सर्वभारतीय-अण्णा द्राविड मुन्नेत्र कळगम् (ए आइ ए डि एम् के)

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
सर्वभारतीय-अण्णा द्राविड मुन्नेत्र कळगम्
(ए आइ ए डि एम् के)
अध्यक्षः ऑप्स-ईपीएस
निर्माणम् एम् जी रामचन्द्रन्, १७ अक्टुवर्, १९७२
विचारधारा सामाजिकगणतन्त्रम्
जणप्रीयतावादः
राजनैतिकस्थितिः केन्द्रीय
मैत्रीकूटः राष्ट्रियजनतातान्त्रिकमैत्रीकुटः (एन् डि ए)
(१९९८ एवम् २००४-०६)
तृतीयमैत्रीकुटः (थर्ड् फ्रन्ट्) (२००४-)
लोकसभासदस्यसंख्या
९ / ५४५
राज्यसभासदस्यसंख्या
५ / २४५
विधानसभासदस्यसंख्या
१५८ / २३४
जालस्थानम्
http://aiadmk.com
पक्षस्य पताका

प्रसङ्गः[सम्पादयतु]

सर्वभारतीय-अण्णा द्राविड मुन्नेत्र कळगम् (AIADMK) इति दक्षिणभारतीयप्रान्तस्य एकः राजनैतिकपक्षः । अस्य पक्षस्य स्थापना १९७२ तमे वर्षे स्वर्गीय अभिनेता एवं राजनीतिज्ञः एम जी रामचन्द्रन्(एम जी आर्)-महोदयेन कृता । नेत्री जे जयललिता वर्तमानकाले अस्य पक्षस्य अध्यक्षारूपेण स्थिता । ए आइ ए डि एम् के-पक्षस्य तमिऴनाडुराज्ये तथा पुदुचेरीप्रान्ते अस्तित्व विद्यते । जे जयललिता अभिनेता एम जी रामचन्द्रनेन सह बहुचलच्चित्रे अभिनयं कृतवती । १९८० तमे वर्षे एम जी रामचन्द्रन्-महोदयः जयललितां पक्षे (ए आइ ए डि एम् के) आनीय प्रचारमन्त्रीपदं दत्तवान् । १९८७ तमे वर्षे एम जी रामचन्द्रन्-महोदयस्य मृत्युः अभवत् । अनन्तरं जयललिता राज्यसभासदस्यता-पदत्यागं कृतवती । अनन्तर्वर्तीकाले सा प्रायः अज्ञातवासं गतवती । एम जी रामचन्द्रन्-महोदयस्य पत्नी जानकी रामचन्द्रन् मुख्यमन्त्री च अभूत् ।

ए आइ ए डि एम् के-एम जी रामचन्द्रन् (१९७२-१९८७)[सम्पादयतु]

सञ्चिका:M. G. Ramachandran doing Namaskar.jpg
एम जी रामचन्द्रन्
  • तमिळ्-चलच्चित्राभिनेता एम जी रामचन्द्रन्-महोदयः अण्णा द्राविड मुन्नेत्र कळगम् (ए डि एम् के) इति राजनैतिकपक्षस्य प्रतिष्ठाता । एम् करुणानिधिपरिचालित "द्राविड मुन्नेत्र कळगम् (डि एम् के)" पक्षात् बहिरागत्य ए डि एम् के-गठनं कृतवान् । "सर्वभारतीय"(ए आइ) इति पक्षकार्यकतृणाम् अनन्तरसंयोजनम् ।
  • १९७३ तमे वर्षे अयं पक्षः प्रथमवारं दिन्दिगुल-लोकसभाकेन्द्रे विजयं प्राप्तवान् । अनन्तरं कोयेम्बत्तुर-विधानसभाकेन्द्रमपि जीतवान् । १९७५-७७ आपात्कालं समर्थित्वा ए आइ ए डि एम् के-पक्षः कांग्रेसपक्षस्य समीपं आगतवान् ।
  • १९७७ तमे वर्षे डि एम् के सर्वकारस्य पतनम् अभवत् । सप्तमराज्यमुख्यमन्त्रीरूपेन जुन्-मासस्य ३० दिनाङ्के एम जी रामचन्द्रन्-महोदयस्य अभिषेकः अभवत् । अग्रिमदशेषु वर्षेषु सः एव मुख्यमन्त्री आसीत् । तस्य मृत्युः पर्यन्तं (दिसेम्बर्, १९८७) सः मुख्यमन्त्री आसीत् । एम जी रामचन्द्रन् क्रमशः १९७७,१९८०,१९८४ विधानसभानिर्वाचनेषु अपि सः विजयी आसीत् ।
  • १९७९ तमे संवत्सरे ए आइ ए डि एम् के-पक्षस्य द्वौ सदस्यौ (सत्यवनि मुथु, अरविन्दबालापाजानोर्) प्रथमवारं केन्द्रीयमन्त्रीसभायां स्थानं अधिकृतवन्तौ आस्ताम् । जनतादलपरिचालितसर्वकारे (१९७७-७९) तथा स्वल्पस्थायी-चरणसिंह-मन्त्रीसभायां तौ आस्ताम् ।

ए आइ ए डि एम् के-जानकी रामचन्द्रन् (१९८७-८९)[सम्पादयतु]

सञ्चिका:M. G. Ramachandran with spouse Janaki Ramachandran.jpg
एम जी आर् एवं जानकी रामचन्द्रन्

एम् जी रामचन्द्रन्-महोदयस्य मरणोत्तरं तस्य स्त्री जानकी रामचन्द्रन् पक्षस्य सदस्यता तथा अध्यक्षा पदं च गृहीतवती । सा एव राज्यस्य प्रथमा महिलामुख्यमन्त्री आसीत् । अस्या नेतृत्वाधीनसर्वकारः चतुर्विंशतिदिनानि एव अतिष्ठत् । १९८८ वर्षस्य जनवरी मासाऽनन्तरं राज्ये राष्ट्रपतेः शासनमासीत् । एम् जी रामचन्द्रन्-महोदयस्य अनुयायीनः द्विखण्डिताः अभवन् । केचन् जनाः तस्य स्त्री जानकी रामचन्द्रन् पक्षे तथा अन्ये जे जयललितायाः पक्षे आसन् । दलीयकोन्दलात् विपक्षः द्राविडमुन्नेत्रकळगम्(डि.एम्.के) १९८९ वर्षस्य विधानसभानिर्वाचने विजयी अभूत् ।

ए आइ ए डि एम् के-जयललिता (१९८९-)[सम्पादयतु]

जे जयललिता
जे जयललिता
  • १९९१ तमे वर्षे सर्वभारतीय-अण्णा द्राविड मुन्नेत्र कळगम् (ए आइ ए डि एम् के)-पक्षः जयललितायाः नेतृत्वे पुनः विधानसभानिर्वाचने विजयं प्राप्तवान् । तमिऴनाडुराज्यस्य दशम-मुख्यमन्त्री तथा द्वितीयमहिलामुख्यमन्त्रीरूपेण जे जयललितायाः अभिषेकः अभवत् ।
  • अन्यमतानुसारेण १९९१ तमे वर्षे विधानसभा-लोकसभानिर्वाचने द्वे आस्ताम् । मै-मासस्य २१ दिनाङ्के राजीवगान्धी पक्षस्य प्रचारनिमित्त आगतवान् । एल् टि टि ई आत्मघाती-घातकेन राजीवगान्धेः मृत्युः अभवत् । अस्मात् द्राविडमुन्नेत्रकळगम्(डि.एम्.के)-पक्षस्य सर्वकारस्य पतनं वर्षद्वयाभ्यन्तरे अभवत् ।
  • परन्तु १९९६ तमे वर्षे विधानसभानिर्वाचने सर्वभारतीय-अण्णा द्राविड मुन्नेत्र कळगम् (ए आइ ए डि एम् के)-पक्षस्य महाविपर्ययः जातः । समग्रेषु २३४ विधानसभाकेन्द्रेषु पक्षस्य केवलानि ४ केन्द्राणि एव आसन् । मुख्यमन्त्रीजयललिता अपि स्वकेन्द्रे(बार्गुर्) पराजीता आसीत् ।
  • १९९८-९९ ए आइ ए डि एम् के पक्षः अटलविहारीवाजपेयीकेन्द्रीयसर्वकारे सहयोगीरूपेण आसीत् । परन्तु एकवर्षाभ्यन्तरैव समर्थनं प्रत्याहारम् अकरोत्। तथा पुनः भारतीयराष्ट्रियकाङ्ग्रेस्-पक्षेण सह मैत्रीस्थापनं कृतवान् ।
  • २००१ तमे वर्षे विधानसभानिर्वाचने ए आइ ए डि एम् के-पक्षस्य विजयः अभूत् । समग्रेषु १९७ निर्वाचनकेन्द्रेषु १३२ केन्द्राणि पक्षस्य अधीने आसन् ।
  • २००४ तमे वर्षे डि एम् के-पक्षः भारतीयराष्ट्रियकाङ्ग्रेस-एम् डि एम् के-पि एम् के-पक्षेण सह सन्धिम् अकरोत् । लोकसभानिर्वाचने ए आइ ए डि एम् के-पक्षस्य बहुकेन्द्रेषु पराजयः अभवत् ।
  • २००६ तमे वर्षे विधानसभानिर्वाचने द्राविडमुन्नेत्रकळगम्(डि.एम्.के)-पक्षस्य विजयः अभूत् । एम् करुणानिधिः पञ्चमवारं मुख्यमन्त्रीरूपेण अभिषेकम् अकरोत् ।
  • २०११ तमे वर्षे सर्वभारतीय-अण्णा द्राविड मुन्नेत्र कळगम् (ए आइ ए डि एम् के)पक्षः अध्यक्षा-जयललितानेतृत्वे सर्वकारे आगतः ।

निर्वाचनफलानि[सम्पादयतु]

तमिऴनाडुराज्यम्
तमिऴनाडुराज्यम्

तमिऴनाडुराज्यम्[सम्पादयतु]

वर्षः साधारणनिर्वाचनम् मतदातासंख्या विजीतकेन्द्राणि
१९७७ षष्ठविधानसभानिर्वाचनम् ५,१९४,८७६ १३२
१९७७ षष्ठलोकसभानिर्वाचनम् ५,३६५,०७६ १७
१९८० सप्तमविधानसभानिर्वाचनम् ७,३०३,०१० १२९
१९८० सप्तमलोकसभानिर्वाचनम् ४,६७४,०६४
१९८४ अष्टमविधानसभानिर्वाचनम् ८,०३०,८०९ १३४
१९८४ अष्टमलोकसभानिर्वाचनम् ३,९६८,९६७ १२
१९८९ नवमविधानसभानिर्वाचनम् १४८,६३० २(जानकीपक्षः)
१९८९ नवमविधानसभानिर्वाचनम् २७(जयललितापक्षः)
१९८९ नवमलोकसभानिर्वाचनम् ४,५१८,६४९ ११
१९९१ दशमविधानसभानिर्वाचनम् १०,९४०,९६६ १६४
१९९१ दशमलोकसभानिर्वाचनम् ४,४७०,५४२ ११
१९९६ एकादशविधानसभानिर्वाचनम् ५,८३१,३८३
१९९६ एकादशलोकसभानिर्वाचनम् २,१३०,२८६
१९९८ द्वादशलोकसभानिर्वाचनम् ६,६२८,९२८ १८
१९९९ त्रयोदशलोकसभानिर्वाचनम् ६,९९२,००३ १०
२००१ द्वादशविधानसभानिर्वाचनम् ८,८१५,३८७ १३२
२००४ चतुर्दशलोकसभानिर्वाचनम् ८,५४७,०१४ 0
२००६ त्रयोदशविधानसभानिर्वाचनम् १०,७६८,५५९ ६१
२००९ पञ्चदशलोकसभानिर्वाचनम् ६,९५३,५९१
२०११ चतुर्दशविधानसभानिर्वाचनम् १४,७३८,०४२ १५०