रविशङ्कर

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
रविशङ्करः
Dia5275 Ravi Shankar.jpg
व्यैक्तिकतथ्यानि
जन्मनाम रोबिन्द्रो शौंकोर चौधरी
मूलतः बनारस, भारतम्
वृत्तिः सङ्गीतकारः
वाद्यानि सितारवाद्यम्


रविशङ्करः भारतीयराष्ट्रियसङ्गीतस्य प्रसिद्धः सितारवादकः आसीत् । सम्पूर्णे विश्वस्मिन् सङ्गीक्षेत्रे रविशङ्करस्य ख्यातिः उत्कृष्टतमा अस्ति । रविशङ्करः विंशतितमायाः शताब्द्याः महत्सङ्गीतज्ञेषु गण्यते । ई. स. १९९९ तमे वर्षे रविशङ्करः भारतस्य सर्वोच्चनागरिकत्वेन भारतरत्नप्रशस्तिः प्राप्ताः । रविशङ्करः भारतीयचलच्चित्रेषु, पाश्चात्यचलच्चित्रेषु च सङ्गीतानि निर्मान्ति स्म । अस्य नाम्नः अग्रे “पण्डित” इति उपाधिः उच्यते । यतः “पण्डितः” इत्युक्ते “विशेषज्ञः(Master)” इति ।

जन्म, परिवारश्च[सम्पादयतु]

ई. स. १९२० तमस्य वर्षस्य अप्रैल-मासस्य ७ दिनाङ्के (७ अप्रैल १९२०) रविशङ्करस्य जन्म वाराणस्याम् अभवत् [१]। तस्य परिवारः बङ्गाली आसीत् । तस्य पितुः नाम श्यामशङ्करः आसीत् । सः तत्र अधिवक्ता आसीत् । तस्य मातुः नाम हेमाङ्गिनी च आसीत् । श्यामशङ्करः इङ्ग्लेण्ड्-देशस्य लण्डन-नगरे अधिवक्तृत्वेन कार्यं कुर्वन् आसीत् । रविशङ्करस्य उदयशङ्करः नामकः अग्रजः आसीत् । उदयशङ्करः प्रसिद्धः नर्तकः अभवत् । रविशङ्करः उदयशङ्करेण सह नृत्यकार्यकमाय विदेशम् अपि गच्छति स्म ।

शिक्षणम्[सम्पादयतु]

रविशङ्करस्य आरम्भिकशिक्षणं गृहे एव अभवत् । तस्मिन् समये “उस्ताद अलाउद्दीन खाँ” प्रसिद्धः सङ्गीतकारः आसीत् । रविशङ्करेण अलाउद्दीन खाँ इत्याख्यः गुरुः मानितः । सः अल्लाह रक्खा खाँ, “किशन महाराज”, “उस्ताद अली अकबर” इत्याख्यैः जनैः सह सम्बद्धः आसीत् । अष्टादशवर्षदेशीये तेन नृत्यं त्यक्तं, सितारवादनम् आरब्धञ्च ।

विवाहः[सम्पादयतु]

ई. स. १९४१ तमे वर्षे एकविंशतिवर्षस्य वयसि रविशङ्करः “अलाउद्दीन खाँ” इत्याख्यस्य पुत्र्या अन्नपुर्णादेव्या सह विवाहम् अकरोत् । ई. स. १९४१ तमे वर्षे एकः पुत्रः प्राप्तः । तस्य नाम शुभेन्द्रशङ्करः इति प्रदत्तम् । किन्तु किञ्चित्समयान्तरे रविशङ्करेण अन्नपूर्णादेवी त्यक्ता । १९४० तमस्य दशकस्य अन्ते रविशङ्करस्य “कमला शास्त्री” इत्याख्यया नर्तक्या सह प्रेमसम्बन्धः आसीत् [२]। अनन्तरं न्युयॉर्क्-देशस्थया सङ्गीतकार्यक्रमस्य निर्मात्र्या “सुई जोन्स्” इत्याख्यया सह प्रेमसम्बन्धः आसीत् । । ई. स. १९७९ तमे वर्षे “नोरह जोन्स्” इत्याख्यः पुत्रः अजायत् । ई. स. १९८१ तमे वर्षे रविशङ्करेण “कमला शास्त्री” इत्याख्या त्यक्ता । ई. स. १९८६ तमवर्षपर्यन्तं सः “सुई जोन्स्” इत्याख्यया सह निवसितवान् । अनन्तरं ई. स. १९८९ तमे वर्षे तेन “सुकन्या राजन” इत्याख्यया सह विवाहः कृतः । रविशङ्करः सुकन्याम् १९७० तमदशकात् जानाति स्म । रविशङ्करः तां हैदराबाद-नगरस्य चिल्कुर-मन्दिरे मिलितवान् आसीत् [३]

सङ्गीते अभिरूचिः[सम्पादयतु]

ई. स. १९३९ तमे वर्षे रविशङ्करेण भारते प्रथमवारं कार्यक्रमः आयोजितः । भारतात् बहिः तेन ई. स. १९५४ तमे वर्षे प्रथमवारं तत्कालीने सोवियतसङ्घे कार्यक्रमः कृतः । यूरोपदेशे प्रथमवारम् ई. स. १९५६ तमे वर्षे सः कार्यक्रमः आयोजितवान् । ई. स. १९४४ तमे वर्षे औपचारिकं शिक्षणं प्राप्य सः मुम्बई-नगरं गतवान् । तत्र चलच्चित्रेषु सङ्गीतं प्रदत्तम् आसीत् । १९६० तमस्य दशकस्य मध्ये रविशङ्करेण स्मरणीयाः तिस्रः प्रस्तुतयः प्रदत्ताः । ताः “मॉनटेरी पॉप् फेस्टिवल्”, “कन्सर्ट् फॉर् बाङ्ग्लादेश”, “वुडस्टॉक् फेस्टिवल्” च । ई. स. १९७१ तमे वर्षे “बाङ्ग्लादेश मुक्ति सङ्ग्राम” अभवत् । अतः अस्मिन् सङ्ग्रामे बहवः जनाः बाङ्ग्लादेशात् भारतम् आगतवन्तः । तेषां जनानां साहाय्यार्थं रविशङ्करेण बहून् कार्यक्रमान् कृत्वा धनम् एकीकृतम् । रविशङ्करे भारतीयसङ्गीते अपि बहवः रागाः प्रदत्ताः । तेन भारतीयसङ्गीतं समृद्धम् अभवत् । रविशङ्करेण परमेश्वरी-रागः, कामेश्वरी-रागः, गङ्गेश्वरी-रागः, जोगेश्वरी-रागः, वैरागीतोडी-रागः, कौशिकतोडी-रागः, मोहनकौंस-रागः, रसिया-रागः, मनमञ्जरी-रागः,पञ्चम-रागः इत्यादयः नूतनरागाः निर्मिताः । एतेषु रागेषु वैरागी-रागः, नटभैरव-रागश्च अत्यन्तः लोकप्रियः जातः ।

सङ्गीतनिर्देशकत्वेन रविशङ्करः[सम्पादयतु]

रविशङ्करेण भारतदेशे, कनाडा-देशे, यूरोप-देशे तथा अमेरिका-देशे च चलच्चित्रेषु सङ्गीतानि निर्मितानि आसन् । “चार्ली”, “गान्धी”, “अपू त्रिलोगी” एते चलच्चित्राणि प्रसिद्धानि सन्ति । तेभ्यः चलच्चित्रेभ्यःझ् तेन स्वस्य सङ्गीतं प्रदत्तम् । “अपू त्रिलोगी” इत्यस्य चलच्चित्रस्य निर्देशकः सत्यजीत राय इत्याख्यः आसीत् । चलच्चित्रमिदं बङ्गाली-भाषायाम् अस्ति । हिन्दीभाषायाः “अनुराधा” इति नामके चलच्चित्रे अपि रविशङ्करेण एव सङ्गीतं निर्मितम् । “गान्धी” इत्यस्य चलच्चित्रस्य निर्देशकः “रिचर्ड् एटिनबरा” इत्याख्यः आसीत् । तस्मिन् चलच्चित्रे अपि रविशङ्करस्यैव सङ्गीतम् अस्ति । तेन बहुषु पाश्चात्यचलच्चित्रेषु अपि सङ्गीतानि निर्मितानि सन्ति ।

सम्माननं, पुरस्काराश्च[सम्पादयतु]

ई. स. १९६२ तमे वर्षे रविशङ्करः सङ्गीतनाटक-अकादमीपुरस्कारः प्राप्तवान् । ई. स. १९६७ तमे वर्षे भारतसर्वकारेण तस्मै पद्मभूषण-प्रशस्तिः प्रदत्ता । ई. स. १९७५ तमे वर्षे रविशङ्करेण पद्मविभूषण-प्रशस्तिः प्राप्ता । ई. स. १९८७ तमे वर्षे मध्यप्रदेशसर्वकारेण रविशङ्करेण कालिदाससम्मानं प्राप्तम् । ई. स. १९९९ तमे वर्षे भारतसर्वकारेण सर्वोच्चनागरिकत्वेन रविशङ्कराय भारतरत्नप्रशस्तिः प्रदत्ता आसीत् । रविशङ्करः संयुक्तराष्ट्रसङ्घान्तर्गतानांसङ्गीतज्ञानां कस्याश्चि संस्थायाः सदस्य आसीत् । सः बहून् ग्रेमी-पुरस्कारान् प्राप्तवान् । तेषु पुरस्कारेषु १९६७ तमे वर्षे पुरस्कारद्वयं प्राप्तम् [४]

मृत्युः[सम्पादयतु]

ई. स. २०१२ तमस्य वर्षस्य दिसम्बर-मासस्य ६ दिनाङ्के (६ दिसम्बर २०१२) रविशङ्करः अमेरिका-देशस्य “सैन डिएगो” इत्यस्य नगरस्य “स्क्रिप्स् मेमोरियल्” इत्यस्मिन् चिकित्सालये उपचारार्थं नीतः । श्वासोच्छ्वासे सः कष्टमनुभवति स्म । तस्मै श्वसनतन्त्रे पीडा जायते स्म । हृदयपरिवर्तनक्रियायां सत्यां सः मृतङ्गतः । ई. स. २०१२ तमस्य वर्षस्य दिसम्बर-मासस्य ११ दिनाङ्के (११ दिसम्बर २०१२) सांयकाले सार्धचतुर्वादने (४:३० PM) रविशङ्करस्य मृत्युः अभवत् । यदा तस्य मृत्युः अभवत्, तदा सः ९२ वर्षदेशीयः आसीत् । रविशङ्करस्य निधने सति तत्कालीनेन प्रधानमन्त्रिणा मनमोहनसिंहेन उक्तं यत् – “रविशङ्करः राष्ट्रियसम्पत्तिः आसीत् । रविशङ्करस्य निधनेन सह अस्य युगस्य अपि अन्तः जातः” इति [५]

पुरस्काराः[सम्पादयतु]

भारतसर्वकारः पण्डितं रविशङ्करं क्रि.श.१९६७ तमे वर्षे पद्मभूषणम् इति उपाधिना क्रि.श.१९९९तमे वर्षे भारतरत्नम् इति उपाधिना सम्मानयत् ।

  • अस्य कौटुम्बिकसङ्गीतज्ञाः

विशेषावलोकनम्[सम्पादयतु]

बाह्यानुबन्धाः[सम्पादयतु]



  1. हमारे भारत रत्न विजेता, डॉ. एम् जे बन्धिया, प्रो. हितेष डी. वैष्णव, पृ. - ३४८
  2. "Hard to say no to free love: Ravi Shankar". Press Trust of India. Rediff.com. 13 May 2003. Retrieved 18 July 2009. 
  3. "Balaji temple in Hyderabad was stage for Pandit Ravi Shankar's secret wedding". The Times of India. Retrieved 13 December 2012. 
  4. हमारे भारत रत्न विजेता, डॉ. एम् जे बन्धिया, प्रो. हितेष डी. वैष्णव, पृ. – ३५१-३५२
  5. हमारे भारत रत्न विजेता, डॉ. एम् जे बन्धिया, प्रो. हितेष डी. वैष्णव, पृ. – ३५२-३५३
"https://sa.wikipedia.org/w/index.php?title=रविशङ्कर&oldid=390672" इत्यस्माद् पुनः प्राप्तिः