विधानचन्द्र राय
बिधानचन्द्रः रायः | |
---|---|
बिधानचन्द्रः रायः | |
जन्म |
क्रि.श. १८८२तमवर्षस्य जुलैमासस्य प्रथमदिनम् । बङ्किपुर, पाट्ना, बिहारराज्यम् |
मृत्युः |
क्रि.श. १९६२तमवर्षस्य जुलैमासस्य प्रथमदिनम् । कोलकता, पश्चिमबङ्गालराज्यम् |
देशीयता | भारतीयः |
शिक्षणस्य स्थितिः |
कोलकोतानगरस्य प्रेसिडेन्सी विद्यालयः पाटनामहाविद्यालयः रायल् छालेञ्ज् आफ् फिजिसियन्स् (M.R.C.P.) फेल्लो आफ् रायल् कालेज़् आफ् सर्जन्स्(F.R.C.S.) |
वृत्तिः |
वैद्यः स्वातन्त्र्ययोद्धा राजनीतिज्ञः |
धर्मः | हिन्दुधर्मः |
पितरौ |
(माता) (पिता) |
भारतरत्नप्रशस्तिः भारतरत्नप्रशस्त्या भूषितः विधानचन्द्र राय M.R.C.P., F.R.C.S.(जीवितकालः - क्रि.श. १८८२तमवर्षस्य जुलैमासस्य प्रथमदिनतः क्रि.श. १९६२तमवर्षस्य जुलैमासस्य प्रथमदिनपर्यन्तम्) एषः भारतस्य पश्चिमबङ्गालराज्यस्य द्वितीयः मुख्यमन्त्री अभवत् । अस्मिन् पदे भारतीयराष्ट्रियकाङ्ग्रेस्पक्षस्य प्रतिनिधित्वेन १४वर्षाणि सेवाम् अकरोत् । आमरणम् एषः सङ्घटनस्य सेवां कृतवान् । वृत्त्या अत्यन्तं बहुमानितः वैद्यः आसीत् । अपिच प्रख्यातः भारतस्वान्त्रन्त्र्यादोलनस्य योद्धा आसीत् । पश्चिमबङ्गालराज्यस्य श्रेष्ठः शिल्पिः इत्यपि जना सम्बोधयन्ति स्म । राज्येऽस्मिन् कल्याणि तथा बिधान इति नगरद्वयस्य सृष्टा अपि एषः एव । कोलकता विश्वविद्यालयस्य पूर्वविद्यार्थी अपि । F.R.C.S. तथा M.R.C.P प्रणालीं द्विवर्षमासत्रेषु समापितस्य विरलजनेषु अयम् अन्यतमः अस्ति । अस्य जन्मनः मरणस्य दिनाङ्कः समानः अस्ति । अतः तत् जुलैप्रथमदिनं राष्ट्रियवैद्यदिनत्वेन आचर्यते । डा. बिधानचन्द्ररायः पाट्नानगरे विद्यमानां स्वसम्पत्तिम् अवलम्ब्य किञ्चित् विश्वस्थसङ्घटनं सामाजिककार्यार्थं रचितवान् । श्रेष्ठराजनीतिज्ञं गङ्गाशरम् सिन्हा इत्येनं संस्थायाः निर्वहणार्थं नियोजितवान् ।[१]अयं भारतस्य सर्वशेष्टनागरिकपुरस्कारं भारतरत्नप्रशस्तिं क्रि.श. १९६१तमवर्षस्य फेब्रवरिमासस्य चतुर्थे दिने अलभत ।[२]एषः ब्रह्मसामाजस्य कश्चन सदस्य अपि आसीत् ।
बाल्यं शिक्षा च
[सम्पादयतु]बिधानचन्द्रः रायः क्रि.श. १८८२तमे वर्षे जुलै मासस्य प्रथमे दिने बिहाररज्यस्य पाटनानगरे बि.एम्.दासमार्गे बङ्किपुरेति स्थाने अजायत । अस्य पिता प्रकाशचन्द्रः कश्चित् सर्वकारीयः करग्रहणाधिकारी । बिधानचन्द्रः अस्य पितुः पञ्चापत्येषु कनीयः पुत्रः । स्वपित्रोः सरलता, अनुशासनम्, कारुणेन अतीव प्रभावितः पुत्रः । अस्य पितरौ न केवलं स्वजनेषु वात्सल्य कारुण्यं किन्तु सर्वजनेषु अपि अस्य भावः तथैव यथा भवेत तथा संस्कारं दत्तवन्तौ । अस्य चतुर्दशमे वयसि अस्य माता दिवङ्गता । अस्य पिता पञ्चापत्यानां माता पिता च सन् कर्तव्यम् अकरोत् । कस्यचितदपि कार्यं कर्तुम् आग्रहं न कृतवान् किन्तु लक्ष्यप्राप्तेः मार्गम अवश्यं दर्शितवान् । पञ्चापत्यानि अपि स्वकार्याणि स्वयं कुर्वन्ति स्म । एषः अभ्यासः बिधानस्य महाविद्यालयीये जीवने सहायः अभवत् । बिधानः ऐ.ए.परीक्षां कोलकतानगरस्य प्रेसिडेन्सीमहाविद्यालये स्नातकपदवीं पाट्नानगरस्य महाविद्यालये गणितविषये अग्रगण्यः सन् समापितवान् । पश्चात् प्रवेशार्थं बेङ्गाल् अभियन्तृमहाविद्यालये कोलकतावैद्यकीयमहाविद्यालये च आवेदनपत्रं दत्तवान् । उभयत्र अवकाशः प्राप्तः कुन्तु एषः वैद्यकीयमहाविद्यालयमेव प्रविष्टवान् । एषः क्रि.श. १९०१तमे वर्षे जून् मासे कोलकतानगरम् आगतवान् । तत्र भित्तौ लिखितेन Whatever thy hands findeth to do, do it with thy might इति वाक्येन नितरां प्रभावितः अभवत् । अपि च एतदेव वाक्यम् अस्य आजीवनं चलनपथस्य कारणम् अभवत् । अस्य वैद्यकीयविद्याभ्यासकालः अतीव परिश्रमयुतः अभवत् । यदायं प्रथमवर्षे पठन् आसीत् तदा अस्य पितुः उपमण्डलाधिकारित्वात् निवृत्तः अभवत् । अनेन पिता बहुदिनानि धनं प्रेषयितुम् अशक्तः अभवत् । बिधानः विद्याप्रित्साहधनं प्राप्नोति स्म । तस्य व्ययविषये सर्वदा जागरितः भवति स्म । पुस्तकानि न क्रीत्वा ग्रन्थायस्य पुस्तकानि एव पठति स्म । अस्य महाविद्यालयस्य अध्ययनकाले एव बङ्गलराज्यस्य विभजनम् अभवत् । तद्विभजनं विरुद्ध्य लाला लजपत रायः, अरविन्द घोषः, बालगङ्गाधर तिलकः, बिपिनचन्द्रपालः इत्यादयः नेतारः आन्दोलनं सङ्घर्षाः चाभवन् । बिधानः पूर्णप्रमाणेन अस्मिन् आन्दोलने भागी भवितुम् इच्छति स्म किन्तु अध्ययनं संलक्ष्य आवेशं नियन्त्र्य विप्लवे न पतितवान् ।
वृत्तिजीवनम्
[सम्पादयतु]बिधानचन्द्ररायः स्वस्य विद्यार्जनस्य समाप्तेः पश्चात् प्रान्तीयारोग्यकेन्द्रे उद्योगं प्राप्तवान् । अत्र बहुधा परिश्रमेण अनुपममोपलब्धिं सम्पादितवान् । अत्र एषः औषधानां निर्देशनं ज्ञातवान् । कदाचित् अनुवैद्या इव रोगिणाम् सेवामपि अकरोत् । विरमकाले जनेभ्यः वैद्यसेवाम् ददाति स्म । प्रतिफलरूपेण केवलं रूप्यकद्वयं स्वीकरोति स्म । बिधानः केवलं १२००रूप्यकाणियुक्तः क्रि.श. १९०९तमे वर्षे इङ्ग्लेण्ड्देशस्य सेण्ट् बार्थोलोमेव्स् इति वैद्यमहाविद्यालये उन्नतशिक्षाप्राप्तये आवेदनपत्रं विनिवेषयितुं गतवान् । किन्तुः तत्रस्थः मुख्यस्थः एषियाखण्डस्य विद्यार्थिनः अस्य आवेदनं तिरस्कृतवान् । अनेन डा.बिधानचन्द्रः अविचलितः ३०वारम् आवेदनं समर्पितवान् । अनिवार्यरूपेण मुख्याधिकारी बिधानचन्द्रं छात्रत्वेन स्वीकृतवान् । केवलं वर्षद्वयोत्तरमासत्रये M.R.C.P. तथा F.R.C.S प्रणाली समाप्य इङ्ग्लेण्ड्तः क्रि.श. १९११तमवर्षे स्वादेशमागतवान् । पश्चात् कोलकता वैद्यकीयमाहाविद्यालये, क्यम्प्बेल् वैद्यकीयशालायां, कार्मिकलवैद्यकीयमहाविद्यालये च बोधनवृत्तिम् आरब्धवान् । स्वाराज्यस्य परिकल्पयाः साकारः प्रजासु मानसिकदैहिकदृढतायाः पूरणेन विना न सम्भवति इति विश्वस्तः आसीत् । एषः वैद्यकीयक्षेत्रे अस्मिन् विषये एव योगदानमकरोत् । लोकसेवार्थं जादवपुरे टि.भि.चिकित्सालयः, चित्तरञ्जनसेवासदनम्, आर्.जि.कर् वैद्यकीयमहाविद्यालयः, कमलानेहरुवैद्यालयः, विक्ट्रियासंस्था, चित्तरञ्जनार्बुदरोगवैद्यालयः इत्यादीन् निर्मितवान् । केवलं महिलानां कृते एव पृथक् वैद्यालयं लोपार्पितवान् । पूर्वं महिलाः वैद्यालयम् आगन्तुं भीताः भवन्ति स्म । किन्तु डा. बिधानचन्द्रस्य वात्सल्यपूर्णोपदेशेन क्रमेण चिकित्सां प्राप्तुम् आगच्छन्ति स्म । सर्ववर्गस्य मतस्य कुलस्य च महिलाः अत्र चिकित्सिताः भवन्ति स्म । क्रि.श. १९४२तमे वर्षे रङ्गून् प्रदेशः जपानीयानाम् आक्रमणस्य विस्फोटेन बाधितः । तेषां विप्लवेन कोलकता सम्पूर्णतया निर्नाम भवेदिति भीतिः उत्पन्ना । तदा डा.बिधानचन्द्रः कलकताविश्वविद्यालयस्य उपकुलपतिरिति सेवां करोति स्म । अध्ययनस्य बाधां निवारयितुं महाविद्यालस्य चालं परिवर्तयितुं सूचितवान् येन वैमानिकाक्रमणात् विमोचनं शक्यते । एतादृशं महत्कार्यं परिगणय्य एतस्मै डाक्टरेट् आफ् सैन्स् उपाधिं प्रायच्छन् ।
आदर्शचिन्तनम्
[सम्पादयतु]युवानः एव देशस्य निर्मातरः डा. बिधानचन्द्रस्य अटलः विश्वासः आसीत् । युवनः गतानुगतिको लोकः इति नानुकुर्वन्तः संक्षोभेषु भागं न स्वीकुर्युः । सामाजोत्थानस्य कार्येषु निरताः भवेयुः इति आशयः आसीत् । क्रि.श. १९५६तमे वर्षे डिसेम्बर् मासस्य पञ्चदशे दिने लक्नौविश्वविद्यालये सभाम् उद्दिश्य भाषमाणः मम युवमित्राणि भवन्तः एव स्वतन्त्रसङ्घर्षस्य सैनिकाः, सर्वदा सङ्घर्षः अभ्यर्थनार्थं,भीतिमुत्पादयितुम्, अपराधिभावं दूरयितुं च भवति । प्ररिश्रमेण विना फलं नास्ति । देशार्थं स्वार्थं परित्यज्य सङ्घर्षयामः । धैर्येण दृढविश्वासेन च भवन्तः अभिगच्छान्ति इति मे विश्वासः इति उक्तवान् । डा.बिधाचन्द्रः महात्मागान्धेः मित्रं वैद्यः चासीत् । भारतं त्यक्त्वा गच्छतु इति आन्दोलस्य अवसरे क्रि.श.१९३३ गन्धिः पुणेनगरस्य पर्ण्कुटिवैद्यालये डा.बिधनचन्द्रेण चिकित्सितः । किन्तु गान्धिः तानि औषधानि वेदेशनिर्मितानि इति तत् स्वीकर्तुम् निराकृतवान् । गान्धिः डा.बिधानचन्द्रम् उद्दिश्य अवदत् वैद्यवर्य किमर्थं भवता अहं सेवनीयः ? अस्माकं देशवासिनः चत्वारदशलक्षजनान् सेवितुं भवान् शक्नोति वा ? इति । तदा डा.बिधानचन्द्रः एवं प्रत्युत्तरं दत्तवान् गान्धिमहोदय अहं मोहनदास करमचन्द गान्धिं सेवितुं नागतवान् । चत्वारदशलक्षजनान् अपि सेवितुं मया न शक्यते । किन्तु चत्वारदशलक्षजनानां नेत्रारम् उपचर्तुम् आगतः अस्मि इति । तदा गान्धिः मौनेन औषधोपाचारं स्वीकृतवान् ।
राजनीतिप्रवेशः
[सम्पादयतु]डा. बिधनचन्द्रः क्रि.श. १९२५तमे वर्षे राजनीतिं प्रविष्टवान् । बङ्गालस्य विधानसभानिर्वाचने स्वतन्त्राभ्यर्थी सन् बारक्पुरस्य् अक्षेत्रे अटितवान् । बङ्गलस्य प्राचीनप्रसिद्धं वृद्धं सुरेन्द्रनाथ ब्यानर्जी इत्येनं अभ्यर्तिनं पराजितं कृतवान् । पक्षेतराभ्यर्थी सन् अपि काङ्ग्रेस् पक्षेण प्रोत्साहितः आसित् । एषः क्रि.श. १९२८तमे वर्षे भारतीयकाङ्ग्रेस् समितौ सदस्यत्वेन चितः । पदोन्नत्याः प्रयत्नात् अथवा अन्यविवादात् दूरे एव स्थितवान् । क्रि.श. १९२६तमे वर्षे डा.बिधानचन्द्रः बङ्गालराज्ये लघुक्रान्तिमेकम् अकरोत् । क्रि.श. १९३०तमे वर्षे मोतीलाल नेह्रू काङ्ग्रेस्पक्षस्य (CWC) कार्यकारीसमितेः सदस्यत्वं दत्तवान् । CWCसमित्या विधानमण्डलं न्यायभ्रष्टम् इति निन्दितम् । डा. बिधाचन्द्रः क्रि.श. १९३०तमवषस्य अगस्ट् २६तमे दिने आरक्षकैः बद्धः अलिपुरस्य कारावारं प्रवेशितः । क्रि.श. १९३१तमे वर्षे पचालिते दण्डिसत्याग्रहे कलकतासङ्घटनस्य नैके कार्यकर्तारः बद्धाः कारावारं गताः । कारावारं न गतच्छन् सङ्घस्य कार्याणि पश्यन् भवतु इति काङ्ग्रेस् पक्षः डा.बिधानचन्द्रम् असूचयत् । क्रि.श. १९३०-३१तमवर्षयोः ग्रामस्य प्रमुखः सन् कार्यमकरोत् क्रि.श. १९३३तमेवर्षे मण्डलस्य अध्यक्षः अभवत् । अस्य प्रशासनकाले निश्शुल्कशिक्षा, आरोग्यव्यवस्था, उत्तममार्गसौकर्यम्, विद्युद्व्यवस्था, जलानयनम्, इत्यादयः योजनाः कार्यानुष्ठाने आगताः ।
स्वातन्त्र्योत्तरम्
[सम्पादयतु]काङ्ग्रेस्पक्षः डा. बिधनचन्द्रस्य नाम बङ्गालराज्यस्य मुख्यमन्त्रिपदार्थं निर्दिशत् । डा. रायः तु स्ववृत्तौ एव अनुवर्तितुम् इष्टवान् । किन्तु गान्धिमहोदयस्य सूचनानुगुणं क्रि.श. १९४८तमवर्षस्य जनवरिमासस्य २३तमे दिने मुख्यमन्त्रिपदम् अलमकरोत् । तस्मिन् काले बङ्गालराज्ये जातिवैषम्यानि, आहाराभावः, निरुद्योगः, पूर्वपाकिस्तानतः अतिक्रमः, निराश्रिताः, इत्यादयः समास्याः नितरां बाधन्ते स्म । प्रथमं डा.रायः स्वपक्षे एकताम् अनुशासनं चानीतवान् । पश्चात् क्रमशः समस्यानां परिहारस्य विषये कार्ययोजनम् अकरोत् । केवलं वर्षत्रयेण नियमानुशासनानि अनुपालयन् राज्ये समृद्धिमानीतवान् ।
“ | We have the ability and if, with faith in our future, we exert ourselves with determination, nothing, I am sure, no obstacles, however formidable or insurmountable they may appear at present, can stop our progress... (if) all work unitedly, keeping our vision clear and with a firm grasp of our problems. | ” |
क्रि.श. १९६१तमवर्षस्य फेब्रवरिमासस्य चतुर्थे दिने एषः भारतसर्वकारेण भारतरत्नप्रशस्त्या विभूषितः । क्रि.श. १९६२तमवर्षस्य जुलैमासस्य प्रथमदिनाङ्के स्वचिकित्सालयस्य रोगिणां चिकित्सां कृत्वा पश्चात् राज्यस्य सर्वदायित्वात् विमुक्तः ब्रहोगीत् इत्यस्य ग्रन्थम् अवलोकयन् तत्र शान्तिसन्देशं पठितवान् । तत्पश्चात् ११होराकालं जीवितवान् । अनन्तरम् इहलोकं त्यक्तवान् । स्वकुटुम्बनिर्वहणार्थं स्वमातुः नम्मि शोभमानं अघोरकामिनिदेवीचिकित्सालयं दत्त्वा गतवान् । क्रि.श. १९७६तमे वर्षे वैद्यकीये, राजनीतौ, विज्ञाने, मनश्शास्त्रे, सहित्ये, कलायां च ये यशोवन्तः तेभ्यः दातुं बि.सि.रायः राष्ट्रियप्रशस्तिः उद्घुष्टा । अस्य गौरवार्थं क्रि.श. १९६७तमे वर्षे नवदेहलीनगरे डा.बि.सि.रायसंस्मरणग्रन्थालयः बालानाम् अध्ययनप्रकोष्टः च आरब्धः ।
उल्लेखाः
[सम्पादयतु]- ↑ Choudhary, Valmiki (1984). Dr. Rajendra Prasad, Correspondence and Select Documents: 1934-1937. Allied Publishers. pp. 368 (at page 133). ISBN 9788170230021.
- ↑ "संग्रह प्रतिलिपि". Archived from the original on 2009-11-26. आह्रियत 2023-09-30.