बालमुरलीकृष्णः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search
डा. बालमुरलीकृष्णः
Mangalampalli Balamuralikrishna.jpg
व्यैक्तिकतथ्यानि
जन्मनाम मङ्गलम्पल्लि बालमुरलीकृष्णः
मूलतः सङ्करगुपटम्, गोदावरीपूर्वमण्डलम्, आन्ध्रप्रदेशराज्यम्
सङ्गीतविद्या कर्णाटकसङ्गीतम्
वृत्तिः शास्त्रीयसङ्गीतगायकः
सक्रियवर्षाणि क्रि.श. १९३८तः वर्तमानः ।



मङ्गलंपल्लि बालमुरली कृष्ण (M. Balamuralikrishna) कर्णाटकशास्त्रीयसङ्गीतस्य कश्चित् महागायकः, कृतिकारः वाद्यकारः च अस्ति। एतावताकालेन ४००अधिकाः कृतीः रचितवान् १८सहस्राधिकसङ्गीतगोष्ठीः सञ्चालितवान् । २५०अधिकाः सङ्गीतध्वनिमुद्रिकाः लोकाय प्रदत्तवान् ।

बाल्यं सङ्गीतसाङ्गत्यम्[सम्पादयतु]

डा. मङ्गळम्पल्लि बालमुरलीकृष्णः क्रि.श. १९३० तमे वर्षे जुलै मासस्य षष्टे दिनाङ्के आन्ध्रप्रदेशराज्यस्य गोदावरीपूर्वमण्डलस्य रोजुलु इति जनपदस्य सङ्करगुपन् इति ग्रामे अजायत । अस्य बाल्यनाम मुरलीकृष्णः इति । किन्तु तस्य ग्रामस्य प्रसिद्धः हरिकथाविद्वान् नारायणः मुरलीकृष्ण इति नाम्नः मूले बाल इति पदं योजितवान् । गृहे एव सङ्गीतवातावरणम् आसीत् । पिता पट्टाभिरामय्यः वंशीवीणाबाहुलीनावादकः । माता सूर्यकान्तम्मा श्रेष्ठा वीणावादिनी । बालमुरलीकृष्णः यदा पञ्चदशे वयसि आसीत् तदा तस्य माता दिवङ्गता । अस्य पितृभगिनी एतं विजयवाडप्रदेशं नीत्वा स्वगृहे पोषितवती । बाल्यादारभ्य अस्य पिता सङ्गीतस्य प्राथमिकगुरुः । पितुः सङ्गीतासक्तिः पुत्रम् अपि प्रभावितवती । पिता सङ्गीताक्त्याः उत्तुङ्गे विद्यमानं पुत्रं सुसर्ल दक्षिणामूर्तिः इत्यस्य आश्रये सङ्गीतम् अध्येतुम् न्यस्तवान् । कतिपयेषु एव वर्षेषु बालमुरलिकृष्णः ७२रागान् वीतवान् । क्रि.श. १९६० तमे वर्षे विजयवाडस्य आकाशवाणीकेन्द्रस्य भक्तिरञ्जिनी इति प्रातःकालस्य कार्यक्रमे गीतमालाम् आरभ्य बहुजनप्रियः अभवत् ।

प्रयोगशीलः[सम्पादयतु]

सङ्गीतविद्वान् बालमुरलीकृष्णः कर्णाटकसङ्गीतस्य मेरुगायकः । रागस्य तालस्य गानस्य पल्लव्याः च नूतनप्रयोगानां जनकः । भारतदेशस्य महत्सु वाग्गेयकारेषु अन्यतमः । देशविदेशेषु अनेकाः सङ्गीतगोष्ठीः समचालयत् । तेलुगुभाषा, संस्कृतभाषा, कन्नडभाषा, तमिळुभाषा, मलयाळभाषा, इत्यादिषु भाषासु शास्त्रीयतगीतानि गीतवान् । अपि च एतासु भाषासु चलच्चित्रगीतानि अपि गीतवान् सम्भाषणस्य कण्ठदानं च कृतवान् । क्रि.शा. १९३८ तमे वर्षे प्रचालिते सद्गुर्वाराधनामहोत्सवे स्वस्य प्रथमसङ्गीतगोष्ठीं प्रदर्शितवान् । तदा अस्य आयुः केवलं ८वर्षाणि । गानम् अतिरिच्य बाहुलीनां, खञ्जिरं, वंशीं सन्तोषेण वादयति स्म । विजयवाडस्य सर्वकारीयसर्ङ्गीतविद्यालयस्य प्राम्शुपालत्वेन सेवाम् अकरोत् । अभिनये निपुणः नैव किन्तु वाग्गेयकारः, कविः, सर्वदा नूतनस्य संशोधकः। स्विट्ज़र्ल्याण्ड् देशे Academy of Performing arts & Research इति संस्थाम् अस्थापयत् । कलासंस्कृतीनाम् अभिवृध्यर्थे मद्रास्(चेन्नै) नगरे एम्.बि.के.ट्रस्ट् इति संस्थाम् आरभ्य तया सङ्गीतनृत्यशालां सञ्चालयति । 'सन्ध्या केन्दिन सिन्धूरम्' इति मलयाळभाषाचलच्चित्रे प्रमुखभूमिकां निरूढवान् । सङ्गीतेन सह अस्य प्रियतरः वि़षयः नाम सुग्रासभिजनं मन्दं दीर्घकालपर्यन्तं कर्तुम् अस्य मनः इच्छति । अन्नसारयोः भोजनम् अतीव प्रियतरम् । भर्जितभक्ष्यानि, पयोहिमः इत्यादीनि अपि प्रियाणि ।

=प्रियं मनोरञ्जनम्[सम्पादयतु]

गृहे बालैः सह खेलनम्, दूरदर्शनवाहिनिषु कार्यक्रमाणां वीक्षणम्, विदेशगमने धननिष्कानि उपयुज्य सभिकक्रीडा, इत्यादीनि बालमुरलीकृष्णस्य प्रियानि सद्व्यसनानि ।

सङ्गीतमेव मुख्यव्यसनम्[सम्पादयतु]

बालमुरलीकृष्णः अपूर्वान् नूतनरागान् संयोजितवान् । पूर्वं पञ्चस्वरैः विना रागः न रञ्जयति इति सम्प्रदायः आसीत् । एतत् अतिरिच्य त्रयाणां चतुर्णां वा स्वराणां रागान् गीतवान् । अस्य कानिचन रागरचनानि एवं सन्ति । महती, सुमुखम्, त्रिशक्तिः, सर्वश्रीः, ओङ्कारी, जनसम्मोदिनी, मनोरमा, रोहिणि, वल्ल्भी, लवङ्गी, सुसमः इत्यादयः । बालमुरलीकृष्णः काश्चन नूतनकृतीः अपि रचितवान् सङ्गीतस्य नूतनकन्तिं, चिकित्सां च कुर्वन् शोधितवान् । वर्णं तिल्लानविष्यकं सूर्यकान्तिः इति रचनस्य विषये चतृसु भाषासु शोधग्रन्थाः सन्ति । बेङ्गळूरुमहानगरस्य गायनसमाजः इति सभाङ्गणे आयोजिते भक्तिभारतीप्रतिष्ठानस्य " पुरन्दरदसोत्सवे " सङ्गीतगोष्ठीं प्रदर्शितवान् । एषः न केवलं भारतम् अमेरिका, केनडा, इटलि, फ्रान्स्, रष्या, श्रीलङ्का, मलेष्या, सिङ्गपुर, इत्यादिषु देशेषु २०सहस्राधिकाः सङ्गीतगोष्ठीः प्रदर्शितवान् । शताधिकाः गीतगुच्छानां ध्वनिमुद्रिकाः लोकार्पिताः । अनेन स्वरनिबद्धाः महादेवसुतं, श्रीसकलगणाधिप, गङ्गणपते इत्यादयः कृतयः बहुजनप्रियाः सन्ति ।

प्रशस्तिपुरस्काराः[सम्पादयतु]

बाह्यानुबन्धाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=बालमुरलीकृष्णः&oldid=409999" इत्यस्माद् पुनः प्राप्तिः