लोकसभा

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
लोकसभा
Lok Sabha

लोक सभा
षोडशी लोकसभा
Emblem of India.svg
भारतस्य राष्ट्रियप्रतीकः
प्रकारः
प्रकारः
निम्नगृहम् भारतस्य संसद्
नेतृत्वम्
उपलोकसभाध्यक्षः
एम्. तम्बिदुराय, ए आई डि एम् के
नरेन्द्र मोदी, भारतीयजनतापक्षः
रिक्तम् [१]
संरचना
सदस्यसंख्या ५४३ (५४३ निर्वाचिताः + २ सदस्यौ भारतस्य राष्ट्रपतिना प्रस्तावितौ)[२]
राजनैतिकसङ्घाः
नरेन्द्रमोदिनः मन्त्रिमण्डलम् (३३७)

राष्ट्रियगणतान्त्रिकसन्धिः (३३७)


विपक्षाः (२०३)

संयुक्तप्रगतिशीलसन्धिः (४८)

जनतापरिवारः दलम् (१४)

असंयुक्तानि दलानि (१२८)

साम्यवादिनः पक्षाः (१०)

     निर्दलीयाः (३)

     लोकसभाध्यक्षः, बि जे पि (१)

     रिक्तम् (२)
निर्वाचनानि
अन्तिमं निर्वाचनम्
सामान्यनिर्वाजनम् (अप्रैस-मई २०१४)
अग्रिमं निर्वाचनम्
सामान्यनिर्वाचनम्, २०१९
ध्येयम्
धर्मचक्रपरिवर्तनाय
सभास्थानम्
भारतीयसंसदः स्थानाधारितस्थितिः
लोकसभामण्डलानि, संसद्भवनम्, संसदः मार्गः, नवदेहली
जालस्थानम्
loksabha.gov.in

लोकसभा ( ( शृणु) /ˈlkəsbhɑː/) (आङ्ग्ल: House of People, हिन्दी: निम्नसदन, लोकसभा) भारतगणराज्यस्य संसदः निम्नसदत्वेन परिगण्यते । धर्मचक्रपरिवर्तनाय लोकसभायाः ध्येयवाक्यम् अस्ति । भारतगणराज्यस्य नागरिकाणां मतदानेन एतस्य सदनस्य प्रतिनिधीनां चयनं भवति [३]भारतीयसंविधाने लोकसभायाः सदस्यानाम् अधिकतमसङ्ख्या ५५२ निर्धारिता अस्ति । लोकसभायाः प्रत्येकः सदस्यः पञ्चलक्षात् सार्धसप्तलक्षजनानां प्रतिनिधित्वं करोति । पञ्चशताधिकं त्रिंशत् (५३०) सदस्याः राज्यानां, विंशतिः (२०) सदस्याः च केन्द्रशासितप्रदेशानां प्रतिनिधित्वं कुर्वन्ति । लोकसभायाः कार्यकालः पञ्चवर्षीयः भवति [४]

सदस्यानां सङ्ख्या [५][सम्पादयतु]

संसदः प्रारूपसमित्या लोकसभायाः सदस्यानाम् अधिकतमसङ्ख्या ५०० निर्धारिता आसीत् । ततः भारतगणराज्यस्य राज्यानां पुनर्रचनानन्तरं लोकसभासदस्यानाम् अधिकतमसङ्ख्या वर्धयित्वा ५५२ अभवत् । लोकसभायाः प्रत्येकः सदस्यः पञ्चलक्षात् सार्धसप्तलक्षजनानां प्रतिनिधित्वं करोति । पञ्चशतं (५३०) सदस्याः राज्यानां, विंशतिः (२०) सदस्याः च केन्द्रशासितप्रदेशानां प्रतिनिधित्वं करिष्यन्ति इति निर्णयः अभवत् [५]राष्ट्रपतिः एङ्ग्लो-इण्डियन्-समुदायस्य द्वौ सदस्यौ न्ययुङ्कते । परन्तु एतयोः सदस्ययोः नियुक्तिः तदैव भवति, यदा लोकसभायाम् एतस्य समुदायस्य प्रतिनिधितवं कर्तुं न कोऽपि स्यात् [५]

लोकसभायाः खण्डः[सम्पादयतु]

संसद्भवनस्य एकस्मिन् भागे लोकसभायाः खण्डः अस्ति । सः खण्डः वर्तुलाकारः अस्ति । तस्य वर्तुलाकारखण्डस्य मध्ये लोकसभाध्यक्षस्य पीठिका भवति । लोकसभाध्यक्षस्य सम्मुखं U आकारेण सदस्यानाम् आसन्दाः भवन्ति । लोकसभाध्यक्षस्य पीठिकायाः सदनसदस्यानाम् आसन्दानां मध्ये लोकसभायाः महामन्त्रिणः (Secretary General) लम्बचतुष्कोणाकारस्य पीठिका भवति । सः लोकसभामहामन्त्री सदनस्य कार्यस्य शब्दशः लेखनं करोति । लोकसभामहामन्त्रिणः पीठिकायाः अग्रे ‘गृहपीठिका’ (Table of house) भवति । तस्यां पीठिकायाम् आवश्यकाः प्रलेखाः (documents) भवन्ति । महामन्त्रिणः पीठिकाम् अभितः रिक्तः भागः भवति । सः भागः अन्तरालखण्डत्वेन (Well of the house) प्रसिद्धः अस्ति । वादविवादकाले कोऽपि सदस्यः एतस्मिन् अन्तरालखण्डे प्रविष्टुं न शक्नोति इति नियमः अस्ति [६] । सामान्यतः अध्यक्षस्य दक्षिणपार्श्वस्य, वामपार्श्वस्य उत्पीठिकायां क्रमेण प्राप्तबहुमतपक्षस्य सदस्याः, अन्यसदस्याः च तिष्ठन्ति ।

लोकसभाखण्डस्य परिकल्पना अत्यानुकूला अस्ति । वातानुकूलस्य, ध्वनिरोधकस्य, आवागमनस्य च व्यवस्थां ध्यात्वा तस्य खण्डस्य रचना कृता अस्ति । ध्वनिविस्तारकाः (loudspeakers), ध्वनिवर्धकाः (Micks), व्यजनानि, अनुवादकयन्त्राणि च खण्डे भवन्ति । एतानि साधनानि गृहस्य कार्यं सुकरं कर्तुं सांसदाः उपयुजन्ति । संसदः लोकसभासदनस्य प्रत्येकनिमेषस्य व्ययः २३,००० रूप्यकाणि भवन्ति (२००४) [६]

लोकसभाराज्यसभयोः सम्बन्धः[सम्पादयतु]

लोकसभायाः अपेक्षया राज्यसभायाः पार्श्वे अधिकाराः न्यूनाः भवन्ति । परन्तु विधेयकाः उभयोः सदनयोः समर्थनेनैव सिद्धाः भवन्ति । लोकसभायाः शक्तिः, अधिकाराः, प्रभावः राज्यसभायाः अपेक्षया अधिकः वर्तते । केन्द्रसर्वकारस्य मन्त्रिमण्डलं लोकसभां प्रति एव उत्तरदायि भवति । वित्तसम्बद्धविधेयकान् विहाय राज्यसभालोकसभयोः शक्तिः समाना वर्तते । परन्तु वित्तसम्बद्धविधेयकानां चर्चा केवलं लोकसभायाम् एव भवति ।

उभयोः सदनयोः कस्मिंश्चित् विधेयके सिद्धे सति षण्मासाभ्यान्तरे राष्ट्रपतिः राज्यसभालोकसभासदस्यानां संयुक्ताधिवेशनस्य आयोजनं कर्तुं शक्नोति । लोकसभाध्यक्षः तस्याधिवेशनस्य अध्यक्षतां करोति । तस्मिन् संयुक्ताधिवेशने यदि २/३ प्रतिशत्सदस्याः विधेयकस्य समर्थनं कुर्वन्ति, तर्हि सः विधेयकः संसदा सिद्धः कृतः इति मन्यते [७] । ततः राष्ट्रपतेः हस्ताक्षरानन्तरं सः विधेयकः संविधानस्य भागः भवति । राज्यसभायाः अपेक्षया लोकसभायाः सदनस्य सद्स्यसङ्ख्या अधिका भवति । अतः स्वाभाविकम् अस्ति यत्, विधेयकस्य निर्णये लोकसभायाः सदस्यानां मतानि निर्णायकत्वं धरन्ते ।

वित्तीयविधेयकाः प्रप्रथमं लोकसभायाम् एव प्रस्थापनीयाः इति संविधाने उल्लेखः विद्यते [८] । ततः विधेयके सिद्धे सति उच्चसदनं स्वपरामर्शान् योजयित्वा चतुर्दशदिनेषु लोकसभायै प्रतिप्रेषयति [८] । राज्यसभया दत्तान् परामर्शान् अङ्गीकर्तुं लोकसभा स्वतन्त्रा भवति । यद्यपि भारतीयसंविधानेन राज्यसभायाः अपेक्षया लोकसभायै शक्तिः अधिका प्रदत्ता, तथापि द्वितीयसदनत्वेन सशक्तरीत्या कार्यं कर्तुम् अवसरः संविधानेन राज्यसभायै तु प्रदत्त एव ।

लोकसभायाः सत्रम्[सम्पादयतु]

लोकसभायाः द्वे सत्रे अनिवार्यत्वेन भवेताम् इति भारतीयसंविधानानुसारम् । द्वयोः सत्रयोः मध्ये षण्मासाधिक्यस्य विरामः न भवेत् । परन्तु भारतीयलोकसभायां त्रिसॄणां सत्राणां परिपाटिः बहुभ्यः वर्षेभ्यः अस्ति । तानि त्रीणि सत्राणि शीतसत्रं, ग्रीष्मसत्रं, वर्षासत्रं च । सदनस्य आरम्भ-पूर्णाहुतयोः दायित्वं राष्ट्रपतिः वहति । परन्तु यदा लोकसभायाः कार्यं चलदस्ति, तदा आरम्भ-पूर्णाहुतयोः दायित्वं लोकसभाध्यक्षः वहति [६] । सदनस्य आहत्यसङ्ख्यायाः दशप्रतिशत्सदस्यानाम् उपस्थितिः लोकसभायाः कार्यसाधकसङख्या (quorum) भवति । सत्रस्य कार्ये नूनातिनूनं दशप्रतिशत् सदस्याः अनिवार्याः । अर्थात् ५५२ सदस्येषु ५६ सदस्यानाम् उपस्थितिः आवश्यकी ।

संसदि स्थानानां प्रकारः, सङ्ख्या च[सम्पादयतु]

सामान्यनिर्वाचनक्षेत्राणि- ४२३ अनुसूचितजातेः आरक्षितनिर्वाचनक्षेत्राणि- ७९ अनुसूचितजनजातेः आरक्षितनिर्वाचनक्षेत्राणि- ४१ आङ्ग्ल-भारतीयसमुदायस्य कृते निर्धारिते स्थाने- २ आहत्य स्थानानि = ५४५(५४३+२)

निर्वाचनम्[सम्पादयतु]

लोकसभायाः निर्वाचने वयस्कनागरिकाः स्वप्रतिनधये मतदानं कुर्वन्ति । ६१ तमे वर्षे अनुच्छेदानुसारम् अष्टादशवर्षीयः नागरिकः मताधिकारित्वेन परिगण्यते । निर्वाचनस्य व्यवस्था निर्वाचनायोगः करोति । लोकसभायाः निर्वाचने यः पक्षः स्वबहुमतं सिद्धयितुं समर्थः भवति, तस्य पक्षस्य नेता प्रधानमन्त्रिणः पदे आरूढः भवति ।

लोकसभायाम् अधिकारिणः[सम्पादयतु]

लोकसभायाः कार्यं सुचारुरीत्या चालयितुं सदने अध्यक्षस्य व्यवस्था भवति । यतो हि विधेयकविषयक्यः चर्चाः वाद-विवादैः परिपूर्णाः भवन्ति । तस्मिन् वाद-विवादकाले सुव्यवस्थितरीत्या सदनस्य कार्यं कर्तुं, पक्ष-प्रतिपक्षयोः मध्ये मध्यस्थतां कर्तुम् अध्यक्षः तत्परः भवति ।

लोकसभाध्यक्षः[सम्पादयतु]

लोकसभाध्यक्षः लोकसभायाः सदस्येषु अन्यतमः भवति । लोकसभायाः कार्यं सुचारुरीत्या चालयितुं लोकसभायाः सदस्याः निर्वाचनप्रक्रियया लोकसभाध्यक्षस्य चयनं कुर्वन्ति । विधानमण्डले विधेयकनिर्माणस्य महत्त्वपूर्णं दायित्वं विधायिकायाः सदस्यानाम् अस्ति । विधेयकस्य विषये चर्चां कुर्वन्तः सदस्याः वाद-विवादं कुर्वन्ति इति स्वाभाविकम् एव, आवश्यकं च । परन्तु वाद-विवादस्य नियमनस्य अपि आवश्यकता भवति । अतः अध्यक्षः सदस्येषु यस्मिन् विषये वादः भवन् अस्ति, तस्मिन् विषये निष्पक्षतया निर्णयं स्वीकरोति । न्यायपालिकायाः निष्पक्षतायाः यथा माहत्म्यं वर्तते, तथैव लोकसभायां निष्पक्षतायाः माहत्म्यं वर्तते । यतो हि लोकसभाध्यक्षस्य पक्षपातपूर्णः व्यवहारः लोकतन्त्रस्य उपरि साक्षात् प्रहारः भवति । अतः पक्षनैष्ठिकस्य लोकसभाध्यक्षस्य अपेक्षया देशनिष्ठस्य लोकसभाध्यक्षस्य चयनम् आवश्यकं भवति । लोकसभाध्यक्षस्य अनुपस्थितौ उपाध्यक्षः लोकसभाध्यक्षस्य प्रतिनिधित्वं करोति । तयोः उभयोः अनुपस्थितौ संसदा निर्मिता एका सभापतितालिका सदनस्य कार्यभारं वहति ।

उपाध्यक्षः[सम्पादयतु]

भारतीयसंविधानस्य ९३ तमे अनुच्छेदे उपाध्यक्षस्य विषये अपि उल्लिखितम् अस्ति [९] । तस्यानुच्छेदानुसारम् उपाध्यक्षः अध्यक्षस्यानुपस्थितौ सदनस्य अध्यक्षतां करोति । उपाध्यक्षस्य नियुक्तिः, पदच्युतिः अध्यक्षस्य पदच्युतिवदेव भवति । पक्षपातस्य आक्षेपे सिद्धे सति तस्य पदच्युतिः भवति । उपाध्यक्षः यदि कस्यांश्चित् समित्यां सदस्यः भवति, तर्हि सः स्वतः एव तस्याः समितेः अध्यक्षः भवति [१०] । उपाध्यक्षस्य चयनं निर्वाचनमाध्यमेन भवति [९]

अध्यक्षस्य कार्यभाराधिक्यत्वात् उपाध्यक्षः सदनस्य कार्यं करोति । यथा अध्यक्षस्य पार्श्वे विधेयकसम्बद्धाः अधिकाराः सन्ति, तथैव उपाध्यक्षस्य पार्श्वे अपि भवन्ति । परन्तु उपाध्यक्षस्य निर्णयेन यदि अध्यक्षः सन्तुष्टः न भवति, तर्हि अध्यक्षः तं निर्णयं परिवर्तयितुं शक्नोति । कुत्रचित् उपाध्यक्षः अन्तिमनिर्णयम् अकृत्वा अध्यक्षस्य मतस्य प्रतीक्षां करोति ।

उपाध्यक्षः यदा अध्यक्षत्वेन कार्यं न करोति, तदा सः सदनस्य चर्चायां भागं वोढुं, मतदानं कर्तुं च प्रभवति । परन्तु यदा सः अध्यक्षत्वेन कार्यं करोति, तदा तेन निर्णयात्मकस्य भूमिका ऊह्या एव । उपाध्यक्षः स्वदलस्य कार्याणि अपि कर्तुं प्रभवति । परन्तु एतावता न केनापि उपाध्यक्षेण स्वदलस्य कार्येण सह उपाध्यक्षत्वेन कार्यं कृतम् । सर्वे पक्षात् भिन्नम् उपाध्यक्षत्वेनैव स्वदायित्वम् अवहन् ।

सभापतिलिका[सम्पादयतु]

लोकसभाध्यक्षः, उपाध्यक्षः च यदा अनुपस्थितौ भवतः, तदा सदनस्य कार्यं सभापतितालिका वहति [११] । एतस्याः सभापतितालिकायाः रचना निर्वाचनमाध्यमेन सदनसदस्यानां मतेन भवति [११]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

http://india.gov.in/sites/upload_files/npi/files/coi_part_full.pdf

सन्दर्भः[सम्पादयतु]

  1. "विपक्षनेतुः पदं कॉङ्ग्रेस-पक्षाय न दीयते". The Hindu. Retrieved ३०-०७-२०१५. 
  2. "लोकसभा". parliamentofindia.nic.in. Retrieved ३०-७-२०१५. 
  3. "भारतीयसंविधानम्, अनुच्छेदः ८१", भारतगणराज्यम्, २६/१/१९५०. 
  4. "भारतीयसंविधानम्, अनुच्छेदः ८३", भारतगणराज्यम्, २६/१/१९५०. 
  5. ५.० ५.१ ५.२ "भारतीयसंविधानम्, अनुच्छेदः ८०", भारतगणराज्यम्, २६/१/१९५०. 
  6. ६.० ६.१ ६.२ रक्षा व्यास (२००४). लोकसभास्थानम्. . गुजरात विश्वकोश ट्रस्ट् प्रकाशन. p. ४९. 
  7. "भारतीयसंविधानम्, अनुच्छेदः ९३", भारतगणराज्यम्, २६/१/१९५०. 
  8. ८.० ८.१ "भारतीयसंविधानम्, अनुच्छेदः १०९", भारतगणराज्यम्, २६/१/१९५०. 
  9. ९.० ९.१ "[[भारतीयसंविधानम्]], अनुच्छेदः ९३". भारतगणराज्यम्. २६/१/१९५०.  Wikilink embedded in URL title (help)
  10. "लोकसभावादाः ग्रन्थः-९". भारतगणराज्यम्. १९५४. 
  11. ११.० ११.१ "[[भारतीयसंविधानम्]], लोकसभाप्रक्रिया एवं कार्यसञ्चालनसम्बद्धः नियमः १९५८ नियमः ९५". भारतगणराज्यम्. १९५८.  Wikilink embedded in URL title (help)
"https://sa.wikipedia.org/w/index.php?title=लोकसभा&oldid=302901" इत्यस्माद् पुनः प्राप्तिः