मलयाळम्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
मलयाळभाषायाम् लिखित: मलयाळम्
Malayalam
മലയാളം malayāḷam
മലയാണ്മ malayāṇma
Malayalamname.svg
Malayalam in Malayalam script
विस्तारः Primarily in the Indian state of Kerala
प्रदेशः Kerala, Lakshadweep, Mahé (Puducherry)
Ethnicity Malayali
स्थानीय वक्तारः एक्स्प्रेशन त्रुटि: अनपेक्षित उद्गार चिन्ह "�"।
भाषाकुटुम्बः
लिपिः Malayalam alphabet (Brahmic)
Malayalam Braille
आधिकारिकस्थितिः
व्यावहारिकभाषा  Indian states:Kerala (State),[१]Lakshadweep (Territory), Puducherry (Territory)
नियन्त्रणम् Academy for Malayalam literature, Government of Kerala
भाषा कोड्
ISO 639-1 ml
ISO 639-2 mal
ISO 639-3 mal
Malayalamspeakers.png
Malayalam-speaking area
{| style="text-align:left;"

|- | colspan="3" |

Indic script
This page contains Indic text. Without rendering support you may see irregular vowel positioning and a lack of conjuncts. More...
|}
{| style="text-align:left;"

|- | colspan=3 class="boilerplate metadata" style="line-height: 10pt; padding: 0.5em" | This page contains IPA phonetic symbols in Unicode. Without proper rendering support, you may see question marks, boxes, or other symbols instead of Unicode characters.

|}

मलयाळम् (Malayalam) भारतीयभाषासु अन्यतमा या च केरळराज्ये अधिकतया उपयुज्यते । भारते अधिकृततया सूचितासु २२ भाषासु अन्यतमा । केरळराज्यस्य, लक्षद्वीपस्य, पुतुच्चेर्याः च राज्यभाषा विद्यते । इयं द्रविडभाषापरिवारस्‍य काचित् भाषा। केरळदेशे जना: मलयाळभाषया वदन्ति । जनाः अनया भाषया सम्भाषन्ते । इयं भाषा तमिऴ्‌नाडुराज्यस्य नीलगिरि-कन्याकुमारी-कोयम्बत्तुरुमण्डलेषु, कर्णाटकस्य दक्षिणकन्नड-मङ्गलूरु-कोडगुमण्डलेषु च उपयुज्यते।

मलयाळं ६ शतके द्रविडभाषातः उत्पन्नम् इति श्रूयते । अन्यः वादः वर्तते यत् इयं भाषा इतोपि प्राचीनतमा इति । अस्याः भाषायाः ८०% शब्दाः संस्कृतशब्दाः एव । मलयाळभाषायाः उगमात् पूर्वं प्राचीनतमिऴभाषा उपयुज्यते स्म साहित्ये, तमिऴकप्रदेशस्य सभासु च । अस्य किञ्चन उत्तमम् उदाहरणं नाम 'चिलप्पतिकारम्' । सङ्गमसाहित्ये अयं ग्रन्थः उत्कृष्टः मन्यते । अयं कोचिनस्थेन चेराराजकुमारेण इळङ्को अडिकळेन लिखितम् । सङ्गमसाहित्यस्य बहवः शब्दाः आधुनिकमलयाळभाषया संरक्षिताः सन्ति । मलयाळलेखनाय उपयुक्ता प्राचीनतमा लिपिः नाम वट्टॆऴुत्तुलिपिः। अग्रे ततः उत्पन्ना कोलॆऴुत्तुलिपिः उपयुज्यमाना अस्ति । मलयाळभाषा संस्कृतस्य शब्दसम्पत्तिं व्याकरणनियमाञ्च अङ्ग्यकरोत् तदा आर्य-एझुट्टा नामिका ग्रन्थलिपिः आधृता । इममेव आधुनिकमलयाक्लिपित्वेन परिष्कृतः । बहवः मध्यकालीनाः साहित्यग्रन्थाः मणिप्रवाळलिप्या लिखिताः सन्ति या च संस्कृत-प्राचीनमलयाळलिप्योः संयुक्तरूपा वर्तते । तमिऴपरम्परातः भिन्नः प्राचीनमलयाळसाहित्यकृतिः ९-११ शतकयोः उपलभ्यते । मलयाळभाषा संस्कृत-तमिऴभाषयोः परम्परातः उद्भूता इत्यतः भारतीयभाषासु एव अस्याः अक्षरमालायाम् अत्यधिकाः वर्णाः विद्यन्ते । मलयाळलिपिः संस्कृतशब्दानां सर्वासां द्राविडभाषाशब्दानाञ्च अभिब्यक्तौ समर्था वर्तते ।

शब्दनिष्पत्तिः[सम्पादयतु]

मलयाळम् इत्येषः शब्दः मलयाळभाषायाः 'मला' - पर्वतः 'अळम्' - प्रदेशः - इत्येताभ्यां पदाभ्यां निष्पन्नः स्यात् । आदौ 'पर्वतप्रदेशः' इत्येषः प्रदेशं (चेरासाम्राज्यम्) निर्दिशति स्म । अग्रे सः एव शब्दः भाषायाः नाम जातम् । मलयाळभाषा मलयाण्मा, मलयाय्मा, कैरळी, इत्येतैः शब्दैः अपि निर्दिश्यते ।

उद्विकासः[सम्पादयतु]

मलयाळभाषायाः तदीयसाहित्यस्य च उत्पत्तेः विषये विश्वासयोग्यं प्रमाणम् अद्यावधि न प्राप्तमस्ति । तथापि अस्याः साहित्यं सहस्रवर्षीयम् इति अङ्गीक्रियते । अस्याः भाषायाः विषये एतावदेव वक्तुं शक्यते यत् इयं भाषा संस्कृतजन्या न । इयं द्राविडपरिवारस्य सदस्या । किन्तु अद्यावधि इदं न निश्चितं यत् इयं भाषा तमिऴभाषातः विभिन्न काचित् शाखा विद्यते उत मूलद्रविडभाषातः उत्पन्नाः अन्याः दक्षिणभाषाः इव पृथक् अस्तित्वयुता काचित् भाषा इति । तन्नाम तमिऴ-मलयाळभाषयोः सम्बन्धः माता-पुत्र्योः इव अथवा भगिन्योः इव इत्येतत् विद्यते अस्पष्टम् । भाषाविज्ञानिनः अस्याः समस्यायाः परिहारम् अन्विष्येयुः । इदं निश्चितं यत् मलयाळभाषायाः साहित्यस्य अङ्कुरस्य आरम्भावसरे तमिऴभाषासाहित्यं परिपुष्टमासीत् । अतः तमिऴभाषा मलयाळभाषायाः स्रोतरूपा इत्यपि वक्तुं शक्यम् । किन्तु १३ शतकस्य अन्तिमभागे मलयाळभाषा तमिऴेतरभाषाजन्या इति अङ्गीकृतम् ।

प्राचीनतमं मलयाळपद्यं १२ शतके लिखितं रामचरितम् । इदं संस्कृतवर्णानां परिचयतः पूर्वं रचितमस्ति । किन्तु एतेन आधारेण किमपि निर्णेतुं न शक्यते । आरम्भमलयाळसाहित्ये 'पाट्ट्' नामकानि गीतानि लभ्यन्ते यानि कृषिः प्रेम नायकाः देवाः इत्यादिषु विषयेषु रचितानि सन्ति । एतानि १४ शतकीयानि चम्पुसदृशानि सन्ति यत्र पद्यं गद्यं च मिश्रितं संस्कृतप्रभावोपेतम् पुराणादिसम्बद्धञ्च विद्यन्ते ।

१६-१७ शतकयोः तुञ्चत्तु रामानुजन् ऎऴुत्तच्छन् इत्येषः तमिऴ-वट्टॆऴुत्तु-लिपेः स्थाने ग्रन्थ-मलयाळलिपिम् आरचितवान् । ऎऴुत्तच्छन् आधुनिकमलयाळभाषायाः पिता इति निर्दिश्यते । अयं भारतीयप्राचीनकाव्ययोः रामायण-महाभारतयोः अनुवादं मलयाळभाषया अकरोत् । तदीयम् अध्यात्मरामायणं महाभारतञ्च अद्यत्वे अपि मलयाळभाषिहिन्दुगृहेषु धार्मिककार्यक्रमेषु श्रद्धया पठ्यते । १५ शतके पृथक् भाषारूपेण मलयाळभाषा अङ्गीकृता ।

केरळे प्रथमं मुद्रितं पुस्तकं हेन्रिहेरिक्सेन लिङ्गमुलबर्तमुलभाषया लिखितं 'डाक्ट्रिना क्रिस्टम्' । अस्य लिप्यनुवादः भाषानुवादश्च मलयाळभाषया कृतम् । अस्य मुद्रणं १५७८ तमे वर्षे पोर्चुगीस्जनैः कृतम् ।

आङ्ग्लिकन्-अर्चकः बेञ्चमिन् बैले मलयाळभाषया उट्टङ्कनं यदा आरब्धवान् तदा १८२१ तमे वर्षे कोट्टयप्रदेशे स्थितेन चर्चमिषन्सोसैटिसंस्थया मलयाळपुस्तकानां मुद्रणम् आरब्धम् । गद्यानां स्तरारोपणे च तस्य योगदानं महत्त्वपूर्णं वर्तते । जर्मनिदेशस्य स्टग्गर्ट्नगरस्य हर्मन् गण्डर्टः १८४७ तमे वर्षे केरळस्य तलश्शेरिप्रदेशे 'राज्यसमाचारम्' इति नामिकां प्रथममलयाळदिनपत्रिकाम् आरब्धवान् ।

प्रसिद्धाः लेखकाः केचन[सम्पादयतु]

उण्णायि वार्यर्[सम्पादयतु]

अयं १८ शतकस्य प्रसिद्धः उत्कृष्टः कविः । कथाकेळि-लेखकेषु अन्यतमः । एतेन लिखिता 'नळचरितम् आट्टक्कथा' अद्यत्वे अपि बहु प्रसिद्धा वर्तते । अयं केरळस्य कालिदासः इति निर्दिश्यते । कथाकेळिः नृत्यरूपकं विद्यते । मलयाळभाषायाः अट्टक्कथायाः संस्कृतनाटकस्य च सामान्यांशाः विरलाः । तन्नाम संस्कृतनाटकरचने ये नियमाः अनुस्रियन्ते ते अट्टक्कथायाः रचने न अनुस्रियन्ते । कश्चन रसः प्रमुखतया दृश्यते संस्कृतनाटके, किन्तु अत्र सन्दर्भानुसारम् आगताः सर्वे अपि रसाः पोष्यन्ते । अट्टक्कथा साहित्यकृतित्वेन परिगण्यते चेत् ज्ञायते यत् अट्टक्कथायाः समग्रता कलैक्यता च कुण्ठिता भवति इति ।

कुञ्चन् नम्प्यार्[सम्पादयतु]

'जनानां कविः' इति प्रसिद्धः अयं १८ शतकस्य आदिमभागे आसीत् । अनेन जनानां सांस्कृतिक-धार्मिक-कल्पनाः एव परिवर्तिताः । अयम् अत्युच्चस्थाने विद्यमानं कलां साहित्यञ्च जनानां समीपम् आनयत् । देवालये निवसन्तः नम्बूतिरिब्राह्मणाः नृत्य-नाटक-साहित्यैः सम्बद्धाः आसन् । नायर्जनाः ये अधिकसङ्ख्याकाः आसन् ते सांस्कृतिक-धार्मिककलापैः युक्ताः न आसन् । अस्मिन् समये आगतः कुञ्चन् नम्ब्यारः यः मन्दिरसेवकजातीयः आसीत् सः 'तुळ्ळल्' नामकं नूतन-एकाकि-नृत्यम् आविष्कृतवान् । एतन्निमित्तं तेन पञ्चाशदधिकाः कृतयः रचिताः । एताः पौराणिककथायुक्ताः किन्तु आधुनिक-सामाजिक-परिस्थितौ सम्बद्धाः च आसन् । पौराणिककथाव्यक्तयः अत्र सामान्यजनाः जाताः । तस्य शैली विनोदयुक्ता विकत्थनयुक्ता च । सः सामाजिकजागरणम् अकरोत् ।

रामपुरत्तु वार्यर्[सम्पादयतु]

रामपुरत्तु वर्यार् नामकः कश्चन वार्यः 'कुचेलवृत्तम्' - कुचेल-सुधाम्नोः वृत्तम् अलिखत् । तेन लिखिता एका एव कृतिः एषा आधुनिकमलयाळगीतानां मुकुटमिति मन्यते ।

स्वातितिरुनाळ्[सम्पादयतु]

स्वातितिरुनाळ्(१८२९-१८४७) तिरुवनन्तपुरस्य महाराजः आसीत् । महान् पण्डितः सः बह्वीषु भारतीयभाषासु काव्यात्मकीः सङ्गीतकृतीः अरचयत् । मलयाळं, संस्कृतं, तमिऴ्, तेलुगु, हिन्दी, मराठि इत्येतासु भाषासु सः कृतभूरिपरिश्रमः । सः कालः त्यागराज-मुत्तुस्वामी-श्यामशास्त्रिणां कालः । साहित्यदृष्ट्या इरयिम्मन् तम्पिः विद्वान् कोयित्तम्पुरान् च अस्य आस्थानकवी आस्ताम् । तयोः कृतयः काव्यांशेन सङ्गीतेन च युक्ताः ।

बाह्यानुबन्धाः[सम्पादयतु]

टिपण्ण्यः[सम्पादयतु]

  1. Official languages, UNESCO, http://portal.unesco.org/education/en/ev.php-URL_ID=22495&URL_DO=DO_TOPIC&URL_SECTION=201.html, retrieved 10 May 2007 
"http://sa.wikipedia.org/w/index.php?title=मलयाळम्&oldid=262320" इत्यस्माद् पुनः प्राप्तिः