खान् अब्दुल् गफार् खान्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search
खान् अब्दुल् गफार् खान्
Khan Abdul Ghaffar Khan.jpg
खान् अब्दुल् गफार् खान्
जन्म क्रि.श.१८९०तमवर्षम् ।
पेशावर पाकिस्तानम्
मृत्युः क्रि.श. १९८८तमवर्षस्य जनवरी मासस्य विंशतितमदिनम् ।
शान्तिस्थानम् जलालाबाद Edit this on Wikidata
देशीयता भारतीयः
शिक्षणस्य स्थितिः अलीगढ़ मुस्लिम विश्वविद्यालय Edit this on Wikidata
वृत्तिः राजनैतिज्ञः edit this on wikidata
धर्मः इस्लाम्
भार्या(ः) Meharqanda Kinankhel, Nambata Kinankhel Edit this on Wikidata
अपत्यानि Khan Abdul Wali Khan, Khan Abdul Ali Khan, Khan Abdul Ghani Khan Edit this on Wikidata
पितरौ (माता)
(पिता)

ख़ान् अब्दुल् ग़फ़्फ़ार् ख़ान् भारतपाकिस्तानयोः सीमाप्रान्ते बलूचिस्तानस्य महाराजनीतिनेता यः स्वातन्त्रसङ्ग्रामे भागम् अवहत् । स्वकार्यनिष्ठया सीमागान्धिः, बच्चाखान्, बादशहखान् इति उपाधीः प्राप्तवान् । एषः भारतस्य उपमहाद्वीपे अङ्ग्लशासनं विरुध्य अहिंसापूर्वकम् आन्दोलनेन प्रसिद्ध्ः अभवत् । कदाचित् अस्य लक्ष्यं संयुक्तं मतनिरपेक्षं भारतम् आसीत् । क्रि.श. १९२०तमे वर्षे खुदायी खिदमतगार इति नाम्ना सङ्घटनम् अकरोत् । एतत्सङ्घटनं सुर्ख पोश इति नाम्ना अपि सम्बोध्यते ।

बाल्यं शिक्षा च[सम्पादयतु]

अयं महान् स्वातन्त्र्ययोद्धा स्वतन्त्रतायाः समरस्य पाठं स्वपितामहात् शिक्षितवान् । अस्य पितुः वैराम खानस्य स्वभागः विशिष्टः आसीत् । परमशान्तः धर्मनिष्टः च सः सदा देवताराधनायां निरतः भवति स्म । पठाणजनानां विरोधम् अपरिगणय्य अपि सः स्वपुत्रं विद्याभ्यासरार्थं क्रिश्चियन् मिशनरि शालायां प्रवेशितवान् । मिशनरी शालायां विद्याभ्यासं समाप्य उन्नताध्ययनार्थं अलिघडनगरं गतवान् । किन्तु तत्र वासार्थं व्यवस्था नाभवत् । अतः सः स्वग्रामे वस्तुम् इष्टवान् । विरामकालेषु समाजसेवाकार्यम् आरब्धवान् । शिक्षाम् सम्पूर्य अयं देशसेवायाम् एव रतः अभवत् ।

क्रान्तिकारिवंशः[सम्पादयतु]

खान् अब्दुल् गफ्फार् खान् इत्यस्य जन्म पाकिस्तानदेशस्य पेशावर इति स्थाने अभवत् । अस्य प्रपितामहः आबेदुल्ला खान् सत्यवादी तथा युद्धरती आसीत् । पठानानां स्वातन्त्र्यार्थं अपि च भारतस्य स्वातन्त्र्यता प्राप्तये एषः महायुद्धानि कृतवान् । स्वतन्त्रतायाः सङ्घर्षे एषः प्राणत्यागं कृतवान् । यथा सः बलशाली आसित् तथैव चतुरः अपि आसीत् । एवमेव अस्य पितामहः सैफुल्ला खान् अपि सङ्घर्षकारी आसीत् । सः सम्पूर्णं जीवनम् आङ्ग्लान् विरुध्य सङ्घर्षे एव व्यतीतवान् । यत्र कुत्रापि आङ्ग्लाः पठाणानाम् उपरि आक्रमणं कुर्वन्ति तत्र सैफुल्ला पठाणानां साहाय्यार्थं गच्छति स्म । स्वतन्त्रतायाः युद्धस्य नीतिं पितामहात् अब्दुल् गफर् खान् प्राप्तवान् । किन्तु अस्य पिता बैराम खान् शान्तस्वभावी आसीत् । भगवति विशेषभक्तियुक्तः आसीत् । यद्यपि पठाणानां विरोधः आसीत् तथापि सः पुत्रम् अब्दुल् गफार् खानं सुशिक्षितं कर्तुं मिशन् शालां प्रवेशितवान् । मिशनरीशालायां विद्यार्जनसमाप्तेः पश्चात् एषः अलीगढं गतवान् । किन्तु तत्र वासव्यवस्थायाः कष्टमनुभूय स्वग्रामं प्रतिनिवृत्तवान् । ग्रीष्मकालस्य विरामावसरे निरर्थकं कालयापनम् अकुर्वाणः समाजसेवां करोति स्म ।

स्वातन्त्र्यसङ्घर्षः[सम्पादयतु]

विद्यार्जनस्य समाप्तेः पश्चात् देशसेवायां निरतः अभवत् । क्रि.श. १९१९तमे वर्षे मार्शल् ला अनुष्ठानस्य काले एषः शान्तेः प्रस्तावम् उपस्थापितवान् । तथापि एषः ब्रिटिश् आरक्षकैः बद्धः । ब्रिटिश् सर्वकारः विद्रोहस्य आक्षेपं निरन्तरम् आरोपयन् कारागारे तं सदा विनिवेशयितुम् इच्छति स्म । अब्दुल् गफारस्य प्रेरणया एव जनाः सम्पर्कतन्त्रीः कर्तितवन्तः इति साक्षिणं निर्मातुं ब्रिटिश् सर्वकारः प्रायतत । किन्तु सर्वकारपक्षेण मिथ्यासाक्षी भवितुं कोऽपि जनः सिद्धः नाभवत् । तथा गफ्फर्खानस्य षण्मासानां कारागारवासस्य दण्डः विहितः । खुदायी खिदमतगार् इति यत् सङ्घटनं तेन रचितं तस्य कार्यं शीघ्रमेव राजनैतिककार्ये परिवर्तितम् अभवत् । तस्य सङ्घटनस्य प्रत्येकं सदस्यस्य एषा प्रतिज्ञा अस्ति । ते सर्वे भगवतः प्रतिनिधयः । तथा सम्पत्तेः अथवा विपत्तेः विषये तेषां समभावः । सर्वदा नेता अग्रेसरः भवति । मृत्युम् आलिङ्गितुं ते सिद्धाः सन्ति । क्रि.श. १९३०तमे वर्षे सत्याग्रहं कुर्वाणाः ते पुनः पञ्जाबस्य कारागारं प्रेषिताः । तत्र अन्येषां पञ्जाबबन्धिनां परिचयः प्राप्तः । कारागारे एते सर्वे सिखमतग्रन्थस्य ग्रन्थसाहीबस्य अध्ययनम् अकुर्वन् । भगवद्गीतापाठकः संस्कृतज्ञः अपि तत्र लब्धः। एवं हिन्दुनां महमदीयानां सिख्खानां च परस्परं मेलनम् अभवत् । एवं तत्र सर्वे गीतां, ग्रन्थसाहीबं, कुरानं च पठन्ति स्म । क्रि.श. १९३१तमवर्षस्य मार्चमासस्य २९तमे दिने लण्डन् नगरे सञ्चालिते वर्तुलोत्पीठिकासभायाः पूर्वं महात्मा गान्धिः तत्कालीनः वैसरायः लार्ड् इरविनः एतयोः मध्ये राजनैतिकसन्धानम् अभवत् । इतिहासे अस्य गान्धि-इर्विन् सन्धानम् (Gandhi–Irwin Pact) इत्येव प्रसिद्धिः । एतस्य पश्चात् अब्दुल् गफर् खान् बन्धमुक्तः सामजिककार्ये निमग्नः अभवत् । यदा महात्मा गान्धिः इङ्ग्लेण्ड्तः आगतवान् तदा ब्रिटिश् सर्वकारः पुनः काङ्गेस् उपरि निर्बन्धम् अकरोत् । अतः दायित्वं स्वीकृत्य व्यक्तिगतावज्ञायाः आन्दोलनम् आरब्धवान् । सीमाप्रान्ते अपि सर्वकारस्य दुर्व्यवहारं विरुध्य आन्दोलनम् आरब्धम् । अतः सर्वकारः आन्दोलनस्य सूत्रधारः इति निश्चित्य गफारस्य समग्रकुटुम्बस्य बन्धनम् अकरोत् । क्रि.शा. १९३४तमेवर्षे कारागारात् विमोचस्य पश्चात् गफार् खान् सहोदरेण सह वर्धानगरे अवसत् । अत्रान्तरे एषः समग्रदेशस्य पर्यटनं कृतवान् । काङ्गेस् पक्षस्य निश्चयानुसारं क्रि.श. १९३९तमे वर्षे प्रान्तीयपरिषदि अधिकारः प्राप्तः । सीमाप्रान्ते अपि काङ्ग्रेस् मन्त्रिमण्डलम् अस्य सहोदरस्य डा.खानस्य नेतृत्वेन रचितम् । किन्तु सः तस्मात् पृथक् सन् जनानां सेवामकरोत् । क्रि.श. १९४२तमे वर्षे अगस्ट् मासस्य आन्दोलनस्य कारणेन पुनः बद्धः क्रि.श. १९४७तमे वर्षे विनिर्मुक्तः । देशस्य द्विभागावसरे अस्य सम्बन्धः भारतम्।भारतेन सह भग्नः इव अभवत् । किन्तु एषः देशविभाजनविषये सहमतः नासीत् । क्रि.श. १९७०तमे वर्षे समग्रं भारतम् अटितवान् । क्रि.श. १९८७तमे वर्षे एषः भारतसर्वकारः सर्वोत्कृष्टपुरस्कारेण भारतरत्नप्रशस्त्या भूषितः ।

भारतीयस्वातन्त्रान्दोलनकले पेशावरप्रदेशे क्रि.श.१९१९तमे वर्षे सैन्यस्य शासनं (मार्शल् ला) चालितम् । तदा बादशाहखानस्य उपरि विप्लवकारी इति मिथ्यारोपं कृत्वा ब्रिटिष् जनाः वञ्चनया एतं कारावारं प्रेषितवन्तः । किन्तु बादशाह खानस्य विरुद्धं सक्ष्यं वक्तुं न कोऽपि सिद्धः अभवत् । तथापि असत्येन षण्मासान् यावत् कारावारे अस्थापयन् । केचन किंवदन्तीं प्रसारितवन्तः कारावारे बदशाह खानस्य गोलिकाघातं कृतम् इति । एतां वार्तां श्रुत्वा पिता अधीरः अभवत् । किन्तु कदाचित् कारावारं गत्वा पुत्रं दृष्ट्वा प्रसन्नः अभवत् । अनन्तरं बिटिष् अधिकारिणः तं गुजरात्राज्यस्य कारावारम् आनीतवन्तः । तत्र बादशाह खानः अन्यैः पञ्जाबिजनैः सह परिचयं प्राप्तवान् । तस्मिन् कारावारे सिख्खानां धर्मग्रन्थस्य ग्रन्थसाहीबस्य विषये ग्रन्थद्वयं पठितवान् । अनेन अन्ये बन्धिनः अपि प्रभाविताः गीतां कुरान् ग्रन्थसाहीबान् च पठितवन्तः । भागवद्गीतायाः सम्पूर्णार्थं क्रि.श.१९३०तमे वर्षे पं.जगतरामः बोधितवान् ।

मृत्युः[सम्पादयतु]

क्रि.श. १९८८तमे वर्षे पाकिस्तानसर्वकारः तं गृहबन्धने अस्थापयत् । क्रि.श. १९८८तमवर्षस्य जनवरीमासस्य २०तमे दिनाङ्के अब्दुल् गफर् खान् इहलोकं त्यक्तवान् । तस्य अन्तिमेच्छानुसारम् अफघानिस्तानस्य जलालाबाद् पत्तने भूसमाधिम् अकुर्वन् ।


बाह्यानुबन्धाः[सम्पादयतु]

चित्रसञ्चयः[सम्पादयतु]