सामग्री पर जाएँ

तानसेनः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
तानसेनः
तानसेनः - चित्रकारस्य कल्पना चित्रम् ।
व्यैक्तिकतथ्यानि
मूलतः भारतीयः
सङ्गीतविद्या हिन्दुस्तानीशास्त्रीयसङ्गीतम्
वृत्तिः गायकः
सक्रियवर्षाणि क्रि.श १९४१तः २०११ ।


तानसेः अथवा मियां तानसेनः वा रामतनु पाण्डेयः हिन्दुस्तानीशास्त्रीयसङ्गीतस्य महान् ज्ञानी । अकबरस्य आस्थानस्य नवरत्नेषु अन्यतमः इत्यपि प्रथितः । सङ्गीतविदुषः तानसेनस्य ग्वालियर् नगरस्य विषये वचनमेकम् अस्ति । अत्र बाला क्रन्दन्ति चेत् रागः श्रूयते, शिलाखण्डः लुण्ठति चेत् तालः श्रूयते इति । अनेन नगरेण प्राचीनकालात् अद्यपर्यन्तं नैके लकाविदः लोकाय अर्पिताः । सङ्गीतसूर्यः तानसेनः एतेषु सर्वेषु अग्रगण्यः भावति ।

शिक्षादीक्षा

[सम्पादयतु]

ग्वालियर्तः ४५कि.मी. दूरे बेहट इति ग्रामे श्री मकरन्द पाण्डेयः इत्यस्य पुत्ररूपेण अस्य जन्म अभवत् । तत्कालीनप्रसिद्धस्य फकीरस्य महम्मद गौस इत्यस्य वरदप्रसादेन अस्य जन्म अभवत् इति वदन्ति । मकरन्द पाण्डेयस्य अनेकापत्यानि अभवन् क्तिन्तु सर्वेषामपि अकालमृत्युः अभवत् । निराशः शोकार्तः च मकरन्द पाण्डेयः सूफीसतः महम्मद गौसस्य सन्निधौ गतः । अस्य कृपया क्रि.श. १४८६तमे वर्षे तन्ना अथवा तनसुख माम त्रिलोचनस्य जन्म अभवत् । यः अग्रे तानसेनः इति नान्मा प्रसिद्धः अभवत् । तानसेनस्य आरम्भिककाले ग्वालियर् प्रदेशे राज्ञः मनसिंहतोमरस्य प्रशानम् आसीत् । अस्य प्रोत्साहनेन ग्वालियर् राज्यं सङ्गीतकलानां प्रसिद्धं केन्द्रम् आसीत् । अत्र वैजूबावरा कर्णः, मेहमूदः इत्यादयः सङ्गीताचार्याः गायकाः च आसन् । एतेषां सहयोगेन राजा मानसिंहः सङ्गीतस्य ध्रुपदगायनस्य आविष्कारं प्रचारं च कृतवन् । तनसेनस्य सङ्गीतशिक्षा अपि एतमिन् एव वातावरणे अभवत् । नामसिंहराजस्य मरणानन्तरं विक्रमाजितः राजा अभवत् । एतस्मात् वैरिराजेन अधिकारः आक्षिप्तः । अतः सङ्गीतज्ञां गणः विकीर्णः अभवत् । तदा तानसेनः अपि वृन्दावनं गत्व स्वामिनः हरिदासस्य सकाशात् सङ्गीतस्य उच्चशिक्षां प्राप्तवान् । सङ्गीतशिक्षायां यदा पारङ्गतः अभवत् तदा तानसेनः शेरशाह सूरी इत्यस्य पुत्रस्य दौलत खानस्य आश्रये अवसत् । पश्चत् बान्धवगडस्य राज्ञः रामचन्द्रस्य सभायां गायकः इति नियोजिततः । अकबरस्य आस्थनविद्वत्सु अपि च मुगलकालीनेषु सङ्गीतज्ञेषु तानसेनः परमप्रसिद्धः अभवत् । तानसेनस्य साहित्यलोकस्य इतिहासे अवश्यम् उल्लेखनीयः । एषः अकबरस्य नवरत्नेषु अन्यतमः आसीत् । कदाचित् अकबरः अस्य गुरोः सङ्गीतं शुश्रूषु अभवत् । किन्तु अस्य गुरुः हरिदासः तत्र आगन्तुं नैव शक्नोति स्म । अतः अकबरः एव निधिवनं गतवान् । तत्र हरिदासः कानिचनकृष्णगीतानि श्रावितवान् । अनेन अकबरः बहुधा प्रभावितः प्रत्यागत्य तानसेनम् एकान्ते आहूय 'भवान् भवतः गुरोः सदृशः नास्ति ' इति अवदत् । तदा तानसेनः अवदत् महाराज वयं सर्वे राज्यस्य प्रभूनां कृते गायायमः किन्तु अस्मद्गुरुः ब्रह्माडस्य प्रभोः कृते गायति अयमेव व्यत्सासः इति ।

साहित्यानि

[सम्पादयतु]

तानसेनस्य नाम्नः विषये पण्डितानां मतभेदः अस्ति । केचन वदन्ति तनसेनः इति अस्य नाम न अनेन प्राप्ता उपाधिः इति । तानसेनः मौलिकः कलाकारः । सः स्वरस्य तालस्य गीतानां च रचनाः करोति स्म । तानसेनस्य ग्रन्थत्रयानम् उल्लेखः लभ्यते ।

  • सङ्गीतसारः
  • रागमाला
  • श्रीगणेशस्त्रोत्राणि

सङ्गीतयात्रा

[सम्पादयतु]

भारतीयसङ्गीतस्य इतिहासे ध्रुपदकारस्य रूपेण तानसेनस्य नाम अग्रमान्यम् अस्ति । अनेन सह बृजभाषायाः साहित्येन सह स्य अखण्डः सम्बन्धः श्रूयते । अनेनापि तानसेनः चिरस्थायी अस्ति । सङ्गीतसाम्राट् तानसेनः अकबरस्य नवरत्नेषु सङ्गीतकलारत्नम् आसीत् । अतः रजसभायां सर्वेभ्यः अधिकं गौरवम् आसीत् । सङ्गीतगानेन विना अकबरस्य स्थानं शून्यं भाति स्म । तानसेनः ताऊ बाबा, रामदासः च तत्र उच्चश्रेण्याः सङ्गीतकाराः अभवन् । तानसेनः गुरोः स्वामिनः हरिदास्य आश्रये उषित्वा द्वादशवर्षाणि सङ्गीतशिक्षां साहित्यकृषिविद्यां च अधीतवान् । सङीतशिक्षां प्राप्त तानसेनः देशयात्रारथं प्रस्थितः । देशस्य अनेकेषु राज्येषु प्रवासं कृत्वा सर्वत्रापि सङ्गीतकलायाः प्रस्तुतिं कृत्वा जनप्रशंसां लोकप्रियतां च प्राप्तवान् । किन्तु जीवननिर्वहणावश्यकं धनं न प्राप्तम् । कदाचित् तानसेनः मध्यप्रदेशस्य राज्ञः रामचन्द्रस्य सभायां गीतवन् । राजा रामचन्द्रः तानसेनस्य नाम तु श्रुतवान् किन्तु अस्य गानं न श्रुतवान् । तद्दिने तानसेनस्य गानं श्रुत्वा राजा मोहमुग्धः अभवत् । तद्दिनादारभ्य राजा तानसेनस्य निवासं तस्मिन् एव राज्ये प्रकल्पितवान् । राजगायकत्वेन परिगणितः तानसेनः सर्वविधम् आर्थिकसौलभ्यं राजनितिकं सामाजिकं च सम्मानं च प्राप्तवान् । एवं बहुमान्यः समृद्धः तानसेनः स्वस्य ५०वयसः पर्यन्तं रीवायां (मध्यप्रदेशे) न्यवसत् । अस्मिन् कालांशे एषः सङ्गीतोपलब्धिं मोहकं लालित्यपूर्णं च अकरोत् । देशे सर्वतः अस्य गानस्य प्रशंसा श्रूयते स्म । अकबरस्य सूचनाकारः तस्य नवरत्नेषु अन्यतमः अब्दुल् फज़ल् इत्येषः तानसेनगानकलायाः प्रशंसा कृत्वा पत्रमेकं लिखितवान् । अपि च तस्मिन् सूचितवान् यत् तानसेनः अकबरस्य आस्थानस्य नवरत्नेषु अन्यतमः भवेत् इति । अकबरः तु अस्य कलासामर्थ्यं परीक्षितवान् एव आसीत् । स्वस्य सभायाम् एनम् आनीय सभायाः शोभां वर्धयितुम् अतीव उत्सुकः अभवत् । रामचन्द्रराजे विज्ञापनसहितं तानसेनाय आमन्त्रणपत्रं प्रेषितवान् । किन्तु राजा रामचन्द्रः स्वास्थानस्य एतादृशं रत्नं प्रेषितुं सिद्धः नासीत् । विषयः गभीरः भूत्वा एतयो राज्ञोः मध्ये युद्धपर्यन्तम् आगतः । पश्चात् तानसेनस्य प्रार्थनानुसारम् एतम् अकबरस्य आस्थनं प्रेषितवान् । आरम्भे अकबरस्य आस्थाने तानसेनः सन्तुष्टः नासीत् । क्रमेण अकबरस्य वात्सल्यं तानसेनं निकटम् आनयत् ।

अकबरस्य आस्थाने

[सम्पादयतु]

तानसेनः अकबरस्य आस्थाने स्वयम् अमूल्यं रत्नम् इति दृढीकृतवान् । तानसेनस्य सङ्गीतकलया अकबरस्य ख्यातिः उत्तुङ्गं गता । अनेन अस्य वैरिणां सङ्ख्या अपि वर्धिता । केषाञ्चन दिनानां पश्चात् तानसेनः ठाकुरस्य सम्मुखे सिंहबीनकारस्य अबिमुखः अभवत् । सः अतिमधुरतया वीणां वादयति स्म । उभयोः सङ्गीतसमरः आरब्धः । सन्मुखसिंहः पराजितः । तानसेनः भारतीयसङ्गीतस्य आदरं सम्मानं च दापितवान् । अनेकेषां रागरागिणीनां रचनं कृतवान् । 'मियाँ की मल्हार' 'दरबारी कान्हड़ा' 'गूजरी टोड़ी' अथवा 'मियाँ की टोड़ी' इत्यादीनि तानसेनस्य एव योगदानानि । अस्य विषये किञ्चित् गीतम् ।...

सुर मुनि को परनायकरि, सुगम करौ संगीत।
तानसेन वाणी सरस जान गान की प्रीत।

"https://sa.wikipedia.org/w/index.php?title=तानसेनः&oldid=298401" इत्यस्माद् प्रतिप्राप्तम्