्तु इयं महमद इत्याख्यस्य युक्तिः एव आसीत् |

यदा रक्षकाः आनन्दोत्सवम् आमनन्तः आसन्, तस्मिन् समये महमद-इत्यनेन सहसा एव रक्षकेषु आक्रमणं कृतम् । तस्मिन् आक्रमणे बहवः रक्षकाः मृताः ।

तदनन्तरं तेन मन्दिरस्य नाशं कृत्वा सोमनाथ-महादेवस्य लिङ्गं परिखण्डितम् [८]। यदा लिङ्गं खण्डितं जातं, तदा लिङ्गस्य अधस्तात् बहूनि रत्नानि, द्रव्यानि च प्राप्तानि अभवन् । तेषां द्रव्याणां तुलना अपि अशक्या । तस्मिन् युद्धे पञ्चाशत्सहस्रं भारतीयसैनिकाः हताः ।

प्रतिगमनम्[सम्पादयतु]

लुण्ठनानन्तरं महमद ततः त्वरितमेव निर्गतवान् आसीत् । केचन लेखकाः कथयन्ति यत् – यथा महमद निशब्दम् आगतवान् आसीत्, तथैव सः निशब्दम् एव निर्गतवान् आसीत् । सः केनचित् अज्ञातमार्गेण गतवान् । यतः गुजरात-राज्यस्य विभिन्नप्रदेशीयाः राजानः तस्य गमनमार्गे अवरोधकत्वेन आसन् । अतः महमद इत्यनेन सः मार्गः त्यक्तः, यत्र राजानः आसन् ।

“खिताब झइन् उल् अखबार” इत्ययं प्राचीनतमः लेखः आसीत् । तस्य लेखानुगुणं मुनशीजी इत्याख्येन उक्तम् अस्ति यत् – “हिन्दूनां राजा परमदेवः तस्य गमनमार्गे आसीत् । अतः महमद भीतः जातः । सोमनाथ-मन्दिरस्य लुण्ठने यावत् परिश्रमः अभवत्, सः परिश्रमः व्यर्थः मा भवेत् इति विचिन्त्य सः अन्यमार्गेण गतवान् आसीत् ।

सः एकस्य मार्गदर्शकस्य साहाय्येन मानसुरा इत्यस्मात् स्थानात् मुलतान-प्रदेशं प्राप्तवान् आसीत् । सः स्वस्य सेनया सह समुद्रस्य तीरे एव गच्छन् आसीत् । मार्गे मरुप्रदेशः अपि आसीत् । मरुप्रदेशस्य शुष्कभूमेः, समुद्रस्य तरङ्गेभ्यः च तस्य सेनायाः पशवः, यवनाः च हताः । मुलतान-प्रदेशे प्राप्ते सति महमद इत्यस्य महती हानिः जाता ।

परमदेवः कः आसीत् ? इति अद्यावधि अस्पष्टम् अस्ति । किन्तु मुनशीजी महाभागस्य मतानुसारं “परमदेवः तत्कालीनस्य परमार-वंशस्य राजा भोजः आसीत्” इति अनुमानम् अस्ति ।

ई. स. १०२६ तमस्य वर्षस्य अप्रैल-मासस्य २ दिनाङ्के महमद स्वदेशं प्राप्तवान् आसीत् । किन्तु तदा तस्य सेनायाः स्थितिः गम्भीरा आसीत् । अनन्तरं सः कदापि भारतस्य कस्मिंश्चित् अपि प्रदेशे आक्रमणं कर्तुं नैच्छत् ।

अनेन स्पष्टं भवति यत् – महमद युद्धं विहाय एव धनं प्राप्तुं ऐच्छत् । अतः सः गुप्तमार्गेण आवागमनं कृतवान् आसीत् ।

अनन्तरं भीमदेवप्रथमं, कुमारपालनादिभिः राजभिः सोमनाथस्य पुनर्निमाणं कृतम् ।

महमद इत्याख्येन केवलं लुण्ठनकार्यं एव कृतम् । अपरं सः किमपि श्रेष्ठं विशेषं वा कार्यं न कृतवान् । यदा सः गजनी-प्रदेशं प्राप्तवान्, तदा तत्रत्यैः राजपुत्रैः तेन सह युद्धम् कृतम् । तस्मिन् समये सः जीर्णज्वरेण पीडितः आसीत् । तथापि ई. स. १०२७ तमे वर्षे सः सिन्ध-देशे आक्रमणं कृतवान् । तस्मिन् युद्धे सः पराजयं प्राप्तवान् । ई. स. १०३० तमे वर्षे तस्य मृत्युः अभवत् ।

प्रसङ्गस्य वर्णने विवादः[सम्पादयतु]

महमद इत्यनेन यावती सम्पत्तिः लुण्ठिता, तस्य अतिशयोक्तिपूर्णं वर्णनं कृतम् अस्ति । अस्य प्रसङ्गानुसारं बहुभिः यवनलेखकैः स्वस्य लेखेषु वर्णनं कृतम् अस्ति । किन्तु तद्वर्णनं अतिशयोक्तिपूर्णम्, अविश्वसनीयं च वर्तते ।

यतो हि तेषां लेखेषु यद्वर्णितम् अस्ति तस्मिन् केवलं – “रक्षकाः मन्दिरस्य रक्षणार्थं युद्धं कृतवन्तः । पञ्चसहस्रं रक्षकाः हुतात्मनः अभवन्” इत्यादि सर्वं वर्णनं सत्यं वर्तते । अन्यं सर्वम् अतिशयोक्तिपूर्णम् अविश्वसनीयं च वर्णनं वर्तते ।

ये इतिहासस्य लेखकाः आसन्, तैः अपि अस्य प्रसङ्गस्य उल्लेखः कुत्रापि न कृतः । हेमचन्द्राचार्यतः सोमेश्वरपर्यन्तं सर्वे लेखकाः अस्य प्रसङ्गस्य विषये किमपि न लिखितवन्तः ।

महमद इत्याख्यस्य ‘अल् उत्ली’ इति नामकेन लेखाधिकारिणा (Secretary) ई. स. १०३१ तमे वर्षे खिताब इयमीनी इति लिखितम् आसीत् । तस्मिन् अपि तेन अस्य प्रसङ्गस्य विषये किमपि न वर्णितम् ।

अक् गार्डीझी इत्याख्यः एकः अरब-भाषायाः लेखकः आसीत् । ई. स. १०४९ तः १०५२ वर्षपर्यन्तं अल् गार्डीझी इत्याख्येन झइन् उल् अखबार इति नामकं पुस्तकं लिखितम् आसीत् । तस्मिन् पुस्तके तेन एव अस्य प्रसङ्गस्य सर्वप्रथमः उल्लेखः कृतः आसीत् ।

अतः "सोमनाथस्य नाशस्य प्रसङ्गः एव न अभवत्" इति नास्ति इति स्पष्टं भवति । किन्तु प्रसङ्गस्य द्विशतं वर्षाणि यावत् यवनलेखकैः ये लेखाः लिखिताः । तेषु लेखेषु अतिशयोक्तियुताः बहवः लेखाः सन्ति । ते लेखाः सम्यक्तया परिशीलनीयाः भवन्ति ।

यवनलेखकाः स्वस्य लेखेषु महमद-इत्याख्यस्य शौर्यस्य प्रशंसां कुर्वन्ति । साम्प्रतम् अनेकाः यवनबौद्धिकाः महमद इत्याख्यस्य पक्षे कथयन्ति यत् - “ महमद इत्याख्येन गजनी-प्रदेशस्य सुन्दरभवनानां निर्माणाय, पुस्तकालयस्य निर्माणाय इत्यादिभ्यः विभिन्नकार्येभ्यः लुण्ठितस्य धनस्य उपयोगः कृतः आसीत् ।

यः जनः अन्यधर्मस्य कलात्मकभवनानां नाशे, लुण्ठने, युद्धे, स्त्रीणाम् अपहरणे इत्यादिषु नीचकार्येषु एव स्वस्य धर्मः इति कथयति, तेन इस्लाम-धर्मस्य सर्वे नियमाः उल्लङ्घिताः ।

महमद इत्याख्येन मथुरा-नगरस्य केशवदेवस्य मन्दिरस्य नाशः कृतः आसीत् । अतः यः स्थापत्यप्रेमी भवति, सः एतावत् कार्यं कथं कर्तुं शक्नोति ?

महमद इत्याख्यस्य ‘अल् उत्ली’ इति नामकेन लेखाधिकारिणा (Secretary) मन्दिरस्य विषये उक्तं यत् – “इदं मन्दिरं समृद्धं आसीत् । सर्वोत्कृष्टाः निर्मातारः अपि २०० वर्षेषु अपि एतावत् सुन्दरं कार्यं कर्तुं न शक्नुवन्ति” ।

यस्मिन् यवनोपासनागृहे बहुवर्षाणि यावत् काऽपि धार्मिकक्रिया न भवति स्म, तस्य बाबरी यवनोपासनागृहस्य नाशेन यवनाः दुःखिताः अभवन् । तथैव यदा सोमनाथ-मन्दिरस्य नाशः अभवत्, तदा भारतीयाः महद्दुःखिताः अभवन् इति निश्चितम् ।

इतिहासे अयमेकः अविस्मरणीयं कृत्यम् आसीत् । भारते प्रथमवारं एतावत् विध्वंसकं कार्यम् अभवत् । ततः परं अन्यैः यवनैः अपि नाशकानि कार्याणि कृतानि । किन्तु तेषाम् इदं कृत्यम् इस्लाम-धर्मविरुद्धम् आसीत् ।

इस्लाम-धर्मे धर्मस्थानानां नाशाय प्रतिबन्धः अस्ति । किन्तु तत्कालीनैः इस्लाम-धर्मोपासकैः महमद इत्याख्यस्य प्रशंसा कृता, पुरस्कारः प्रदत्तः च आसीत् ।

महमद इत्याख्येन यद्दुष्कार्यं कृतम् आसीत्, तस्य प्रभावः वर्तमाने अपि दृश्यते । अमेरिका-देशस्य ‘परसीवल् स्पीअर्’ इति नामकेन इतिहासकारेण लिखितम् अस्ति यत् – “महमद इत्याख्यस्य कृत्यस्य परिणामद्वयम् अभवत् । प्रथमं तु यवनेभ्यः भारतप्रवेशाय मार्गः उद्घाटितः जातः । द्वितीयं तु भारतीयानां मनसि यवनानां कृते सहिष्णुता समाप्ता जाता” ।

साम्प्रतं देशस्य विभागानन्तरम् अपि भारते यवनाः बहवः सन्ति । यवनानां जनसङ्ख्यानुगुणं भारतं विश्वे द्वितीयक्रमाङ्के अस्ति । यतः इस्लाम-धर्मोपासकानां, सूफीसंत इत्यादीनां निर्मलतायाः, सहिष्णुतायाः, सज्जीवनस्य च कारणादेव भारतीयाः आकर्षिताः अभवन् । ते उपासकाः सहिष्णवः आसन् । ते इस्लाम-धर्मस्य नियमानाम् अनुसरणं कुर्वन्ति स्म ।

आक्रमणानन्तरम्[सम्पादयतु]

महमद इत्याख्यस्य आक्रमणेन स्पष्टं भवति यत् – “कस्मिंश्चित् समये अफगानिस्तान्-देशः ब्राह्मणराज्ञाम् अधीनो आसीत् । किन्तु तदनन्तरम् अफगानिस्तान्-देशे तुर्क्-देशीयानाम् आधिपत्यम् अभवत् । तुर्क्-देशीयैः पञ्जाब-राज्ये अपि आधिपत्यं कृतम् आसीत् ।

अनेन कारणेन तुर्क्-देशीयाः भारतस्य सम्पर्के आसन् । तेन एव कारणेन महमद इत्याख्येन निरन्तरं सप्तदशवारं भारते आक्रमणानि कृतानि आसन् ।

सोमनाथमन्दिरस्य, मथुरा-नगरस्य देवालयानां लुण्ठनानन्तरं स्पष्टम् अभवत् यत् यदा कदा अपि वैदेशिकाः अवसरं प्राप्स्यन्ति, तदा भारते आक्रमणं करिष्यन्ति । यतः पञ्जाब-राज्यस्य मार्गः अपि उद्घाटितः आसीत् ।

सम्पूर्णं वृत्तान्तं ज्ञात्वा अपि भारतीयाः राजानः अभिमानस्य कारणात् सङ्घटिताः न जाताः इति स्पष्टम् अस्ति ।

आहत्य, सप्तदशवारम् अस्य मन्दिरस्य ध्वंसः कृत: आसीत् इति उल्लेखो प्राप्यते । अधुना यद् मन्दिरमस्ति, तस्य पुनर्निर्माणकार्यम् महान् नेता लोहपुरुषश्च सरदार् वल्लभभाई पटेलः १९४७ तमे वर्षे नवम्बरमासस्य ३० दिनाङ्के आरब्धवान् । १९५१ तमे वर्षे मेमासस्य ११ दिनाङ्के राष्ट्रपतिः श्रीराजेन्द्रप्रसादः अत्र प्राणप्रतिष्ठाम् अकरोत् । मूलस्थाने पुनः वैभवयुतं मन्दिरं शिरः उन्नीय स्थितम् । एतत् मन्दिरम् अद्य अत्यन्तं सुन्दरम् अपूर्वशिल्पकलायुक्तमन्दिरं सञ्जातम् । प्राचीनस्य सोमनाथमन्दिरस्य अवशेषाः अट्टोपरि सङ्गृहीताः सन्ति । पालिताणापत्तनस्य प्रसिद्धस्य शिल्पिनः प्रभुशङ्करसोमपुरा इत्याख्यस्य मार्गदर्शनेन एतत् मन्दिरं निर्मितम् आसीत् । महाराष्ट्रस्य सुप्रसिद्धवैदिकपण्डितस्य लक्षमणशास्त्रिजोशी इत्येतस्य पौरोहित्ये अत्र प्राणप्रतिष्ठा जाता । तस्य गुरुः श्रीकेवलानन्दसरस्वती अपि अस्मिन् कार्यक्रमे भागम् गृहीतवान् ।

श्रीप्रभासतीर्थः

समीपस्थानि मन्दिराणि[सम्पादयतु]

त्रिवेणीसङ्गमः

श्रीप्रभासतीर्थः[सम्पादयतु]

अत्र लक्ष्मीनारायणौ विराजेते । अत्र गीतामन्दिरे श्रीमद्भग्वद्गीतायाः सर्वे ७०० श्लोकाः अष्टश्वेतप्रस्तरेषु उत्कीर्णाः सन्ति । अत्र भगवतः श्रीकृष्णस्य चरणचिह्नम् अस्ति । गीतामन्दिरस्य समीपे भगवतः बलरामस्यान्तर्ध्यानस्थलमस्ति । शेषावतारी बलरामः अत्रैव पाताललोकं प्रविष्टवान् । अतः एतस्य स्थलस्य नाम देहोत्सर्गः इति ।

श्रीपरशुराममन्दिरम्[सम्पादयतु]

भगवान् परशुरामः एकविंशतिवारं क्षत्रियाणां पराजयं विधाय पृथिव्याः दानं चक्रे । तस्य पापशमनार्थं सः अत्र तपस्तप्तवान् । तदा भगवान् सोमनाथः तं पापमुक्तमकरोत् । तदेव पवित्रस्थलं तिसॄणां नदीनां सङ्गमोऽस्ति । अत्र भगवतः परशुरामस्य मन्दिरं तथा कुण्डद्वयञ्चास्ति ।

त्रिवेणीसङ्गमः[सम्पादयतु]

अत्रैव कपिलानदी-सरस्वतीनदी-हिरण्यानदीनां सङ्गमो भवति । अत्र स्नानस्य, पिण्डदानस्य, तर्पणस्य च विशिष्टं महत्वमस्ति । गुजरातसर्वकारः अस्य स्थलस्य जीर्णोद्धारं कृतवान् । ततः अस्याकर्षणं बहुवर्धितमस्ति ।

भालकातीर्थः[सम्पादयतु]

व्याधस्य क्षमायाचनम्

एतदेव भगवतः श्रीकृष्णस्य देहोत्सर्गस्थानम् । जरा नामकः कश्चन व्याधः हरिणं मत्वा शरेण श्रीकृष्णस्य पादतले प्रहारम् अकरोत् । स्वस्य दोषे ज्ञाते सति व्याधः क्षमां अयाचत,श्रीकृष्णः तं अक्षाम्यच्च । एषा लीला पिप्पलवृक्षस्याधः अभूत् । सः पिप्पलवृक्षः अधुनापि तत्रास्ति । एतत् स्थानं भक्तानां हृदयशान्तिदायकमस्ति ।

वैशिष्ट्यम्[सम्पादयतु]

तत्र भूगर्भे सोमनाथ-लिङ्गस्य स्थापना कृता अस्ति । भूगर्भे सति प्रकाशस्याभावः वर्तते । तस्मिन् मन्दिरे पार्वत्याः, सरस्वत्याः, लक्ष्म्याः, गङ्गायाः, नन्दिनः च मूर्तयः सन्ति । भूमेः उपरिभागे शिवलिङ्गस्योपरि अहल्येश्वरमूर्तिः अस्ति ।

सोमनाथ-मन्दिरस्य प्राङ्गणे गणेशस्य अपि एकं मन्दिरम् निर्मापितमस्ति । अपरं च उत्तरद्वारस्य बहिः अघोरलिङ्गस्य मूर्तिः अपि स्थापिता अस्ति । प्रभास-तीर्थे अहल्याबाई-मन्दिरस्य समीपे एव महाकाली-मन्दिरम् अपि अस्ति ।

गणेशस्य, भद्रकाल्याः, विष्णोः च मन्दिरं नगरे स्थितमस्ति । नगरस्य द्वारस्य समीपे गौरीकुण्ड-नामकः सरोवरः वर्तते । तस्य सरोवरस्य समीपे एकं प्राचीनं शिवलिङ्गम् अपि वर्तते[९]

मार्गाः[सम्पादयतु]

धूमशकटमार्गः[सम्पादयतु]

भारतस्य गुजरातराज्यस्य च अन्यभागतः सोमनाथरेलस्थानं सरलतया प्राप्तुं शक्यते ।

भूमार्गः[सम्पादयतु]

सोमनाथः अहमदाबाद्तः ४०८ कि.मी., जुनागढतः ७९ कि.मी., चोरवाळातः २५ कि.मी. दूरे अस्ति । एतेभ्यः स्थलेभ्यः सोमनाथं प्राप्तुं यानानि मिलन्ति ।

सम्बद्धाः लेखाः[सम्पादयतु]

शिव

कृष्ण

सौराष्ट्र

सरदार पटेल

परशुराम

बाह्यानुबन्धः[सम्पादयतु]

http://www.somnath.org/

http://www.gujaratindia.com/about-gujarat/somnath.htm

http://www.gujarattourism.com/showpage.aspx?contentid=217&webpartid=903

http://www.mapsofindia.com/gujarat/temples/somnath-temple.html

सन्दर्भः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=सोमनाथः&oldid=300865" इत्यस्माद् पुनः प्राप्तिः