सामग्री पर जाएँ

नीलं सञ्जीव रेड्डि

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(नीलम सञ्जीव रेड्डी इत्यस्मात् पुनर्निर्दिष्टम्)
श्रीनीलं सञ्जीव रेड्डि
నీలం సంజీవ రెడ్డి
भारतस्य षष्ठः राष्ट्रपतिः
कार्यालये
२५/७/१९७७ – २५/७/१९८२
प्रधानमन्त्री मोरारजी देसाई
चरण सिंह
इन्दिरा गान्धी
बसप्प दानप्प जत्ति
मुहम्मद हिदायतुल्लाह
पूर्वगमः बसप्प दानप्प जत्ति (कार्यकारी)
पादानुध्यातः ज्ञानी जैल सिंह
चतुर्थः लोकसभाध्यक्षः
कार्यालये
२६/३/१९७७ – १३/८/१९७७
पूर्वगमः बलि राम भगत
पादानुध्यातः कावदूर सदानन्द हेगडे
कार्यालये
१७/३/१९६७ – १९/७/१९६९
पूर्वगमः सरदार हुकम सिंह
पादानुध्यातः गुरुदयाल सिंह ढिल्लों
आन्ध्रप्रदेशराज्यस्य मुख्यमन्त्री
कार्यालये
१२/३/१९६२ – २०/२/१९६४
Governor भीम सेन सचर
सत्यवन्त मल्लन्न श्रीनागेश
पूर्वगमः दामोदरं सञ्जीवय्य
पादानुध्यातः कासु ब्रह्मानन्द रेड्डि
कार्यालये
१/११/१९५६ – ११/१/१९६०
Governor चन्दुलाल माधवलाल त्रिवेदी
भीम सेन सचर
पूर्वगमः बुरुगुल रामकृष्ण राव (हैदराबाद-महानगरम्)
बोसावद गोपाल रेड्डि (आन्ध्रप्रदेशराज्यम्)
पादानुध्यातः दामोदरं सञ्जीवय्य
व्यक्तिगत विचाराः
जननम् १९/५/१९१३
आन्ध्रप्रदेशराज्यस्य अनन्तपुरमण्डलस्य इल्लूरु-ग्रामे
मरणम् १/६/१९९६ (८३ वयसि)
बेङ्गळूरु, कर्णाटकराज्यं, भारतम्
राष्ट्रीयता भारतीयः
राजनैतिकपक्षः जनतापार्टी (१९७७-अध्यक्षः)
अन्यराजनैतिक-
सम्बन्धः
इण्डियन् नेशनल् कोङ्ग्रेस (१९७७ वर्षात् प्राक्)
मुख्यशिक्षणम् आर्ट्स् कॉलेज्, अनन्तपुरमण्डलम्
धर्मः हिन्दुधर्मः

श्रीनीलं सञ्जीव रेड्डि ( /ˈnləm sənvə rɛddɪ/) (तेलुगु: నీలం సంజీవ రెడ్డి, आङ्ग्ल: Neelam Sanjiv Reddy) भारतस्य षष्ठः राष्ट्रपतिः । कृषिप्रधानभारतस्य अनेकाः कृषकपुत्राः देशस्य नाम गौरवान्वितम् अकुर्वन् । तेषु श्रीसञ्जीवः अन्यतमः । कृषकपुत्रः सः यदा भारतस्य सर्वोत्कृष्टे राष्ट्रपतिपदे आरूढः, तदा देशे अनन्योत्साहः आसीत् । सर्वे जनाः परस्परं चर्चां कुर्वन्तः श्रीसञ्जीवस्य नाम गर्वेण वदन्ति स्म । सर्वेषां मनसि आसीत् यत्, "एकः सामान्यः कृषकपुत्रः यदि राष्ट्रपतिः भवति, तर्हि सः कृषकाणां, दीनानां च समस्याः निवारयितुं प्रयत्नं करिष्यत्येव" इति । लोकभावनानुसारं कार्याण्यपि अकरोत् श्रीसञ्जीवः । अतः राष्ट्रपतित्वेन तस्य योगदानम् अविस्मरणीयम् एव ।

जन्म, शिक्षणञ्च

[सम्पादयतु]

१९१३ तमस्य वर्षस्य ‘मई’-मासस्य नवदशे (१९/५/१९१३) दिनाङ्के आन्ध्रप्रदेशराज्यस्य अनन्तपुरमण्डलस्य इल्लूरु-ग्रामे श्रीसञ्जीवस्य जन्म अभवत् । तस्य पितुः नाम श्रीनीलं चिन्नप्प रेड्डि आसीत् । सः कृषिकार्यं करोति स्म । सः धनसम्पन्नः आसीत् । अतः सः बालसञ्जीवम् उच्चशिक्षणार्थं प्रतिष्ठितविद्यालयं प्रैषयत् । बालसञ्जीवस्य प्रारम्भिकशिक्षा अड्यार-ग्रामस्य 'थियोसॉफिकल्'-विद्यालये अभवत् । ततः अनन्तपुरे स्थिते आर्ट्स्-महाविद्यालये सः अध्ययनं प्रारभत । महात्मना विदेशिवस्तूनां बहिष्कारस्य आन्दोलनम् आभारते विस्तारितम् आसीत् । भारतस्य विद्यालय-महाविद्यालय-विश्वविद्यालयानां छात्राः अपि तस्मै आन्दोलनाय योगदानम् अयच्छन् । १९२९ तमे वर्षे विदेशिवस्तुबहिष्कारस्य आन्दोलनस्य प्रचारार्थं महात्मा अनन्तपुरस्य एकां सभाम् अगच्छत् । तस्यां सभायां श्रीसञ्जीवः अपि आसीत् । सभायां महात्मनः भाषणेन प्रभावितः श्रीसञ्जीवः देशसेवायाः कार्यं प्रारभत । १९३१ तमे वर्षे श्रीसञ्जयः स्वाध्ययनं त्यक्त्वा देशसेवायै पूर्णसमयम् अयच्छत् ।

राजनीतिप्रवेशः

[सम्पादयतु]

१९३६ तमे वर्षे आन्ध्रपदेशराज्यस्य प्रान्तकोङ्ग्रेससमित्याः महामन्त्रित्वेन सः चितः । सः दशवर्षाणि तत्पदं व्यभूषयत् । सः सत्याग्रहान्दोलनस्य यदा दायित्वं स्व्यकरोत्, तदा आङ्ग्लसर्वकारस्य पूर्णबलेन विरोधम् अकरोत् । तेन भीताः आङ्ग्लाधिकारिणः तं कारागारं प्रैषयन् । कारागारयातनायाः निर्भीकः श्रीसञ्जीवः आङ्ग्लसर्वकारस्य विरोधं नास्थगयत् । १९४० तः १९४५ पर्यन्तम् अनेकवारं आङ्ग्लाधिकारिणः तं बन्दिनम् अकुर्वन् । एतावन्ते काले श्रीसञ्जीवस्य राजनैतिकज्ञानं परिपक्वं जातमासीत् । तेन दत्तानां राजनैतिकसूचनानां महत्त्वम् अधिकम् आसीत् । अतः १९४७ तमे वर्षे सः भारतीयसंविधानसमित्याः सदस्यः अभवत् ।

१९४९ तमे वर्षे सः तदानीन्तनस्य मद्रासराज्यस्य मन्त्री अभवत् । आवास-वन-मद्यनिषेध-मन्त्रालयस्य दायित्वं आसीत् तस्य । महात्मनः अनुयायी सः मद्रासराज्ये मद्यपाननिषेधविधेयकं सिद्धम् अकारयत् । तस्य विधेयकस्य विषये सर्वेषां भिन्नानि मतानि आसन् । "अनेन विधेयकेन अनेकजनानाम् आजीविकायाः नाशः भविष्यति, बहवः वृत्तिहीनाः भविष्यन्ति" इत्यादयः बहवः तर्काः आसन् । स्वस्य प्रतिष्ठायाः विषये न विचिन्त्य सः मद्यपाननिषेधविधेयकस्य समर्थनम् अकरोत् ।

१९५६ तमे वर्षे सः आन्ध्रप्रदेशराज्यस्य मुख्यमन्त्रित्वेन चितः । वर्षचतुष्टयं सः आन्ध्रप्रदेशराज्यस्य विकासकार्यम् अकरोत् । ततः १९५९ तमे वर्षे सः कॉङ्ग्रेस्-पक्षस्य अध्यक्षत्वेन चितः । आन्ध्रप्रदेशराज्यं त्यक्त्वा सः देहली-महानगरम् अगच्छत् । ततः आन्ध्रप्रदेशराज्यस्य नेतृत्वं शिथिलम् अभूत् । मन्त्रिषु विवादाः समुद्भूताः । आन्ध्रप्रदेशराज्यस्य राजनीतिक्षेत्रे कोऽपि योग्यः नेता नासीत् यः मन्त्रिषु उद्भूतस्य कलहस्य शमनं कर्तुं समर्थः स्यात् । अतः कॉङ्ग्रेस्-पक्षस्य अध्यक्षपदं त्यक्त्वा सः पुनः आन्ध्रप्रदेशराज्यस्य राजनीत्यां सक्रियः अभवत् । १९६२ तमे वर्षे मुख्यमन्त्रिनिर्वाचने बहुमतेन आन्ध्रप्रदेशराज्यस्य जनैः सः चितः । वर्षद्वये एव राज्यं विकासमार्गे अग्रेसरम् अभूत् । परन्तु १९६४ तमे वर्षे या घटना घटिता तेन शान्त्याः वातावरणं नष्टम् अभूत् ।

१९६४ तमे वर्षे आन्ध्रप्रदेशराज्यस्य मन्त्रिभिः राज्यसर्वकारस्य आर्थिकनीत्यन्तर्गतस्य राज्यस्य परिवहननिगमस्य राष्ट्रीकरणं कृतम् । तस्य राष्ट्रीकरणस्य विरोधं कुर्वन् परिवहननिगमः भारतीयसर्वोच्चन्यायालयाय न्याययाचिकाम् अयच्छत् । भारतीयसर्वोच्चन्यायालयः निगमस्य पक्षं पुष्टं कुर्वन् राज्यसर्वकारस्य निर्णयं निराकरोत् । "तस्मिन् राष्ट्रीकरणे मम दायित्वं मुख्यमासीत् । अतः अहं मुख्यमन्त्रिपदं त्यजामि" इति उक्त्वा श्रीसञ्जीवः आन्ध्रप्रदेशराज्यात् देहली-महानगरम् अगच्छत् ।

केन्द्रमन्त्री श्रीसञ्जीवः

[सम्पादयतु]

१९६४ तमे वर्षे भारतस्य प्रप्रथमस्य प्रधानमन्त्रिणः नेहरू इत्यस्य मृत्युः अभवत् । अतः लाल बहादूर शास्त्री भारतस्य द्वितीयः प्रधानमन्त्री अभवत् । लाल बहादूर शास्त्री श्रीसञ्जीवस्य कुशलतां जानाति स्म । अतः सः श्रीसञ्जीवाय स्वमन्त्रिमण्डले सारलोहमन्त्रालयस्य (इस्पात, steel), खाद्यमन्त्रालयस्य च दायित्वम् अयच्छत् । पुरापि श्रीसञ्जीवः बहुवारं राष्ट्रियस्तरे कार्यं कृत्वा स्वकुशलतायाः परिचयं दत्तवान् आसीत् । अतः सः प्रधानमन्त्रिणा दत्तस्य दायित्वस्यापि कुशलतया वहनं कुर्वन् आसीत् । परन्तु १९६६ तमे वर्षे हृदयाघातेन श्रीलाल बहादूर शास्त्री दिवङ्गतः । ततः इन्दिरा गान्धी भारतस्य तृतीयः प्रधानमन्त्री अभवत् । सा अपि श्रीसञ्जीवाय उड्डयन-परिवहनमन्त्रालययोः दायित्वम् अयच्छत् । १९६७ तमस्य वर्षस्य निर्वाचनानन्तरं श्रीसञ्जीवः आन्ध्रप्रदेशराज्यस्य हिन्दूपुरात् लोकसभायाः सदस्यत्वेन चितः । १९६७ तमस्य वर्षस्य 'मार्च'-मासस्य सप्तदशे (१७/३/१९६७) दिनाङ्के लोकसभाध्यक्षस्य निर्वाचने सः अध्यक्षत्वेन चितः ।

श्रीसञ्जीवः लोकसभायाः अध्यक्षत्वेन निष्पक्षतया दायित्वम् अवहत् । तस्य कार्येण पक्ष-विपक्षौ सन्तुष्टौ आस्ताम् । तस्मिन् वर्षे डॉ. जाकिर हुसैन इत्यस्य अकस्मात् देहान्तेन राष्ट्रपतिपदं रिक्तमभूत् । अतः राष्ट्रपतिनिर्वाचने कोङ्ग्रेसपक्षेण राष्ट्रपतिप्रत्याशित्वेन श्रीसञ्जीवस्य नाम प्रस्तावितम् । तेन श्रीसञ्जीवः लोकसभाध्यक्षपदम् अत्यजत् । कारणं राष्ट्रपतिप्रत्याशी कस्मिंश्चिदपि सर्वकाराधीने पदे नियुक्तः भवितुं नाहर्ति । यद्यपि राष्ट्रपतिनिर्वाचनाय सः लोकसभाध्यक्षपदम् अत्यजत्, तथापि सः राष्ट्रपतित्वेन न चितः । तस्य पृष्ठे पक्षप्रधानराजनीतिः आसीत् । श्रीसञ्जीवस्य नामाङ्कनेन न केवलं कॉङ्ग्रेस्-पक्षस्य नेतारः, अपि तु विपक्षस्य नेतारः अपि प्रसन्नाः आसन् । कारणं लोकसभायां श्रीसञ्जीवस्य निष्पक्षनिर्णयैः सर्वे परिचिताः आसन् । एतत् दृष्ट्वा स्वभविष्यात् भीता इन्दिरा गान्धी श्रीसञ्जीवस्य पुरः निर्दलीयप्रत्याशिने श्रीवराहगिरि वेङ्कट गिरि इत्येतस्मै राष्ट्रपतिनिर्वाचने समर्थं अयच्छत् । राष्ट्रपतिनिर्वाचने सा भाषणम् अकरोत्, “स्वान्तरात्मना राष्ट्रपतेः चयनं कुर्वन्तु” इति । ("अपनी अन्तरात्मा की आवाज़ पर तथा अपने विवेक के आधार पर राष्ट्रपति चुने" ।) फलस्वरूपं श्रीसञ्जीवः राष्ट्रपतिनिर्वाचने पराजितः । इन्दिरा गान्धी इत्यनयाः "स्वान्तरात्मना राष्ट्रपतेः चयनं कुर्वन्तु" इत्यस्य भाषणस्य अर्थः आसीत्, "श्रीवराहगिरि वेङ्कट गिरि इत्येतस्मै एव मतं यच्छन्तु" इति । १९७१ तमे वर्षे राष्ट्रपतिनिर्वाचने रेड्डि पराजितः । कॉङ्ग्रेस्-पक्षस्यापि भागद्वयम् अभूत् ।

राजनीतेः संन्यासः, पुनः सक्रियता च

[सम्पादयतु]

पक्षस्य अन्तर्कलहेन खिन्नः श्रीसञ्जीवः राजनीतिक्षेत्रे निष्क्रियः अभवत् । तेन अनन्तपुरस्थं स्वगृहं गतं, कृषिकार्यं चारब्धम् । पञ्चवर्षं यावत् सः कृषिक्षेत्रे निष्ठया कार्यं कुर्वन् राजनीत्याः दूरं शान्त्या, सन्तोषेण च न्यवसत् । १९७५ तमे वर्षे सत्तालोलुपा इन्दिरा गान्धी तत्कालीनेन राष्ट्रपतिना फखरुद्दीन अली अहमद इत्यनेन आपत्कालस्य घोषणाम् अकारयत् । आभारते आपत्कालघोषणानन्तरं भारतस्य राजनैतिकस्थितिः विस्फोटकी आसीत् । कोऽपि देशभक्तः स्वतन्त्रसेनानी वा भारतं तादृश्यां स्थित्यां द्रष्टुं स्वतन्त्रतान्दोलनं नाकरोत् । भारतस्य सा स्थितिः स्वतन्त्रभारतसङ्ग्रामस्य अपमानमेव आसीत् । देशभक्तस्य लोकनायकस्य जयप्रकाशस्य नेतृत्वे अनेकैः नेतृभिः इन्दिरा गान्धी इत्यनयाः विरोधः कृतः । श्रीसञ्जीवः अपि देशस्य विकटपरिस्थित्या खिन्नः आसीत् । अतः सः जयप्रकाशेन सह इन्दिरा गान्धी इत्यस्याः विरोधम् अकरोत् । १९७५ तमस्य वर्षस्य ‘मई’-मासे यदा जयप्रकाशः हैदराबाद-महानगरे विशालसभाम् असम्बोधयत्, तदा श्रीसञ्जीवः अपि मञ्चे स्थितः आसीत् । "अस्माभिः सुदृढविपक्षविषये चिन्तनीयम्" इति तस्मिन्नेव काले सर्वैः अनुभूतम् आसीत् । वर्षद्वयं यावत् सुदृढस्य विपक्षस्य विमर्शार्थं जयप्रकाश-सञ्जीवौ जनसामान्यानाम् आह्वानम् अकुरुताम् । लोकनायकस्य जयप्रकाशस्य प्रयासैः जनतापक्षः सुदृढविपक्षत्वेन कार्यं प्रारभत । १९७७ तमे वर्षे आपत्कालः समाप्तः अभूत् । ततः संसद्भङ्गः अपि अभवत् । १९७७ तमे वर्षे यदा निर्वाचनम् अभूत्, तदा जनतापक्षः बहुमतेन सत्तां प्रापत् । मोरारजी देसाई प्रधानमन्त्रिपदस्य गौरवरक्षणस्य शपथम् अकरोत् । तस्मिन् निर्वाचने श्रीसञ्जीवः अपि आन्ध्रप्रदेशराज्यस्य नन्द्याल-संसदक्षेत्रात् संसदसदस्यत्वेन चितः । लोकसभायां पुनः सः लोकसभाध्यक्षत्वेन चितः । देशस्य स्थितिः सामान्या अस्ति इति भावः सर्वेषां मनसि उद्भवेत्, तस्मात् पूर्वमेव तत्कालीनस्य राष्ट्रपतेः श्रीफखरुद्दीन अली अहमद इत्यस्य हृदयाघातेन मृत्युः अभवत् । अतः प्रधानमन्त्रिणः सम्मुखं राष्ट्रपतेः रिक्तस्थानं पूरणीयम् इति प्राथमिकं कार्यम् आसीत् । पक्ष-विपक्षयोः सर्वेषां मतमासीत् यत् श्रीसञ्जीवः एव राष्ट्रपतित्वेन देशसेवां कुर्यात् इति ।

इन्दिरा गान्धी यदा प्रधानमन्त्री आसीत्, तदा सर्वेषाम् इच्छा आसीत् यत्, “श्रीसञ्जीवः देशस्य राष्ट्रपतिः भवेत्” इति । परन्तु राजनैतिकदूषणत्वात् राष्ट्रपतिनिर्वाचने सः पराजितः आसीत् । अतः राष्ट्रपतिपदस्य अन्यपदानां वा महत्त्वाकाङ्क्षा श्रीसञ्जीवस्य नासीत् । सर्वेषाम् आग्रहेण सः राष्ट्रपतित्वेन देशसेवां कर्तुम् उद्यतः । परन्तु सः प्रतिबन्धम् (condition) अस्थापयत्, “सर्वे पक्षाः सर्वसम्मत्या मां राष्ट्रपतित्वेन चयन्ति चेदेव अहं राष्ट्रपितप्रत्याशित्वेन मम नामाङ्कनं करोमि” इति । सर्वैः तस्य कथनस्य स्वीकारः कृतः । ततः सः लोकसभाध्यक्षपदात् त्यागपत्रम् अयच्छत्, राष्ट्रपतिप्रत्याशित्वेन नामाङ्कनञ्च अकरोत् । १९७७ तमस्य वर्षस्य 'जुलाई'-मासस्य एकविंशति(२१)तमे दिनाङ्के श्रीनीलं सञ्जीव रेड्डि भारतगणराज्यस्य षष्ठः राष्ट्रपतित्वेन चितः । पञ्चविंशति(२५)तमे दिनाङ्के सः भारतीयसंविधानानुसारं देशसेवायाः, राष्ट्रपतिपदस्य गौरवरक्षणस्य च शपथम् अकरोत् । अष्टवर्षं पुरा अर्थात् १९६९ तमे वर्षे श्रीसञ्जीवः यत् पदं प्राप्तुम् योग्यः आसीत्, तत् पदं राजनैतिकदूषणत्वात् सः न प्रापत् । परन्तु अष्टवर्षपश्चात् तस्मिन् पदे (राष्ट्रपतिपदे) सहसा सः आरूढः अभवत् ।

राष्ट्रपतित्वेन यदा श्रीसञ्जीवः शपथम् अकरोत्, तदैव सः अघोषयत्, “अहं राष्ट्रपतित्वेन कार्यं कुर्वन् त्रिसहस्ररूप्यकाणि वेतनं स्वीकरिष्ये । अहं विशालराष्ट्रपतिभवनापेक्षया एकं लघुगृहम् इच्छामि, येन राष्ट्रपतिपदस्य गौरवं संरक्षयन् मम वेतननानुसारं मम व्ययः भवेत्” इति । रक्षादिकारणात् श्रीसञ्जीस्य सामान्यगृहनिवासस्य इच्छा तु पूर्णा नाभवत् । परन्तु सः संन्यासिवदेव राष्ट्रपतित्वेन दायित्वम् अवहत् ।

राजनैतिकदृष्ट्या राष्ट्रपतित्वेन श्रीसञ्जीवस्य कार्यकालः अशान्त एवासीत् । मोरारजी देसाई यदा प्रधानमन्त्री आसीत्, तदा श्रीसञ्जीवः राष्ट्रपतिनिर्वाचनस्य अनन्तरं राष्ट्रपतिपदारूढः अभवत् । परन्तु पुत्रवात्सल्येन मोरारजी देसाई इत्यनेन बहव्यः क्षतयः आचरिताः । लोकनायकेन ये नेतारः जनतापक्षे आहूताः आसन्, ते नेतारः मोरारजी देसाई इत्यस्मात्, तस्य पुत्रात् च असन्तुष्टाः अभवन् । तेषां नेतॄणाम् असन्तुष्टतायाः लाभं प्राप्तुं कोङ्ग्रेस-पक्षः लोकसभायाम् अविश्वासप्रस्तावं प्रास्थापयत् । अविश्वासप्रस्तावे सिद्धे जाते सति मोरारजी देसाई प्रधामन्त्रिपदस्य त्यागपत्रम् अयच्छत् । १९७९ तमस्य वर्षस्य 'जुलाई'-मासस्य षोडशे दिनाङ्के मोरारजी देसाई स्वमन्त्रिमण्डलस्य त्यागपत्रं राष्ट्रपतये श्रीसञ्जीवाय अयच्छत् । ततः दशदिनानि यावत् भारतीयराजनीतिक्षेत्रस्य परिस्थितः कठिना आसीत् ।

'जुलाई'-मासस्य पञ्चविंशतितमे दिनाङ्के चरण सिंह कोङ्ग्रेस-पक्षस्य साहाय्येन लोकसभायां बहुमतं सिद्धयितुम् ऐच्छत् । अतः सः १९७९ तमस्य वर्षस्य 'जुलाई'-मासस्य अष्टाविंशतितमे (२८) दिनाङ्के प्रधामन्त्रित्वेन शपथम् अकरोत् । परन्तु कोङ्ग्रेस-पक्षः विश्वासप्रस्तावकाले तस्य असमर्थनम् अकरोत् । अतः पञ्चदशदिनपश्चात् लोकलभायां विश्वासप्रस्तावाय बहुमतं सिद्धं नाभूत् । चरण सिंह अपि मन्त्रिमण्डलरचनायै असमर्थः अभवत् । तदा लोकसभाभङ्गानन्तरं लोकसभानिर्वाचनादेशस्य एकः एव मार्गः राष्ट्रपतेः पुरतः आसीत् । १९८० तमस्य वर्षस्य 'जनवरी'-मासे निर्वाचनम् अभूत् । तस्मिन् निर्वाचने कोङ्ग्रेस-पक्षः बहुमतेन विजयी अभवत् । ततः इन्दिरा गान्धी पुनः प्रधानमन्त्री अभवत् ।

भारतगणराज्यस्य षष्ठः राष्ट्रपतिः श्रीसञ्जीवः एकमात्रः राष्ट्रपतिः आसीत् यः निर्वाचनं विना सर्वमतेन राष्ट्रपतित्वेन चितः । सः त्रिभिः प्रधानमन्त्रिभिः सह कार्यम् अकरोत् । आपत्कालानन्तरं या स्थितिः आसीत्, तस्यां स्थित्यां यदि श्रीसञ्जीवः नाभविष्यत्, तर्हि तस्याः परिस्थित्याः देशस्य महती हानिः अभविष्यत् । स्वस्य कर्मनिष्ठा-कुशलता-निर्णयशक्तिभिः श्रीसञ्जीवः भारतस्य राजनैतिकस्थितिं समीकर्तुं सफलः अभवत् ।

मृत्युः

[सम्पादयतु]

१९८२ तमस्य वर्षस्य 'जुलाई'-मासस्य पञ्चविंशति(२५)तमे दिनाङ्के श्रीसञ्जीवस्य राष्ट्रपतित्वेन कार्यकालस्य समाप्त्यनन्तरं सः बेङ्गळूरु-महानगरम् अगच्छत् । १९९६ तमस्य वर्षस्य 'जून'-मासस्य प्रथमे दिनाङ्के त्र्यशीति(८३)तमे वयसि श्रीसङ्जीवस्य देहान्तः अभूत् ।


भारतस्य राष्ट्रपतयः
पूर्वतनः
बसप्प दानप्प जत्ति
नीलं सञ्जीव रेड्डि अग्रिमः
ज्ञानी जैल सिंह

सम्बद्धाः लेखाः

[सम्पादयतु]

राष्ट्रपतिः

सर्वोच्चन्यायालयः

राष्ट्रपतिभवनम्

इन्दिरा गान्धी

बाह्यानुबन्धाः

[सम्पादयतु]

http://pastpresidentsofindia.indiapress.org/reddy.html

http://www.mapsofindia.com/who-is-who/government-politics/neelam-sanjiva-reddy.html

http://speakerloksabha.nic.in/former/Nsanjivareddy.asp

http://www.britannica.com/EBchecked/topic/494641/Neelam-Sanjiva-Reddy

http://www.gloriousindia.com/biographies/neelam_sanjiva_reddy.html

http://www.iloveindia.com/indian-heroes/neelam-sanjiva-reddy.html

"https://sa.wikipedia.org/w/index.php?title=नीलं_सञ्जीव_रेड्डि&oldid=452267" इत्यस्माद् प्रतिप्राप्तम्