प्रणब मुखर्जि

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
प्रणब् मुखर्जि
প্রণব মুখোপাধ্যায়
भारतस्य राष्ट्र्पतिः
इदानीन्तन
कार्यारम्भः
२०१२तमवर्षस्य जुलैमासस्य २५तमदिनम् ।
प्रधानमन्त्री मनमोहनसिंहः
उपराष्ट्रपतिः मोहमद् हमीद् अन्सारि
पूर्वगमः प्रतिभा पाटिल
व्यक्तिगत विचाराः
जननम् (१९३५-२-२) ११ १९३५ (आयुः ८८)
मिरिटि, आङ्ग्लेयकालस्य भारतम्
मरणम् ३१ आगस्ट् २०२०
देहली
राजनैतिकपक्षः भारतीयराष्ट्रियकाङ्ग्रेस्
पतिः/पत्नी सुर्व मुखर्जि
मुख्यशिक्षणम् कल्कत्ताविश्वविद्यालयः
धर्मः हिन्दुधर्मः

प्रणबकुमार् मुखर्जि (वङ्ग: প্রণব মুখোপাধ্যায়/prŋb kjuːmɑr mʉkhərɡiː/; जननम् - १९३५ डिसेम्बर् ११) भारतस्य राष्ट्रपतिरूपेण चितः अस्ति । तेन ७२ प्रतिशतं मतानि प्राप्तानि तन्नाम ५.१८ लक्षपरिमितानि मतानि । मुखर्जिः भारतीय राष्ट्रियकाङ्ग्रेस्पक्षस्य ज्येष्ठः नेता आसीत् । राष्ट्रपतिनिर्वाचने भागग्रहणाय २०१२ तमस्य वर्षस्य जुलै २२ तमे दिनाङ्के सः स्वस्य स्थानाय त्यागपत्रम् अयच्छत् । सः जुलैमासस्य २५ तमे दिनाङ्के राष्ट्रपतिपदं समलङ्करोत् ।

कुटुम्बः उद्योगश्च[सम्पादयतु]

मुखर्जिः ब्रिटिश्भारतस्य वङ्गराज्ये मिरटिप्रदेशे जन्म प्राप्तवान् । तस्य पिता कामद किङ्कर मुखर्जि भारतीयराष्ट्रियकाङ्ग्रेस्पक्षस्य सदस्यः आसीत् । भारतीयस्वातन्त्र्यसङ्ग्रामे गृहीतभागेन तेन दशाधिकवर्षाणि यावत् ब्रिटिशकारागृहे जीवनं यापितम् । प्रणबस्य माता राजलक्ष्मी मुखर्जि । तस्य अग्रजा अन्नपूर्णा मुखर्जि । प्रणबः सुरि (बिर्भम्) नगरस्थे सूरिविद्यासागरमहाविद्यालये अध्ययनम् अकरोत् । अयं महाविद्यालयः कल्कत्तविश्वविद्यालयव्याप्तौ विद्यते । सः इतिहासं, राजनैतिकविज्ञानं च अधीत्य कलापदवीं प्राप्तवान् । कलकत्ताविश्वविद्यालयतः न्यायशास्त्रे अपि पदवीं प्राप्तवान् । २०११ तमे वर्षे वोल्वर्हाम्प्टन्-विश्वविद्यालः गौरवडाक्टोरेट्पदविप्रदानपूर्वकं तस्य सम्माननम् अकरोत् । २०१२ तमस्य वर्षस्य मार्चमासे अस्सम्विश्वविद्यालयः गौरव-डिलिट्पदव्या तस्य सम्माननम् अकरोत् ।

प्रणब् मुखर्जि भारतस्य त्रयोदशः राष्ट्रपतिः अस्ति । सः षष्ट्ठिवर्षेभ्य: राजकीयक्षेत्रे कार्यं कुर्वन् अस्ति । सः अखिलभारतकाङ्ग्रेस्पक्षस्य ज्येष्ठतमः नेता अस्ति । भारतसर्वकारस्य बहुषु विभागेषु मन्त्री पदवीम् अलङ्कृतवान् अस्ति । अपि च बहुषु अवसरेषु काङ्ग्रेस्पक्षस्य समस्यापरिहारक: अस्ति: । १९६९ तमे वर्षे प्रधानमन्त्री-इन्द्रागान्धिवर्याया: काले प्रणब् मुखर्जि काङ्ग्रेस्पक्षस्य प्रतिनिधित्वेन राज्यसभायाः निर्वाचने विजयम् प्राप्तवान् । तदनन्तरकाले मुखर्जि इन्द्रायाः विश्वासयुक्तपात्रेषु अन्यतम: अभवत् । १९७३ तमे वर्षे मन्त्रिसभायाम् मन्त्रीपदवीम् अपि प्राप्तवान् । बहुषु विभागेषु मन्त्री अपि भूत्वा प्रथमवारम् निधिमन्त्रित्वेन १९८२-८४ पर्यन्तम् आसीत् । मुखर्जि राज्यसभाया: नेत्रुत्वम् अपि १९८० त: १९८५ पर्यन्तम् वोढवान् आसीत् । राजीवस्य काले प्रणबस्य प्राधान्यं न्यूनं जातम् । इन्द्रायाः मरणानन्तरम् अनुभवहीनस्य राजीवस्य अध: कार्यम् कर्तुम् अनुत्सुख: आसीत् प्रणब् वर्यः । १९८४ तमेषु वर्षेषु कामपि अधिकारयुक्तपदवीमपि न प्राप्तवान् । अत: स: स्वयम् "राष्ट्रीयसमाज्वादि-काङ्ग्रस्” नाम नूतनम् एकम् पक्षम् आरब्धवान् । १९८९ तमे वर्षे पुन: राजीवेन साकम् वार्तालापम् कृत्वा अखिलभारत-काङ्गरेस् पक्षेण सहैव राष्ट्रीयसमाज्वादि काङ्ग्रेस्स् पक्षमपि योजितवान् । यदा पी.वी. नरसिम्हराव: प्रधानमन्त्री अभवत् तदा मुखर्जे: राजकीयदशाया: पुनरुत्थानम् अभवत् । सः १९९१ तमे वर्षे प्रणबाय भारतस्य योजना मन्डल्याः नेतृत्वम् कल्पितवान् । अनन्तरकालेषु प्रणब: काङ्रस्पक्षस्य प्रधानसदस्यः भूत्वा सोनियागान्धि वर्यायै(राजीवस्य पत्नी) राजकीयप्रवेशस्य कारणकर्तृषु अन्यतम: अपि आसीत् १९९० तमेषु वर्षेषु । काङ्ग्रस्पक्ष: यु.पी.ए सम्योजनेन शासनाधिकारम् २००४ तमे वर्षे प्राप्तवन्त: । तस्मिन्समये प्रणब: य: तावत् पर्यन्तम् सर्वजन नेता नासीत् स: लोकसभा निर्वाचने विजयम् प्राप्तवान् । तदारभ्य २०१२ तमे वर्षे तस्य पदवी त्यागपर्यन्तम् मन्मोहनसिम्हस्य शासने प्रधानमन्त्रे: अनन्तरम् स्थानम् प्रणबस्य एव आसीत् । स: बह्व्य: पदव्य; वोढवान् अस्ति- रक्षणमन्त्री (२००४-०६) , बाह्यसम्बन्ध मन्त्री (२००६-२००९) , निधिमन्त्री (२००९-२०१२) । एतत् विहाय लोकसभायाः प्रतिनिधित्वमपि तेन वोढम् । तदनन्तरम् २०१२ तमे वर्षे यु.पी.ए.पक्षत: एव भारतस्य राष्ट्रपतित्वम् प्राप्तुम् आवेदितवान् । मुखर्जि सरलतया एव पी.ए .सङ्मा्वर्येणसह राष्ट्रपतिभवन प्राप्ति स्पर्धायाम् ७०% मतानि प्राप्य विजयम् प्राप्तवान् ।

औद्योगिकस्थिति:[सम्पादयतु]

मुखर्जि तस्यौद्यगम् कल्कत्ता नगरस्य पत्राचारविभागे(पोस्टल् ऽ टेलिग्राफ़् ) उप-गणक प्रतिनिधि (डेपुटीअकोन्टन्ट् जेनेरल्) कार्यालये उच्च-विभाग-कार्यदर्शी (अप्पेर् डीविशन् क्लेर्क्) रूपेण आरब्धवान् । १९६३ तमे वर्षे विद्यानगर महविद्यालये राजकीयवैज्ञानम् अध्यापयितुम् आरब्धवान् । अपि च सः “ देशट् दक्”(मातृभूमेः आह्वानम्”) इत्यस्याम् पत्रिकायाम् पत्रिकाकारः अपि आसीत् राजकीयक्षेत्रे प्रवेशात् पूर्वम् ।

लेखा:[सम्पादयतु]

मुखर्जि बहूनाम् पुस्तकानाम् अपि लेखक: अस्ति । Midterm poll ,Beyond survivel, Emerging dimensions of Indian economy, Off the track, Saga of struggle and sacrifice and challenge before the nation इत्यादीनि तेन लिखितानि पुस्तकानि ।

राजकीयक्षेत्रे कार्यम्[सम्पादयतु]

मुखर्जि अखिलभारतकाङ्गरेस्पक्षस्य राजकीये १९६९ तमे वर्षे प्रवेशितवान् । सः मिट्नपूर् नगरे कृष्णमेनोन् नाम एकस्य प्रमुखस्यकृते निर्वाचनसमये प्रचारम् सम्यक् तया निर्वहणम् कृतवान् । तत्र विजयम् अपि प्राप्तवान् । तस्मिन् समये भारतस्य प्रधानमन्त्रीत्वेन,काङ्गरेस्पक्षस्य नेतृत्वेनापि श्रीमति इन्द्रा्गान्धि: आसीत् । सा प्रणबस्य चातुर्यम् अवगत्य तम् काङ्ग्रेस्स्पक्षे योजितवती । इन्द्रा राज्यसभायाम् (उच्च सभा) काङ्गरेस्पक्षत: एकम् स्थानम् १९६९ तमे वर्षे जूलै मासे प्रणबाय दत्तवती । अनन्तरकालेशु मुखर्जि १९७५,१९८१,१९९३,१९९९ वर्षेषु निर्वाचनेषु विजयम् प्राप्तवान् । प्रणब: १९७८ तमे वर्षे जनुवरि मासे काङग्रेस्कार्यकर्तृगणस्य सदस्य: अभवत् । समान वर्षे एव काङ्गरेस्पक्षस्य मध्यराज्यसभा गणस्यापि सदस्य: अपि अभवत् । मुखर्जी अ.भा.काङ्गरेस्पक्षस्य ,अ.भा. काङ्ग्रेस् मण्डल्या: कोशाधिकारि अपि आसीत् १९७८ तमे वर्षे । मुखर्जि अ.भ.काङ्गरेस् मण्डल्या: प्रतिनिधिसभायाः देशीय निर्वाचन कार्यकर्तृगणस्य सदस्य: आसीत् १९८४,१९९१,१९९६,अपि च १९९८ तमेषु वर्षेषु । १९९९ त: २०१२ पर्यन्तम् काङ्ग्रेस्पक्षस्य मध्यनिर्वाचनमण्डल्या: सम्योजकरूपेणापि नियुक्त: आसीत्। स: काङ्गरेस्पक्षस्य मध्यनिर्वाचनमण्डल्या: सदस्यः अभवत् दिसम्बर् १२,२००१ दिनाङ्के । सोनियागान्धिवर्यायायाः राजकीयक्षेत्रप्रवेशानन्तरम् बहुषु कठिनावसरेषु साहाय्यं कृतवान् । यथा तस्या: श्वशुरो: कृते मार्गदर्शनम् कृतवान् तथैव एतस्यै अपि कृतवान् । यदा प्रधानमन्त्री मन्मोहन्सिम्हस्य हृदये शस्त्रक्रिया अभवत् तदा प्रमुखपात्रताम् स्वीकृत्य पूर्व-लोकसभा निर्वाचने कार्यम् कृतवान् २००८-०९ तमे वर्षे । प्रणब: २०११ तमे वर्षे तस्य वर्षस्य " श्रेष्ठः निर्वाहक:" इति पुरस्कारम् अपि प्राप्तवान् । प्रधानमन्त्रि मन्मोहन्सिम्ह: तस्य कार्य विषये बहु श्लाघितवान् अस्ति ।

उत्कोचस्वीकरणारोपणम्[सम्पादयतु]

जूलै मासे २५ दिनाङ्के यदा मुखर्जी राष्ट्रपति पदवी स्वीकरणार्थम् सत्यप्रतिज्ञाम् कुर्वन्नासीत् तदा अन्नाहसारे गणस्य सदस्या: तस्योपरि उत्कोचविषयक प्रमाणानि सन्ति इति तम् वयम् प्रकाशयामः इत्यपि घोषितवन्त: । अस्माकम् भारतदेशे उत्कोचस्वीकरणारोपयुक्त प्रधानमन्त्रि: पूर्वमेवास्ति । अधुना राष्ट्रपति: अपि। किन्तू हसारे गणस्य सदस्या: अर्विन्द्केज्रिवाल्वर्य: इतोपि प्रमाणानि न प्रकाशितवान् ।

सर्वकारकार्यालया:[सम्पादयतु]

रक्षणमन्त्री[सम्पादयतु]

२००४तमे वर्षे यदा शासनाधिकारम् प्राप्तवन्त: सोनियागान्धि तम् रक्षणमन्त्रित्वेन नियुक्तवती । तस्याम् पदव्याम् २००६ पर्यन्तम् आसीत् । तस्मिन् काले अमेरिकदेशीनसह सहकारित्वेन कार्यम् कृतवान् । प्रणबः २००५ तमे वर्षे जून् मासे भारत-अमेरिकयो: दश वर्षात्मक सम्रक्षण विषयक पत्रे हस्ताङ्गनम् कृतवान् । वैदेशिकमन्त्री- वदेशिकमन्त्रित्वेन अमेरिकजनाधिपति ज्योर्जे.व्.बुश् महोदयेन साकम् वार्तालापम् कृतवान् अस्ति ।

बाह्यसम्बन्ध मन्त्री[सम्पादयतु]

मुखर्जि भारतस्य बाह्यमन्त्रित्वेन १९९५ तमे वर्षे नियुक्त: । १९९६ वर्ष पर्यन्तम् तस्याम् पदव्याम् आसीत् । स: २००६ तमे वर्षे पुनरपि ताम् पदवीम् प्राप्तवान् । तस्मिन् काले अमेरिक-भारत " सिविल् न्यूक्लियर् अग्रिमेन्ट् " हस्ताङ्गनाय तेन बहु कार्यम् कृतम् । मुखर्जि तदर्थम् अमेरिक सर्वकारेण सह ,अणु वितरणगणेण सह(न्युक्लियर् सप्लैयर्स् ग्रूप्) सह कार्यम् कृतवान् । २००८ तमे वर्षे मुम्बै आक्रमणानन्तरम् मुखर्जि पाकिस्थान् विरुद्ध मनोभावम् लोकदेशेषु आनेतुम् तस्मिन् विषये प्रचारम् कृतवान्नस्ति । सः तदनन्तरम् भारतस्य निधिमन्त्री पदवी स्वीकरार्तम् एताम् पदवीम् परित्यक्तवान् ।

निधिमन्त्री[सम्पादयतु]

प्रणब् मुखर्जि इन्द्रागान्धिवर्यायाः काले प्रथमवारम् वारम् १९८२ तमे वर्षे निधिमन्त्री आसीत् । सः १९८२-८३ तमे वर्षे प्रथम आय-व्यय-गणना पत्रम् समर्पितवान् । तेन पत्रेण भारतस्य निधि वर्धनमपि अभवत् । ततः मुखर्जी सर्वेषाम् विशेषश्रद्धाम् प्राप्तवान् । मुखर्जि १९८२ तमे वर्षे “ रिसर्व् बेङ्क् आफ़् इन्डिया” सम्स्थाया: अध्यक्षरूपेण मन्मोहन्सिम्हम् नियुक्तवान् । मुखर्जि अम्बानि-वडिया विषये दोषारोपम् प्राप्तवान् । १९८४ तमे वर्षे राजीव्गान्धिवर्येण निधिमन्त्री पदवी त: निष्कासितः । राजीवः भारतस्य शासनम् कर्तुम् स्वेच्छानुसारम् गणम् निर्मातुम् इष्टवान् । मुखर्जि तस्य वर्षस्य श्रेष्ठ निधिमन्त्रीत्वेन "यूरोमणि "पत्रिकया उद्घोषितः चेदपि राजीवः तम् निष्कासितवान् । मुखर्जि नरसिम्हराव्वर्यस्य काले पुनरपि निधिमन्त्री अभवत् । सः नरसिम्हराव् वर्य: तम् पुनः भारतस्य योजनामडल्याः उपाध्यक्ष रूपेण नियुक्तवान् । तत् महत्वपूर्णम् प्रधानमन्त्रेः अनन्तर स्थानमेव । तस्मिन्नेवकाले (१९९१-१९९६) मन्मोहन्सिम्ह: अपि निधिमन्त्री आसीत् । तेन “ लैसन्स् राज् पद्धतिम्” समापयितुम् भारतस्य अर्थक्षेत्रम् पुनरुद्धर्तुम् पुनर्निर्माण कार्याणि बहूनि कृतानि । २००९ तमे वर्षे मुखर्जी पुनः भारतस्य निधिमन्त्रीत्वेन नियुक्तः । सः २००९,२०१०,२०११ वर्षेषु भारतस्यवार्षिक आय-व्यय-पत्रम् समर्पितवान् । मुखर्जि बहुविध आयशुल्कम् योजितवान् । मुखर्जी “ जवहर्लाल्नेह्रुदेशीय पुनरुद्धारक सम्स्था “ सदृश सामाजिक सम्स्तेभ्यः अपि आय-व्यय पत्रे निधिम् विभजितवान् । तस्य पत्रेषु सः जनानाम् आरोग्यस्य ,शिक्षणस्य प्राधान्यम् दत्तवान् । २०१० तमे वर्षे “ एसियायाम् श्रेष्ठ: निधिमन्त्री “ इति " एमेर्जिङ् मार्केट् सम्स्था " मुखर्जिम् पुरस्कृतवती ।

राष्ट्रपतिपदवी[सम्पादयतु]

प्रणब् मुखर्जि यु.पि.ए.सर्वकारस्य पक्षतः बह्वीनाम् समस्यानाम् मध्ये जून् १५ ,२०१२ दिनाङ्के आवेदितवान् । निर्वाचनम् जूलै १९,२०१२ दिनाङ्के इति निश्चितम् आसीत् । निर्वाचनस्य फलम् तु जूलै २२,२०१२ दिनाङ्के प्रकाशितम् भवति इत्यासीत् । ८१ जना: आवेदनम् कृतवन्त: । निर्वाचनमन्डली पि.ए.सङ्माम् , मुखर्जीम् विहाय अन्यान् सर्वान् निष्कासितवती । मुखर्जि जून् २८ ,२०१२ दिनाङ्के तस्य निधिमन्त्री पदवीम् परित्यक्तवान् । राष्ट्रपतिनिर्वाचने ७१३७६३ मतानि प्राप्तवान् । तस्य विरुद्धपक्षस्य पि.ए.सङ्मा तु ३१५९८७ मतानि एव प्राप्तवान् । निर्वाचने विजयप्राप्त्यनन्तरम् औपचारिकतया यदा तस्य विजयः उद्घोषित: तदा तस्य वासस्थानस्य पुरत: सः भाषणम् कृतवान् यथा- ये ममकृते प्रतीक्षमाणाः सन्ति तेभ्य: मम सन्तोषम् प्रकटयामि । एतावता ७ लक्षम् मतानि प्राप्तानि सन्ति । इतोपि एकप्रान्तस्य फलम् ज्ञातव्यम् अस्ति । माम् एतस्यै भारतस्य उन्नतपदव्यै ये चितवन्त: तेभ्य: मम हृदयपूर्ण धन्यवादा: । अहम् एतस्य देशस्य जनेभ्यः अधिकम् प्राप्तवान् । एतस्य देशस्य सम्रक्षणार्थम्, जनानाम् विश्वासता प्राप्त्य़र्थम् कार्यम् करोमि इति । मुखर्जी जूलै २५,२०१२ दिनाङ्के भारतस्य प्रधान न्यादीशेन पदवीप्रमाणम् प्राप्तवान् । सः एव भारतस्य प्रथम बेङ्गालि राष्ट्रपतित्वम् प्राप्त: अस्ति । सत्यप्रमाणस्वीकारननतरम् “ आतङ्गवात: एव चतुर्थम् लोकयुद्धम् अस्ति इति तस्य भाषणे घोषितवान् अस्ति ।

मरणम्[सम्पादयतु]

प्रणवमुखर्जि-महोदयस्य मृत्युः २०२० तमे वर्षे आगस्ट् मासस्य ३१ तमे दिनाङ्के देहल्यां अभवत्।[१][२]

भारतस्य राष्ट्रपतयः
पूर्वतनः
प्रतिभा पाटिल
प्रणब मुखर्जि अग्रिमः
रामनाथः कोविन्दः


बाह्यसम्पर्कतन्तुः[सम्पादयतु]

  1. "BREAKING: Former President Pranab Mukherjee passes away". DNA India (in English). 31 August 2020. Archived from the original on 31 August 2020. आह्रियत 31 August 2020.  Unknown parameter |url-status= ignored (help)
  2. "Pranab Mukherjee, ex-president and Congress veteran, dies in Delhi hospital". Hindustan Times (in English). 31 August 2020. Archived from the original on 31 August 2020. आह्रियत 31 August 2020.  Unknown parameter |url-status= ignored (help)
"https://sa.wikipedia.org/w/index.php?title=प्रणब_मुखर्जि&oldid=469729" इत्यस्माद् प्रतिप्राप्तम्