भारतस्य राष्ट्रपतयः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
  • पीतवर्णीयपृष्ठभूम्या (background), (*) चिह्नेन च येषां नामानि उल्लिखितानि सन्ति, ते भारतगणराज्यस्य कार्यवाहकराष्ट्रपतयः आसन् ।
# नाम चित्रम् कार्यकालारम्भः कार्यकालसमाप्तिः उपराष्ट्रपतिः विशेषम्
डॉ. राजेन्द्र प्रसाद
(१८८४-१९६३)
६/१/१९५० १२/५/१९६२ डॉ. सर्वपल्ले राधाकृष्णन् भारतगणराज्यस्य प्रप्रथमराष्ट्रपतिः । केवलम् अनेन एव वारद्वयं राष्ट्रपतित्वेन दायित्वम् ऊढम् ।
डॉ. सर्वपल्ले राधाकृष्णन्
(१८८८-१९७५)
१३/५/१९६२ १३/५/१९६७ डॉ. जाकिर हुसैन एतस्य राष्ट्रपतेः जन्मदिने आभारते शिक्षकदिनस्य उत्सवः भवति ।
डॉ. जाकिर हुसैन
(१८९७-१९६९)
१३/५/१९६७ ३/५/१९६९ वराहगिरि वेङ्कट गिरि भारतगणराज्यस्य प्रप्रथमः मुस्लिमराष्ट्रपतिः ।
वराहगिरि वेङ्कट गिरि *
(१८९४-१९८०)
३/५/१९६९ २०/७/१९६९ तृतीयस्य राष्ट्रपतेः आकस्मिकनिधने सति एषः कार्यकारिराष्ट्रपतिः अभवत् ।
मुहम्मद हिदायतुल्लाह *
(१९०५-१९९२)
२०/७/१९६९ २४/८/१९६९ राष्ट्रपतिनिर्वाचनार्थं वराहगिरि वेङ्कट गिरि इत्यनेन पदत्यागं कृतम् । अतः कार्यकारिराष्ट्रपतित्वेन एषः दायित्वम् अवहत् ।
वराहगिरि वेङ्कट गिरि
(१८९४-१९८०)
२४/८/१९६९ २४/८/१९७४ गोपाल स्वरूप पाठक भारतगणराज्यस्य उत्थानार्थम् अनेन बहवः निर्णयाः स्वीकृताः ।
फकरुद्दीन अली अहमद
(१९०५-१९७७)
२४/८/१९७४ ११/२१९७७ बसप्प दानप्प जत्ति एतस्य कार्यकाले एव भारते आन्तरिकापत्कालस्य घोषणा अभवत् । केचन वदन्ति इन्दिरा गान्धी स्वयं राष्ट्रपतिभवनम् अगच्छत् हस्ताक्षरं कारयितुम् इति । केचन वदन्ति, “पञ्चविंशतितमे दिनाङ्के रात्रौ सञ्जय गान्धी स्वमित्रैः सह राष्ट्रपतिभवनम् अगच्छत् । बलेन आपत्कालप्रस्तावे राष्ट्रपतेः हस्ताक्षरम् अकारयत् सः” इति ।
बसप्प दानप्प जत्ति *
(१९१२-२००२)
११/२/१९७७ २५/७/१९७७ फकरुद्दीन अली अहमद इत्यस्य हृदयाघातेन आकस्मिकमृत्युः अभवत् । अतः अनेन राष्ट्रपतित्वेन दायित्वम् ऊढम् ।
नीलं सञ्जीव रेड्डि
(१९१३-१९९६)
२५/७/१९७७ २५/७/१९८२ मुहम्मद हिदायतुल्लाह स्वस्य कर्मनिष्ठा-कुशलता-निर्णयशक्तिभिः श्रीसञ्जीवः भारतस्य राजनैतिकस्थितिं समीकर्तुं सफलः अभवत् ।
ज्ञानी जैलसिंह
(१९१६-१९९४)
२५/७/१९८२ २५/७/१९८७ रामस्वामी वेङ्कटरामन् अस्य नाम्ना ‘ऑपरेशन् ब्लू स्टार्’ इत्यस्य, सिक्खविरोधिहिंसायाः च स्मरणं भवत्येव । भारतस्य तयोः हृद्व्रणयोः दोषी कः इति पञ्चत्रिंशत्वर्षपश्चाद् अद्यापि प्रश्न एवास्ति । अतः देशजनाः खिन्नमनसा श्रीज्ञानी जैलसिंह इत्येनं स्मरन्तः सन्ति । परन्तु सत्यता तु अस्ति यत्, देशस्य हृदि यथा ‘ऑपरेशन् ब्लू स्टार्’ इत्यस्य, सिक्खहिंसायाः च पीडा अस्ति, तथैव तस्य हृदि अपि आसीत् । स्वयं सः, तस्य पुत्री च बहुवारं तयोः व्रणयोः विषये स्वपीडां देशस्य सम्मुखम् उपास्थापयत् ।
रामस्वामी वेङ्कटरामन्
(१९१०-२००९)
२५/७/१९८७ २५/७/१९९२ शङ्कर दयाल शर्मा राष्ट्रपतित्वेन प्रप्रथमभाषणं कुर्वन् श्रीवेङ्कटः अवदत्, “पञ्चत्रिंशत्वर्षं पुरा भारतस्य सर्वप्रथमः राष्ट्रपतिः श्रीराजेन्द्र प्रसाद यदा अस्मिन् सभाखण्डे राष्ट्रपतित्वेन शपथम् अकरोत्, तदा मम कल्पना अपि नासीत् यत्, अहमपि राष्ट्रपतित्वेन सम्मानं प्राप्स्यामि इति । अद्य देशजनाः यं सम्मानं मह्यम् अयच्छन्, तत्सम्मानाय अनुगृहीतोऽस्म्यहम् । अहमेतत्पदं न केवलं गौरव-प्रतिष्ठयोः प्रतीकत्वेन पश्यामि, अपि तु मम कृते साहसपूर्णदायित्वेन एतत् कार्यम् अस्ति” इति ।
शङ्कर दयाल शर्मा
(१९१८-१९९९)
२५/७/१९९२ २५/७/१९९७ कोचेरिल् रामन् नारायणन् राष्ट्रपतित्वेन श्रीशङ्करस्य कार्यकालः बहु अस्तव्यस्तः आसीत् । तस्य कार्यकालस्य प्रथमे वर्षे एव अयोध्यायां स्थितं बाबरी मस्जिद इति मुस्लिमजनानां प्रार्थनास्थलं ध्वस्तम् अभूत् ।
१० कोचेरिल् रामन् नारायणन्
(१९२०-२००५)
२५/७/१९९७ २५/७/२००२ किशन कान्त राष्ट्रपतित्वेन श्रीनारायणस्य कार्यकाले वारद्वयं लोकसभायाः भङ्गः अभवत् । प्रथमवारं १९९७ तमस्य वर्षस्य 'दिसम्बर'-मासस्य चतुर्थे (४/१२/१९९७) दिनाङ्के गुजराल इत्यस्य नेतृत्वस्य सर्वकारस्य पतनम् अभवत् । १९९८ तमस्य वर्षस्य 'अप्रैल'-मासस्य षड्विंशतितमे (२६/४/१९९८) दिनाङ्के अटल बिहारी वाजपेयी इत्यस्य नेतृत्वस्य सर्वकारस्य पतनम् अभवत् ।
११ डॉ. ए पी जे अब्दुल कलाम
(जन्म १९३१)
२५/७/२००२ २५/७/२००७ भैरोंसिंह शेखावत भारतस्य महान् वैज्ञानिकः एषः प्रख्यातराष्ट्रपतिः ।
१२ प्रतिभा पाटील
(जन्म १९३४)
२५/७/२००७ २५/७/२०१२ मोहम्मद हमीद अन्सारी भारतगणराज्यस्य प्रप्रथममहिलाराष्ट्रपतिः ।
१३ प्रणब मुखर्जि
(जन्म १९३५)
२५/७/२०१२ २५/७/२०१७ मोहम्मद हमीद अन्सारी
१४ रामनाथः कोविन्दः
(जन्म १९४५)
२५/७/२०१७ Incumbent प्रणब मुखर्जि भारतगणराज्यस्य वर्तमानः राष्ट्रपतिः ।

बाह्यानुबन्धाः[सम्पादयतु]


"https://sa.wikipedia.org/w/index.php?title=भारतस्य_राष्ट्रपतयः&oldid=456458" इत्यस्माद् प्रतिप्राप्तम्