शिवसेना

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search
शिवसेना
अध्यक्षः उद्धव ठाक्रे
निर्माणम् १९ जुन्,१९६६
महिलाविभागः शिवसेनामहिला अघडी
विचारधारा हिन्दुत्व
माराठीराष्ट्रवादः
राजनैतिकस्थितिः दक्षिणपन्थी
वर्णः अरुणवर्णः
मैत्रीकूटः राष्ट्रियगणतान्त्रिकमैत्रीकुटः
लोकसभासदस्यसंख्या
१८ / ५४५
राज्यसभासदस्यसंख्या
४ / २४५
विधानसभासदस्यसंख्या
६३ / २८८
निर्वाचनचिह्नम्
शर-धनुषः
जालस्थानम्
www. shivsena.org

शिवसेना(shiv sena) हिन्दुत्वस्य प्रतिपादकः तीव्रहिन्दुत्ववादी राजनैतिकपक्षः। अस्य स्थापना १९६६तमे वर्षे जूनमासस्य १९ दिनाङ्के बाळासाहेब ठाक्रेमहोदयेन कृता ।

बाळासाहेब ठाक्रे

विवरणम्[सम्पादयतु]

  • शिवसेना नाम हिन्दूदेवताशिवस्य सैन्यवाहिनी । शिवसेनापक्षः भारतवर्षस्य विभिन्नप्रान्ततः मुम्बई-नगरागतजनानां विरुद्धे विरोधं प्रदर्शयति । पक्षोऽयं माराठीराष्ट्रवादं समर्थयति । शिवसेनापक्षस्य अध्यक्षः बाळासाहेब ठाक्रेमहोदयस्य देवलोकप्रयाणान्तरं उद्धव ठाक्रे अभूत् ।
  • शिवसेनापक्षः प्राथमिकावस्थायां महाराष्ट्रराज्ये आसीत् परन्तु प्रतिष्ठानन्तरवर्तीकाले समग्रदेशव्यापी विस्तारः जातः । १९७० शतके पक्षोऽयं क्रमशः माराठीराष्ट्रवादं त्यक्त्वा हिन्दूराष्ट्रवादं समर्थितवान् । विचारधारागतसाम्यतावशात् शिवसेनापक्षः भारतीयजनतापक्षेण सह मैत्रीस्थापनम् अकरोत् ।
  • पक्षोऽयं बहुवारं महाराष्ट्रराज्यसर्वकारगठनम् अकरोत् । शिवसेनापक्षः राष्ट्रियजनतान्त्रिकमैत्रीकुटस्य केन्द्रसर्वकारे (१९९८-२००४) मुख्यसहयोगी आसीत् ।

इतिहासः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=शिवसेना&oldid=332336" इत्यस्माद् पुनः प्राप्तिः