गोपिनाथ बोर्डोलोयि

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
गोपिनाथ बोर्डोलोयि

गोपिनाथ बोर्डोलोयि
जननम् क्रि.श. १८९०तमवर्षम् ।
मरणम् क्रि.श. १९५०तमवर्षम् ।
राष्ट्रियता भारतीयः
मातपितरौ (माता)
(पिता)

गोपीनाथ बोरदोलोयी स्वातन्त्र्ययोद्धा असमराज्यस्य प्रथममुख्यमन्त्री । भारतस्य स्वातन्त्र्योत्तरं गोपीनाथः सरदार् वल्लभभायी पटेलः इत्यनेन सह समीपवर्तिनः कार्यम् अकरोत् । अस्य योगदानस्य कारणेन एव असमराज्यं, चीनातः, पूर्वपाकिस्तानतः पृथक् सत् भारतस्य अविभाज्य-अङ्गत्वेन स्थितम् । क्रि.श. १९३८तमवर्षस्य सेप्टम्बर् मासस्य १९तमदिनाङ्कतः क्रि.श. १९३९तमवर्षस्य नवम्बरमासस्य १७दिनाङ्कपर्यन्तम् असमराज्यस्य मुख्यमन्त्री आसीत् ।[१]

शिक्षा[सम्पादयतु]

गोपीनाथस्य जन्म क्रि.श. १८९०तमवर्षस्य जून् मासस्य षष्टे दिने रहा इति स्थाने अभवत् । अस्य पिता बुद्धेश्वर बोरदोलोयी माता प्राणेश्वरी बोरदोलोयी च । यदा गोपिनाथः द्वादशवर्षीयः आसीत् तदा माता दिवङ्गता । क्रि.श. १९०७ तमे वर्षे मेट्रिक् परीक्षाम् उत्तीर्य काटन् काटन् कालेज् प्रविष्टवान् । क्रि.श. १९०९तमे वर्षे प्रथमश्रेण्याम् ऐ.ए.उत्तीर्णातां प्राप्य कोलकातायाः प्रसिद्धं सोत्तिल् चर्च् महाविद्यालयं प्रविष्टवान् । क्रि.श. १९११तमे वर्षे स्नातकपदवीमवाप्नोत् । क्रि.श.१९१४तमे वर्षे कोलकाताविश्वविद्यालयतः स्नातकोत्तरपदवीं प्राप्तवान् । पश्चात् वर्षत्रयम् आधुनिकन्यायस्य अध्ययनं कृतवान् । किन्तु परीक्षाम् अविलिख्य गुवहाटीम् आगतवान् । पश्चात् तरुणराम फुकन् इत्यस्य साहाय्येन सोनारामप्रौढशालायां प्रांशुपालस्य तात्कालिकम् उद्योगं प्राप्तवान् । तन्मध्ये आधुनिकन्यायस्य परीक्षाम् उत्तीर्णवान् । क्रि.श. १९१७तमे वर्षे गुवाहाट्यां न्यायवादिनः कार्यम् आरब्धवान् ।

क्रान्तिकारिजीवनम्[सम्पादयतु]

ई. स. १९१७ तमे वर्षे गोपीनाथेन अधिवक्तुः कार्यम् आरब्धम् आसीत् । तस्मिन् समये महात्मागान्धिः भारतस्य स्वतन्त्रतायै आन्दोलनानि कुर्वन् आसीत् । महात्मागान्धिनः आदेशानुसारं बहुभिः जनैः सर्वकारवृत्तिः त्यक्ता आसीत् । ते सर्वे असहयोगान्दोलने सम्मिलिताः अभवन् । गोपीनाथेन अपि स्वस्य कार्यं त्यक्त्वा स्वातन्त्र्यान्दोलने सम्मिलितः जातः । तस्मिन् समये तेन सह असम-राज्यस्य अन्ये नेतारः अपि आसन् । तेषु “नवीनचन्द्र बोरदोलोई”, “चन्द्रनाथ शर्मा”, “कुलाधार चलिहा”, “तरुणराम फूकन” इत्यादयः आसन् । आन्दोलने सम्मिलिते सति तेन सर्वप्रथमं दक्षिणकामरूप-मण्डलस्य, गोआलपाडा-मण्डलस्य च भ्रमणं कृतम् आसीत् । सः जनान् प्रेरयति स्म यत् – “सर्वे वैदेशिकवस्तूनां बहिष्कारं कुर्युः, आङ्ग्लानां कार्ये असहयोगं कुर्युः च” इति । गोपीनाथस्य अनेन कृत्येन आङ्ग्लसर्वकारेण गोपीनाथः, तस्य सहयोगिनः च बद्धाः । तेभ्यः सर्वेभ्यः एकवर्षस्य कारावासस्य दण्डः प्रदत्तः । अनन्तरं तेन सम्पूर्णतया भारतस्य स्वतन्त्रतायै स्वस्य जीवनं समर्पितम् [२]

राजनैतिकजीवनम्[सम्पादयतु]

ई. स. १९२६ तमे वर्षे गोपीनाथः कॉङ्ग्रेस्-पक्षस्य चतुर्विंशतितमे (४१) अधिवेशने भागं गृहीतवान् । अनन्तरं तेन सामाजिककार्याणि अपि कृतानि आसन् । ई. स. १९३२ तमे वर्षे सः गुवाहाटी-नगरस्य नगरपालिकामण्डलस्य अध्यक्षत्वेन चितः । तस्मिन् समये असमराज्यस्य आर्थिकास्थितिः समीचिना नासीत् । असम-राज्ये उच्चन्यायालयः, विश्वविद्यालयः चापि नासीत् । गोपीनाथस्य प्रयासैः असम-राज्ये उच्चन्यायालयस्य, विश्वविद्यालस्य व्यवस्था जाता । ई. स. १९३९ तमे वर्षे कॉङ्ग्रेस-पक्षेन विधानसभायै निर्वाचने भागं वोढुं निश्चयः कृतः, तस्मिन् समये गोपीनाथः असम-राज्यस्य निर्वाचने विजयं प्रापत् । तदा सः असम-राज्यस्य मुख्यमन्त्री अभवत् । तेन असम-राज्ये पुलोमह्या (Opium) अवरुद्धा । विश्वयुद्धस्य आरम्भे “गोपीनाथ बारदोलोई” इत्याख्यः मुख्यमन्त्रिपदं त्यक्तवान्, कारागारं गतवान् च । युद्धस्य समाप्त्यनन्तरं “गोपीनाथ बारदोलोई” इत्याख्यः पुनः असम-राज्यस्य मुख्यमन्त्री अभवत् ।

असमनिर्मातृत्वेन गोपीनाथः[सम्पादयतु]

भारतस्य स्वातन्त्र्यपूर्वं भारतस्य विभाजनस्य चर्चा जायमाना आसीत् । तस्मिन् समये असम-राज्यस्य शासनव्यवस्थायाः दायित्वं गोपीनाथस्य कृते आसीत् । ब्रिटिश-सर्वकारस्य योजनायाः अनुभुतम् आसीत् यत् – “असम-राज्यस्य विभागान् कृत्वा असम-राज्यस्य सार्धः भागः पूर्वपाकिस्ताने वर्तमानकालिके बाङ्ग्लादेशे वा सम्मिलितः भवेत्” इति । यदि गोपीनाथः, तस्य सहभागिनः च जागृताः न स्युः, तर्हि साम्प्रतम् असम-राज्यं बाङ्ग्लादेशस्य कश्चन भागः स्यात् । भारतीयस्वातन्त्र्यसङ्ग्रामसम्बद्धाः जनाः जानन्ति स्म यत् – “भारतस्य इच्छां विना एव ब्रिटिश-सर्वकारेण द्वितीययुद्धे भारतदेशः भागग्राहितत्वेन निर्दिष्टः । तस्मिन् समये यदा महात्मागान्धिना असहयोगान्दोलनम् आरब्धम् आसीत्, तदा गोपीनाथस्य मन्त्रिमण्डलेन त्यागपत्रं प्रदत्तम् आसीत् । ई. स. १९६४ विश्वयुद्धस्य समाप्तेः अननतरं असम-राज्ये कॉङ्ग्रेस-पक्षः बहुमतैः जितः । तदा गोपीनाथः पुनः असम-राज्यस्य मुख्यमन्त्रिपदं प्राप्तम् । तस्मिन् समये नैकेषां प्रदेशाणां मुख्यमन्त्रिणः एव प्रधानमन्त्री कथ्यते स्म । अतः ब्रिटिश-सर्वकारेण विभिन्नप्रदेशानां विभिन्नप्रधानमन्त्रिभिः सह चर्चा कृता । प्रारम्भे अस्यां चर्चायां “गोपीनाथ बारदोलोई” इत्याख्याय निमन्त्रणं न प्रदत्तम् आसीत् । यतः ब्रिटिश-सर्वकारः गोपीनाथस्य भारतीयविचायैः परिचितः आसीत् । ब्रिटिश-सर्वकारः भारतस्य विभाजनाय षड्यन्त्राणि रचयती स्म । अतः ब्रिटिश-सर्वकारेण “ग्रुपिङ्ग् सिस्टम्” इतीयं योजना निर्मिता । ब्रिटिश-सर्वकारेण इयं योजना कॉङ्ग्रेस-पक्षस्य प्रमुखाणां सदस्यानां समक्षे प्रस्थापिता । तस्मिन् समये जुलाई मासस्य ६, ७ च दिनाङ्के मुम्बई-नगरे कॉङ्ग्रेस्-पक्षस्य अधिवेशनम् अभवत् । कॉङ्ग्रेस-पक्षेण अपि तस्यां योजनायां विचारः कृतः । किन्तु कॉङ्ग्रेस्-पक्षस्य नेतारः ब्रिटिश्-सर्वकारस्य षड्यन्त्रम् अवगन्तुम् असमर्थाः । तेन कॉङ्ग्रेस-पक्षस्य नेतृभिः तस्याः योजनायाः समर्थनं कृतम् । किन्तु “गोपीनाथ बारदोलोई” इत्याख्यः अस्याः योजनायाः विरोधं कुर्वन् आसीत् । “गोपीनाथ बारदोलोई” इत्याख्येन उक्तम् आसीत् यत् – “असनसम्बद्धाः ये निर्णयाः भविष्यन्ति, तेषां सम्पूर्णाधिकारम् असम-राज्यस्य विधानसभायाः, जनानां च भविष्यति । अन्ते “गोपीनाथ बारदोलोई” इत्याख्यस्य निर्णयेन ब्रिटिश-सर्वकारः असम-राज्यस्य विभागः कर्तुम् असमर्थः जातः । अनेन प्रसङ्गेन भारतीयस्तरस्य नेतृषु गोपीनाथस्य महत्त्वपूर्णं स्थानम् अभवत् । अतः एव साम्प्रतमपि असम-राज्यस्य जनाः गोपीनाथं “शेर-ए-असम” इति कथयन्ति [३]

शिक्षणे योगदानम्[सम्पादयतु]

तस्मिन् काले विद्यालयेषु राजनैतिकगतिविधियः प्रचलन्ति स्म । अतः ई. स. १९२९ तमे वर्षे सर्वकारप्रचालितेषु विद्यालयेषु राजनैतिकगतिविधीः अवरोद्धुं सर्वकारेण आदेशः कृतः । तदा गोपीनाथेन अपि तादृशानां विद्यालयानां बहिष्कारान्दोलनं कृतम् । “गोपीनाथ बारदोलोई” इत्याख्यस्य प्रयत्नैः गुवाहाटी-नगरे “कामरूप-अकादमी”, बरुआ-महाविद्यालयः च स्थापितः । समयान्तरे “गोपीनाथ बारदोलोई” इत्याख्यः प्रशासनिककार्येषु संलग्नः जातः । अतः “गोपीनाथ बारदोलोई” इत्याख्येन “गुवाहाटी-विश्वविद्यालयः”, “असम मेडिकल महाविद्यालयः” इत्यादीनां यान्त्रिकसंस्थानां स्थापनायै योगदानं प्रदत्तम् आसीत् ।

प्रशस्तिः, सम्माननं च[सम्पादयतु]

गोपीनाथस्य मृत्योः अनन्तरं ई. स. १९९९ तमे वर्षे भारतस्य सर्वोच्चनागरिकत्वेन सर्वकारेण “भारतरत्न” इति प्रशस्त्या सम्मानितः । यतः “गोपीनाथ बारदोलोई” इत्याख्येन असम-राज्यस्य विकासाय, उन्नत्यै च बहवः प्रयासाः कृताः आसन् । अतः तस्य कार्यैः प्रभावितेन सर्वकारेण भारतरत्नप्रशस्तिः प्रदत्ता । ई. स. २००२ तमस्य वर्षस्य अक्टूबर-मासस्य प्रथमे (१) दिनाङ्के (१ अक्टूबर २००२) तत्कालीनेन राष्ट्रपतिना “ए. पी. जे . अब्दुल कलाम” इत्याख्येन संसद्भवने “गोपीनाथ बोरडोलोई” इत्याख्यस्य स्मृतौ एका प्रतिमा स्थापिता [४]

मृत्युः[सम्पादयतु]

ई. स. १९५० तमवर्षस्य अगस्त-मासस्य ५ दिनाङ्के (५ अगस्त १९५०) गुवाहाटी-नगरे “गोपीनाथ बारदोलोई” इत्याख्यस्य मृत्युः अभवत् । यदा “गोपीनाथ बारदोलोई” इत्याख्यस्य मृत्युः अभवत्, तदा ६० वर्षदेशीयः आसीत् [५]

भारतरत्नम्[सम्पादयतु]

क्रि.श. १९९९तमे वर्षे एषः भारतसर्वकारस्य सर्वोच्चपुरस्कारेण भारतरत्नप्रशस्त्या भूषितः अभवत् ।

टिप्पणी[सम्पादयतु]

  1. Baruah, L.M. ((1992).). Lokopriya Gopinath Bordoloi, an Architect of Modern India. Gyan Publishing House.. ISBN 81-212-0404-6.. 
  2. हमारे भारत रत्न विजेता, डॉ. एम् जे बन्धिया, प्रो. हितेष डी. वैष्णव, पृ. – ३५७-३५८
  3. हमारे भारत रत्न विजेता, डॉ. एम् जे बन्धिया, प्रो. हितेष डी. वैष्णव, पृ. – ३५९-३६०
  4. हमारे भारत रत्न विजेता, डॉ. एम् जे बन्धिया, प्रो. हितेष डी. वैष्णव, पृ. - ३६०
  5. हमारे भारत रत्न विजेता, डॉ. एम् जे बन्धिया, प्रो. हितेष डी. वैष्णव, पृ. - ३६०

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=गोपिनाथ_बोर्डोलोयि&oldid=390673" इत्यस्माद् पुनः प्राप्तिः