सामग्री पर जाएँ

एम् एस् सुब्बुलक्ष्मी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(एम्. एस्. सुब्बुलक्ष्मीः इत्यस्मात् पुनर्निर्दिष्टम्)
एम्. एस्. सुब्बुलक्ष्मीः
चलचित्रभूमिकायां सुब्बुलक्ष्मीः
व्यैक्तिकतथ्यानि
जन्मनाम मदुरै षण्मुखवडिवु सुब्बुलक्ष्मीः
मूलतः मधुरै, तमिऴ्‌नाडुराज्यम्, भारतम्
वृत्तिः सङ्गीतज्ञा, गायिका, अभिनेत्री च ।
वाद्यानि गायिका
सक्रियवर्षाणि क्रि.श. १९२६तः क्रि.श.२००४


श्रीमती मदुरै षण्मुखवडिवु सुब्बुलक्ष्मीः (M. S. Subbulakshmi) (क्रि.श. १९१६ - २००४) कर्णाटकसङ्गीतस्य प्रसिद्धा गायिका । कर्णाटकशास्त्रीयसङ्गीतस्य लोके एम्.एस्. इत्येव ख्याता अस्ति ।

जीवनम्

[सम्पादयतु]

सुब्बुलक्ष्म्याः जन्म क्रि.श. १९१६तमे वर्षे सप्टम्बर्-मासस्य १६ दिनाङ्के तमिळुनाडुराज्यस्य मदुरैपत्तने अभवत् । अल्पे वयसि एव एषा सङ्गीताध्ययनस्य आरम्भं कृतवती । अस्याः दशमे वयसि एव तदीया प्रथमा गानमुद्रिका लोकार्पिता अभवत् । तदनन्तरं सेम्मङ्गुडि श्रीनिवास अय्यर् इत्यनेन ख्यातसङ्गीतविदुषा कर्णाटकसङ्गीतं, पण्डितेन नारायण राव् व्यासेन हिन्दुस्तानीसङ्गीतं च अभ्यसितवती । स्वस्य सप्तदशे वयसि मद्रासु-सङ्गीताकादेमी-सभायां प्रथमां सङ्गीतगोष्ठीं प्रस्तुतवती । ततः आरभ्य अन्तिमकालपर्यन्तम् अगणिताः गानगोष्ठीः सा समचालयत् । असङ्ख्याकाः ध्वनिमुद्रिकाः सङ्गीतरसिकलोकाय तया अर्पितानि । एषा संस्कृतम्, तमिळु, हिन्दी, कन्नड, बेङ्गाली, गुजराती, मलयाळं, तेलुगु इत्यादिभिः भाषाभिः रचितानि गीतानि गीतवती । मध्ये एकवारं चलच्चित्रे अपि अभिनयः कृतः तया । तमिळुभाषायाः हिन्दीभाषायाः च "मीरा" इत्यस्मिन् चलच्चित्रे प्रधानभूमिकां निरूढवती । शकुन्तला इत्येतस्मिन् तमिळुभाषायाः चलच्चित्रे प्रधानभूमिकां पोषितवती सा । क्रि.श. १९२६तमे वर्षे सदाशिवम् इति नामकस्य कस्यचित् स्वातन्त्र्ययोधस्य परिचयः प्राप्तः अनया । क्रि.श.१९४०तमे वर्षे तेन सह अस्याः विवाहः जातः । गतेषु दशकेषु आसेतुहिमाचलं सङ्गीतगोष्ठीः कृतवती । भारतस्य सांस्कृतिकराजदूतीरूपेण विदेशेषु अपि सङ्गीतसभां चालितवती । क्रि.श.१९९७तमे वर्षे तस्याः पतिः दिवङ्गतः । तदारभ्य सार्वजनिकसङ्गीतसभासु भागग्रहणं तया स्थगितम् । क्रि.श.२००४तमस्य वर्षस्य डिसेम्बर्-मासस्य द्वितीये दिने अस्वस्था जाता सुब्बुलक्ष्मी एकादशे दिनाङ्के इहलोकम् अत्यजत् । आप्रपञ्चं सर्वान् सङ्गीतरसिकान् आकृष्टवत्या सुब्बुलक्ष्म्या प्राप्ताः प्रशंसाः प्रशस्तयः पुरस्काराश्च अपाराः । "हरि तुम् हरो जन् की भीर्" इति मीराभजनं श्रुतवान् महात्मा गान्धिः तत् भजनं न कयापि अन्यया एवं गातुं न शक्यते इति अवदत् [१]। प्रसिद्धसङ्गीतविदा याः भारतीयप्रशस्तयः प्राप्तुं शक्याः ताः सर्वाः अनया प्राप्ताः सन्ति ।

प्रशंसाः

[सम्पादयतु]

नैके भारतीयाः विदेशीयाः च सङ्गीतविद्वांसः सुब्बुलक्ष्म्याः प्रशंसाम् अकुर्वन् । लता मङ्गेष्कर्वर्या एतां "तपस्विनी" इति सम्बोधितवती । उस्ताद् गुलाम अली खानः एतां "सरस्वती" इति सम्बोधितवान् । किशोरी आमोनकरः एताम् 'अष्टमः स्वरः' इति उक्तवती । भारतस्य अनेके नेतारः अस्याः गानस्य प्रशंसाम् अकुर्वन् । अस्याः गानानुरागिणां प्रशसां श्रुत्वा अभिमानिनां प्रोत्साहनं च दृष्ट्वा भारतसर्वकारः क्रि.श. १९५४तमे वर्षे अस्याः पद्मभूषणेन सम्माननम् अकरोत् ।

संयुक्तराष्ट्रसङ्घे सुब्बुलक्ष्मीः

[सम्पादयतु]

इयं सुब्बुलक्ष्मी प्रथमा भारतीया यया संयुक्तराष्ट्रसङ्घस्य सभायां सङ्गीतकार्यक्रमः प्रस्तुतः । अपि च प्रथमा नारी यया कर्णाटकसङ्गीतस्य क्षेत्रे सङ्गीतकलानिधिः इति सर्वपरमः पुरस्कारः प्राप्तः । अस्यै क्रि.श.१९९८तमे वर्षे भारतस्य सर्वश्रेष्ठा भारतरत्नम् इति प्रशस्तिः प्रदत्ता ।

प्रशस्तिपुरस्काराः

[सम्पादयतु]
M.S.Subbulakshmi

इत्यादयः सुब्बलक्ष्मीमहाभागया प्राप्ताः प्रशस्तयः ।

भारतरत्नभूषिता प्रथमा सङ्गीतज्ञा एम्.एस्.सुब्बुलक्ष्मीः

वीथिका

[सम्पादयतु]


टिप्पणी

[सम्पादयतु]
  1. "बापु-जवहरलाल्-परमाचार्याणां कृते गीतम्". 'दि हिन्दु' पत्रिका. December 22, 2010. आह्रियत 12 मार्च 2014. 

बाह्यानुबन्धाः

[सम्पादयतु]

एम्.एस्.सुब्बुलक्ष्म्याः भावचित्रैः सह आङ्ग्लभाषया विविधविषयाणां ज्ञानार्थं जालस्थानम् [१] Archived २००६-०१-०८ at the Wayback Machine