सामग्री पर जाएँ

सर्वभारतीय-अण्णा द्राविड मुन्नेत्र कळगम् (ए आइ ए डि एम् के)

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
सर्वभारतीय-अण्णा द्राविड मुन्नेत्र कळगम्
(ए आइ ए डि एम् के)
अध्यक्षः ऑप्स-ईपीएस
निर्माणम् एम् जी रामचन्द्रन्, १७ अक्टुवर्, १९७२
विचारधारा सामाजिकगणतन्त्रम्
जणप्रीयतावादः
राजनैतिकस्थितिः केन्द्रीय
मैत्रीकूटः राष्ट्रियजनतातान्त्रिकमैत्रीकुटः (एन् डि ए)
(१९९८ एवम् २००४-०६)
तृतीयमैत्रीकुटः (थर्ड् फ्रन्ट्) (२००४-)
लोकसभासदस्यसंख्या
 / ५४५
राज्यसभासदस्यसंख्या
 / २४५
विधानसभासदस्यसंख्या
१५८ / २३४
जालस्थानम्
http://aiadmk.com
पक्षस्य पताका

प्रसङ्गः

[सम्पादयतु]

सर्वभारतीय-अण्णा द्राविड मुन्नेत्र कळगम् (AIADMK) इति दक्षिणभारतीयप्रान्तस्य एकः राजनैतिकपक्षः । अस्य पक्षस्य स्थापना १९७२ तमे वर्षे स्वर्गीय अभिनेता एवं राजनीतिज्ञः एम जी रामचन्द्रन्(एम जी आर्)-महोदयेन कृता । नेत्री जे जयललिता वर्तमानकाले अस्य पक्षस्य अध्यक्षारूपेण स्थिता । ए आइ ए डि एम् के-पक्षस्य तमिऴनाडुराज्ये तथा पुदुचेरीप्रान्ते अस्तित्व विद्यते । जे जयललिता अभिनेता एम जी रामचन्द्रनेन सह बहुचलच्चित्रे अभिनयं कृतवती । १९८० तमे वर्षे एम जी रामचन्द्रन्-महोदयः जयललितां पक्षे (ए आइ ए डि एम् के) आनीय प्रचारमन्त्रीपदं दत्तवान् । १९८७ तमे वर्षे एम जी रामचन्द्रन्-महोदयस्य मृत्युः अभवत् । अनन्तरं जयललिता राज्यसभासदस्यता-पदत्यागं कृतवती । अनन्तर्वर्तीकाले सा प्रायः अज्ञातवासं गतवती । एम जी रामचन्द्रन्-महोदयस्य पत्नी जानकी रामचन्द्रन् मुख्यमन्त्री च अभूत् ।

ए आइ ए डि एम् के-एम जी रामचन्द्रन् (१९७२-१९८७)

[सम्पादयतु]
सञ्चिका:M. G. Ramachandran doing Namaskar.jpg
एम जी रामचन्द्रन्
  • तमिळ्-चलच्चित्राभिनेता एम जी रामचन्द्रन्-महोदयः अण्णा द्राविड मुन्नेत्र कळगम् (ए डि एम् के) इति राजनैतिकपक्षस्य प्रतिष्ठाता । एम् करुणानिधिपरिचालित "द्राविड मुन्नेत्र कळगम् (डि एम् के)" पक्षात् बहिरागत्य ए डि एम् के-गठनं कृतवान् । "सर्वभारतीय"(ए आइ) इति पक्षकार्यकतृणाम् अनन्तरसंयोजनम् ।
  • १९७३ तमे वर्षे अयं पक्षः प्रथमवारं दिन्दिगुल-लोकसभाकेन्द्रे विजयं प्राप्तवान् । अनन्तरं कोयेम्बत्तुर-विधानसभाकेन्द्रमपि जीतवान् । १९७५-७७ आपात्कालं समर्थित्वा ए आइ ए डि एम् के-पक्षः कांग्रेसपक्षस्य समीपं आगतवान् ।
  • १९७७ तमे वर्षे डि एम् के सर्वकारस्य पतनम् अभवत् । सप्तमराज्यमुख्यमन्त्रीरूपेन जुन्-मासस्य ३० दिनाङ्के एम जी रामचन्द्रन्-महोदयस्य अभिषेकः अभवत् । अग्रिमदशेषु वर्षेषु सः एव मुख्यमन्त्री आसीत् । तस्य मृत्युः पर्यन्तं (दिसेम्बर्, १९८७) सः मुख्यमन्त्री आसीत् । एम जी रामचन्द्रन् क्रमशः १९७७,१९८०,१९८४ विधानसभानिर्वाचनेषु अपि सः विजयी आसीत् ।
  • १९७९ तमे संवत्सरे ए आइ ए डि एम् के-पक्षस्य द्वौ सदस्यौ (सत्यवनि मुथु, अरविन्दबालापाजानोर्) प्रथमवारं केन्द्रीयमन्त्रीसभायां स्थानं अधिकृतवन्तौ आस्ताम् । जनतादलपरिचालितसर्वकारे (१९७७-७९) तथा स्वल्पस्थायी-चरणसिंह-मन्त्रीसभायां तौ आस्ताम् ।

ए आइ ए डि एम् के-जानकी रामचन्द्रन् (१९८७-८९)

[सम्पादयतु]
सञ्चिका:M. G. Ramachandran with spouse Janaki Ramachandran.jpg
एम जी आर् एवं जानकी रामचन्द्रन्

एम् जी रामचन्द्रन्-महोदयस्य मरणोत्तरं तस्य स्त्री जानकी रामचन्द्रन् पक्षस्य सदस्यता तथा अध्यक्षा पदं च गृहीतवती । सा एव राज्यस्य प्रथमा महिलामुख्यमन्त्री आसीत् । अस्या नेतृत्वाधीनसर्वकारः चतुर्विंशतिदिनानि एव अतिष्ठत् । १९८८ वर्षस्य जनवरी मासाऽनन्तरं राज्ये राष्ट्रपतेः शासनमासीत् । एम् जी रामचन्द्रन्-महोदयस्य अनुयायीनः द्विखण्डिताः अभवन् । केचन् जनाः तस्य स्त्री जानकी रामचन्द्रन् पक्षे तथा अन्ये जे जयललितायाः पक्षे आसन् । दलीयकोन्दलात् विपक्षः द्राविडमुन्नेत्रकळगम्(डि.एम्.के) १९८९ वर्षस्य विधानसभानिर्वाचने विजयी अभूत् ।

ए आइ ए डि एम् के-जयललिता (१९८९-)

[सम्पादयतु]
जे जयललिता
जे जयललिता
  • १९९१ तमे वर्षे सर्वभारतीय-अण्णा द्राविड मुन्नेत्र कळगम् (ए आइ ए डि एम् के)-पक्षः जयललितायाः नेतृत्वे पुनः विधानसभानिर्वाचने विजयं प्राप्तवान् । तमिऴनाडुराज्यस्य दशम-मुख्यमन्त्री तथा द्वितीयमहिलामुख्यमन्त्रीरूपेण जे जयललितायाः अभिषेकः अभवत् ।
  • अन्यमतानुसारेण १९९१ तमे वर्षे विधानसभा-लोकसभानिर्वाचने द्वे आस्ताम् । मै-मासस्य २१ दिनाङ्के राजीवगान्धी पक्षस्य प्रचारनिमित्त आगतवान् । एल् टि टि ई आत्मघाती-घातकेन राजीवगान्धेः मृत्युः अभवत् । अस्मात् द्राविडमुन्नेत्रकळगम्(डि.एम्.के)-पक्षस्य सर्वकारस्य पतनं वर्षद्वयाभ्यन्तरे अभवत् ।
  • परन्तु १९९६ तमे वर्षे विधानसभानिर्वाचने सर्वभारतीय-अण्णा द्राविड मुन्नेत्र कळगम् (ए आइ ए डि एम् के)-पक्षस्य महाविपर्ययः जातः । समग्रेषु २३४ विधानसभाकेन्द्रेषु पक्षस्य केवलानि ४ केन्द्राणि एव आसन् । मुख्यमन्त्रीजयललिता अपि स्वकेन्द्रे(बार्गुर्) पराजीता आसीत् ।
  • १९९८-९९ ए आइ ए डि एम् के पक्षः अटलविहारीवाजपेयीकेन्द्रीयसर्वकारे सहयोगीरूपेण आसीत् । परन्तु एकवर्षाभ्यन्तरैव समर्थनं प्रत्याहारम् अकरोत्। तथा पुनः भारतीयराष्ट्रियकाङ्ग्रेस्-पक्षेण सह मैत्रीस्थापनं कृतवान् ।
  • २००१ तमे वर्षे विधानसभानिर्वाचने ए आइ ए डि एम् के-पक्षस्य विजयः अभूत् । समग्रेषु १९७ निर्वाचनकेन्द्रेषु १३२ केन्द्राणि पक्षस्य अधीने आसन् ।
  • २००४ तमे वर्षे डि एम् के-पक्षः भारतीयराष्ट्रियकाङ्ग्रेस-एम् डि एम् के-पि एम् के-पक्षेण सह सन्धिम् अकरोत् । लोकसभानिर्वाचने ए आइ ए डि एम् के-पक्षस्य बहुकेन्द्रेषु पराजयः अभवत् ।
  • २००६ तमे वर्षे विधानसभानिर्वाचने द्राविडमुन्नेत्रकळगम्(डि.एम्.के)-पक्षस्य विजयः अभूत् । एम् करुणानिधिः पञ्चमवारं मुख्यमन्त्रीरूपेण अभिषेकम् अकरोत् ।
  • २०११ तमे वर्षे सर्वभारतीय-अण्णा द्राविड मुन्नेत्र कळगम् (ए आइ ए डि एम् के)पक्षः अध्यक्षा-जयललितानेतृत्वे सर्वकारे आगतः ।

निर्वाचनफलानि

[सम्पादयतु]
तमिऴनाडुराज्यम्
तमिऴनाडुराज्यम्
वर्षःसाधारणनिर्वाचनम्मतदातासंख्याविजीतकेन्द्राणि
१९७७षष्ठविधानसभानिर्वाचनम्५,१९४,८७६१३२
१९७७षष्ठलोकसभानिर्वाचनम्५,३६५,०७६१७
१९८०सप्तमविधानसभानिर्वाचनम्७,३०३,०१०१२९
१९८०सप्तमलोकसभानिर्वाचनम्४,६७४,०६४
१९८४अष्टमविधानसभानिर्वाचनम्८,०३०,८०९१३४
१९८४अष्टमलोकसभानिर्वाचनम्३,९६८,९६७१२
१९८९नवमविधानसभानिर्वाचनम्१४८,६३०२(जानकीपक्षः)
१९८९नवमविधानसभानिर्वाचनम्२७(जयललितापक्षः)
१९८९नवमलोकसभानिर्वाचनम्४,५१८,६४९११
१९९१दशमविधानसभानिर्वाचनम्१०,९४०,९६६१६४
१९९१दशमलोकसभानिर्वाचनम्४,४७०,५४२११
१९९६एकादशविधानसभानिर्वाचनम्५,८३१,३८३
१९९६एकादशलोकसभानिर्वाचनम्२,१३०,२८६
१९९८द्वादशलोकसभानिर्वाचनम्६,६२८,९२८१८
१९९९त्रयोदशलोकसभानिर्वाचनम्६,९९२,००३१०
२००१द्वादशविधानसभानिर्वाचनम्८,८१५,३८७१३२
२००४चतुर्दशलोकसभानिर्वाचनम्८,५४७,०१४0
२००६त्रयोदशविधानसभानिर्वाचनम्१०,७६८,५५९६१
२००९पञ्चदशलोकसभानिर्वाचनम्६,९५३,५९१
२०११चतुर्दशविधानसभानिर्वाचनम्१४,७३८,०४२१५०