के कामराज

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
के. कामराज
के. कामराज
जन्मतिथी 15 जुलाई, 1903
निधनम् 2 अक्टूबर, 1975
प्रसिद्ध राजनीतिज्ञ
जन्मस्थानम् विरुधुनगर, मदुरै, तमिलनाडु
के कामराज
के कामराजस्य मुर्तिः
के कामराजस्य मुर्तिः

के. कामराज दक्षिणभारतस्य प्रसिद्धः राजनेता आसीत् । अयं भारतीयराष्ट्रियकॉङ्ग्रेस्-पक्षस्य नेता आसीत् । ई. स. १९५४ तमवर्षस्य अप्रैल मासस्य १३ दिनाङ्कतः (१३ अप्रैल १९५४) ई. स. १९६३ तमवर्षस्य अक्टूबर-मासस्य २ दिनाङ्कपर्यन्तं (२ दिसम्बर १९६३) कामराजः तमिळ्नाडु-राज्यस्य मुख्यमन्त्रित्वेन पदारूढः आसीत् । ई. स. १९६४ तमे वर्षे कामराजः मृत्योः अनन्तरं सर्वकारेण भारतरत्नप्रशस्तिना विभूषितः । कामराजः भारतीयराजनीतौ “किङ्ग मेकर” इति नाम्ना अपि ज्ञायते स्म ।

जन्म, परिवारश्च[सम्पादयतु]

ई. स. १९०३ तमवर्षस्य जुलाई-मासस्य १५ दिनाङ्के (१५ जुलाई १९०३) भारतस्य तमिळ्नाडु-राज्यस्य विरुधु-नगरे कामराजस्य जन्म अभवत् [१]। तस्य मूलनाम “कामाक्षी कुमारस्वामी नादेर” इति आसीत् । किन्तु समयानन्तरे सः “के. कामराज” इति नाम्ना सर्वत्र प्रसिद्धः जातः । कामराजस्य पिता व्यापारी आसीत् । किन्तु असमये एव कामराजस्य पितुः मृत्युः अभवत् । तेन तस्य परिवारः कष्टम् अनुभवति स्म । ई. स. १९०७ तमे वर्षे कामराजस्य “नागम्मल” इत्याख्यायाः भगिन्याः जन्म अभवत् ।

शिक्षणम्[सम्पादयतु]

ई. स. १९०७ तमे वर्षे पञ्चवर्षीये सति कामराजः पारम्परिकविद्यालयं प्राविशत् । अनन्तरं ई. स. १९०८ तमे वर्षे सः “येनधि नारायण विद्या सलई” इत्यस्मिन् विद्यालये प्रवेशं प्रापत् । ई. स. १९०९ तमे वर्षे “विरुदुपत्ति उच्चविद्यालये” तस्य प्रवेशः कारितः आसीत् । पितुः मृत्योः अनन्तरं तस्य माता परिवारस्य साहाय्यार्थं उक्तवती । तदा सः अध्ययनं त्यक्त्वा स्वस्य पितृत्वस्य आपणे कार्यं करोति स्म ।

राजनैतिकजीवनम्[सम्पादयतु]

यदा सः पितृत्वस्य आपणे कार्यं करोति स्म, तदा सः भारतीयहोमरूलान्दोलनस्य गोष्ठ्याम् अपि गच्छति स्म । अनन्तरं सः प्रतिदिनं समाचारपत्रमाध्यमेन राजनीतिसम्बद्धम् अद्यतनं पठति स्म । “जलियाँवाला बाग हत्याकाण्ड” तस्य जीवनस्य परिवर्तनकालः आसीत् । तस्मात् हत्याकाण्डात् परं तेन स्वस्य लक्ष्यं निर्धारितं यत् – “राष्ट्रियस्वतन्त्रतायै युद्धं कृत्वा वैदेशिकानां नियमानाम् अवसानं कर्त्तव्यम्” इति । पञ्चदशवर्षीये सति कामराजेन स्वस्य गृहमण्डले कॉङ्ग्रेस्-पक्षाय धनार्जनं कर्तुं अभियानं चालितम् । तस्मिन् समये सः राजनीतिक्षेत्रं प्राविशत् । ई. स. १९२० तमे वर्षे अष्टादशवर्षीये सति सः राजनैतिककार्यकर्तृत्वेन सक्रियः जातः, कॉङ्ग्रेस-पक्षस्य पूर्णकालिककार्यकर्तृत्वेन अपि कार्यम् आरब्धवान् । ई. स. १९२१ तमवर्षे कामराजेन विरुधुनगरे कॉङ्ग्रेस-पक्षस्य नेतृभ्यः जनसभाः कृताः । ई. स. १९२१ तमस्य वर्षस्य सितम्बर-मासस्य २१ तमे (२१ सितम्बर १९२१) दिनाङ्के यदा महात्मागान्धिः मधुराई-नगरे जनसभाम् आयोजितवान्, तदा कामराजः अपि तस्यां जनसभायाम् उपस्थितः जातः । तस्मिन् समये कामराजः गान्धिनं मिलितवान् । यतः कामराजः गान्धिनं मेलितुम् उत्सुकः आसीत् । ई. स. १९२२ तमे वर्षे सः “असहयोगान्दोलने” भागं वहितुं चेन्नै-नगरं प्राप्तवान् । सः वैकम-सत्याग्रहान्दोलनेन आकर्षितः जातः । तस्मिन् आन्दोलने अपि तेन कार्यं कृतम् आसीत् । ई. स. १९२३ तमवर्षतः ई. स. १९२५ तमवर्षपर्यन्तं कामराजः नागपुरध्वजसत्याग्रहान्दोलने भागम् अवहत् । ई. स. १९३० तमे वर्षे कामराजः प्रथमवारं वर्षद्वयेभ्यः कारागारं गतवान् आसीत् । तेन लवण-सत्याग्रहान्दोलने भागः गृहीतः आसीत्, अतः वर्षद्वयेभ्यः अलिपुर-कारागारे आसीत् । ई. स. १९३१ तमे वर्षे गान्धि-ईरविन्-सन्धेः सः कारागारात् बहिः आगतः । विरुधुनगरे कामराजस्य नेतृत्वे प्रतिदिनं शोभायात्राः, प्रदर्शन्यः च भवन्ति स्म । अतः ई. स. १९३२ तमे वर्षे सः पुनः एकवर्षाय कारागारं गतवान् ।

ई. स. १९३३ तमे वर्षे कामराजः विरुधुनगरे अग्निगोलककाण्डे असत्याधारेण आक्षिप्तः । अनन्तरं “डॉ. वरदराजुलु नायडू”, “जॉर्ज् जोसेफ्” इत्याख्याभ्यां कामराजपक्षात् आयोगः अध्याहृतः । ताभ्यां सः आयोगः आधारहीनः इति सिद्धः कृतः । यदा सः कारागारे आसीत्, तदा सः विरुधुनगरस्य परिषद्यत्वेन चितः । किन्तु नवमासानन्तरम् ई. स. १९४१ तमवर्षस्य नवम्बर-मासे तेन पदमिदं त्यक्तम् । यतः तस्य मानसिकता आसीत् यत् – “तस्य समीपे तस्मात् पदात् अपि भारतस्य उत्कृष्टतमं दायित्वम् आसीत्” इति । तस्य सिद्धान्तः आसीत् यत् – “यदि कस्मिँश्चिदपि पदे सम्पूर्णन्यायपूर्वकं कार्यं कर्तुं अक्षमः स्यात्, तर्हि तत्पदं न स्वीकर्त्तव्यम्“ इति । ई. स. १९४२ तमे वर्षे कामराजेन मुम्बई-नगरे अखिलभारतीयकॉङ्ग्रेससमितेः सभायां भागः गृहीतः । अनन्तरं सः गान्धिना आरब्धे “भारत छोडो” इत्यस्मिन् आन्दोलने प्रचाराय आगतः । अस्मिन् आन्दोलने अपि सः पुनः कारागारं गतवान् । वर्षत्रयेभ्यः सः कारागारे आसीत् । ई. स. १९४५ तमवर्षस्य जून-मासे सः कारागारात् मुक्तः जातः ।

ई. स. १९५२ तमे वर्षे लोकसभायाः निर्वाचने सः विजयी अभवत् । सः लोकसभायां स्थानम् अपि प्राप्तम् आसीत् । ई. स. १९५४ तमवर्षस्तः ई. स. १९६३ तमवर्षपर्यन्तं सः मद्रासप्रान्तस्य मुख्यमन्त्री आसीत् । किन्तु कामराजयोजनायाः कारणात् तेन मुख्यमन्त्रिपदं त्यक्तम् । तदनन्तरं सः कॉङ्ग्रेसपक्षस्य अध्यक्षत्वेन नियुक्तः जातः । समयान्तरे इन्दिरागान्धिना कामराजः पक्षस्य नेतृत्वात् निष्कासयितुं सफला जाता । ई. स. १९६९ तमे वर्षे कामराजः पुरातननेतॄणां समूहस्य सदस्य आसीत् । तस्य समूहस्य सदस्याः इन्दिरां शासनात् निष्कासयितुं प्रयासाः कृताः । किन्तु पक्षस्य विभाजनम् अभवत् । तेषु कामराजः स्वसहयोगिभिः सह लघुसमूहं निर्मितवान् [२]

शिक्षणक्षेत्रे योगदानम्[सम्पादयतु]

मुख्यमन्त्रिपदे आरूढे सति कामराजेन शैक्षणिकनीतिः परिवर्तिता । राज्ये शैक्षणिकक्षेत्रे, व्यापारिकक्षेत्रे च प्रगतिः जाता । नूतनाः विद्यालयाः उद्घाटिताः । निर्धनाः जनाः विद्यालयस्य लाभं प्राप्तुं शक्नुयुः इति विचिन्त्य ग्रामेभ्यः विद्यालया केवलं ३ किलोमीटर्मितात् अधिकं दूरं नासीत् । ग्रामेषु सौकर्यानि अपि वर्धितानि । कोऽपि ग्रामः प्राथमिकविद्यालयहीनः, उच्चविद्यालयहीनः वा नासीत् । कामराजेन शुल्कहीनम्, अनिवार्यं च शिक्षणम् आरम्भं कर्तुं महत्प्रयासाः कृताः आसन् । कामराजेन विद्यालयेषु मध्याह्नभोजनस्य व्यवस्था अपि कारिता । सर्वप्रथमं ई. स. १९२० तमे वर्षे चेन्नै-नगरनिगमेन विधानपरिषदः मान्यतानुसारम् अल्पाहारत्वेन मध्याह्नभोजनयोजना आरब्धा । ई. स. १९६० तमे वर्षे कामराजेन मध्याह्नकालस्य शुल्कहीनस्य भोजनस्य योजना आरब्धा । अनन्तरं “एम्. जी. रामचन्द्रन” इत्याख्येन अस्याः योजनायाः विस्तारः कृतः । युवावर्गस्य मनसः जातिधर्मवर्गभेदानां मलीनतां स्वच्छकर्तुं विद्यालयेषु गणवेशस्य योजना आरब्धा । अतः एव तस्य स्मृतौ चेन्नै-नगरस्य “मरीना बीच” इत्येतत् स्थले कामराजस्य प्रतिमा अपि स्थापिता अस्ति । यतः शिक्षणक्षेत्रे तस्य महद्योगदानम् आसीत् । यदा ब्रिटिश-शासनम् आसीत्, तदा प्रदेशस्य साक्षरतामानं केवलं ७ प्रतिशतम् एव आसीत् । किन्तु कामराजस्य प्रयासानन्तरं इदं मानं ३७ प्रतिशतम् अभवत् । विद्यालयानां वृद्ध्यर्थं शिक्षणस्तरस्य विकासः कृतः । शिक्षणस्तरस्य विकासाय विद्यालयेषु कार्यस्य दिवसाः वर्धिताः । १८० तः २०० दिवसाः विद्यालयकार्येभ्यः निश्चिताः । अनावश्यकाः अवकाशाः न्यूनीकृताः । पाठ्यक्रमाः अपि क्षमतानुसारं निर्मापिताः । ई. स. १९५९ तमे वर्षे कामराजेन, तत्कालीनेन राज्यपालेन “भिष्नुराम मेधी” इत्याख्येन च “आई आई टी मद्रास” इतीमां शैक्षणिकसंस्थां स्थापयितुं प्रयासाः कृताः । कामराजः व्यापकत्वेन “शिक्षणस्य पिता” इति नाम्ना अपि ज्ञायते ।

कामराज-योजना[सम्पादयतु]

कामराजः कॉङ्ग्रेस्-पक्षस्य “किङ्गमेकर” इति नाम्ना ज्ञायते स्म । कामराजः “जवाहरलाल नेहरु” इत्याख्यस्य गाढमित्रम् आसीत् । अतः “जवारहरलाल नेहरू” इत्याख्येन एव कामराजः राजनीतिक्षेत्रे प्रवेष्टुम् प्रेरितः । कामराजेन अनुभूतं यत् – “कॉङ्ग्रेस-पक्षस्य स्थितिः शिथिला भवती अस्ति” इति । अतः तेन “जवाहरलाल नेहरू” इत्याख्याय युक्तिः उक्ता । अनन्तरं स्वयम् ई. स. १९६३ तमवर्षस्य अक्टूबर-मासस्य २ दिनाङ्के तमिलनाडु-राज्यस्य मुख्यमन्त्रिपदात् त्यागपत्रं दत्तम् । तेन चिन्चितं यत् “सर्वकारस्य वरिष्ठनेतारः स्वपदात् त्यागपत्रं दद्युः”. स्वशक्तिं कॉङ्ग्रेस-पक्षस्य विकासाय, उद्धाराय च योजयेयुः इति । इयमेव तस्य योजना आसीत् । तेन “लाल बहादुर शास्त्री”, “जगजीवन राम”, “मोरारजी देसाई”, “एस् के पाटिल” इत्यादयः नेतारः स्वपदं त्यक्तुं प्रेरिताः । प्रेरितैः नेतृभिः कॉङ्ग्रेस-पक्षस्य विकासाय, उद्धाराय च स्वस्य पदं त्यक्तम् । इयं कामराज-योजना इति नाम्ना विख्याता जाता आसीत् ।

किङ्गमेकर[सम्पादयतु]

ई. स. १९६४ तमे वर्षे “जवाहरलाल नेहरू” इत्याख्यस्य मृत्योः अनन्तरं कामराजेन अशान्तसमयेऽपि कॉङ्ग्रेस्-पक्षस्य संचालनं कृतम् आसीत् । भारतीयराष्ट्रियकॉङ्ग्रेस-पक्षस्य अध्यक्षे सति तेन प्रधानमन्त्री भवितुम् अस्वीकृतम् । किन्तु ई. स. १९६४ तमे वर्षे “लालबहादुर शास्त्री” इत्याख्यस्य, ई. स. १९६६ तमे वर्षे “इन्दिरा” इत्याख्यायाः च प्रधानमन्त्री भावयितुं महत्प्रयासाः कृताः । दक्षिणभारतस्य राजनीतौ सः प्रसिद्धः आसीत् । तेन शिक्षणक्षेत्रे अपि महद्योगदानं प्रदत्तम् आसीत् । सत्यमूर्तिः कामराजस्य राजनैतिकगुरुः आसीत् । सत्यमूर्तिना कामराजस्य व्यक्तित्वे निष्ठावान्, कुशलश्च सङ्घटनकर्ता दृष्टः ।

मुख्यमन्त्रित्वेन कामराजः[सम्पादयतु]

स्वतन्त्रतानन्तरं ई. स. १९५४ तमवर्षस्य अप्रैल-मासस्य १३ दिनाङ्के (१३ अप्रैल १९५४) कामराजः मुख्यमन्त्रिपदं स्वीकृतम् । मुख्यमन्त्रिपदं स्वीकर्तुं तस्य इच्छा नासीत् । तथापि इच्छां त्यक्त्वा तेन पदमिदम् अलङ्कृतम् । कामराजेन “सी. सुब्रह्मण्यम”, “एम् भक्तवात्सल्यम” इत्येतौ द्वौ मन्त्रिमण्डले समाविष्टौ । कामराजेन कामराजयोजनायाः अन्तर्गते ई. स. १९६३ तमवर्षस्य अक्टूबर-मासस्य २ दिनाङ्के (२ अक्टूबर १९६३) तमिळनाडू-राज्यस्य मुख्यमन्त्रिपदं त्यक्तम् [३]

योगदानम्[सम्पादयतु]

कामराजः सततं वारत्रयं तमिळनाडू-राज्यस्य मुख्यमन्त्री अभवत् । तेन प्रदेशस्य साक्षरतामानं ३७ प्रतिशतं कृतम् । राज्यसभायाः सांसदेन डॉ. “ई. एम्, सुदर्शन” इत्याख्येन उक्तं यत् – “कामराजः दृढः, सबलः च आसीत् । कामराजः निम्नवर्गीयः आसीत् । अतः सः निम्नवर्गीयजनान् कॉङ्ग्रेस-पक्षं प्रति आकर्षितवान् । तेन राज्यस्य ग्रामेषु व्यक्तिगतरीत्या सम्पर्कः कृतः आसीत् । शिक्षणक्षेत्रे अपि तस्य महत्त्वपूर्णं योगदानम् आसीत् । ग्रामेषु विद्यालयाः स्थापिताः । विद्यालयेषु मध्याह्नभोजनस्य व्यवस्थ अपि कारिता आसीत् । अपि च एकादशकक्षापर्यन्तं निःशुल्कम्, अनिवार्यं च शिक्षणं आयोजितम् । तमिळनाडू-राज्ये तेन तमिळ्भाषामाध्यमेन शिक्षणम् आरब्धम् । तस्य मुख्यमन्त्रिकालादेव बालकाः तमिळ्भाषायां शिक्षणं प्राप्नुवन्ति ।

भारतरत्नप्रशस्तिः[सम्पादयतु]

कामराजेन ई. स. १९६४ तमे वर्षे “लालबहादुर शास्त्री”, ई. स. १९६६ तमे वर्षे “इन्दिरागान्धिः” इत्येताभ्यां मुख्यमन्त्रिभ्यां च सह कार्यं कृतम् आसीत् । कामराजः “दक्षिणस्य गान्धिः” इति नाम्ना ज्ञायते स्म । ई. स. १९७६ तमे वर्षे मृत्योः अनन्तरं कामराजाय देशस्य सर्वोच्चनागरिकत्वेन भारतरत्नप्रशस्तिः प्रदत्ता ।

मृत्युः[सम्पादयतु]

ई. स. १९७५ तमवर्षस्य अक्टूबर-मासस्य २ दिनाङ्के (२ अक्टूबर १९७५) कामराजस्य मृत्युः अभवत् [४]। तस्मिन् समये सः द्विसप्ततिवर्षदेशीयः आसीत् । तस्मै न कोऽपि रोगः आसीत् । सः स्वस्थः आसीत् । रात्रौ निद्रायामेव सः प्राणान् त्यक्तवान् ।यदा तस्य मृत्युः अभवत्, तदा तस्य पार्श्वे काऽपि सम्पत्तिः नासीत् ।

सन्दर्भः[सम्पादयतु]

  1. हमारे भारत रत्न विजेता, डॉ. एम् जे बन्धिया, प्रो. हितेष डी. वैष्णव, पृ. - २१४
  2. हमारे भारत रत्न विजेता, डॉ. एम् जे बन्धिया, प्रो. हितेष डी. वैष्णव, पृ. - २१५
  3. हमारे भारत रत्न विजेता, डॉ. एम् जे बन्धिया, प्रो. हितेष डी. वैष्णव, पृ. - २१७
  4. हमारे भारत रत्न विजेता, डॉ. एम् जे बन्धिया, प्रो. हितेष डी. वैष्णव, पृ. - २१८
"https://sa.wikipedia.org/w/index.php?title=के_कामराज&oldid=393552" इत्यस्माद् प्रतिप्राप्तम्