सामग्री पर जाएँ

ज्ञानी जैल सिंह

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(ज्ञानी जैलसिंह इत्यस्मात् पुनर्निर्दिष्टम्)
ज्ञानी जैल सिंह
ਗਿਆਨੀ ਜ਼ੈਲ ਸਿੰਘ
Gaini Zail Singh
भारतस्य सप्तमः राष्ट्रपतिः
कार्यालये
२५/७/१९८२ – २५/७/१९८७
प्रधानमन्त्री इन्दिरा गान्धी
राजीव गान्धी
उपराष्ट्रपतिः मुहम्मद हिदायतुल्लाह
श्रीरामस्वामी वेङ्कटरामन्
पूर्वगमः श्रीनीलं सञ्जीव रेड्डि
पादानुध्यातः श्रीरामस्वामी वेङ्कटरामन्
गृहमन्त्रालयः
कार्यालये
१४/१/१९८० – २२/६/१९८२
प्रधानमन्त्री इन्दिरा गान्धी
पूर्वगमः यशवन्त राव चव्हाण
पादानुध्यातः श्रीरामस्वामी वेङ्कटरामन्
दलनिरपेक्षान्दोलनस्य सचिवः
कार्यालये
१२/३/१९८३ – ६/९/१९८६
पूर्वगमः फिडल् केस्ट्रो
पादानुध्यातः रॉबर्ट् मुगाबे
व्यक्तिगत विचाराः
जननम् ५/५/१९१६
सन्धवान-ग्रामः, पञ्जाबराज्यम्
मरणम् २५/१२/१९८४ (७९ वयसि)
चण्डीगढ, भारतम्
राजनैतिकपक्षः कॉङ्ग्रेस्
मुख्यशिक्षणम् साहिब सिंह मिशनरि कॉलेज्
धर्मः सिक्खधर्मः

श्रीज्ञानी जैल सिंह ( /ˈŋɑːn ɛɪlə sɪnɡə/) (पञ्जाबी: ਗਿਆਨੀ ਜ਼ੈਲ ਸਿੰਘ, हिन्दी: ज्ञानी जैल सिंह, आङ्ग्ल: Gaini Zail Singh) भारतस्य सप्तमः राष्ट्रपतिः । अस्य नाम्ना ‘ऑपरेशन् ब्लू स्टार्’ इत्यस्य, सिक्खविरोधिहिंसायाः च स्मरणं भवत्येव । भारतस्य तयोः हृद्व्रणयोः दोषी कः इति पञ्चत्रिंशत्वर्षपश्चाद् अद्यापि प्रश्न एवास्ति । अतः देशजनाः खिन्नमनसा श्रीज्ञानी जैल सिंह इत्येनं स्मरन्तः सन्ति । परन्तु सत्यता तु अस्ति यत्, देशस्य हृदि यथा ‘ऑपरेशन् ब्लू स्टार्’ इत्यस्य, सिक्खहिंसायाः च पीडा अस्ति, तथैव तस्य हृदि अपि आसीत् । स्वयं सः, तस्य पुत्री च बहुवारं तयोः व्रणयोः विषये स्वपीडां देशस्य सम्मुखम् उपास्थापयत् । (अधः यत् चलच्चित्रस्य परिसन्धिः अस्ति, ताम् अवश्यमेव पश्यन्तु । भवतां सत्यतायाः सम्यक् ज्ञानं भविष्यति ।) सः देशभक्तः, धार्मिकसिक्ख-जनः, योग्यराष्ट्रपतिः च आसीत् ।

जन्म, बाल्यञ्च

[सम्पादयतु]

१९१६ तमस्य वर्षस्य ‘मई’-मासस्य पञ्चमे (५/५/१९१६) दिनाङ्के पञ्जाबराज्यस्य फरीदकोटमण्डलस्य कोटपुरा-पत्तनात् किञ्चित् दूरस्थे सन्धवान-ग्रामे श्रीज्ञानिनः जन्म अभवत् । तस्य पितुः, मातुः च नाम क्रमेण किशन सिंह, बीबी इन्द कौर च आसीत् । तयोः कनिष्ठतमः पुत्रः एव श्रीज्ञानी जैल सिंह ।

किशन सिंह अत्यन्तः निर्धनः आसीत् । अतः स्वपरिवारस्य पोषणं सः परिश्रमेण करोति स्म । श्रीज्ञानी यदा एकादशमासीयः आसीत्, तदैव तस्य मातुः देहान्तः अभवत् । परिवारस्य स्थितिः सुदृढा नासीत् इत्यतः पत्न्याः निधनेन सम्पूर्णस्य परिवारस्य दायित्वं किशन सिंह इत्यस्योपरि आपतितम् । सः कृषिकार्यस्य, परिवारस्य च दायित्वं ओढुं प्रयासम् अकरोत्, परन्तु असफलः अभवत् । अन्ततो गत्वा सः स्वश्यालीं (wife’s sister) स्वपुत्रस्य पालनार्थं न्यवेदयत् । तस्य श्याली बीबी दया कौर श्रीज्ञानिनः पालनस्य दायित्वं स्व्यकरोत् । सा तं पुत्रवदेव पालयन्ती आसीत् । पञ्चदशवर्षवयसः पर्यन्तं श्रीज्ञानी स्वमातृभगिनीम् एव मातृत्वेन पश्यति स्म । ततः तस्य ज्ञानमभूत् यत्, "एषा तु मम मातृभगिनी" इति ।

किशन सिंह धार्मिकस्वभावी आसीत् । सः नित्यं गुरुग्रन्थसाहिब पठति स्म । तस्य संस्काराः तस्य पुत्रे अपि आसन् । गुरुग्रन्थसाहिब अनुसारं मुगल-राज्ञाम् अत्याचारात् हिन्दुधर्मस्य रक्षणं कर्तुं खालसासम्प्रदायस्य स्थापना अभवत् इति गुरुग्रन्थसाहिब इत्यस्य मर्मं श्रीज्ञानी बाल्यकालादेव जानाति स्म । सिक्खगुरूणां जीवनचरित्रस्य श्रावणकाले गुरून् प्रति आदरभावेन तस्य पितुः अक्षिणि अश्रूणि दृष्ट्वा श्रीज्ञानी अपि धर्मस्य दायित्वं सम्यक् अवगच्छति स्म । पितुः धर्मभावना, देशभक्तिः श्रीज्ञानिनः शरीरे रक्तत्वेन सञ्चरति स्म ।

पठने श्रीज्ञानिनः रुचिः नासीत् । अतः बाल्यकाले श्रीज्ञानिनः औपचारिकशिक्षा तु सम्यग्तया न जाता एव । परन्तु पितुः धर्मशिक्षा तेन सम्यक् अधीता । सः नित्यं स्वपित्रा सह गुरुग्रन्थसाहिब इत्यस्य पठनम् आरभत । स्वल्पे काले एव गुरुग्रन्थसाहिब-पुस्तकं कण्ठस्थं जातं तस्य । पित्रा सह सोऽपि कीर्तनं प्रारभत । पितुः सान्निध्ये तेन सिक्खसम्प्रदायस्य इतिहासः, सिक्खसिद्धान्तश्च अधीतः । अतः तस्य औपचारिकशिक्षणस्य अभावः न केनापि अनुभूतः ।

१९२७ तमे वर्षे द्वादशवर्षीयः श्रीज्ञानी केनचित् आत्मघातिरोगेण ग्रस्तः अभवत् । कोऽपि वैद्यः तं रोगमुक्तं कर्तुं न शक्तः । एकस्मिन् दिने वैद्यः तस्य पितरम् अवदत्, “अहं यावत् कर्तुं शक्नोमि स्म, तावदमहम् अकर्वम् । परन्तु अधुना मम हस्ते किमपि नास्ति” इति । वैद्यस्य गमनानन्तरं किशन सिंह गुरुग्रन्थसाहिब इत्यस्य समीपम् उपविश्य प्रार्थयत्, “हे वाहे गुरो ! मम पुत्रं रक्षस्व । मम पुत्रस्य रक्षा यदि करोषि, तर्हि तं तुभ्यमेव समर्पयिष्ये इति प्रतिज्ञां करोम्यहम्” । आर्तभावेन तेन कृता ईश्वरप्रार्थना भगवता श्रुता । श्रीज्ञानी स्वस्थः अभवत् । ततः तस्य पिता वचनानुसारं तं भजन-कीर्तन-सेवादिकार्येषु न्ययोजयत् । शनैः शनैः श्रीज्ञानिनः धर्मस्य ज्ञानम् एतावत् दृढम् अभूत् यत्, सर्वे तस्मै ज्ञानी इति उपाधिम् अयच्छन् । सः यदा चतुर्दशवर्षीयः आसीत्, तदारभ्य ज्ञानी इति उपाधिना सह एव तम् आह्वयन्ति स्म जनाः ।

विवाहः, परिवारश्च

[सम्पादयतु]

श्रीज्ञानी ग्रामं ग्रामं भ्रमन् कीर्तन-गुरुचरित्रकथन-सेवादिकार्याणि करोति स्म । तेन सह बहूनि धर्मप्रियाणि मित्राणि अपि संलग्नानि आसन् । यत्र कुत्रापि कीर्तनं भवति स्म, तत्र सर्वाणि मित्राणि एकसाकमेव गच्छन्ति स्म । मार्गे धर्मस्य, देशस्य च चर्चाः अपि भवन्ति स्म । १९३१ तमस्य वर्षस्य 'मार्च'-मासस्य त्रयोदशे (२३/३/१९३१) दिनाङ्के यदा भगत सिंह इत्यस्य हननं कृतम् आङ्ग्लैः, तदा सर्वैः मित्रैः "क्रान्तिकारिभिः मिलित्वा देशस्वतन्त्रतायाः कार्यं कर्तव्यम्" इति निश्चितम् । परन्तु श्रीज्ञानिनः आयुः न्यूनः आसीत् । अतः क्रान्तिकारिणां दले सः अन्तर्भवनाय अयोग्यः सिद्धः । क्रान्तिकारिणां दले पुत्रस्य रुचिः उद्भूता इति समाचारान् अश्रृणोत् किशन सिंह । पुत्रस्य निर्णयं ज्ञात्वा श्रीज्ञानिनः पिता तस्य विवाहस्य निर्णयम् अकरोत् । श्रीज्ञानी यदा पञ्चवर्षीयः आसीत्, तदैव तस्य विवाहः बीबी प्रधान कौर इत्यनया सह निश्चितः आसीत् । युवा श्रीज्ञानी बाल्यकाले निश्चितं तं विवाहं न अङ्ग्यकरोत् । परन्तु मातृभगिनी वात्सल्येन तम् अबोधयत् । ततः १९३४ तमे वर्षे अष्टादशवर्षस्य वयसि सः बीबी प्रधान कौर इत्यनया सह विवाहम् अकरोत् । तयोः चत्वारः शिशवः जाताः । एकः पुत्रः, त्रिस्रः पुत्र्यः च ।

आदरणीयानाम् आग्रहेण श्रीज्ञानिना विवाहस्तु कृतः, परन्तु देशस्वतन्त्रतायाः विचाराः तस्य मानसपटलात् न गताः । भारतस्य पराधीनता तम् अशान्तं, क्षुब्धं च करोति स्म । तस्य दुःखे वर्धनं तु तदा भवति स्म, यदा देशस्य जनाः एव आङ्ग्लानां साहाय्यं कुर्वन्तः आसन् इति सः पश्यति स्म । पारिवारिकबन्धनात् बद्धः सः आङ्ग्लविरोधाय क्रान्तिकारिवत् कार्यं कर्तुं न शक्नोति स्म । परन्तु तस्य पार्श्वे धर्मस्य शक्तिः तु आसीदेव । सः यत्र कुत्रापि कीर्तनाय गच्छति स्म, तत्र देशस्वतन्त्रतायै जनजागृतिं करोति स्म । फरीदकोट-पत्तनस्य राजा दमनकारी आसीत् । सः आङ्ग्लानां साहाय्यं कुर्वन् देशजनान् एव पीडयति स्म । अतः श्रीज्ञानी मुहुर्मुहुः जनसामान्यानाम् आह्वानम् अकरोत् । सः स्वभाषणे फरीदकोट इत्यस्य राज्ञः, आङ्ग्लानां च विरोधं कर्तुं जनसामान्यान् अबोधयत् । तस्य भाषणं श्रोतुं बहवः जनाः गच्छन्ति स्म । तत् दृष्ट्वा एकेन देशभक्तेन "अकाली-दलस्य सदस्यः भवतु" इति परामर्शः तस्मै दत्तः । अतः १९३७ तमे वर्षे सः अकाली-दलस्य सदस्यः अभवत् ।

श्रीज्ञानिनः भाषणैः प्रभाविताः अकाली-दलस्य सदस्याः तस्मै अध्यक्षस्य स्थानम् अयच्छन् । अकाली-दलस्य मुख्यवक्तिः तदा मास्टर् तारा सिंह आसीत् । तस्य सम्पर्केण श्रीज्ञानिनः बोधः जातः यत्, “देशेऽस्मिन् राजशासनस्य अन्तः करणीयश्चेत् कोङ्ग्रेस-पक्षस्य सदस्यः भवितव्यम्” इति । अकालीदलस्य, कोङ्ग्रेसपक्षस्य च सदस्यो भूत्वा सः नित्यम् एकम् आङ्ग्लविरोधिभाषणं करोति स्म । तस्य भाषणे आङ्ग्लविरोधेन सह राजशासनस्य विरोधः अपि भवति स्म । श्रीज्ञानिनः भाषणैः भीतः फरीदकोट इत्यस्य राजा तं बन्दिनम् अकरोत् । सः श्रीज्ञानिने पञ्चवर्षं यावत् कारावासस्य दण्डम् अयच्छत् ।

पञ्चवर्षानन्तरम् अर्थात् १९४३ तमे वर्षे श्रीज्ञानी कारागारात् मुक्तः अभवत् । सः यदा कारागारात् बहिः आगतः, तदा देशे भारतस्वतन्त्रतायाः वातावरणमासीत् । महात्मनाभारत छोडो”-आन्दोलनस्य घोषणा कृता आसीत् । सर्वेषाम् अक्षिणि भारतस्वतन्त्रतायाः स्वप्नः आसीत् । परन्तु आङ्ग्लैः राजशासितेभ्यः प्रदेशेभ्यः क्रान्तिकारिदमनस्य आज्ञा दत्ता आसीत् । अतः श्रीज्ञानी दलं निर्मितुम् अशक्तः अभवत् । सः अन्यजनानां साहाय्यं प्राप्तुं लाहोर-महानगरम् अगच्छत् । तदा तस्य पुरातनेन मार्गदर्शकेन मास्टर् तारा सिंह इत्यनेन सह तस्य पुनः सम्पर्कः अभवत् । सः सिक्ख मिशनरी कॉलज् इत्यस्य प्रधानाचार्यस्य समीपं श्रीज्ञानिनं प्रैषयत् । तत्र श्रीज्ञानी वर्षत्रयं यावत् स्थित्वा सिक्खसम्प्रदायस्य प्रचारस्य कार्यम् अकरोत् ।

१९४६ तमे वर्षे भारतस्य स्वतन्त्रतायाः दिनस्य यदा घोषणा अभवत्, तदा श्रीज्ञानी पुनः फरीदकोट अगच्छत् । सः तत्र लोकहितकारिसर्वकाररचनायाः सङ्कल्पम् अकरोत् । तस्य सङ्कल्पस्य जनाः स्वागतम् अकुर्वन् । १९४७ तमस्य वर्षस्य 'अगस्त'-मासस्य पञ्चदशे दिनाङ्के भारतस्य स्वतन्त्रतानन्तरमपि राजशासितप्रदेशाः क्रान्तिकारिणां दमनं नास्थगयन् । राज्ञः अत्याचारैः त्रस्तः श्रीज्ञानी अभूतपूर्वं निर्णयम् अकरोत् । १९४८ तमस्य वर्षस्य 'मार्च'-मासस्य प्रथमे दिनाङ्के फरीदकोट इत्यस्य न्यायालय-कोषागार-सचिवालय-आरक्षकभवनानि जनाधिकारे कर्तुं तानि भवनानि स्वस्य अधिकारे अनयत् सः । फरीदकोट इत्यस्य राजा तदा मलेरकोटला इत्येतत् स्थलं गतः आसीत् । ततः प्रतिगत्वा सः पुनः सर्वं स्वाधिकारम् अकरोत्, श्रीज्ञानिने च सश्रमकारागारस्य दण्डम् अयच्छत् । लोहपुरुष-नेहरू इत्यनयोः हस्तक्षेपेण विंशतिदिनानन्तरमेव राजा श्रीज्ञानिनं कारागारात् प्रामुञ्चयत् । ततः लोहपुरुषस्य सत्प्रयासैः १९४८ तमस्य वर्षस्य 'जुलाई'-मासस्य पञ्चदशे दिनाङ्के भारतगणराज्ये फरीदकोट विलीनम् अभवत् ।

सर्वेषां हृदि भारतस्वतन्त्रतायाः उल्लासः आसीत् । परन्तु देशविभाजनेन सः उल्लासः शोके परिवर्तितः । धर्माधारितेन देशविभाजनेन देशस्य प्रशासनिकव्यवस्था शिथिला अभवत् । आभारते अराजकतायाः वातावरणमासीत् । परन्तु सीमाप्रदेशत्वात् पञ्जाबराज्ये अराजकता अधिका आसीत् । पाकिस्थानात् भारतम् आगच्छन्तः जनाः पञ्जाबराज्ये एव निवसन्ति स्म । पञ्जाबराज्यस्य समस्यां निराकर्तुं भारतसर्वकारेण ‘पेप्सू’-नामकस्य (पेप्सू (PEPSU) – पटियाला एण्ड ईस्ट पञ्जाब स्टेट्स यूनियन्) राज्यस्य रचना कृता । तस्य राज्यस्य मुख्यमन्त्री ज्ञान सिंह रारेवाला आसीत् । परन्तु भारतसर्वकारेण महत्वपूर्णस्य 'राजस्व'-मन्त्रालयस्य दायित्वं श्रीज्ञानिने प्रदत्तम् । ततः तत् पेप्सू-राज्यं पञ्जाबराज्ये अन्तर्निहितं सर्वकारेण । ततः १९५१ तमे वर्षे पञ्जाबराज्ये कोङ्गेस-पक्षस्य सर्वकारस्य रचना अभवत् । तस्मिन् सर्वकारे श्रीज्ञानी कृषिमन्त्री आसीत् । १९५६ तमे वर्षे राज्यसभायाः सदस्यत्वं सम्प्राप्य श्रीज्ञानी देहली-महानगरे स्वनिवासं निश्चितम् अकरोत् । १९६२ वर्षपर्यन्तं देहली-महानगरे स्थित्वापि सः पञ्जाबराज्यस्य विकासार्थम् अविरतं प्रयत्नशीलः आसीत् । १९६० तः १९७२ पर्यन्तं सः पञ्जाबराज्यस्य विभिन्नेषु स्थानेषु कार्यम् अकरोत् । १९७२ तमस्य वर्षस्य 'मार्च'-मासस्य सप्तदशे (१७/३/१९७२) दिनाङ्के सः पञ्जाबराज्यस्य मुख्यमन्त्रिपदं व्यभूषयत् ।

यदा श्रीज्ञानी पञ्जाबराज्यस्य मुख्यमन्त्री आसीत्, तदा पञ्जाबराज्यस्य औद्योगिकप्रगतिः अवर्धत । तस्य कार्यकालः कृषिक्षेत्रे हरितक्रान्तेः (green revolution) कालः आसीत् । भारतस्वतन्त्रतासङ्ग्रामे ये क्रान्तिकारिणः भागम् अवहन्, तेषां गृहं गत्वा तेषां सम्मानम् अकरोत् सः । भारतस्वतन्त्रतासङ्ग्रामाय ये क्रान्तिकारिणः स्वप्राणाहुतिम् अयच्छन्, तेषां परिवारेभ्यः योग्यधनराशिः प्रदत्ता तेन । सिक्खसम्प्रदायं प्रति स्वादरं प्रकटयितुं पञ्जाबराज्ये गोविन्द सिंह-मार्गस्य निर्माणं कारितं तेन । सः गोविन्द सिंह-मार्गः पञ्जाबराज्यस्य नवतिः (९०) पवित्रधामानि योजयति । सः मार्गः त्रिशताधिकद्वात्रिंशत् (३३२) ग्रामान् अपि योजयति । सिक्खसम्प्रदायस्य द्वे अत्यन्तपवित्रस्थाने अर्थात् आनन्दपुरे स्थितं श्रीकेशगढ-गुरुद्वारं (तत्र श्रीगुरु गोविन्द सिंह इत्यनेन खालसा-सम्प्रदायस्य स्थापना कृता आसीत् ।) दमदमा-गुरुद्वारं च योजयति सः मार्गः ।

१९८० तमे वर्षे भारतस्य गृहमन्त्रिपदं व्यभूषयत् सः । परन्तु गृहमन्त्रित्वेन सः वर्षद्वयम् एव कार्यम् अकरोत् । १९८२ तमे वर्षे श्रीनीलं सञ्जीव रेड्डि इत्यस्य राष्ट्रपतित्वेन कार्यकालः पूर्णः अभवत् । अतः तत्कालीनः प्रधामन्त्री इन्दिरा गान्धी स्वपक्षस्य राष्ट्रपतिप्रत्याशित्वेन श्रीज्ञानिनः नाम औद्घोषयत् । तस्याः उद्देशः स्पष्टः आसीत् यत्, “अल्पसङ्ख्यकसिक्खजनेषु यदि कोऽपि राष्ट्रपतिः भविष्यति, तर्हि पक्षस्य मतसङ्ख्यायां वृद्धिः भविष्यति” इति । एवं विचिन्त्य सा राष्ट्रपतिप्रत्याशित्वेन श्रीज्ञानिनः नाम औद्घोषयत् । ततः श्रीज्ञानी गृहमन्त्रिपदस्य त्यागपत्रम् अयच्छत्, राष्ट्रपतिप्रत्याशित्वेन नामाङ्कनञ्च अकरोत् । श्रीज्ञानिनः नामोद्घोषानन्तरं विपक्षेणापि हंसराज खन्ना-नामकः राष्ट्रपतिप्रत्याशित्वेन घोषितः । १९८२ तमस्य वर्षस्य 'जुलाई'-मासस्य पञ्चदशे (१५/७/१९८२) दिनाङ्के राष्ट्रपतिनिर्वाचने श्रीज्ञानी पादोनपञ्चलक्षमतैः विजयी अभवत् । १९८२ तमस्य वर्षस्य 'जुलाई'-मासस्य पञ्चविंशति(२५)तमे दिनाङ्के उच्चतमन्यायालयस्य मुख्यन्यायाधीशः श्री वी. वी. चन्द्रचूड श्रीज्ञानिना राष्ट्रपतित्वेन शपथम् अकारयत् । एवं श्रीज्ञानी भारतगणराज्यस्य सप्तमः राष्ट्रपतिः अभवत् ।

कर्मनिष्ठया, ईश्वरस्योपरि श्रद्धया, व्यावहारिकज्ञानेन च लघुकुटीरे प्राप्तजन्मः श्रीज्ञानी भारतगणराज्यस्य सर्वोच्चसांविधानिकपदे आरूढः । सः भारतगणराज्यस्य उत्कृष्टतमेषु भवनेषु अन्यतमे राष्ट्रपतिभवने न्यवसत् । राष्ट्रपतित्वेन वर्षद्वयमेव सः शान्त्या कार्यम् अकरोत् । ततः श्रीज्ञानिनः राष्ट्रपतित्वेन वर्षत्रयस्य कार्यकालस्य जनसामान्यैः, राजनीतिज्ञैः च कठोरनिन्दा कृता अस्ति ।

पृष्ठभूमिः

[सम्पादयतु]

राजनैतिकस्वार्थेन ग्रस्ताः नेतारः देशद्रोहिनाम्, उत्कोचकानाम्, आतङ्कवादिनाञ्च साहाय्येन स्वसत्तायाः रक्षणं, वर्धनं च साधयन्ति इत्यस्य प्रमुखोदाहरणत्वेन 'ऑपरेशन् ब्लू स्टार्', सिक्खविरोधिहिंसा च अस्ति । पञ्जाबराज्ये अकालीदलस्य वर्चस्वम् आसीत् । कोङ्ग्रेस-पक्षस्य विजयस्य आशा अपि नासीत् । तस्मिन् काले कोङ्ग्रेस-सर्वकारेण यः व्यक्तिः अकालीदलविरुद्धं कोङ्ग्रस-पक्षाय मतवृद्धिं कर्तुं शक्नुयात्, तादृशस्य व्यक्तेः अन्वेषणं प्रारब्धम् । अकालीदलस्य विरोधी भिण्डरवाला इत्यस्य व्यक्तेः परिचयः अभवत् तेषाम् । पञ्जाबराज्ये कोङ्ग्रेस-पक्षः भिण्डरवाला इत्यस्य समर्थनं करोति चेत्, कोङ्ग्रेस-पक्षस्य विजयः भवति इति आशा आसीत् । अतः इन्दिरा गान्धी राजनैतिकरीत्या, आर्थिकरीत्या च भिण्डरवाला इत्यस्य समर्थनम् अकरोत् । पञ्जाबराज्यस्य निर्वाचने भिण्डरवाला बहुमतेन अजयत । सः जानाति स्म यत्, “मम पृष्ठे यावत् इन्दिरा गान्धी अस्ति, तावत् मम कोऽपि अहितं कर्तुं न शक्ष्यति” इति । अतः सः स्वस्य महत्वाकाक्षां पूरयितुम् असांविधानिककार्याणि, सिक्खसम्प्रदायविरोधीनि कार्याणि च प्रारभत । मुगल-राज्ञाम् अत्याचारात् हिन्दुधर्मस्य रक्षणं कर्तुं खालसासम्प्रदायस्य स्थापना अभवत् इति गुरु ग्रन्थ साहिब इत्यस्य मर्मं सः व्यस्मरत् । भारतगणराज्यात् पञ्जाबराज्यं भिन्नं, हिन्दुधर्मात् सिक्खजनाः भिन्नाः इति सः प्रचारं प्रारभत । 'खलिस्थान' इति भिन्नस्य राष्ट्रस्य सः घोषणाम् अकरोत् ।

इन्दिरा गान्धी इत्यनया या धनराशिः भिण्डरवाला इत्यनेन प्राप्ता आसीत्, तस्याः धनराशेः उपयोगः सः आयुधक्रयणाय, आतङ्कवादिदलं निर्मितुं च अकरोत् । सायुधं गुरुद्वारप्रवेशे निषेधः अस्ति । सिक्खसम्प्रदायस्य कृते कार्यं कुर्वन् अस्मि इति मिथ्या आडम्बरं कुर्वन् भिण्डरवाला धर्मविरोधी, राष्ट्रविरोधी च कार्यम् अकरोत् । सः आयुधानि गुरुद्वारस्य पवित्रे परिसरे गौपयत् । तस्मिन् परिसरे अनेकाः आतङ्कवादिनः अपि आसन् । पञ्जाबराज्यस्य जनाः भिण्डरवाला इत्यस्य बहुविरोधम् अकुर्वन् । परन्तु ये केऽपि तस्य सम्मुखं विरोधं प्रादर्शयन्, तान् सर्वान् सः अमारयत् । पञ्जाबराज्यस्य अत्यन्तहिंसकवातावरणस्य सूचना केन्द्रसर्वकारेण प्राप्ता । केन्द्रसर्वकारस्य अनेकैः जनैः तस्य एतादृशस्य दुःसाहसस्य कृते साम-दान-भेदादीनाम् उपयोगः कृतः । परन्तु केन्द्रात् प्राप्तसंरक्षणः सः केन्द्रसर्वकारमेव युद्धाय आह्वयन् आसीत् । बहवः नेतारः, समाचारपत्रस्य सम्पादकाः, धर्मगुरवः तं मिलित्वा "देशद्रोहम्, अधर्माचरणं च मा कुरु" इति अबोधयन् । परन्तु सः न कस्यापि कथनम् अङ्ग्यकरोत् । अन्ततो गत्वा इन्दिरा गान्धी आतङ्कवादशमनार्थं सैन्यस्य साहाय्यं स्वयकरोत् । सैन्यबलं गुरुद्वारस्य पवित्रपरिसरं प्रविश्य आतङ्कवादिनः मारयेयुः इति आदेशः इन्दिरा गान्धी इत्यनया दत्तः । सैन्यबलेन गुरुद्वारे स्थितानाम् आतङ्कवादिनाम् उन्मूलनं कर्तुम् एका योजना कृता । तस्याः योजनायाः नाम आसीत् ‘ऑपरेशन् ब्लू स्टार्’ इति । ‘ऑपरेशन् ब्लू स्टार्’ इत्यस्यै योजनायै इन्दिरा गान्धी सैन्यबलस्य सेनापतेः अर्थात् राष्ट्रपतेः अङ्गीकारं स्वयकरोत् । (प्रमाणं नास्ति ।)

१९८४ तमस्य वर्षस्य 'जून'-मासस्य तृतीये (३/६/१९८४) दिनाङ्के ‘ऑपरेशन् ब्लू स्टार्’ इति योजनायाः प्रारम्भः अभवत् । षड् दिनानि यावत् अर्थात् अष्टम(८)दिनाङ्कपर्यन्तं भारतीयसैन्यस्य, गुरुद्वारे निगूढानां (hidden) आतङ्कवादिनां च मध्ये सशस्त्रयुद्धम् अभूत् । तस्मिन् युद्धे भारतीयसैन्येन शतघ्न्याः (cannon), युद्धविमानानां, रासायणिकशस्त्राणां चोपयोगः कृतः । ‘ऑपरेशन् ब्लू स्टार्’ इत्यस्याः योजनायाः प्रमुखः कुलदीप सिंह बरार अकथयत्, “एतस्मिन् युद्धे दव्यशीतिः (८२) सैनिकाः स्वप्राणाहुतिम् अयच्छन्, विंशत्यधिकद्विशतं (२२०) सैनिकाः आहताः (injure) अभवन्, द्विनवत्यधिकचतुःशतं (४९२) नागरिकाः मृताश्च” इति । (परन्तु संशोधने सा सङ्ख्या पञ्चसहस्राधिका (५०००) इति सिद्धम् अभवत् ।) ।

भिण्डरवाला इत्यस्य मृत्योः अनन्तरम् एव समाप्ता ‘ऑपरेशन् ब्लू स्टार्’ इतीयं योजना । तस्याः योजनायाः समाप्त्या सह भिन्नराष्ट्रस्य 'खलि'स्थानस्य निराधारयाचना अपि मृता । परन्तु षड्दिनं यावत् सुवर्णमन्दिरे याः गोलिकाः अचलन्, ताभिः अकाल तख्त-नामकं गुरुद्वारस्य पवित्रस्थानं नष्टम्, अपवित्रं चाभवत् । तेन सिक्खसम्प्रदायस्य जनेषु बहुरोषः आसीत् । साप्रदायिकभावनायाः हननस्य, गुरुद्वारस्य पवित्रस्थलस्य नाशस्य च दण्डत्वेन इन्दिरा गान्धी इत्यस्याः हननं तस्याः सिक्ख-आरक्षकाभ्यां कृतम् । तौ आरक्षकौः त्रयस्त्रिंशत् (३३) गोलिकाः अचालयन् इन्दिरा गान्धी इत्यस्याः उपरि । तासु त्रयस्त्रिंशत् (३३) गोलिकासु त्रयोविंशतिः (२३) तस्याः शरीरं विभेद्य गताः, सप्त गोलिकाश्च (७) तस्याः शरीरे एव आसन् । १९८४ तमस्य वर्षस्य 'अक्तूबर'-मासस्य एकत्रिंशत्तमे दिनाङ्के इन्दिरा गान्धी इत्यस्याः मृत्युः तस्याः निवासस्थाने एव अभवत् । तस्याः करुणहत्यानन्तरं देशे सिक्खविरोधिभावः उद्भूतः इति कथनमासीत् केन्द्रसर्वकारस्य । तस्य सिक्खविरोधिभावस्य फलमेवासीत् १९८४ तमस्य वर्षस्य सिक्खविरोधिनी साम्प्रदायिकहिंसा

ऑपरेशन् ब्लू स्टार्’ इत्येतस्यै योजनायै इन्दिरा गान्धी सैन्यबलस्य सेनापतेः अर्थात् राष्ट्रपतेः अङ्गीकारं स्व्यकरोत् इत्यस्य केन्द्रसर्वकारस्य कथनस्य खण्डनं कुर्वन्त्याः श्रीज्ञानिनः पुत्र्याः कथनमस्ति यत्, “‘ऑपरेशन् ब्लू स्टार्’ इत्येतस्यै योजनायै श्रीज्ञानी अनुमतिं नायच्छत् । तस्य तु ज्ञानमेव नासीत् एतादृश्याः योजनायाः विषये । श्रीज्ञानी तु धार्मिकः सिक्खानुयायी, देशभक्तः च आसीत् । सः एतादृश्याः योजनायाः कृते अनुमतिं सर्वथा नैव ददाति । योजनायाः आरम्भानन्तरमेव तेन ज्ञातम् योजनायाः विषये” इति । (अधः यत् चलच्चित्रस्य परिसन्धिः अस्ति, ताम् अवश्यमेव पश्यन्तु । भवतां सत्यतायाः सम्यक् ज्ञानं भविष्यति ।)

१९८४ तमस्य वर्षस्य सिक्खविरद्धहिंसायाम् अनेकाः सिक्खजनाः मृताः । आलोचकानां कथनमस्ति यत्, “जलियावाला-नरहत्याः अपि भयावहः आसीत्, १९८४ तमस्य वर्षस्य सिक्खविरोधिनरहत्या” इति । हिन्दुधर्मस्य रक्षणार्थं यस्य सम्प्रदायस्य स्थापना अभवत्, तस्य सम्प्रदायस्य जनानां हननं हिन्दुजनाः एव अकुर्वन् इति सत्तालोलुपाः नेतारः आक्षिपन् । परन्तु सत्यता तु भिन्ना एवासीत् । (अधः यत् चलच्चित्रस्य परिसन्धिः अस्ति, ताम् अवश्यमेव पश्यन्तु । भवतां सत्यतायाः सम्यक् ज्ञानं भविष्यति ।)

इन्दिरा गान्धी इत्यस्याः मृत्योः अनन्तरं तस्याः पुत्रः राजीव गान्धी भारतस्य प्रधानमन्त्री अभवत् । इन्दिरा गान्धी यस्मिन् दिने मृता, तस्मिन् दिने सायं सार्धपञ्चवादने एव सः प्रधानमन्त्रित्वेन शपथम् अकरोत् । भारतगणराज्यस्य सम्मानरक्षणस्य, प्रधामन्त्रिपदस्य गौरवस्य रक्षणस्य च शपथं श्रीज्ञानी एव अकारयत् । परन्तु तस्माद्दिनादेव देहली-महानगरे सिक्खजनानां निर्ममहननस्य प्रारभन्त । दिनत्रयं यावत् आरक्षकाः, सैनिकाः, व्यवस्थापकाश्च देहली-महानगरं हिंसकजनानां हस्ते अयच्छन् । तेषां क्रूराणां पार्श्वे मतदातॄणां सूचिः आसीत् । मतदातॄणां सूचिं पश्यन्तः ते हिंसकजनाः सिक्खजनानां गृहं प्रविश्य बाल-वृद्ध-महिलानां हननम् अकुर्वन् । या मतदातॄणां गुप्तसूचिः सर्वकारस्य पार्श्वे एव भवेत्, सा सूचिः तैः हिंसकजनैः कुतः प्राप्ता इत्यस्य आलोचकानां प्रश्नस्य अद्यापि उत्तरं न लभ्यते । तस्यां साम्प्रदायिकहिंसायां अष्टसहस्राधिकाः (८०००+) निर्दोषसिक्खजनाः मृताः इति सर्वकारेण उद्घोषितम् । परन्तु संशोधनेन देशस्य ज्ञानम् अभवत् यत्, “तस्यां हिंसायां त्रिसहस्राधिकानां (३०००+) जनानां हननं तु देहली-महानगरे एव अभवत्” इति ।

बहूनाम् आलोचकानां कथनमासीत् यत्, “सिक्खजनानां प्रतिनिधिः अर्थात् श्रीज्ञानी जैल सिंह भारतगणराज्यस्य सर्वोच्चसंविधानिकस्थाने स्थित्वापि सिक्खविरोधहिंसायाः विषये कमपि निर्णयं नाकरोत्” इति । परन्तु सत्यता भिन्ना एव आसीत् । राष्ट्रपतिः सेनात्रयस्य सेनापतिः अस्ति । परन्तु साक्षात् सः कमपि कस्मिंश्चित् कार्ये सल्लग्नयितुम्, अपाकर्तुं च न प्रभवति । सः हिंसायाः विषये बहुवारं प्रधामन्त्रिकार्यालयं दूरवाणीम् अकरोत् । परन्तु तस्य दूरवाण्याः उत्तरम् एव न कोऽपि अयच्छत् । दिनत्रयं तस्य मानसिकस्थितिः अतीव दयनीया आसीत् । भारतगणराज्यस्य सर्वोच्चसंविधानिकस्थाने स्थित्वापि सः असांविधानिकं कार्यं स्थगयितम् अशक्तः आसीत् । सिक्खविरोधहिंसासमये तस्य स्थितिः किदृशी आसीत् इत्यस्य वर्णनं तस्य पुत्री एकस्मिन् साक्षात्कारे अकरोत् । (अधः यत् चलच्चित्रस्य परिसन्धिः अस्ति, ताम् अवश्यमेव पश्यन्तु । भवतां सत्यतायाः सम्यक् ज्ञानं भविष्यति ।)

१९८४ तमस्य वर्षस्य हिंसायाः दोषिणः शिक्षां प्राप्नुयुः इति देहली उच्चन्यायलये एकः अभियोगः पीडितैः कृतः । देहली उच्चन्यायालयेन एतावता एकमेव उल्लेखनीयं वाक्यम् उक्तमस्ति यत् -

Though we boast of being the world's largest democracy and Delhi being its national capital, the sheer mention of the incidents of 1984 anti-Sikh riots in general and the role played by Delhi Police and state machinery in particular makes our heads hang in shame in the eyes of the world polity.

ततः अद्यपर्यन्तम् अस्य अभियोगस्य कृते न्यायप्रक्रिया अग्रे नाभवत् । त्रिंशद्वर्षानन्तरम् २०१४ तमे वर्षे U.P.A. उपाध्यक्षेण राहुल गान्धी इत्यनेन अङ्गीकृतं यत्, “१९८४ तमस्य वर्षस्य सिक्खविरोधिहिंसायां कोङ्ग्रेसपक्षस्य तत्कालीनाः नेतारः सम्मिलिताः आसन्” इति । तस्य अङ्गीकरणानन्तरमपि दोषिणः शिक्षां न प्राप्नुवन् इति खेदस्य विषयः ।

श्रीज्ञानी ‘ऑपरेशन् ब्लू स्टार्’ इत्यनया योजनया, सिक्खविरोधिहिंसया च दुःखितः आसीत् । सः स्वस्य दुःखं पत्रमाध्यमेन राजीव गान्धी इत्यस्य सम्मुखं प्रकटम् अकरोत् । परन्तु स्वस्य पत्रस्य उत्तरं सः कदापि न प्रापत् । १९८७ तमस्य वर्षस्य 'जुलाई'-मासस्य पञ्चविंशतितमे दिनाङ्के राष्ट्रपतित्वेन कार्यकालसमाप्त्यनन्तरम् उद्विग्नमनसा सः राष्ट्रपतिभवनम् अत्यजत् । परन्तु गमनकाले तस्य मुखे चिन्ता-शोक-क्रोधान् सर्वे सहसा अपश्यन् ।

मृत्युः

[सम्पादयतु]

राष्ट्रपतिभवनात् निर्गत्य सः देहली-महानगरस्य सर्क्युलर्-मार्गस्थे स्वगृहे वासम् आरभत । सः राजनीतिक्षेत्रेऽपि सक्रियः आसीत् । परन्तु १९९४ तमस्य वर्षस्य 'नवम्बर'-मासस्य पञ्चविंशतितमे दिनाङ्के मार्गदुर्घटनायां सः आहतः अभवत् । सप्तविंशतिदिनं यावत् सः मूर्च्छितः (in coma) आसीत् । ततः १९९४ तमस्य वर्षस्य 'दिसम्बर'-मासस्य पञ्चविंशतितमे दिनाङ्के तस्य मृत्युः अभवत् ।


भारतस्य राष्ट्रपतयः
पूर्वतनः
नीलं सञ्जीव रेड्डि
ज्ञानी जैल सिंह अग्रिमः
आर् वेङ्कटरामन्

सम्बद्धाः लेखाः

[सम्पादयतु]

सिक्खविरोधिनी साम्प्रदायिकहिंसा

ऑपरेशन् ब्लू स्टार्

इन्दिरा गान्धी

राजीव गान्धी

राष्ट्रपतिः

सर्वोच्चन्यायालयः

राष्ट्रपतिभवनम्

बाह्यानुबन्धाः

[सम्पादयतु]

http://www.youtube.com/watch?v=OcgvFhED7cM

http://timesofindia.indiatimes.com/india/Rahul-Gandhi-says-some-Congressmen-probably-involved-in-1984-riots/articleshow/29455660.cms

http://www.youtube.com/watch?v=YNsB85JNszQ

http://www.youtube.com/watch?v=Zb01XTXPfLg

http://www.youtube.com/watch?v=_iFSfvaCifs

http://www.youtube.com/watch?v=MZN5LrBtBrs

http://www.youtube.com/watch?v=_iFSfvaCifs


"https://sa.wikipedia.org/w/index.php?title=ज्ञानी_जैल_सिंह&oldid=452265" इत्यस्माद् प्रतिप्राप्तम्