सामग्री पर जाएँ

राजेन्द्र प्रसाद

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(राजेन्द्रप्रसादः इत्यस्मात् पुनर्निर्दिष्टम्)
डा. बाबू राजेन्द्रप्रसादः
भारतस्य प्रथमराष्ट्रपतिः
कार्यालये
२६ जनवरी १९५०  १३ मै १९६२
प्रधानमन्त्री जवाहरलाल नेह्रू
उपराष्ट्रपतिः सर्वपल्ली राधाकृष्णन्
पूर्वगमः नास्ति (प्रथमः इत्यर्थः)
पादानुध्यातः सर्वपल्ली राधाकृष्णन्
व्यक्तिगत विचाराः
जननम् (१८८४-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम १-०३)३ १८८४
जिरादै, सिवन्, बिहार, बेङ्गल् प्रेसिडेन्सी, भारतम्
(वर्तमाने बिहार, भारतम्)
मरणम् स्क्रिप्ट त्रुटि: फंक्शन "death_date_and_age" मौजूद नहीं है। पटना, बिहार, भारतम्
राष्ट्रीयता भारतीय
राजनैतिकपक्षः भारतीयराष्ट्रियकाङ्ग्रेस्
पतिः/पत्नी राजवैष्णवी देवी
मुख्यशिक्षणम् कोलकाताविश्वविद्यालयः
धर्मः हिन्दुधर्मः

डाक्टर् बाबू राजेन्द्रप्रसादः (जीवितकालः - क्रि.श. १८८४तमवर्षस्य डिसेम्बर्मासस्य तृतीयदिनतः क्रि.श. १९६३तमवर्षस्य फेब्रवरीमासस्य २८तमदिनपर्यन्तम् ) भारतस्य प्रथमो राष्ट्रपति: आसीत् । भारतीयस्वतन्त्रतायाः अन्दोलने प्रमुखनेतृषु अन्यतमः । अपि च भारतीयराष्ट्रियकाङ्ग्रेस् इति राजनैतिकपक्षस्य अध्यक्षस्य भूमिकां सम्यक् निर्वूढवान् । भारतीयसंविधानस्य निर्माणे अपि अस्य प्रधानं योगदानम् अस्ति यस्य परिणामेन क्रि.श. १९५०तमवर्षस्य जनवरिमासस्य २६तमे दिने भारतं गणतन्त्रम् अभवत् । राष्ट्रपतिपदम् अतिरिच्य एषः भारतस्य केन्द्रीयमन्त्रिणः पदे अपि कञ्चिक्तालं व्यराजत । समग्रे देशे अत्यन्तं लोकप्रियः भूत्वा जनैः राजेन्द्रबाबू अथवा देशरत्न इति आहूयते स्म ।

पूर्वजाः

[सम्पादयतु]

भारतदेशस्य बिहारराज्ये महादेवसहायस्य पुत्ररूपेण राजेन्द्रपसादस्य जन्म अभवत् । किन्तु अस्य पूर्वजाः उत्तरप्रदेशराज्यस्य अमोडाप्रदेशस्य निवासिनः । अस्य कुटुम्बिनः कायस्थाः आसन् । अस्य पिता संस्‍कृतभाषायां पारसीभाषायां च प्रवीणः आसीत्‌ । राजेन्द्रस्य पितामहः विद्यावान् आसीत् । अतः देशान्तरगतेन तेन हटुवा संस्थाने दिवानस्य कार्यं प्राप्तम् । त्रिंशत् वर्षाणि तस्मिन् संस्थाने कार्यं कृतवान् । तदा स्वयं किञ्चिद्भूभागं क्रीतवान् । अस्य पिता महादेव सहायः कृषिकर्म करोति स्म । राजेन्द्रस्य पितृव्यः जयदेव सहायः अपि क्षेत्रकर्मणि सहायः भवति स्म । जयदेवस्य किमपि सन्तानं नासीत् । अतः एषः अपि राजेन्द्रं स्वपुत्रः इव पश्यति स्म । पितुः पितृव्यस्य पितामहस्य च प्रेम्णा राजेन्द्रः सुखेन पालितः । पितामह्याः मातुः च प्रीतिरपि निरतिशया आसीत् । माता प्रभाते अनेन सह शीघ्रं शयनादुत्थाय प्रभागतीतानि भजनं कीर्तनं रामयणमहाभरतादीनां कथाः च श्रावयति स्म ।

प्रारम्भिकं जीवनम्

[सम्पादयतु]

राजेन्द्र बाबू बिहारराज्यस्य सीवनमण्डलस्य जीरादेयी इति ग्रामे क्रि.श. १८८४तमे वर्षे डिसेम्बर मासस्य तृतीये दिने अजायत । अस्य पिता श्री महादेव सहायः संस्कृतभाषायाः पारसीभाषायाः च पण्डितः आसीत् । अस्य माता श्रीमती कमलेश्वरी देवी काचित् धर्मपरायणा महिला आसीत् । पञ्चवर्षीयः राजेन्द्रः मौलवी साहब इत्यनेन पारसीभाषया शिक्षायाः आरम्भं कृतवान् । पश्चात् प्राथमिकशिक्षाप्राप्तये मण्डलस्य सर्वकारीयविद्यालयं प्रविष्टवान् । तत्कालीनस्य सम्प्रदायानुगुणं राजेन्द्रस्य विवाहः बाल्ये एव अभवत् । यदा एषः १३वर्षीयः आसीत् तदा राजवंशीदेवी इत्यनया सह विवाहः अभवत् । विवाहसस्य पश्चात् पटनानगरस्य टि.के.घोष अकादमी इति शिक्षासंस्थायां विद्याभ्यासम् अनुवर्तितवान् । अस्य वैवाहिकं जीवनम् अतीव सुखमयम् आसीत् । अस्य अध्ययने अथवा अन्यकार्ये विवाहः बाधकः नाभवत् । शीघ्रमेव मण्डलस्य शालां त्यक्त्वा स्वस्य अष्टदशे वयसि कोलकाताविश्वविद्यालयस्य प्रवेशपरीक्षाम् अलिखत् । प्रथमश्रेण्या तां परीक्षां समुत्तीर्य क्रि.श. १९०२तमे वर्षे कोलकातायाः प्रसिद्धे प्रेसिडेन्सीमहाविद्यालये प्रवेशं प्राप्तवान् । राजेन्द्रः स्वप्रतिभया गोपालकृष्ण गोखले विहारविभूतिः डा. अनुग्रह नारायण सिन्हा इत्यादीन् पण्डितान् आकृष्टवान् । क्रि.श. १९१५तमे वर्षे सस्वर्णपदकं विधिपरास्नतकपदवीं (एल्.एल्.बि.) उत्तीर्णवान् । पश्चात् आधुनिकन्यायक्षेत्रे (ला) शोधपत्रं प्रस्तुत्य डाक्टरेट् उपाधिमपि प्राप्तवान् ।

भारतीयभाषाप्रेम

[सम्पादयतु]

यद्यपि राजेन्द्रस्य अध्ययनं फारसीभाष्या उर्दूभाषया च आरब्धं तथापि स्नातकपरीक्षां हिन्दी भाषया लिखितवान् । एषः हिन्दी, उर्दू, फारसी, आङ्ग्लं, बङ्गाली भाषाणां साहित्येन परिचितः आसीत् । अपि च एताभिः भाषाभिः सुललितं प्रभावकारि व्याख्यानं करोति स्म । अस्य गुजरती भाषायाः अपि व्यावहारिकं ज्ञानम् आसीत् । एम्.एल्.परीक्षानिमित्तं हैन्दवशासनविषये संस्कृतग्रन्थान्अपि पठितवान् । हिन्दीभाषायाः विषये अस्य प्रेम अगाधम् आसीत् । भारमित्र, भारदोदय, कमला इत्याद्यसु तत्कालीनप्रसिद्धासु दिनपत्रिकासु अस्य लेखाः प्रकाशिताः भवन्ति स्म ।


स्वातन्त्र्यान्दोलने भूमिका

[सम्पादयतु]

भारतस्य स्वातन्त्र्यसङ्ग्रामे अस्य प्रवेशः न्यायवादिनः रूपेण वृत्तिभूमिप्रवेशेन सह एव अभवत् । चम्पारणसत्याग्रहे महात्मा गान्धिः कस्यचित् सत्यान्वेषणस्य समूहस्य प्रेषणावसरे स्वस्य स्वयंसेवकगणे अन्तर्भवितुं सूचितवान् । राजेन्द्रः महात्मा गान्धेः त्यगेन निष्ठया च बहुधा प्रभावितः अभवत् । क्रि.श. १९२१तमे वर्षे एषः कोलकताविश्वविद्यालयस्य सिनेटर् पदस्य त्यागम् अकरोत् । गान्धिमहोदयः यदा विदेशीय संस्थानां बहिष्कृतवान् तदा राजेन्द्रः स्वपुत्रं मेधाविनं मृत्युञ्जयप्रसादं कोलकोताविश्वविद्यायतः निष्कास्य बिहारविद्यापीठे प्रवेशितवान् ।


भारतरत्नम्

[सम्पादयतु]

क्रि.श.१९६२तमे वर्षे भारतसर्वकारः राजेन्द्रप्रदं भारतरत्नम् इति सर्वश्रेष्ठेन उपाधिना सममानयत् । एतत् तु अस्मै भारतस्य कृतज्ञता यः आन्तरङ्गिकध्वनिं श्रुत्वा अर्धशताब्धं यावत् मातृभूमेः सेवामकरोत् ।

चरमयात्रा

[सम्पादयतु]

राजेन्द्रप्रसादः स्वस्य जीवनस्य अन्तिमदिनानि यापयितुं पाटनासमीपस्थं सदाकत इति आश्रमं चितवान् । तत्र क्रि.श. १९६३तमवर्षस्य फेब्रवरिमासस्य २८तमे दिने देहत्यागं कृतवान् ।

भारतस्य राष्ट्रपतयः
पूर्वतनः
---
राजेन्द्र प्रसाद अग्रिमः
सर्वपल्ली राधाकृष्णन्

बाह्याः सूत्राः

[सम्पादयतु]
"https://sa.wikipedia.org/w/index.php?title=राजेन्द्र_प्रसाद&oldid=480870" इत्यस्माद् प्रतिप्राप्तम्