अरुणा आसफ अलि

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search
अरुणा आसफ अलि
200px
अरुणा आसफ अलि
जन्म १६ जुलाई १९०९
कालका, पंजाब, ब्रितानी भारत (वर्तमान हरियाणा)
मृत्युः २९ १९९६(१९९६-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ७-२९) (आयुः ८७)
देशीयता भारतीय
शिक्षणस्य स्थितिः सेक्रेड हार्ट कॉन्वेंट
वृत्तिः भारतीय स्वतंत्रता सेनानी, अध्यापिका
भार्या(ः) आसफ़् अली Edit this on Wikidata

अरुणा आसफ अलि भारतीयस्वातन्त्र्यकार्यकर्त्री, क्रान्तिकारिणी च आसीत् । स्वतन्त्रतान्दोलनेषु अस्याः महत्योदानं वर्तते । अस्य जन्मनाम अरुणा गांगुली इति आसीत् । ई. स. १९४२ तमे वर्षे “भारत छोडो” इत्यस्य आन्दोलनसमये मुम्बई-नगरस्य “गोवालिया टैङ्क् क्षेत्रे” तया कॉङ्ग्रेसध्वजः समुच्छ्रितः । अस्यै क्रियायै सः भारते प्रसिद्धा जाता । भारतस्य स्वतन्त्रतायै तया आङ्ग्लैः सह सङ्घर्षः कृतः आसीत् । स्वातन्त्र्यानन्तरम् अपि सा राजनीतौ सक्रिया एव आसीत् । ई. स. १९५८ तमे वर्षे सा देहली-नगरस्य प्रथमः महापौरः अभवत् । ई. स. १९६० तमे दशके तया प्रचार-प्रसारमाध्यमकेन्द्रम् आरब्धम् । ई. स. १९९७ तमे वर्षे सर्वकारेण तस्याः मृत्योरनन्तरं तस्यै भारतरत्नप्रशस्तिः प्रदत्ता आसीत् ।

जन्म, परिवारश्च[सम्पादयतु]

ई. स. १९०९ तमस्य वर्षस्य जुलाई-मासस्य १६ दिनाङ्के (१६ जुलाई १९०९) तत्कालीनस्य पञ्जाब-राज्यस्य कालका-नगरे तस्य जन्म अभवत् [१]। साम्प्रतम् इदं नगरं हरियाणा-राज्ये स्थितम् अस्ति । सः ब्राह्मणः आसीत् । तस्याः पितुः नाम उपेन्द्रनाथ गाङ्गुली आसीत् । अम्बालिकदेवी तस्याः माता आसीत् । अम्बालिकादेवी “त्रैलोक्यनाथ सन्याल” इत्याख्यस्य पुत्री आसीत् । त्रैलोक्यनाथः अपि श्रेष्ठलेखकः आसीत् । उपेन्द्रनाथः भोजनालयस्य स्वामी आसीत् । नैनीताल-नगरे तस्य भोजनालयः स्थितः आसीत् । उपेन्द्रनाथस्य अनुजः धीरेन्द्रनाथः चलच्चित्रनिर्देशकः आसीत् । उपेद्रनाथस्य अपरः नागेन्द्रनाथः नामकः भ्राता आसीत् । सः विश्वविद्यालये प्राध्यापकः आसीत् । “रवीन्द्रनाथ ठाकुर” इत्याख्यस्य पुत्र्या मीरादेव्या सह नागेन्द्रनाथस्य विवाहः अभवत् । मीरादेवी नोबलपुरस्कारः प्राप्तवतीआसीत् । अरुणायाः “पूर्णिमा बनर्जी” इत्याख्या भगिनी भारतस्य संविधानसभायाः सदस्या आसीत् । तस्याः द्वौ भ्रातारौ, तिस्रः भगिन्यश्च आसन् ।

शिक्षणम्[सम्पादयतु]

अरुणायाः प्राथमिकं शिक्षणं लाहोर-नगरस्य “सेक्रेट् हार्ट् ऑफ् जिसस्” इत्यस्मिन् विद्यालये अभवत् । अयं विद्यालयः ईसाई-धर्मावलम्बिभिः चाल्यते स्म । अतः अस्मिन् विद्यालये ईसाई-धर्मस्य शिक्षणं अधिकं दीयते स्म । तेन प्रभावेण अरुणा अपि ईसाई-धर्मं अङ्गीकर्तुम् ऐच्छत् । किन्तु अरुणायाः पिता अस्मिन् विषये ज्ञातवान् । उपेन्द्रनाथः अरुणायाः विद्यालयं परिवर्तितवान् । अनन्तरं नैनीताल-नगरस्य “प्रोटेस्टण्ट्-विद्यालये” अरुणायाः प्रवेशम् अकारयत् । तत्र अरुणा उच्चविद्यालयस्य शिक्षणं प्राप्तवती । अस्याः बुद्धिः कुशाग्रः आसीत् । बाल्यकालादेव कक्षायां सः सर्वोच्चस्थानं प्राप्नोति स्म । स्नातककक्षानन्तरं सा कोलकाता-नगरस्य “गोखले मेमोरियल” इत्यस्मिन् विद्यालये शिक्षिकात्वेन आसीत् ।

विवाहः[सम्पादयतु]

अरुणायाः अनुजा पूर्णिमा इलाहाबाद-नगरे निवसति स्म । पूर्णिमा अनुजा आसीत्, तथापि तस्याः विवाहः अरूणायाः पूर्वमेव जातः आसीत् । अरुणा पूर्णिमायाः गृहे निवसितुं गतवती । इलाहाबाद-नगरे अरुणया सह कॉङ्ग्रेस-पक्षस्य नेतुः “आसफ अली” इत्याख्यस्य परिचयो जातः । “आसफ अली” इत्याख्यः देहली-नगरस्य प्रसिद्धः अधिवक्ता अपि आसीत् । “आसफ अली” इत्याख्यः आङ्ग्लसाहित्यज्ञः आसीत् । अरुणायाः अपि आङ्ग्लसाहित्ये अभिरूचिः आसीत् । अतः अरुणा “आसफ अली” इत्यस्मात् प्रभाविता जाता । ई. स. १९२८ तमे वर्षे अरुणा “आसफ अली” इत्याख्येन सह विवाहम् अकरोत्[२] [३]। “आसफ अली” अरुणायाः विंशतिवर्षाणि ज्येष्ठः आसीत् । अरुणायाः पिता अस्य अन्तर्जातीयविवाहस्य विरोधं कुर्वन् आसीत् । किन्तु तथापि अरुणया “आसफ अली” इत्याख्येन सह विवाहः कृतः । अरुणा “आसफ अली” इत्याख्येन निवससी आसीत् । अनन्तरम् अरुणा राजनीतिक्षेत्रं प्राविशत् । राष्ट्रियान्दोलनेषु अपि सा सक्रिया अभवत् ।

राजनैतिकजीवनम्[सम्पादयतु]

विवाहानन्तरम् अरुणा पूर्णतया राजनीतिक्षेत्रे एव सक्रिया अभवन् । सा स्वतन्त्रान्दोलनेषु भागं गृहतवती । महात्मागान्धिनः, “मौलाना अबुल कलाम” इत्याख्यस्य च सभासु अपि सा भागं वहति स्म । एतयोः द्वयोः नेत्रोः प्रभावः तस्याः जीवने अभवत् । अतः सा सततं कार्याणि कुर्वन्ती आसीत् । तदनन्तरं “जयप्रकाश नारायण”, “राम मनोहर लोहिया”, “अच्युत पटवर्धन” इत्याख्यैः सह अरुणायाः परिचयो जातः । एतैः सह मिलित्वा अपि अरुणया आन्दोलनेषु क्रान्तिकारिकार्याणि कृतानि । ई. स. १९३० तमे वर्षे, १९३२ तमे वर्षे, १९४१ तमे वर्षे च सत्याग्रहान्दोलनानि कृतानि । तदा सा कारागारम् अपि गतवती आसीत् । ई. स. १९३१ तमे वर्षे “गान्धी-इरविन्-सन्धौ” बहवः राजबन्धिनः मुक्ताः अभवन् । किन्तु आङ्ग्लसर्वकारः अरुणां मुक्तकर्तुं नेच्छति स्म । “अरुणा अवधानरूपा अस्ति” इति आङ्ग्लसर्वकारेण मन्यते स्म । किन्तु महात्मागान्धिनः साहाय्येन, जनमतेन च अरुणा कारागारात् मुक्ता जाता । अग्रिमे वर्षे सा पुनः सत्याग्रहान्दोलनम् आरब्धम् आसीत् । अतः सर्वकारेण तस्यै द्विशतं रूप्यकाणां दण्डः निर्धारितः । अपरं च षण्मासात्मकः कारावासस्य दण्डः कृतः । किन्तु सा द्विशतं रुप्यकाणां दण्डं दातुं नैच्छत् । तदा रक्षकैः तस्य बहुमूल्यका शाटिका आकलिता । अनन्तरम् आङ्ग्लसर्वकारेण सा देहली-नगरस्य कारागारं प्रेषिता । कारागारे बन्दीनां स्थितिं दृष्ट्वा सा अनशनं चकार । अन्ते कारागारस्य अधिकारिभिः अरुणायाः याचनासु विचारः कृतः । अनन्तरम् “अरुणायाः मनःस्थितिः न्यूना भवेत्” इति विचिन्त्य आङ्ग्लसर्वकारेण अरुणा देहली-नगरस्य कारागारात् अम्बाला-नगरस्य कारागारं प्रेषिता । तस्मिन् कारागारे अरुणां कोऽपि मेलितुं न शक्नोति स्म । कारागारात् बहिः आगते सति अरुणया निश्चितं यत् – “कदापि कारागारं न गमिष्यामि, गुप्तरीत्या एव कार्यं करिष्यामि । सर्वे जनाः कारगारं गच्छन्ति ? यदि सर्वे गमिष्यन्ति, तर्हि बाह्यकार्याणि कः करिष्यति ? आन्दोलनम् अपि नेतृत्वहीनं भविष्यति” इति [४]

ई. स. १९४२ तमे वर्षे “भारत छोडो” आन्दोलने अपि भागम् अवहत् । तया अन्येषां कार्यकर्तॄणां नेतृत्वमपि कृतम् आसीत् । ई. स. १९४२ तमस्य वर्षस्य अगस्त-मासस्य ८ दिनाङ्कस्य (८ अगस्त १९४२) रात्रौ बहवः नेतारः रक्षकैः बद्धाः । यदा महात्मादयः कारागारं गतवन्तः आसन्, तदा मुम्बई-नगरस्य “गोवालिया टैङ्क् क्षेत्रे” तया कॉङ्ग्रेसध्वजः समुच्छ्रितः । अनन्तरं सा राहसं गता । राहसे सति एव सा आन्दोलनस्य नेतृत्वं कुर्वन्ती आसीत् । तया “राममनोहर लोहिया” इत्याख्येन सह जनजागृतये “इन्कलाब” इत्येतत् पत्रम् आरब्धम् [५] । अस्य पत्रस्य माध्यमेन जनेषु राष्ट्रियभावनां जागर्तुं प्रयासाः कृताः । समयान्तरे अरुणया मुम्बई-नगरे विरोधसभा आयोजिता । अस्यां सभायां तया विदेशसर्वकारस्य विरोधः कृतः । गुप्तरीत्या अपि सा कॉङ्ग्रेस-जनानां मार्गदर्शनं कृतवती आसीत् । मुम्बई-नगरे, कोलकाता-नगरे, देहली-नगरे च भ्रमन् भ्रमन् नवजागृतये जनान् प्रेरयति स्म । तथापि ई. स. १९४२ तः १९४६ तमवर्षपर्यन्तम् अपि सा रक्षकैः न बद्धा । ई. स. १९४६ तमवर्षपर्यन्तं सा गुप्तजीवनम् इव जीवति स्म । किन्तु ई. स. १९४७ तमे वर्षे अरुणा देहली-प्रदेशस्य कॉङ्ग्रेस्-समितेः अध्यक्षात्वेन निर्वाचिता जाता । देहली-नगरे कॉङ्ग्रेस-पक्षः तया सुसङ्घटितः । ई. स. १९४८ तमे वर्षे अरुणा “सोशलिस्ट् पार्टी” इत्यस्मिन् पक्षे सम्मिलिता । वर्षद्वयानन्तरं ई. स. १९५० तमे वर्षे तया तं पक्षं त्यक्त्वा “लेफ्ट् स्पेशलिस्ट् पार्टी” इति पक्षः निर्मितः । सा सक्रिया भूत्वा “श्रमिकान्दोलने” सलंग्ना अभवत् । अन्ते ई. स. १९५५ तमे वर्षे “लेफ्ट् स्पेशलिस्ट् पार्टी” इत्ययं पक्षः कम्युनिस्ट्-पक्षे विलीनः जातः । समयान्तरे सा “भारतीय कम्युनिस्ट्” इत्यस्य पक्षस्य केन्द्रीयसमितेः सदस्या अभवत् । सा “ऑल् इण्डिया ट्रेड् यूनियन् कॉङ्ग्रेस्” अस्य पक्षस्य उपाध्यक्षात्वेन अपि चिता । ई. स. १९५८ तमे वर्षे तया कम्युनिस्ट्-पक्षः त्यक्तः । ई. स. १९६४ तमे वर्षे “जवाहरलाल नेहरू” इत्याख्यस्य मृत्योः अनन्तरं सा पुनः कॉङ्ग्रेस-पक्षेण सह अल्पकालाय एव सलंग्ना अभवत् । ई. स. १९५८ तमे वर्षे सा देहली-नगरनिगमस्य प्रथमः महापौरः अभवत् । महापौरत्वेन तया देहली-नगरस्य विकासाय, स्वच्छतायै, स्वास्थ्यसम्बन्धिभ्यः विषयेभ्यः च बहूनि कार्याणि कृतानि । नगरनिगमस्य कार्यप्रणाली अपि तया सुव्यवस्थिता कृता । अरुणा बहुभिः सङ्घटनैः सह सम्बद्धा आसीत् । “इण्डोसोवियत कल्चरल सोसाइटी”, “ऑल् इण्डिया पीस् काउन्सिल्”, “नेशनल फैडरेशन् ऑफ् इण्डियन् वूमन्” इत्यादिभिः संस्थाभिः सह सा कार्यं कृतवती ।

पुरस्काराः[सम्पादयतु]

ई. स. १९६४ तमे वर्षे अरुणायै सर्वकारेण ”लेनिन-शान्तिपुरस्कारः” प्रदत्तः आसीत् । ई. स. १९९१ तमे वर्षे अरुणा “जवाहरलालनेहरू-अन्ताराष्ट्रियसद्भावनापुरस्कारं” प्राप्तवती । ई. स. १९९२ तमे वर्षे सा पद्मविभूषणप्रशस्तिना सम्मानिता । तस्मिन्नैव वर्षे अरुणया राष्ट्रियैकतायै “इन्दिरागान्धि-पुरस्कारः” अपि प्राप्तः [६]

भारतरत्नप्रशस्तिः[सम्पादयतु]

ई. स. १९९७ तमे वर्षे मृत्योः अनन्तरं सा सर्वोच्चनागरिकसम्मानेन भारतरत्नप्रशस्तिना सम्मानिता [७]

सम्माननानि[सम्पादयतु]

ई. स. १९९८ तमे वर्षे भारतसर्वकरेण पत्रसन्देशचीटिकायाम् अरुणायाः चित्रं प्रकाशितम् आसीत् । अरुणायाः सम्मानने नवदेहली-सर्वकारेण कस्यचित् मार्गस्य नाम अपि “अरुणा-आसफ-अली-मार्ग:” इति प्रदत्तम् ।

मृत्युः[सम्पादयतु]

ई. स. १९९६ तमस्य वर्षस्य जुलाई-मासस्य २९ तमे (२९ जुलाई १९९६) दिनाङ्के अरुणायाः मृत्युः अभवत् [८]। अवसानसमये सः सप्ताशीतिवर्षदेशीया आसीत् ।

सन्दर्भः[सम्पादयतु]

  1. हमारे भारत रत्न विजेता, डॉ. एम् जे बन्धिया, प्रो. हितेष डी. वैष्णव, पृ. - ३२६
  2. મહિલા ક્રાન્તિકારીઓ, જિતેન્દ્ર પટલે, पृ. - १११
  3. हमारे भारत रत्न विजेता, डॉ. एम् जे बन्धिया, प्रो. हितेष डी. वैष्णव, पृ. - ३२७
  4. મહિલા ક્રાન્તિકારીઓ, જિતેન્દ્ર પટલે, पृ. - ११२
  5. મહિલા ક્રાન્તિકારીઓ, જિતેન્દ્ર પટલે, पृ. - ११२
  6. हमारे भारत रत्न विजेता, डॉ. एम् जे बन्धिया, प्रो. हितेष डी. वैष्णव, पृ. - ३२९
  7. हमारे भारत रत्न विजेता, डॉ. एम् जे बन्धिया, प्रो. हितेष डी. वैष्णव, पृ. - ३२९
  8. हमारे भारत रत्न विजेता, डॉ. एम् जे बन्धिया, प्रो. हितेष डी. वैष्णव, पृ. - ३३०
"https://sa.wikipedia.org/w/index.php?title=अरुणा_आसफ_अलि&oldid=423542" इत्यस्माद् पुनः प्राप्तिः