सामग्री पर जाएँ

गोपिनाथ बोर्डोलोयि

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
गोपिनाथ बोर्डोलोयि
गोपिनाथ बोर्डोलोयि
जन्म क्रि.श. १८९०तमवर्षम् ।
मृत्युः क्रि.श. १९५०तमवर्षम् ।
देशीयता भारतीयः
शिक्षणस्य स्थितिः कोलकाता विश्वविद्यालय, स्कॉटिश चर्च कॉलेज, कॉटन विश्वविद्यालय, गुवाहाटी Edit this on Wikidata
वृत्तिः राजनैतिज्ञः, स्वतंत्रता सेनानी, साहित्यकारः edit this on wikidata
पितरौ (माता)
(पिता)

गोपीनाथ बोरदोलोयी स्वातन्त्र्ययोद्धा असमराज्यस्य प्रथममुख्यमन्त्री । भारतस्य स्वातन्त्र्योत्तरं गोपीनाथः सरदार् वल्लभभायी पटेलः इत्यनेन सह समीपवर्तिनः कार्यम् अकरोत् । अस्य योगदानस्य कारणेन एव असमराज्यं, चीनातः, पूर्वपाकिस्तानतः पृथक् सत् भारतस्य अविभाज्य-अङ्गत्वेन स्थितम् । क्रि.श. १९३८तमवर्षस्य सेप्टम्बर् मासस्य १९तमदिनाङ्कतः क्रि.श. १९३९तमवर्षस्य नवम्बरमासस्य १७दिनाङ्कपर्यन्तम् असमराज्यस्य मुख्यमन्त्री आसीत् ।[]

शिक्षा

[सम्पादयतु]

गोपीनाथस्य जन्म क्रि.श. १८९०तमवर्षस्य जून् मासस्य षष्टे दिने रहा इति स्थाने अभवत् । अस्य पिता बुद्धेश्वर बोरदोलोयी माता प्राणेश्वरी बोरदोलोयी च । यदा गोपिनाथः द्वादशवर्षीयः आसीत् तदा माता दिवङ्गता । क्रि.श. १९०७ तमे वर्षे मेट्रिक् परीक्षाम् उत्तीर्य काटन् काटन् कालेज् प्रविष्टवान् । क्रि.श. १९०९तमे वर्षे प्रथमश्रेण्याम् ऐ.ए.उत्तीर्णातां प्राप्य कोलकातायाः प्रसिद्धं सोत्तिल् चर्च् महाविद्यालयं प्रविष्टवान् । क्रि.श. १९११तमे वर्षे स्नातकपदवीमवाप्नोत् । क्रि.श.१९१४तमे वर्षे कोलकाताविश्वविद्यालयतः स्नातकोत्तरपदवीं प्राप्तवान् । पश्चात् वर्षत्रयम् आधुनिकन्यायस्य अध्ययनं कृतवान् । किन्तु परीक्षाम् अविलिख्य गुवहाटीम् आगतवान् । पश्चात् तरुणराम फुकन् इत्यस्य साहाय्येन सोनारामप्रौढशालायां प्रांशुपालस्य तात्कालिकम् उद्योगं प्राप्तवान् । तन्मध्ये आधुनिकन्यायस्य परीक्षाम् उत्तीर्णवान् । क्रि.श. १९१७तमे वर्षे गुवाहाट्यां न्यायवादिनः कार्यम् आरब्धवान् ।

क्रान्तिकारिजीवनम्

[सम्पादयतु]

ई. स. १९१७ तमे वर्षे गोपीनाथेन अधिवक्तुः कार्यम् आरब्धम् आसीत् । तस्मिन् समये महात्मागान्धिः भारतस्य स्वतन्त्रतायै आन्दोलनानि कुर्वन् आसीत् । महात्मागान्धिनः आदेशानुसारं बहुभिः जनैः सर्वकारवृत्तिः त्यक्ता आसीत् । ते सर्वे असहयोगान्दोलने सम्मिलिताः अभवन् । गोपीनाथेन अपि स्वस्य कार्यं त्यक्त्वा स्वातन्त्र्यान्दोलने सम्मिलितः जातः । तस्मिन् समये तेन सह असम-राज्यस्य अन्ये नेतारः अपि आसन् । तेषु “नवीनचन्द्र बोरदोलोई”, “चन्द्रनाथ शर्मा”, “कुलाधार चलिहा”, “तरुणराम फूकन” इत्यादयः आसन् । आन्दोलने सम्मिलिते सति तेन सर्वप्रथमं दक्षिणकामरूप-मण्डलस्य, गोआलपाडा-मण्डलस्य च भ्रमणं कृतम् आसीत् । सः जनान् प्रेरयति स्म यत् – “सर्वे वैदेशिकवस्तूनां बहिष्कारं कुर्युः, आङ्ग्लानां कार्ये असहयोगं कुर्युः च” इति । गोपीनाथस्य अनेन कृत्येन आङ्ग्लसर्वकारेण गोपीनाथः, तस्य सहयोगिनः च बद्धाः । तेभ्यः सर्वेभ्यः एकवर्षस्य कारावासस्य दण्डः प्रदत्तः । अनन्तरं तेन सम्पूर्णतया भारतस्य स्वतन्त्रतायै स्वस्य जीवनं समर्पितम् []

राजनैतिकजीवनम्

[सम्पादयतु]

ई. स. १९२६ तमे वर्षे गोपीनाथः कॉङ्ग्रेस्-पक्षस्य चतुर्विंशतितमे (४१) अधिवेशने भागं गृहीतवान् । अनन्तरं तेन सामाजिककार्याणि अपि कृतानि आसन् । ई. स. १९३२ तमे वर्षे सः गुवाहाटी-नगरस्य नगरपालिकामण्डलस्य अध्यक्षत्वेन चितः । तस्मिन् समये असमराज्यस्य आर्थिकास्थितिः समीचिना नासीत् । असम-राज्ये उच्चन्यायालयः, विश्वविद्यालयः चापि नासीत् । गोपीनाथस्य प्रयासैः असम-राज्ये उच्चन्यायालयस्य, विश्वविद्यालस्य व्यवस्था जाता । ई. स. १९३९ तमे वर्षे कॉङ्ग्रेस-पक्षेन विधानसभायै निर्वाचने भागं वोढुं निश्चयः कृतः, तस्मिन् समये गोपीनाथः असम-राज्यस्य निर्वाचने विजयं प्रापत् । तदा सः असम-राज्यस्य मुख्यमन्त्री अभवत् । तेन असम-राज्ये पुलोमह्या (Opium) अवरुद्धा । विश्वयुद्धस्य आरम्भे “गोपीनाथ बारदोलोई” इत्याख्यः मुख्यमन्त्रिपदं त्यक्तवान्, कारागारं गतवान् च । युद्धस्य समाप्त्यनन्तरं “गोपीनाथ बारदोलोई” इत्याख्यः पुनः असम-राज्यस्य मुख्यमन्त्री अभवत् ।

असमनिर्मातृत्वेन गोपीनाथः

[सम्पादयतु]

भारतस्य स्वातन्त्र्यपूर्वं भारतस्य विभाजनस्य चर्चा जायमाना आसीत् । तस्मिन् समये असम-राज्यस्य शासनव्यवस्थायाः दायित्वं गोपीनाथस्य कृते आसीत् । ब्रिटिश-सर्वकारस्य योजनायाः अनुभुतम् आसीत् यत् – “असम-राज्यस्य विभागान् कृत्वा असम-राज्यस्य सार्धः भागः पूर्वपाकिस्ताने वर्तमानकालिके बाङ्ग्लादेशे वा सम्मिलितः भवेत्” इति । यदि गोपीनाथः, तस्य सहभागिनः च जागृताः न स्युः, तर्हि साम्प्रतम् असम-राज्यं बाङ्ग्लादेशस्य कश्चन भागः स्यात् । भारतीयस्वातन्त्र्यसङ्ग्रामसम्बद्धाः जनाः जानन्ति स्म यत् – “भारतस्य इच्छां विना एव ब्रिटिश-सर्वकारेण द्वितीययुद्धे भारतदेशः भागग्राहितत्वेन निर्दिष्टः । तस्मिन् समये यदा महात्मागान्धिना असहयोगान्दोलनम् आरब्धम् आसीत्, तदा गोपीनाथस्य मन्त्रिमण्डलेन त्यागपत्रं प्रदत्तम् आसीत् । ई. स. १९६४ विश्वयुद्धस्य समाप्तेः अननतरं असम-राज्ये कॉङ्ग्रेस-पक्षः बहुमतैः जितः । तदा गोपीनाथः पुनः असम-राज्यस्य मुख्यमन्त्रिपदं प्राप्तम् । तस्मिन् समये नैकेषां प्रदेशाणां मुख्यमन्त्रिणः एव प्रधानमन्त्री कथ्यते स्म । अतः ब्रिटिश-सर्वकारेण विभिन्नप्रदेशानां विभिन्नप्रधानमन्त्रिभिः सह चर्चा कृता । प्रारम्भे अस्यां चर्चायां “गोपीनाथ बारदोलोई” इत्याख्याय निमन्त्रणं न प्रदत्तम् आसीत् । यतः ब्रिटिश-सर्वकारः गोपीनाथस्य भारतीयविचायैः परिचितः आसीत् । ब्रिटिश-सर्वकारः भारतस्य विभाजनाय षड्यन्त्राणि रचयती स्म । अतः ब्रिटिश-सर्वकारेण “ग्रुपिङ्ग् सिस्टम्” इतीयं योजना निर्मिता । ब्रिटिश-सर्वकारेण इयं योजना कॉङ्ग्रेस-पक्षस्य प्रमुखाणां सदस्यानां समक्षे प्रस्थापिता । तस्मिन् समये जुलाई मासस्य ६, ७ च दिनाङ्के मुम्बई-नगरे कॉङ्ग्रेस्-पक्षस्य अधिवेशनम् अभवत् । कॉङ्ग्रेस-पक्षेण अपि तस्यां योजनायां विचारः कृतः । किन्तु कॉङ्ग्रेस्-पक्षस्य नेतारः ब्रिटिश्-सर्वकारस्य षड्यन्त्रम् अवगन्तुम् असमर्थाः । तेन कॉङ्ग्रेस-पक्षस्य नेतृभिः तस्याः योजनायाः समर्थनं कृतम् । किन्तु “गोपीनाथ बारदोलोई” इत्याख्यः अस्याः योजनायाः विरोधं कुर्वन् आसीत् । “गोपीनाथ बारदोलोई” इत्याख्येन उक्तम् आसीत् यत् – “असनसम्बद्धाः ये निर्णयाः भविष्यन्ति, तेषां सम्पूर्णाधिकारम् असम-राज्यस्य विधानसभायाः, जनानां च भविष्यति । अन्ते “गोपीनाथ बारदोलोई” इत्याख्यस्य निर्णयेन ब्रिटिश-सर्वकारः असम-राज्यस्य विभागः कर्तुम् असमर्थः जातः । अनेन प्रसङ्गेन भारतीयस्तरस्य नेतृषु गोपीनाथस्य महत्त्वपूर्णं स्थानम् अभवत् । अतः एव साम्प्रतमपि असम-राज्यस्य जनाः गोपीनाथं “शेर-ए-असम” इति कथयन्ति []

शिक्षणे योगदानम्

[सम्पादयतु]

तस्मिन् काले विद्यालयेषु राजनैतिकगतिविधियः प्रचलन्ति स्म । अतः ई. स. १९२९ तमे वर्षे सर्वकारप्रचालितेषु विद्यालयेषु राजनैतिकगतिविधीः अवरोद्धुं सर्वकारेण आदेशः कृतः । तदा गोपीनाथेन अपि तादृशानां विद्यालयानां बहिष्कारान्दोलनं कृतम् । “गोपीनाथ बारदोलोई” इत्याख्यस्य प्रयत्नैः गुवाहाटी-नगरे “कामरूप-अकादमी”, बरुआ-महाविद्यालयः च स्थापितः । समयान्तरे “गोपीनाथ बारदोलोई” इत्याख्यः प्रशासनिककार्येषु संलग्नः जातः । अतः “गोपीनाथ बारदोलोई” इत्याख्येन “गुवाहाटी-विश्वविद्यालयः”, “असम मेडिकल महाविद्यालयः” इत्यादीनां यान्त्रिकसंस्थानां स्थापनायै योगदानं प्रदत्तम् आसीत् ।

प्रशस्तिः, सम्माननं च

[सम्पादयतु]

गोपीनाथस्य मृत्योः अनन्तरं ई. स. १९९९ तमे वर्षे भारतस्य सर्वोच्चनागरिकत्वेन सर्वकारेण “भारतरत्न” इति प्रशस्त्या सम्मानितः । यतः “गोपीनाथ बारदोलोई” इत्याख्येन असम-राज्यस्य विकासाय, उन्नत्यै च बहवः प्रयासाः कृताः आसन् । अतः तस्य कार्यैः प्रभावितेन सर्वकारेण भारतरत्नप्रशस्तिः प्रदत्ता । ई. स. २००२ तमस्य वर्षस्य अक्टूबर-मासस्य प्रथमे (१) दिनाङ्के (१ अक्टूबर २००२) तत्कालीनेन राष्ट्रपतिना “ए. पी. जे . अब्दुल कलाम” इत्याख्येन संसद्भवने “गोपीनाथ बोरडोलोई” इत्याख्यस्य स्मृतौ एका प्रतिमा स्थापिता []

मृत्युः

[सम्पादयतु]

ई. स. १९५० तमवर्षस्य अगस्त-मासस्य ५ दिनाङ्के (५ अगस्त १९५०) गुवाहाटी-नगरे “गोपीनाथ बारदोलोई” इत्याख्यस्य मृत्युः अभवत् । यदा “गोपीनाथ बारदोलोई” इत्याख्यस्य मृत्युः अभवत्, तदा ६० वर्षदेशीयः आसीत् []

भारतरत्नम्

[सम्पादयतु]

क्रि.श. १९९९तमे वर्षे एषः भारतसर्वकारस्य सर्वोच्चपुरस्कारेण भारतरत्नप्रशस्त्या भूषितः अभवत् ।

टिप्पणी

[सम्पादयतु]
  1. Baruah, L.M. ((1992).). Lokopriya Gopinath Bordoloi, an Architect of Modern India. Gyan Publishing House. ISBN 81-212-0404-6.
  2. हमारे भारत रत्न विजेता, डॉ. एम् जे बन्धिया, प्रो. हितेष डी. वैष्णव, पृ. – ३५७-३५८
  3. हमारे भारत रत्न विजेता, डॉ. एम् जे बन्धिया, प्रो. हितेष डी. वैष्णव, पृ. – ३५९-३६०
  4. हमारे भारत रत्न विजेता, डॉ. एम् जे बन्धिया, प्रो. हितेष डी. वैष्णव, पृ. - ३६०
  5. हमारे भारत रत्न विजेता, डॉ. एम् जे बन्धिया, प्रो. हितेष डी. वैष्णव, पृ. - ३६०

बाह्यसम्पर्कतन्तुः

[सम्पादयतु]
"https://sa.wikipedia.org/w/index.php?title=गोपिनाथ_बोर्डोलोयि&oldid=492903" इत्यस्माद् प्रतिप्राप्तम्