भारतीयसाम्यवादिपक्षः (मार्क्सवादी)
भारतीयसाम्यवादिपक्षः(मार्क्सवादी) | |
---|---|
निर्माणम् | १९६४ |
संवादपत्रिका | जनसाधारणस्य गणतन्त्रम् |
महिलाविभागः | सर्वभारतीयगणतन्त्रिक-महिलासंगठनम् |
कृषकविभागः | सर्वभारतीयकृषकसभा |
विचारधारा |
साम्यवादः मार्क्सवादः–लेलिनवादः |
राजनैतिकस्थितिः | वामपन्थी |
भारतीयनिर्वाचनायोगः Status | प्रचलितराष्ट्रियपक्षः |
मैत्रीकूटः | वामपक्षः |
लोकसभासदस्यसंख्या |
१६ / ५४५ |
राज्यसभासदस्यसंख्या |
११ / २४५ |
जालस्थानम् | |
cpim.org |
प्रसङ्गः
[सम्पादयतु]भारतीयसाम्यवादिपक्षः(मार्क्सवादी) (CPI(M)) भारतवर्षस्य अन्यतमराजनैतिकपक्षः । केरळे, पश्चिमबङ्गे तथा त्रिपुरायाम् अयं पक्षः गुरुत्वपूर्ण-राजनैतिकशक्तिरूपेण प्रतिष्ठितः । साम्यवादिपक्षस्य(मार्क्सवादी) वर्तमानकाले त्रिपुराराज्ये सर्वकारः अस्ति । १९६४ तमे वर्षे अस्य पक्षस्य स्थापना अभूत् ।
नामौचित्यम्
[सम्पादयतु]साम्यवादिपक्षः(मार्क्सवादी) (सि पि आइ (एम्)) इति अस्य पक्षस्य आधिकारिकनाम तथापि हिन्दीभाषायां, सांवादिकगणमाध्यमेषु "भारत की कम्युनिस्ट पार्टी मार्क्सवादी" अथवा कदाचित् "मार्क्सवादी कम्युनिस्ट पार्टी" इत्यपि नाम्ना श्रूयते । १९६४ तमे वर्षे मूलसाम्यवादिपक्षतः विभाजनानन्तरं पक्षस्य विवधनामानि आसन् यथा- "वामपन्थी कम्युनिस्ट पार्टी", "भारतीय कम्युनिस्ट पार्टी (वामपन्थी)" इत्यादीनि । १९६५ तमे वर्षे केरळविधानसभानिर्वाचने पक्षः भारतीयनिर्वाचनायोगे साम्यवादिपक्षः(मार्क्सवादी) इति नाम पञ्जीकृतवान् । अनन्तर्वर्तीकाले इयमेव आख्या प्रचलिता जाता ।
इतिहासः
[सम्पादयतु]साम्यवादीपक्षस्य विभाजनम्
[सम्पादयतु]- भारतीयसाम्यवादिपक्षस्य विभाजनानन्तरं साम्यवादिपक्षः(मार्क्सवादी) {सि पि आइ (एम्)} इति पक्षस्य उद्भवः । द्वितीयविश्वयुद्धकाले अविभक्तः सि पि आइ-पक्षः एकाधिकगणाभ्युत्थानस्य साक्षी आसीत् । अयं पक्षः तेलेङ्गाना-त्रिपुरायाम् एवं केरळे विप्लवेषु नेतृत्वं कृतवान् ।
- १९५९ तमे वर्षे भरतवर्षे काङ्ग्रेसेतरज्यसर्वकारः केवलं केरळे आसीत् । केन्द्रीयसर्वकारः एम् एस् नम्बुदरि-नेतृत्वाधीनसर्वकारं पातयित्वा राष्ट्रपतेः शासनम् आरोपितवान् ।
- विंशतिशतब्देः षष्टशतके भारतीयसाम्यवादिपक्षस्य सोवियेत् यूनियन्-देशस्य साम्यवादिपक्षेण (सि पि एस् यु) तथा चीनदेश्स्य साम्यवादुपक्षेण (सि पि सि) सह पारस्परिकसंपर्कस्य अवनति अभूत् । चीनदेश्स्य सि पि सि-पक्षः सि पि एस् यु-पक्षस्य निन्दाम् अकरोत् यत्- ते मार्क्स-लेलिनवादं त्यक्तवन्तः इति । भारत-चीनदेशयोः वैदेशिकसम्पर्कस्याऽपि अवनति अभूत्।
- भारत-चीनयुद्धकाले केचन् भारतीयसाम्यवादिजनाः भारतसर्वकारं समर्थितवन्त । अपरपक्षानुसारम् इदं युद्धं समाजतान्त्रिकराज्यस्य तथा धनतान्त्रिकराज्यस्य संघर्षः एव आसीत् । भारतीयसाम्यवादिपक्षस्य इयं द्विरुक्तिः विचारधाराविरोधात् आसीत् । भारतीयसाम्यवादिपक्षस्य विभाजने इयमेव मुख्यकारणीभूता आसीत् । अनन्तर्वतीकाले(१९६४) भारतीयमतावलम्बिनः भारतीयसाम्यवादिपक्षस्य(मार्क्सवादी) (सि पि आइ (एम्)) स्थापनां कृतवन्तः ।
- २००४ तमे वर्षे साधारणलोकसभानिर्वाचने सि पि आइ (एम्)-पक्षेण ५.६६ प्रतिशतं मतानि लब्धानि । अस्य पक्षस्य ४३ लोकसभासदस्याः निर्वाचिताः आसन् । पक्षोऽयं केन्द्रीयसर्वकारं समर्थनम् अकरोत् । परन्तु २००८ वर्षस्य जुलै मासस्य नवमदिनाङ्के भारत-आमेरिका-परमाणुसन्धेः(आइ ए इ ए) विरोधं कृत्वा समर्थनप्रत्याहारम् अकरोत् । अनन्तरकालीने निर्वाचने पक्षस्य लोकसभासदस्यसंख्या १६ आसन् ।
- २०११ तमे वर्षे सि पि आइ(एम्)-पक्षस्य सर्वकारयोः पतनम् (केरळे तथा पश्चिमबङ्गे) अभवत् । पश्चिमबङ्ग-विधानसभानिर्वाचने सर्वभारतीयतृणमूलकांग्रेसपक्षः एवं भारतीयराष्ट्रियकांग्रेसपक्षः उभयपक्षयोः संयोजितप्रयासेन ३४ वर्षं यावत् प्रचलितायाः शासनपरम्परायाः (वामपन्थिसर्वकारस्य) पतनम् अभवत् ।
सङ्घटनस्य स्तराः
[सम्पादयतु]- पोलिट्ब्युरो (पि बि)
- केन्द्रीयसमितिः (सि सि)
- राज्यसमितिः (एस् सि)
- मण्डलसमितिः
पोलिट्ब्युरो (पि बि)सदस्याः
[सम्पादयतु]वर्तमाने सि पि आइ (एम्)-पक्षस्य पञ्चदशसदस्याः पोलिट्ब्युरे सन्ति । एते यथा-
- प्रकाश कारात्
- सीताराम येचुरी
- एस् रामचन्द्रन् पिल्लई
- बुद्धदेब भट्टाचार्य
- मानिक सरकार
- बिमान बसु
- पिणराई विजयन्
- के वरदराजन्
- बि वि राघवुलु
- ब्रिन्दा कारात्
- निरुपम सेन
- के बालकृष्णन्
- सूर्यकान्त मिश्र
- एम् ए बबि
पक्षस्य सदस्यसंख्या
[सम्पादयतु]भारतीयसाम्यवादिपक्षानुसारं समग्रभारते पक्षस्य ८,६७,७६३ कार्यकर्तारः सन्ति । प्रतिराज्यं सदस्यसंख्यायाः विवरणम् प्रस्तूयते-
राज्यम् | २००१ | २००२ | २००३ | २००४ |
---|---|---|---|---|
आन्ध्रप्रदेशराज्यम् | ४०७८५ | ४१८७९ | ४५५१६ | ४६७४२ |
असमराज्यम् | १०४८० | ११२०७ | १११२२ | १०९०१ |
अण्डमाननिकोबारद्वीपसमूहः | १७२ | १४० | १२४ | ९० |
बिहारराज्यम् | १७६७२ | १७४६९ | १६९२४ | १७३५३ |
छत्तीसगढराज्यम् | १२११ | १३६४ | १०७९ | १०५४ |
देहली | ११६२ | १३६० | १४१७ | १४०८ |
गोवाराज्यम् | १७२ | ३५ | ४० | ६७ |
गुजरातराज्यम् | २७९९ | ३२१४ | ३३८३ | ३३९८ |
हरियाणाराज्यम् | १३५७ | १४७८ | १४७७ | १६०८ |
हिमाचलप्रदेशराज्यम् | १००५ | १००६ | १०१४ | १०२४ |
जम्मूकाश्मीरराज्यम् | ६२५ | ७२० | ८३० | ८५० |
झारखण्डराज्यम् | २५५२ | २८१९ | ३०९७ | ३२९२ |
कर्णाटकराज्यम् | ६५७४ | ७२१६ | ६८९३ | ६४९२ |
केरळराज्यम् | ३०१५६ | ३१३६५२ | ३१८९६९ | ३१६३०५ |
मध्यप्रदेशराज्यम् | २२४३ | २८६२ | २४८८ | २३२० |
महाराष्ट्रराज्यम् | ८५४५ | ९०८० | ९७९६ | १०२५६ |
मणिपुरराज्यम् | ३४० | ३३० | २७० | ३०० |
ओडिशाराज्यम् | ३०९१ | ३४२५ | ३५०२ | ३६५८ |
पञ्जाबराज्यम् | १४३२८ | ११००० | ११००० | १००५० |
राजस्थानराज्यम् | २६०२ | ३२०० | ३५०७ | ३१२० |
सिक्किमराज्यम् | २०० | १८० | ६५ | ७५ |
तमिऴनाडुराज्यम् | ८६८६८ | ९०७७७ | ९१७०९ | ९४३४३ |
त्रिपुराराज्यम् | ३८७३७ | ४१५८८ | ४६२७७ | ५१३४३ |
उत्तराखण्डराज्यम् | ७०० | ७२० | ७४० | ८२९ |
उत्तरप्रदेशराज्यम् | ५१६९ | ५५४१ | ५४७७ | ५८७७ |
पश्चिमबङ्गराज्यम् | २४५०२६ | २६२८८२ | २५८६८२ | २७४९२१ |
केन्द्रीयसमितेः सदस्याः | ९६ | ९५ | ९५ | ८७ |
समग्रः | ७९६०७३ | ८३५२३९ | ८४३८९६ | ८६७७६३ |
पक्षस्य साधारणसभापतयः
[सम्पादयतु]क्रमः | नाम | दायित्वकालः |
---|---|---|
प्रथमः | पि सुन्दरय्या | १९६४–१९७८ |
द्वितीयः | इ.एम्.एस्. नम्बुदिरिपाद् | १९७८–१९९२ |
तृतीयः | हरकिषण सिंह सुरजीत् | १९९२–२००८ |
चतुर्थः | प्रकाश कारात् | २००८– |