लोकसभाध्यक्षः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search
लोकसभाध्यक्षः
Emblem of India.svg
वर्तमानपदाधिकारी
सुमित्रा महाजन्

६/६/२०१४  तः पदाधिकारी
नियोगकर्ता लोकसभायाः सदस्या
कार्यकालः लोकसभायाः कार्यकाले अधिकाधिकं पञ्चवर्षाणि
आदिपदाधिकारी गणेश वासुदेव मावळङ्कर
पदसंरचना १५/०५/१९५२
जालस्थानम् आधिकारिकजालस्थानम्

लोकसभाध्यक्षः ( /ˈlkəsbhɑːðjəkʃhəh/) (आङ्ग्ल: Speaker of the Lok Sabha, हिन्दी: भारत् के लोकसभा अध्यक्ष्) लोकसभायाः त्रिषु स्तम्भेषु अन्यतमः (लोकसभाध्यक्षः, बहुमतप्राप्तप्रक्षः, विपक्षः च लोकसभायाः त्रिस्तम्भाः भवन्ति) । लोकसभाध्यक्षः लोकसभायाः सदस्येषु अन्यतमः भवति । लोकसभायाः कार्यं सुचारुरीत्या चालयितुं लोकसभायाः सदस्याः निर्वाचनप्रक्रियया लोकसभाध्यक्षस्य चयनं कुर्वन्ति । विधानमण्डले विधेयकनिर्माणस्य महत्त्वपूर्णं दायित्वं विधायिकायाः सदस्यानाम् अस्ति । विधेयकस्य विषये चर्चां कुर्वन्तः सदस्याः वाद-विवादं कुर्वन्ति इति स्वाभाविकम् एव, आवश्यकं च । परन्तु वाद-विवादस्य नियमनस्य अपि आवश्यकता भवति । अतः अध्यक्षः सदस्येषु यस्मिन् विषये वादः भवन् अस्ति, तस्मिन् विषये निष्पक्षतया निर्णयं स्वीकरोति । न्यायपालिकायाः निष्पक्षतायाः यथा माहत्म्यं वर्तते, तथैव लोकसभायां निष्पक्षतायाः माहत्म्यं वर्तते । यतो हि लोकसभाध्यक्षस्य पक्षपातपूर्णः व्यवहारः लोकतन्त्रस्य उपरि साक्षात् प्रहारः भवति । अतः पक्षनैष्ठिकस्य लोकसभाध्यक्षस्य अपेक्षया देशनिष्ठस्य लोकसभाध्यक्षस्य चयनम् आवश्यकं भवति । लोकसभाध्यक्षस्य अनुपस्थितौ उपाध्यक्षः लोकसभाध्यक्षस्य प्रतिनिधित्वं करोति । तयोः उभयोः अनुपस्थितौ संसदा निर्मिता एका सभापतितालिका सदनस्य कार्यभारं वहति ।

नियुक्तिः[सम्पादयतु]

भारतीयसंविधानस्य ९३ अनुच्छेदानुसारं लोकसभायाः सदस्याः लोकसभासदस्येषु एव क्रमेण अध्यक्षम्, उपाध्यक्षं च चिन्वन्ति । लोकसभायाः रचनयाः काले, अध्यक्षपदस्य उत उपाध्यक्षपदस्य रिक्ततायां सत्यां निर्वाचनं भवति । बहुमतेन उत सर्वसम्मत्या यः अध्यक्षः चितः, सः लोकसभाध्यक्षत्वेन दायित्वं वहते । [१]

पदत्यागः[सम्पादयतु]

  • यदि केनचित् कारणेन अध्यक्षस्य लोकसभायाः सदस्यत्वम् अयोग्यं सिद्ध्यति, तर्हि अध्यक्षस्य स्वतः एव पदत्यागः भवति । [२]
  • अध्यक्षः त्यागपत्रम् अपि दातुं शक्नोति । लोकसभाध्यक्षः तत् त्यागपत्रम् उपाध्यक्षं सम्बोध्य लिखति । [२]
  • लोकसभायाः नवीनसत्रस्य प्रथमाधिवेशनात् पूर्वदिनपर्यन्तं लोकसभाध्यक्षः स्वदायित्वस्य वहनं करोति । ततः सः पदत्यागं करोति । [२]

अध्यक्षविरुद्धम् अविश्वासः[सम्पादयतु]

लोकसभायाम् अध्यक्षस्य भूमिका निष्पक्षा भवेत् इति संविधाने मुहुर्मुहुः उल्लिखितम् अस्ति । अतः लोकसभाध्यक्षः स्वशपथग्रहणकाले निष्पक्षतायाः बलपूर्वकाचरणस्य सङ्कल्पं करोति । यः अध्यक्षः देशाय अविचिन्त्य स्वपक्षस्य हितं चिन्तयति, तस्य विरोधस्याधिकारः संसद्सदस्यानां प्राथमिकाधिकारः भवति । लोकसभाध्यक्षस्य व्यवहारेण, निर्णयेभ्यः, वचनेन च यदि पक्षपातस्य अनुभूतिः भवति, तर्हि सदस्याः अध्यक्षविरुद्धं पदच्युतप्रस्तावं कर्तुं प्रभवन्ति । ततः अध्यक्षस्य विरुद्धं ये आक्षेपाः भवन्ति, तेषां सदने चर्चा भवति । अध्यक्षस्य विषये पक्षपातस्य आक्षेपे सिद्धे सति राष्ट्रपतिः तं पदच्युतं करोति ।

पदभ्रष्टता[सम्पादयतु]

  • लोकसभायाः सर्वे सदस्याः अध्यक्षस्य पदभ्रष्टतायै सामूहिकप्रस्तावं संसदि उपस्थाप्यन्ति । सः प्रस्तावः यदि बहुमतैः सिद्धः भवति, तर्हि राष्ट्रपतिः लोकसभाध्यक्षं पदभ्रष्टं करोति । [२] परन्तु पदभ्रष्टतायाः चतुर्दशदिनेभ्यः पूर्वं लोकसभाध्यक्षाय पदभ्रष्टतायाः समाचारः दातव्यः भवति ।

प्रशानिकदायित्वम्[सम्पादयतु]

लोकसभाध्यक्षः सदनस्य प्रश्न-सङ्कल्प-प्रस्ताव-विधेयकादीनां चयनं करोति [३] । एतेषां चयनस्य अन्तिमनिर्णयः लोकसभाध्यक्षस्य एव भवति । पूर्वाध्यक्षानां परम्परायाः, लोकसभायाः नियमानां च ध्यानं कृत्वा लोकसभाध्यक्षः उक्तदायित्वस्य वहनं करोति । लोकसभाध्यक्षः सदनसदस्यान्, सर्वकारिसदस्यान् च सदने चर्चां कर्तुम् उत तथ्यानाम् उपस्थापनार्थम् आह्वयति । प्रस्थापितस्य विषयस्य गहनतया अध्ययनं कृत्वा एव लोकसभाध्यक्षः स्वनिर्णयान् करोति । सदनसदस्याः लोकसभाध्यक्षस्य निर्णयं पुनर्विचाराय प्रतिप्रस्तावितुं शक्नुवन्ति । परन्तु लोकसभाध्यक्षः यदि निर्णयं परिवर्तितुं नेच्छति, तर्हि सदनसदस्याः तस्य विरोधं कर्तुं न शक्नुवन्ति । स्वनिर्णयस्य पृष्ठे यत् किमपि कारणम् अस्ति, तत् कारणं सदनसदस्यानां सम्मुखम् उपस्थापयितुं लोकसभाध्यक्षः बाध्यः न भवति ।

दायित्वम्[सम्पादयतु]

लोकसभाध्यक्षः सदने विशेषदायित्वानां वहनं करोति । तेषां दायित्वानां वर्गीकरणं निम्नरीत्या भवति – 1. प्रशासनिकदायित्वम् 2. कार्यपालकदायित्वम् 3. सदने नियमसम्बद्धं, व्यवस्थासम्बद्धं दायित्वम् 4. सदनसदस्येभ्यः सूचनादानम् 5. संसदीयसमितीनां निरीक्षणं, नियन्त्रणं च

कार्यपालकदायित्वम्[सम्पादयतु]

सदनस्य निर्णयानां सूचनाम् अध्यक्षः एव सर्वेभ्यः अधिकारिभ्यः यच्छति । तया सूचनया सह सः नियमानां कार्यान्विततायाः आग्रहं करोति । सदनयोः मध्ये विधेयकानाम् आदानप्रदानं, सूचनानाम् आदानप्रदानं च अध्यक्षस्य माध्यमेन भवति । विधेयके सिद्धे सति लोकसभाध्यक्षः स्वहस्ताक्षरं कृत्वा राष्ट्रपतेः कार्यालयं विधेयकं प्रेषयति । सः कार्यपालकत्वेन स्वस्य दायित्वं विनयेन वहति ।

सदने नियमसम्बद्धं, व्यवस्थासम्बद्धं दायित्वम्[सम्पादयतु]

सदने भाषणं कर्तुं सदनसदस्यस्य आह्वानं लोकसभाध्यः करोति । तस्मै सदस्याय कियान् समयः दातव्यः इत्यस्य निर्णयम् अपि लोकसभाध्यः करोति [३] । कोऽपि सदस्यः यदि अयोग्यानां शब्दानां प्रयोगं स्वभाषणे करोति, तर्हि लोकसभाध्यक्षः तं सदस्यं बलपूर्वकं स्वनिवेदनं प्रतिनेतुं बाध्यं करोति । यत् निवेदनं लोकसभाध्यक्षेण अयोग्यं निर्धारितं, तत् संसदः कार्यवाहिका-तः निष्कासितुं लोकसभाध्यक्षः समर्थः । लोकसभाध्यक्षः यान् अंशान् अयोग्यम् उक्त्वा निष्कासयति, तेषां अंशानां मुद्रणं कोऽपि कर्तुं न प्रभवति । लोकसभाध्यक्षः अनुचिताचरणकर्त्रे सदस्याय सदनात् अमुकसमयं यावत् निष्कासितुं, प्रतिबन्धितुं च शक्नोति । [३]

सदनसदस्येभ्यः सूचनादानम्[सम्पादयतु]

लोकसभाध्यक्षः यदा सदने भाषणं करोति, तदा तस्य भाषणं सर्वे सदस्याः ध्यानेन शृण्वन्ति । यदि कोऽपि सदस्यः अध्यक्षस्य भाषणकाले किमपि वदति, तर्हि सः दण्डार्हः भवति । अतः यदा कदापि लोकसभाध्यक्षः स्वभाषणाय सज्जः भवति, तस्मात् पुरा एव सर्वे सदस्याः स्वस्थाने उपविशन्ति । [३]

संसदीयसमितीनां निरीक्षणं, नियन्त्रणं च[सम्पादयतु]

लोकसभाध्यक्षः समितीनां गोष्ठीस्थानं निर्धारयति । सदस्यानाम् आवासव्यवस्थायाः दायित्वं, दूरवाण्या सन्देशप्रदानस्य दायित्वं, संसदीयपत्राणां मुद्रणस्य दायित्वं च लोकसभाध्यक्षः एव वहति [३] । लोकसभाध्यक्षः सदने प्रवेशाय पत्रकारेभ्यः, दर्शकेभ्यः, प्रतिनिधिभ्यः च अनुमतिं यच्छति । लोकसभाध्यक्षेण अनुमतिप्राप्ताः जनाः यदि सदने दुर्व्यवहारं कुर्वन्ति, तर्हि लोकाध्यक्षः तेभ्यः दण्डं दातुं समर्थः भवति [३]

उपाध्यक्षः[सम्पादयतु]

भारतीयसंविधानस्य ९३ तमे अनुच्छेदे उपाध्यक्षस्य विषये अपि उल्लिखितम् अस्ति [१] । तस्यानुच्छेदानुसारम् उपाध्यक्षः अध्यक्षस्यानुपस्थितौ सदनस्य अध्यक्षतां करोति । उपाध्यक्षस्य नियुक्तिः, पदच्युतिः अध्यक्षस्य पदच्युतिवदेव भवति । पक्षपातस्य आक्षेपे सिद्धे सति तस्य पदच्युतिः भवति । उपाध्यक्षः यदि कस्यांश्चित् समित्यां सदस्यः भवति, तर्हि सः स्वतः एव तस्याः समितेः अध्यक्षः भवति [४] । उपाध्यक्षस्य चयनं निर्वाचनमाध्यमेन भवति [१]

अध्यक्षस्य कार्यभाराधिक्यत्वात् उपाध्यक्षः सदनस्य कार्यं करोति । यथा अध्यक्षस्य पार्श्वे विधेयकसम्बद्धाः अधिकाराः सन्ति, तथैव उपाध्यक्षस्य पार्श्वे अपि भवन्ति । परन्तु उपाध्यक्षस्य निर्णयेन यदि अध्यक्षः सन्तुष्टः न भवति, तर्हि अध्यक्षः तं निर्णयं परिवर्तयितुं शक्नोति । कुत्रचित् उपाध्यक्षः अन्तिमनिर्णयम् अकृत्वा अध्यक्षस्य मतस्य प्रतीक्षां करोति ।

उपाध्यक्षः यदा अध्यक्षत्वेन कार्यं न करोति, तदा सः सदनस्य चर्चायां भागं वोढुं, मतदानं कर्तुं च प्रभवति । परन्तु यदा सः अध्यक्षत्वेन कार्यं करोति, तदा तेन निर्णयात्मकस्य भूमिका ऊह्या एव । उपाध्यक्षः स्वदलस्य कार्याणि अपि कर्तुं प्रभवति । परन्तु एतावता न केनापि उपाध्यक्षेण स्वदलस्य कार्येण सह उपाध्यक्षत्वेन कार्यं कृतम् । सर्वे पक्षात् भिन्नम् उपाध्यक्षत्वेनैव स्वदायित्वम् अवहन् ।

सभापतितालिका[सम्पादयतु]

लोकसभाध्यक्षः, उपाध्यक्षः च यदा अनुपस्थितौ भवतः, तदा सदनस्य कार्यं सभापतितालिका वहति [३] । एतस्याः सभापतितालिकायाः रचना निर्वाचनमाध्यमेन सदनसदस्यानां मतेन भवति ।

लोकसभाध्यक्षाणां चित्रवीथिका[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

लोकसभाध्यक्षस्य जालस्थानम्

लोकसभाध्यक्षानां वृत्तान्तम्

उद्धरणम्[सम्पादयतु]

  1. १.० १.१ १.२ "भारतीयसंविधानम्, अनुच्छेदः ९३", भारतगणराज्यम्, २६/१/१९५०.  उद्धरणे दोषः : <ref> अमान्य टैग है; "अनुच्छेदः ९३" नाम कई बार विभिन्न सामग्रियों में परिभाषित हो चुका है उद्धरणे दोषः : <ref> अमान्य टैग है; "अनुच्छेदः ९३" नाम कई बार विभिन्न सामग्रियों में परिभाषित हो चुका है
  2. २.० २.१ २.२ २.३ "भारतीयसंविधानम्, अनुच्छेदः ९४ ए", भारतगणराज्यम्, २६/१/१९५०.  उद्धरणे दोषः : <ref> अमान्य टैग है; "अनुच्छेदः ९४" नाम कई बार विभिन्न सामग्रियों में परिभाषित हो चुका है उद्धरणे दोषः : <ref> अमान्य टैग है; "अनुच्छेदः ९४" नाम कई बार विभिन्न सामग्रियों में परिभाषित हो चुका है उद्धरणे दोषः : <ref> अमान्य टैग है; "अनुच्छेदः ९४" नाम कई बार विभिन्न सामग्रियों में परिभाषित हो चुका है
  3. ३.० ३.१ ३.२ ३.३ ३.४ ३.५ ३.६ "भारतीयसंविधानम्, लोकसभाप्रक्रिया एवं कार्यसञ्चालनसम्बद्धः नियमः १९५८ नियमः ४३, १७४, १८७, ६४", भारतगणराज्यम्, १९५८.  उद्धरणे दोषः : <ref> अमान्य टैग है; "नियमः १९५८" नाम कई बार विभिन्न सामग्रियों में परिभाषित हो चुका है उद्धरणे दोषः : <ref> अमान्य टैग है; "नियमः १९५८" नाम कई बार विभिन्न सामग्रियों में परिभाषित हो चुका है उद्धरणे दोषः : <ref> अमान्य टैग है; "नियमः १९५८" नाम कई बार विभिन्न सामग्रियों में परिभाषित हो चुका है उद्धरणे दोषः : <ref> अमान्य टैग है; "नियमः १९५८" नाम कई बार विभिन्न सामग्रियों में परिभाषित हो चुका है उद्धरणे दोषः : <ref> अमान्य टैग है; "नियमः १९५८" नाम कई बार विभिन्न सामग्रियों में परिभाषित हो चुका है उद्धरणे दोषः : <ref> अमान्य टैग है; "नियमः १९५८" नाम कई बार विभिन्न सामग्रियों में परिभाषित हो चुका है
  4. "लोकसभावादाः ग्रन्थः-९", भारतगणराज्यम्, १९५४. 
"https://sa.wikipedia.org/w/index.php?title=लोकसभाध्यक्षः&oldid=318117" इत्यस्माद् पुनः प्राप्तिः