सामग्री पर जाएँ

द्राविडमुन्नेत्रकळगम्(डि.एम्.के)

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
द्राविडमुन्नेत्रकळगम् (डि एम् के)
अध्यक्षः एमके स्टालिन
निर्माणम् 1949
संवादपत्रिका मुरासोलि एवं "दि राइजिङ्ग् सान्"
श्रमिकविभागः प्रगतिशीलश्रमिकसंगठनम् (लेवर् प्रोग्रेसिव फेडारेसन्)
विचारधारा सामाजिकगणतन्त्रम्
जनप्रीयतावादः
राजनैतिकस्थितिः केन्द्र-वाम
मैत्रीकूटः राष्ट्रियजनतातान्त्रिकमैत्रीकुटः (एन् डि ए) (१९९९-२००४)
संयुक्तप्रगतिशीलमैत्रीकुटः(यु पि ए) (२००४-२०१३)
लोकसभासदस्यसंख्या
१८ / ५४५
राज्यसभासदस्यसंख्या
 / २४५
विधानसभासदस्यसंख्या
२३ / २३४
जालस्थानम्
http://www.dmk.in

प्रसङ्गः

[सम्पादयतु]

द्राविडमुन्नेत्रकळगम्(DMK) इति दक्षिणभारतीयप्रान्तस्य एकः राजनैतिकपक्षः । डि एम् के इति नाम्ना अपि पक्षोऽयं ख्यातः । न्यायपक्ष-(जस्टिस् पार्टी)द्राविड़कळगपक्षयोः विभाजितरूपः द्राविडमुन्नेत्रकळगपक्षः । १९४९ तमे वर्षे अस्य पक्षस्य स्थापना अभवत् । वर्तमाने एम करुणानिधिः द्राविडमुन्नेत्रकळगपक्षस्य अध्यक्षरूपेण विराजमानः अस्ति ।

विवरणम्

[सम्पादयतु]

न्यायपक्षः(जस्टिस् पार्टी) (१९१६-१९४४)

[सम्पादयतु]
सञ्चिका:Thanthai Periyar.jpg
"पेरियार"महोदयः
  • न्यायपक्षः(जस्टिस् पार्टी) द्राविडमुन्नेत्रकळगपक्षस्य मूलं भवति । १९१६ तमे वर्षे न्यायपक्षस्य(जस्टिस् पार्टी) स्थापना अभूत् । पि त्यागराया चेट्टि महोदयः अस्य पक्षस्य प्रतिष्ठाता आसीत् । न्यायपक्षस्य मुख्यः उद्देश्यः आसीत् सामाजिकसमानता एवं सर्वसामाजिकवर्गं प्रति न्यायः । न्यायपक्षः मद्रासप्रेसिडेन्सी-प्रथमसाधारणनिर्वाचने(१९२०) विजयी अभूत् ।
  • १९१९ तमे वर्षे न्यायपक्षस्य प्रमुखसदस्यः इरोड वेंकट नायकर रामासामी (पेरियर्) प्रसिद्धसमाजसंस्कारकः भारतीयकांग्रेसपक्षं प्रविष्टवान् । न्यायपक्षे ब्राह्मणनेतृत्वस्य विरोधं कृत्वा सः पदत्यागं कृतवान् । १९२६ तमे वर्षे "पेरियर्"महोदयः "स्वाभिमानः" इति आन्दोलनं ब्राह्मण्यवादस्य विरोधे कृतवान् ।
  • १९३५ तमे वर्षे सः भारतीयकांग्रेसपक्षात् पुनः न्यायपक्षे आगतवान् । १९३७ न्यायपक्षस्य मद्रासप्रेसिडेन्सी-प्रथमसाधारणनिर्वाचने भारतीयकांग्रेसपक्षेण(सि राजगोपालाचारि महोदयस्य नेतृत्वे) पराजयः अभवत् । सि राजगोपालाचारि महोदयः "हिन्दीभाषा"आवश्यिकविषयरूपेण पाठनीय इति प्रस्तावं निर्वाचनकालिनप्रचारे घोषितवान् । यद्यपि न्यायपक्षः(जस्टिस पार्टी) हिन्दीविरोधीप्रचारं निर्वाचनिप्रचारे करोति स्म ।

द्राविडकळगम् (१९४४-१९४९)

[सम्पादयतु]
  • १९४४ वर्षस्य अगस्ट्-मासे "पेरियार"महोदयः द्राविडकळगम् इति पक्षस्य स्थापनाम् अकरोत् । "पेरियार"महोदयः न्यायपक्षं परित्याज्य "स्वाभिमान"आन्दोलनस्य सालेमसम्मेलने द्राविडकळगम् इति पक्षस्य स्थापनाविषयकघोषणां कृतवान् । वस्तुतः द्राविडकळगम् इति राजनैतिकपक्षः न भुत्वा आन्दोलनरूपेण एव अधिकप्रचारितासीत् ।

द्राविडमुन्नेत्रकळगम् (डि एम् के) (१९४९- )

[सम्पादयतु]
  • अनन्तरवर्तीकाले "पेरियार"महोदयः तथा इतरसदस्यानां मध्ये विविधविषयेषु मतान्तरमासीत् । १९४९ तमे वर्षे अनेके सदस्याः सि एन् अण्णाडुराइ-महोदयस्य नेतृत्वे पक्षत्यागं कृतवान्तः । किंचित् अधिकवयसि "पेरियार"महोदयस्य मण्याम्माइ नामा युवत्याः साकं विवाहः अभवत् । सः स्वपत्नीं पक्षाऽध्यक्षारूपेण घोषितवान्, येन पक्षस्य वरिष्ठकार्यकर्तारः शोकग्रस्ताः आसन् । घोषणायाः प्राक् "पेरियार"महोदयस्य भ्रातृज इ वि के सम्पत् पक्षाध्यक्षासीत् ।
  • १९४९ वर्षे सेप्टेम्बर्-मासस्य सप्तदशदिनाङ्के सि एन् अण्णाडुराइ-महोदयः अन्यवरिष्ठसहयोगीकार्यकर्तान् (वि आर् नेडुञ्चेळियन्, के ए मतियळगन्, एन् वि नटराजन्, इ वि के सम्पत् प्रमुखाः) नीत्वा मद्राजनगरे रायपुर-रविन्सन्-उद्याने सहस्रजनगणस्य पुरतः द्राविडमुन्नेत्रकळगम् (डि एम् के)इति पक्षस्य प्रतिष्ठापनाम् अकरोत् ।

एम् जी रामचन्द्रन्-प्रवेशः

[सम्पादयतु]
सञ्चिका:MGR Mathialagan Anna Rajaji Karunanidhi.jpg
एम् जी रामचन्द्रन्, के ए मतियळगन्, सि एन् अण्णडुराइ, सि राजगोपालाचारि, ए के जयकुमार एवं एम् करुणानिधि
  • १९५३ तमे वर्षे एम् जी रामचन्द्रन् (एम् जी आर्)-महोदयः द्राविड मुन्नेत्र कळगम्-पक्षे आगतवान् । वरिष्ठः तथा जनप्रीयोऽयं नेता पक्षस्य पताका एवं प्रतीकं चलच्चित्रमाध्यमेन प्रचारं कृतवान् यथा- "अण्बे वा" । अण्णाडुराइ-महोदयः पृथक् द्राविडनाडुदेशम् इच्छन्ति स्म । परन्तु १९६२ तमे वर्षे चीनदेशेन सह युद्धकाले डि एम् के-पक्षः तस्य सिद्धान्तपरिवर्तनम् अकरोत् । यदा युद्धसमाप्तम् अभवत् तदा जनमनसि राष्ट्रभावं दृष्ट्वा पक्षः पृथक् द्राविडनाडुदेशविषयकप्रस्तावं त्यक्तवान्।
  • १९६७ तमे वर्षे डि एम् के-पक्षः बहुकालम् अनन्तरं पुनः मद्रासप्रेसिडेन्सी विजीतः । वस्तुतस्तु अयमेव विजयः डि एम् के-युगस्य प्रारम्भम् अकरोत् । तथा मद्रासप्रेसिडेन्सी अनन्तरवर्तीकाले तमिऴनाडुराज्यम् अभवत् ।
  • १९६९ तमे वर्षे सि एन् अण्णडुराइ परलोकं गतवान् । एम् करुणानिधिः वि आर् नेडुञ्चेळियन् च पक्षस्य उत्तरद्वायित्वं स्वीकृतवन्तौ आस्ताम्। पक्षस्य सधारणाऽध्यक्षः एम् करुणानिधिः अभवत् ।
  • १९७१ तमे वर्षे विधानसभानिर्वाचने डि एम् के-पक्षः भारतीयराष्ट्रियकाङ्ग्रेसपक्षेण सह मैत्रीस्थापनम् अकरोत् । निर्वाचने मैत्रीकुटस्य विजयः जातः । मैत्रीकुटस्य १८३ निर्वाचनकेन्द्रेषु (समग्रः २३४ केन्द्राणि) विजयः अभूत् । एम् करुणानिधिः द्वितीयवारं मुख्यमन्त्रीपदवीं स्वीकृतवान् । विपक्षस्य अधीने केवलानि २५ केन्द्राणि आसन् ।

एम् जी रामचन्द्रनस्य प्रस्थानम्

[सम्पादयतु]

प्रख्यातचलच्चित्राभिनेता एम् जी रामचन्द्रन्-महोदयः द्राविड मुन्नेत्र कळगम्-पक्षस्य विचारधारायाः प्रचार-प्रसारविषये मुख्यभूमिकां पलितवान् । १९७२ तमे वर्षे एम् करुणानिधिमहोदयः स्वस्य स्थापना यदा "तमिळनाडुराज्यस्य मुजिबुर-रहमान्"(तमिळनाट्टिन्-मुजिबुर)-रूपेण कृतवान् तदा विरोधं कृत्वा एम् जी रामचन्द्रन् पक्षत्यागं कृतवान् । पदत्यागं कृत्वा सर्वभारतीय-अण्णा द्राविड मुन्नेत्र कळगम् (ए आइ ए डि एम् के) इति पक्षस्य स्थापनाम् अकरोत् ।

अनन्तरवर्तीपर्यायः

[सम्पादयतु]
मुथुवेल् करुणानिधि
  • १९७७ वर्षस्य विधानसभानिर्वाचने डि एम् के-पक्षस्य पराजयः अभूत् । एम् जी रामचन्द्रनस्य सर्वभारतीय-अण्णा द्राविड मुन्नेत्र कळगम् (ए आइ ए डि एम् के) पक्षः राज्यसर्वकारः गठनम् अकरोत् । एवञ्च क्रमागतः १९८९ तमवर्षाऽवधिः ए आइ ए डि एम् के-पक्षः एव सर्वकारे आसीनः आसीत् । एम् जी रामचन्द्रन्-महोदयस्य मरणोत्तरकाले (डिसेम्बर्, १९८७ वर्षे) ए आइ ए डि एम् के-पक्षः द्विखण्डितः जातः ।
  • १९८९ वर्षस्य विधानसभानिर्वाचने द्राविड मुन्नेत्र कळगम्-पक्षस्य पुनः विजयः अभवत् । १९८९ वर्षस्य जनवरी मासे एम् करुणानिधिःमुख्यमन्त्री अभूत् ।
  • १९९१ तमे वर्षे विधानसभा-लोकसभानिर्वाचने द्वे आस्ताम् । मै-मासस्य २१ दिनाङ्के राजीवगान्धी पक्षस्य प्रचारनिमित्त आगतवान् । एल् टि टि ई आत्मघाती-घातकेन राजीवगान्धेः मृत्युः अभवत् । अस्मात् डि एम् के-पक्षस्य सर्वकारस्य पतनं वर्षद्वयाभ्यन्तरे अभवत् । जयललिता परिचालिता ए आइ ए डि एम् के-पक्षः सर्वकारस्य गठनम् अकरोत् । तथा जयललिता मुख्यमन्त्री च अभूत् ।
  • १९९६ तमे वर्षे निर्वाचने विजयी भुत्वा द्राविड मुन्नेत्र कळगम्-पक्षः पुनः सर्वकारस्य गठनम् अकरोत् ।
  • २००१ तमे वर्षे विधानसभानिर्वाचने ए आइ ए डि एम् के-पक्षः इतरपक्षैः सह मैत्रीं संस्थाप्य द्राविड मुन्नेत्र कळगम्-पक्षस्य सर्वकारस्य पतननिश्चितम् अकरोत् ।
  • २००४ तमे वर्षे डि एम् के-पक्षः भारतीयराष्ट्रियकाङ्ग्रेस-एम् डि एम् के-पि एम् के-पक्षेण सह सन्धिम् अकरोत् । लोकसभानिर्वाचने पक्षस्य बहुकेन्द्रविजयः अभवत् ।
  • २००६ तमे वर्षे विधानसभानिर्वाचने द्राविड मुन्नेत्र कळगम्-पक्षः विजयं प्राप्य एम् करुणानिधिं पञ्चमवारं मुख्यमन्त्रीरूपेण अभिषेकम् अकरोत् ।
  • २०११ तमे वर्षे सर्वभारतीय-अण्णा द्राविड मुन्नेत्र कळगम् (ए आइ ए डि एम् के)पक्षः अध्यक्षा-जयललितानेतृत्वे सर्वकारे आगतः ।

निर्वाचनफलानि

[सम्पादयतु]

मद्रासप्रेसिडेन्सी

[सम्पादयतु]
वर्षःसाधारणनिर्वाचनम्मतदातासंख्याविजीतकेन्द्राणि
१९६२तृतीयविधानसभानिर्वाचनम्३,४३५,६३३५०
१९६७चतुर्थविधानसभानिर्वाचनम्६,२३०,५५२१३७
वर्षःसाधारणनिर्वाचनम्मतदातासंख्याविजीतकेन्द्राणि
१९६२तृतीयलोकसभानिर्वाचनम्२,३१५,६१०
१९६७चतुर्थलोकसभानिर्वाचनम्५,५२४,५१५२५
तमिऴनाडुराज्यम्
तमिऴनाडुराज्यम्
वर्षःसाधारणनिर्वाचनम्मतदातासंख्याविजीतकेन्द्राणि
१९७१पञ्चमविधानसभानिर्वाचनम्७,६५४,३९५१८४
१९७७षष्ठविधानसभानिर्वाचनम्४,२५८,७७१४८
१९८०सप्तमविधानसभानिर्वाचनम्४,१६४,३८९३७
१९८४अष्टमविधानसभानिर्वाचनम्६,३६२,७७०२४
१९८९नवमविधानसभानिर्वाचनम्८,००१,२२२१५०
१९९१दशमविधानसभानिर्वाचनम्५,५३५,६६८
१९९६एकादशविधानसभानिर्वाचनम्११,४२३,३८०१७३
२००१द्वादशविधानसभानिर्वाचनम्८,६६९,८६४३१
२००६त्रयोदशविधानसभानिर्वाचनम्८,७२८,७१६९६
२०११चतुर्दशविधानसभानिर्वाचनम्२३



वर्षःसाधारणनिर्वाचनम्मतदातासंख्याविजीतकेन्द्राणि
१९७४तृतीयविधानसभानिर्वाचनम्४७,८२३
१९७७चतुर्थविधानसभानिर्वाचनम्३०,४४१
१९८०पञ्चमविधानसभानिर्वाचनम्६८,०३०१४
१९८५षष्ठविधानसभानिर्वाचनम्८७,७५४
१९९०सप्तमविधानसभानिर्वाचनम्१०१,१२७
१९९१अष्टमविधानसभानिर्वाचनम्९६,६०७
१९९६नवमविधानसभानिर्वाचनम्१०५,३९२
२००१दशमविधानसभानिर्वाचनम्८३,६७९
२००६एकादशविधानसभानिर्वाचनम्

बाह्यसम्पर्कतन्तुः

[सम्पादयतु]