सि एन् आर् राव

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
सि एन् आर् राव्
जननम् 30 जून 1934 (1934-06-30) (वयः ८१)
बैंगलोर, मैसूर राज्य (वर्त्तमान में कर्णाटक)
वासस्थानम् भारत
देशीयता भारतीय
कार्यक्षेत्राणि रसायन शास्त्र
संस्थाः भारतीय अंतरिक्ष अनुसंधान संगठन
आईआईटी कानपुर
भारतीय विज्ञान संस्थान
ऑक्सफ़र्ड विश्वविद्यालय
कैम्ब्रिज विश्वविद्यालय
कैलिफोर्निया विश्वविद्यालय, सांता बारबरा
जवाहरलाल नेहरु उन्नत वैज्ञानिक अनुसंधान केन्द्र
मातृसंस्थाः बनारस हिंदू विश्वविद्यालय
पर्ड्यू विश्वविद्यालय
विषयेषु प्रसिद्धः घन-अवस्था रसायन शास्त्र
पदार्थ विज्ञान
प्रमुखाः प्रशस्तयः ह्युजेस मेडल (2000)
भारत-विज्ञानपुरस्कारः (2004)
(ऍफ़आरएस)(1984)
अब्दुस सलाम पदक (2008)
डैन डेविड पुरस्कार (2005)
लीजन ऑफ़ ऑनर (2005)
पद्मश्री-पुरस्कारः
पद्मविभूषण
(2013)
भारतरत्नम् (2013)
धर्मः हिन्दु


चिन्तामणि नागेश रामचन्द्ररावः (C. N. R. Rao) (जननम् जून् ३०, १९३४) कश्चन प्रसिद्धः भारतीयविज्ञानीरसायनशास्त्रे सः बहुकृतपरिश्रमः । अद्यत्वे सः भारतस्य प्रधानमन्त्रिणः वैज्ञानिकमार्गदर्शनसमित्याः प्रमुखः । डा राववर्येण ६० विश्वविद्यालयेभ्यः गौरवडाक्टर्रेट्-उपाधिः प्राप्ता अस्ति । तेन १५०० शोधपत्राणि, ४५ वैज्ञानिकपुस्तकानि च लिखितानि विद्यन्ते [१]। नवेम्बर्मासस्य १६ दिनाङ्के भारतसर्कारेण निर्णीतमस्ति यत् भारतस्य अत्युच्चप्रशस्त्या भारतरत्नेन राववर्यः सम्माननीयः इति । भारतरत्नं प्राप्तवत्सु विज्ञानिषु अयं तृतीयः वर्तते । अन्यौ सि वि रामन्वर्यः ए पि जे अब्दुलकलामवर्यश्च

जन्म, परिवारश्च[सम्पादयतु]

डॉ. “चिन्तामणि नागेश रामचन्द्र राव” इत्याख्यस्य जन्म ई. स. १९३४ तमस्य वर्षस्य जून-मासस्य ३० तमे (३० जून १९३४) दिनाङ्के कर्णाटक-राज्यस्य बेङ्गळूरु-नगरे अभवत् [२]। चिन्तामणेः पितुः नाम “हनुमन्त नागेश राव” इति आसीत् । तस्य मातुः नाम “नागम्मा नागेश राव” इति । चिन्तामणिः एकाकी एव आसीत् । यतः तस्य न कोऽपि भ्राता, न काऽपि भगिनी च । तस्य मातृपितृभ्यां गृहस्य शैक्षणिकवातावरणं निर्मितम् आसीत् । तस्य पित्रा चिन्तामणिम् आङ्ग्ल-भाषा पाठिता, मात्रा च हिन्दुसाहित्यं च पाठितम् ।

शिक्षणम्[सम्पादयतु]

चिन्तामणेः माता गणिते, हिन्दुसाहित्ये च कुशली आसीत् । अतः गृहे एव मात्रा चिन्तमणिः पाठिता । प्राथमिकशिक्षणं चिन्तामणिना गृहे एव प्राप्तम् आसीत् । अनन्तरम् ई. स. १९४० तमे वर्षे षड्वर्षस्य वयसि सः माध्यमिकविद्यालयं प्रविष्टवान् । सः कक्षायां लघुत्तमः बालकः आसीत् । तथापि सः सहपाठिभ्यः गणितम्, आङ्ग्ल-भाषां च पाठयति स्म । ई. स. १९४४ तमे वर्षे एव सः सप्तमकक्षां उत्तीर्णं कृतवान् । सः दशवर्षीयः आसित्, तदा तस्य पितृणा सः पञ्चविंशतिपैसैः पुरस्कृतः । तेन बसवनगुण्डी-नगरस्य आचार्यपाठशाला प्रविष्टा । तत्र रसायनशास्त्रे तस्य अभिरूचिः अभवत् । तस्य पिता मातृभाषायाः प्रोत्साहनाय चिन्तामणिं कन्नड-माध्यमेन पाठयितुम् इच्छति स्म । किन्तु तस्य गृहे एव आङ्ग्लभाषायां सम्भाषणं क्रियते स्म । ई. स. १९४७ तमे वर्षे चिन्तामणेः प्रथमश्रेण्यां माध्यमिकविद्यालयस्य अध्ययनं समाप्तं जातम् आसीत् । अनन्तरं सः बेङ्गळूरु-नगरस्य केन्द्रियमहाविद्यालये विज्ञानविषये स्नातककक्षाम् अधीतवान् । तत्र तस्य सञ्चारकौशल्यस्य विकासः अभवत् । तेन तत्र संस्कृतभाषा अपि पठिता । ई. स. १९५१ तमे वर्षे सः मैसूर-विश्वविद्यालयात् प्रथमश्रेण्यां स्नातकपद्वीं प्रापत् । तस्मिन् समये सः सप्तदशवर्षदेशीयः एव आसीत् [३]। अनन्तरं भारतीयविज्ञानसंस्थायां पदविकां (Diploma), रसायनमहाविद्यालये स्नातकोत्तरपदवीं वा प्राप्तुं चिन्तामणिना चिन्तितम् आसीत् । किन्तु केनचित् शिक्षकेन बनारसहिन्दुविश्वविद्यालयं प्रवेष्टुं चिन्तामणिः प्रेरितः । वर्षद्वयानन्तरं तेन बनारसहिन्दुविश्वविद्यालयात् रसायनशास्त्रे स्नातकोत्तरपदवी प्राप्ता । ई. स. १९५३ तमे वर्षे तस्मै खडगपुर-नगरस्य भारतीयप्रौद्योगिकसंस्थाने विद्यावारिध्युपाधये छात्रवृत्तिः प्रदत्ता । “एम् आई टी”, “पेन् स्टेट्”, “कोलम्बिया” “पर्ड्यू” इत्यादिभ्यः वैदेशिकविश्वविद्यालयैः अपि तस्य कृते वित्तीयसाहाय्यार्थं प्रस्तावः प्रस्थापितः । तदा चिन्तामणिना पर्ड्यू-विश्वविद्यालयस्य प्रस्तावः स्वीकृतः । ई. स. १९५४ तमे वर्षे आग्रा-विश्वविद्यालयस्य पत्रिकायां तस्य प्रथमं संशोधनपत्रं प्रकाशितम् । ई. स. १९५८ तमे वर्षे द्विवर्षोत्तरनवमासेषु (Two years and nine months) चतुर्विंशतिवर्षस्य वयसि तेन विद्यावारिधिः समाप्ता ।

विवाहः[सम्पादयतु]

ई. स. १९५० तमवर्षे इन्दुमत्या सह चिन्तामणेः विवाहः अभवत् । तस्य एकः पुत्रः, एका पुत्री च अस्ति । सञ्जयः, सुचित्रा च । सञ्जयः बेङ्गळूरु-नगरस्य विद्यालये विज्ञानविकासाय कार्यरतः अस्ति । सुचित्रा “के. एम्. गणेश” इत्याख्येन सह विवाहम् अकरोत् । “के एम् गणेश” इत्याख्यः महाराष्ट्र-राज्यस्य पुणे-नगरस्थस्य “भारतीयविज्ञानशिक्षणानुसन्धानकेन्द्रस्य” (Indian Institute of Science Education and Research (IISER)) निर्देशकः अस्ति । चिन्तामणिना उन्नतविज्ञानं न रोचते । सङ्गणकस्य अपि उपयोगं न करोति । तस्य उत्पीठिकायां सङ्गणकः अपि न भवति । सः कदापि विसन्देशं न पश्यति । अन्ये जनाः तस्य विसन्देशं पश्यन्ति । चिन्तामणिः जङ्गदूरभाषस्य अपि उपयोगं न करोति । चिन्तामणिः केवलं पत्न्या सह वार्तालापं कर्तुं एव जङ्गमदूरभाषस्य उपयोगं करोति ।

विज्ञानक्षेत्रे योगदानम्[सम्पादयतु]

विश्वस्य प्रमुखैः वैज्ञानिकसंस्थाभिः रसायनशास्त्रक्षेत्रे चिन्तामणिः उत्कृष्टः मन्यते । गतपञ्चाशत्वर्षेषु तेन घनावस्थासम्बद्धानि, द्रव्यरसायनशास्त्रसम्बद्धानि च पञ्चचत्वारिंशत् पुस्तकानि च लिखितानि । एतयोः विषययोः तस्य चतुर्दशशतधिकानि संशोधनपत्राणि अपि प्रकाशितानि सन्ति । ये वैज्ञानिकाः तेन सह कार्यं कुर्वन्ति स्म, ते सर्वे निवृत्ताः अभवन् । किन्तु चिन्तामणिः एकाशीतिवर्षस्य वयसि अपि सक्रियः अस्ति । साम्प्रतं सः प्रधानमन्त्रिणः वैज्ञानिकमन्त्रदातृत्वेन परिषदि अध्यक्षपदे सेवारतः अस्ति । सः घनावस्थायै, द्रव्यरसायनाय च जगति प्रसिद्धः अस्ति । पदार्थानां गुण-आणविकसंरचनायोः मध्ये मूलभूतावगमनाय तस्य महद्योगदानम् अस्ति ।

नीतिनिर्मातृत्वेन चिन्तामणिः[सम्पादयतु]

विज्ञानक्षेत्रे भारतस्य नीतीः निर्माणाय चिन्तामणेः महत्त्वपूर्णं योगदानम् अस्ति । सः भारतस्य भूतपूर्वस्य प्रधानमन्त्रिणः इन्दिरागान्धिनः वैज्ञानिकमन्त्रदातृपरिषदः सदस्यः अपि आसीत् । तदनन्तरं सः राजीवगान्धिः, एच् डी देवगोडा, इन्द्रकुमार गुजराल इत्यादीनां प्रधानमन्त्रिकार्यकाले अपि परिषदः अध्यक्षत्वेन कार्याणि कृतानि आसन् [४]

वृत्तिजीवनम्[सम्पादयतु]

ई. स. १९६३ तः १९७६ तमवर्षपर्यन्तं चिन्तामणिना कानपुर-नगरस्य भारतीयप्रौद्योगिकसंस्थाने रसायनशास्त्रविभागे स्थिरपदं प्राप्तम् । अस्याम् समयावधौ ई. स. १९६४ तमे वर्षे भारतीयविज्ञानसंस्थया सः सदस्यत्वेन अपि निर्वाचितः जातः आसीत् । ई. स. १९७६ तमे वर्षे सः भारतीयविज्ञानसंस्थाने घनावस्थायाः, संरचनात्मकस्य रसायनशास्त्रस्य च घटकं स्थापयितुं प्रत्यागतवान् । अनन्तरम् ई. स. १९८४ तः १९९४ तमवर्षपर्यन्तं चिन्तमणिः भारतीयविज्ञानसंस्थानस्य निर्देशकत्वेन आसीत् । सम्पूर्णे वृत्तिकाले पर्ड्यु-विश्वविद्यालये, कैम्ब्रिज्-विश्वविद्यालये केलिफॉर्निया-विश्वविद्यालये, ऑक्स्फॉर्ड्-विश्वविद्यालये इत्यादिषु वैदेशिकविश्वविद्यालयेषु चिन्तामणिः अतिथिप्राध्यापकत्वेन कार्यरतः आसीत् । ई. स. १९८३ तः १९८४ तमवर्षपर्यन्तं सः कैम्ब्रिज्-विश्वविद्यालये प्राध्यापकत्वेन, कैम्ब्रिज्-विश्वविद्यालयस्य “किङ्ग्स्-महाविद्यालये” प्राध्यापकीयसदस्यत्वेन आसीत् । वर्तमाने चिन्तामणिः बेङ्गळूरु-नगरस्य “जवाहरलालनेहरू-उन्नतवैज्ञानिकानुसंधानकेन्द्रे” (Jawaharlal Nehru Centre for Advanced Scientific Research, Bangalore (JNCASR)) राष्ट्रियानुसन्धानप्राध्यापकत्वेन, मानदौपाध्यक्षेन च अस्ति । इदम् अनुसन्धानकेन्द्रम् ई. स. १९८९ तमे वर्षे चिन्तामणिना एव स्थापितम् आसीत् । ई. स. २००५ तमे वर्षे सर्वकारेण चिन्तामणिः प्रधानमन्त्रिणः वैज्ञानिकमन्त्रदातृत्वेन निर्वाचितः । सः अन्ताराष्ट्रियद्रव्यविज्ञानकेन्द्रे (International Centre for Materials Science (ICMS)) अपि निर्देशकत्वेन कार्यरतः अस्ति [५]

विवादाः[सम्पादयतु]

चिन्तामणौ साहित्यचौर्यस्य आक्षेपः आसीत् । ई. स. २०११ तमे वर्षे “एडवान्स्ड् मटेरियल्” (Advanced Materials) इति नामिकायां समपरीक्षितपत्रिकायां चिन्तामणिना स्वस्य शोधपत्रे अन्यस्य वैज्ञानिकस्य संशोधनं पुनर्प्रस्तुतं कर्तुं क्षमा याचिता । यद्यपि चिन्तामणेः सहयोगिना, शोधपत्रस्य अपरः वरिष्ठः लेखकेन कृपानिधिना च भारतीयविज्ञानसंस्थानस्य विद्यावारिधेः छात्रः अस्याः त्रूटेः उत्तरदायी कथितः । करुणानिधिना उक्तं यत् – “वाक्यमिदं शोधपत्रस्य भूमिकायाः अंशः आसीत् । अयमंशः अस्माकं विद्यावारिधेः छात्रेण लिखितः । अतः कार्यमिदं वयं न जानिमः स्म” इति । अनन्तरं विद्यावारोधेः छात्रेण अस्य सम्पादनस्य उत्तरदायित्वम् अङ्गीकृतम् , क्षमायाचनापत्रं लिखितम् च । ततः परं चिन्तामणिना तच्छोधपत्रं प्रत्यानेतुं प्रस्तावः स्थापितः । किन्तु सम्पादकेन तत्पत्रं यथावत्सम्पादितम् आसीत् ।

भारतरत्नप्रशस्तेः घोषणानन्तरं ई. स. २०१३ तमस्य वर्षस्य नवम्बर-मासस्य १७ दिनाङ्के (१७ नवम्बर २०१३) एकस्मिन् सञ्चारमाध्यमसम्मेलने चिन्तामणिना भारतीयराजनेतारः “मूढाः” इति कथिताः । चिन्तामणेः इदं कृत्यं राष्ट्रियनिन्दा कथ्यते । चिन्तामणिना उक्तं यत् – “सर्वकारेण अस्मभ्यं यद्धनं दत्तं, तेन अस्माभिः बहूनि कार्याणि कृतानि सन्ति । किन्तु राजनेतृभिः अस्मभ्यम् अल्पं धनम् एव प्रदत्तम्” इति । अन्ते चिन्तामणिना स्वस्य रक्षणार्थम् उक्तं यत् – “अहं केवलं मूर्खतापूर्णकार्यस्य विषये वदामि । यतः राजनेतारः विज्ञानानुसन्धानार्थं निधेः निवेशं न कुर्वन्ति” इति ।

प्रशस्तयः, पुरस्काराः च[सम्पादयतु]

चिन्तामणिना जीवने बहवः पुरस्काराः, प्रशस्तयः च प्राप्ताः । भारतीयसर्वकारेण, भारतस्य, विदेशस्य च विभिन्नसंस्थाभिः च चिन्तामणिः पुरस्कारैः, प्रशस्तिभिः च सम्मानितः ।

वैज्ञानिकपुरस्काराः[सम्पादयतु]

ई. स. १९६१ तमे वर्षे मैसूर-विश्वविद्यालयेन DSc (Differential Scanning Calorimetry) इत्युपाधिना चिन्तामणिः अलङ्कृतः । ई. स. १९६७ तमे वर्षे इङ्ग्लैण्ड्-देशस्य फैराडे-समित्या चिन्तामणये “मार्लोपदकं” (Marlow Medal) प्रदत्तम् । ई. स. १९६८ तमे वर्षे रसायनविज्ञानक्षेत्रे “शान्ति स्वरूप भटनागर” इत्यनेन पुरस्कारेण चिन्तामणिः सम्मानितः । ई. स. १९७३ तमे वर्षे तस्मै “यद्दनापल्लि-पदकं” प्रदत्तम् आसीत् । ई. स. १९७५ तमे वर्षे भारतस्य विश्वविद्यालयानुदानायोगेन (UGC) भौतिकविज्ञानाय चिन्तामणये “सी वी रामन् पुरस्कारः” प्रदत्तः । ई. स. १९८० तमे वर्षे भारतीयराष्ट्रियविज्ञानसंस्थानेन चिन्तामणिः “एस् एन् बोस” इति पदकेन अलङ्कृतः । ई. स. १९८१ तमे वर्षे इङ्ग्लैण्ड-देशस्य सर्वकारेण तस्मै “रॉयल् सोसायटी ऑफ् केमिस्ट्री” इति पदकं प्रदत्तम् । ई. स. १९८९ तमे वर्षे चेकोस्लोवाक-नामिकया विज्ञानसंस्थया चिन्तामणिः “हेवरोस्कि” इति स्वर्णपदकेन सम्मानितः । ई. स. १९९० तमे वर्षे भारतीयविज्ञानसंस्थानेन चिन्तामणिः “मेघनाथ साहा” इति पदकं प्राप्तवान् । ई. स. १९९६ तमे वर्षे संयुक्तराष्ट्रशैक्षिकवैज्ञानिकसांस्कृतिकसङ्घटनेन (UNESCO) “आइन्स्टाइन्” इत्यनेन स्वर्णपदकेन चिन्तामणेः सम्माननं कृतम् आसीत् । ई. स. २००० तमे वर्षे लण्डन्-नगरस्य “रॉयल् सोसायटी ऑफ् केमिस्ट्री” इत्यनया संस्थया शताब्दीपदकेन चिन्तामणिः अलङ्कृतः । ई. स. २००० तमे वर्षे “रॉयल् सोसायटी” इत्यनया संस्थया चिन्तामणये “ह्युजेस्” इति पदकं प्रदत्तम् । ई. स. २००४ तमे वर्षे कलकत्ताविश्वविद्यालयेन “विज्ञानस्य विद्यावारिधिः” इत्युपाधिना सम्मानितः चिन्तामणिः । ई. स. २००४ तमे वर्षे चिन्तामणिः द्रव्यानुसन्धानस्य अन्ताराष्ट्रियसङ्घस्य सोमैया-पुरस्कारः प्राप्तवान् । तस्मिन्नैव वर्षे सः भारतविज्ञानपुरस्कारः अपि प्रापत् । ई. स. २००५ तमे वर्षे चिन्तामणिना तेल अवीव विश्वविद्यालयस्य “दान डेविड्” इत्ययं पुरस्कारः प्राप्तवान् । ई. स. २००८ तमे वर्षे “द वर्ल्ड् अकेडमी ऑफ् सायन्स्” इत्यनया संस्थया “अब्दुस सलाम” इत्यनेन पुरस्कारेण चिन्तामणिः सम्मानितः । ई. स. २००८ तमे वर्षे विज्ञानप्रौद्योगिकक्षेत्रे जापान्-देशस्य सर्वकारेण चिन्तामणये “निक्केई एशिया” इति पुरस्कारः प्रदत्तः आसीत् । ई. स. २००९ तमे वर्षे “रॉयल् सोसायटी” इत्यनया “रॉयल्” इति पदकेन चिन्तामणेः सम्माननं कृतम् । ई. स. २०१० तमे वर्षे जर्मनी-देशस्य रसायन-समितिः “अगस्त-विल्हेम्-वॉन्-होफ्मन्” इत्यनेन पदकेन चिन्तामणेः सम्माननं कृतवती । ई. स. २०११ तमे वर्षे द्रव्यानुसन्धानाय तस्मै “अर्नेस्टो इलि ट्राएस्टे सायन्स्” इति पदकं प्रदत्तम् । ई. स. २०१३ तमे वर्षे विज्ञान-संस्थया सः मानदवैदेशिकसदस्यत्वेन चितः । ई. स. २०१३ तमे वर्षे पटना-नगरस्य भारतीयप्रौद्योगिकसंस्थानेन गनमान्यविद्वानपुरस्कारेण चिन्तामणिः सम्मानितः ।

भारतसर्वकारसम्माननानि[सम्पादयतु]

ई. स. १९७४ तमे वर्षे भारतसर्वकारेण चिन्तामणये “पद्मश्रीप्रशस्तिः” प्रदत्ता आसीत् । ई. स. १९८५ तमे वर्षे चिन्तामणिः पद्मविभूषणप्रशस्तिः प्राप्ता । ई. स. २००१ तमे वर्षे कर्णाटकसर्वकारेण चिन्तामणिः “कर्णाटकरत्नप्रशस्तिना” सम्मानितः । ई. स. २०१४ तमे वर्षे भारतसर्वकारेण चिन्तामणये भारतस्य सर्वोच्चनागरिकत्वेन “भारतरत्नप्रशस्तिः” प्रदत्ता [६]

वैदेशिकसम्माननानि[सम्पादयतु]

ई. स. २००२ तमे वर्षे ब्राजिल्-देशस्य राष्ट्रपतिना चिन्तामणेः “Great Cross of the National Order of Scientific Merit” इति सम्माननं कृतम् । ई. स. २००९ तमे वर्षे रूस-देशस्य राष्ट्रपतिना मित्रतायाः आदेशः कृतः । ई. स. २०१५ तमे वर्षे जापान्-देशस्य सर्वकारेण “उदितः सूर्यः” इति आदिश्य स्वर्ण-रजततारके प्रदत्ते ।

विविधासु संस्थासु सदस्यता[सम्पादयतु]

चिन्तामणेः भारतस्य, विदेशस्य बहुषु संस्थासु सदस्या अस्ति । एताः संस्थाः अनुसन्धानाय चिन्तामणेः साहाय्यं, मार्गदर्शनं वा प्राप्नोति । “राष्ट्रियविज्ञानसंस्थानं”, “अमेरिकन अकेडमी ऑफ् आर्ट्स् एण्ड् सायन्स्” , लण्डन्-नगरस्य “द रॉयल् सोसायटी”, कनाडा-देशस्य “रॉयल् सोसायटी”, “फ्रेञ्च्-अकेडमी”, “जापनीज्-अकेडमी”, “सेर्बिअन् अकेडमी ऑफ् सायन्स् एण्ड् आर्ट्स्”, “पॉलिश् अकेडमी ऑफ् सायन्स्”, “चेकोस्लोवोक् अकेडमी ऑफ् सायन्स्”, “स्लोवेनियन् अकेडमी ऑफ् सायन्स्”, “ब्राजिलियन् अकेडमी ऑफ् सायन्स्”, “स्पेनिश् रॉयल् अकेडमी ऑफ् सायन्स्”, कोरिया देशस्य “नेशनल् अकेडमी ऑफ् सायन्स्”, “आफ्रिकन् अकेडमी ऑफ् सायन्स्”, “अमेरिकन् फिलोसोफिकल् सोसायटी”, “पोन्टीफिकल् अकेडमी” इत्यादिषु संस्थासु “चिन्तामणि नागेश रामचन्द्र राव” इत्याख्यस्य सदस्यत्वम् अस्ति ।

टिप्पणी[सम्पादयतु]

  1. Johnson R (20 July 2012). "Author Profile: C. N. R. Rao". Retrieved 27 अप्रैल 2014. 
  2. हमारे भारत रत्न विजेता, डॉ. एम् जे बन्धिया, प्रो. हितेष डी. वैष्णव, पृ. - ३८०
  3. हमारे भारत रत्न विजेता, डॉ. एम् जे बन्धिया, प्रो. हितेष डी. वैष्णव, पृ. - ३८०
  4. हमारे भारत रत्न विजेता, डॉ. एम् जे बन्धिया, प्रो. हितेष डी. वैष्णव, पृ. - ३८१
  5. हमारे भारत रत्न विजेता, डॉ. एम् जे बन्धिया, प्रो. हितेष डी. वैष्णव, पृ. - ३८१
  6. हमारे भारत रत्न विजेता, डॉ. एम् जे बन्धिया, प्रो. हितेष डी. वैष्णव, पृ. – ३८२-३८३
"https://sa.wikipedia.org/w/index.php?title=सि_एन्_आर्_राव&oldid=390670" इत्यस्माद् पुनः प्राप्तिः