अण्डमाननिकोबारद्वीपसमूहः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
अण्डमाननिकोबारद्वीपसमूहः
—  केन्द्रशासितप्रदेशाः  —
भारते अण्डमाननिकोबारयोः स्थानम् ।
द्वीपसमूदायस्य मानचित्रम् ।
Coordinates (पोर्ट् ब्लेयर्): 23°13′00″N 72°41′00″E / 23.2167°N 72.6833°E / 23.2167; 72.6833
राष्ट्रम्  भारतम्
प्रतिष्ठापनम् सा.श. १९५६तमवर्षस्य नवेम्बरमासस्य प्रथमदिनम् ।
मण्डलानि मण्डले - २
Government
 • राज्यपालः रामचन्द्रगणेश कप्से
 • मुख्यमन्त्री
विस्तीर्णता
 • संहतिः ८ Square km ( Square mile)
क्षेत्रस्तरः सप्तमम्
Population
 • संहतिः ३५६
भारतीयसर्वसाधारणकालमानम् (UTC+05:30)
ISO 3166 code IN-GJ
मानवसम्पन्मूलम् increase 0.621 (medium)
HDI rank चतुर्दशम् (२००५)
साक्षरताप्रमाणम् ।
राज्यभाषा हिन्दी, बेङ्गाली, मलयाळम्, तेलुगु, तमिळ्,निकूबारी,आङ्ग्लभाषा


अण्डमान् निकोबार् च द्वीपौ भारतस्‍य केन्द्रशासितप्रदेशौ स्तः। अण्डमाननिकोबारद्वीपानां समूहे सहस्रशः लघुलघुद्वीपाः सन्ति । गङ्गासागरे (बङ्गालोपसागरे) एतानिमुक्ताहारः इव प्रकाशन्ते । अत्र ५७० तः अधिकाः द्वीपाः स्पष्टतया दृढीकृताः सन्ति । एतेषां विस्तीर्णता ८२४८ चतुरस्र कि.मीमिता। अतीव बृहत् द्वीपः नाम अण्डमानद्वीपः । अस्य राजधानी पोर्ट ब्लेयर । अस्य दैर्घ्यं ४६७ कि.मी । विस्तारः ५२ कि.मी । पर्वतप्रदेशे अनेकानि सुन्दराणि शिखरापि सन्ति । अत्र जनाः मलेशियाम्यान्मारवंशीयाः सन्ति । सा.श.१७-१८ शतके युरोप्रदेशीयाः अत्रागत्य स्थितवन्तः । भारतस्य लुण्ठकान् चोरान् अत्र कारागृहे स्थापयितुं विशालं कारागृहं निर्मितम् । तेषां कालापानी इति दण्डनं कुर्वन्ति स्म । आङ्गलाः स्वविरोधिनः अत्रैव प्रेषयन्ति स्म । इष्टिकाभिः निर्मिते लाघुकोष्ठे स्थापयन्ति स्म ।

स्वान्तन्त्र्यस्मारकम्[सम्पादयतु]

कारागृहे ६९८ प्रकोष्ठाः आसन् । प्रमुखाः स्वातन्त्र्यवीराः वीरसावरकरः, सोहनसिंहः भायीपारमानन्दः, नन्दगोपालवामनजोशी इत्यादयः अत्र बद्धाः आसन् । अधुनापि एतत् भवनं स्वातन्त्र्यान्दोलनस्य प्रतीकत्वेन रक्षितम् । अत्र कारागृहे बन्द्यः अतीव कष्टम् अनुभवन्ति स्म । उत्तमाहारः न दीयते स्म । ताः बन्दयः प्राणिनः इव जीवनं यापयन्ति स्म । भूषण रे, किशोरनामधारी इत्यादयः भारतस्वातन्त्र्ययोद्धारः जुगुप्सया आत्महत्यां कृतवन्तः। सा.श.१९४२-४३ वर्ष समये एतत् कारागृहं जापानदेशीयानां वशे आसीत् । सुभाषचन्‍द्रबोसः अपि एतत् दृष्टवान् । स्वातन्त्र्यप्राप्तेः पश्चात् एतत् राष्ट्रियस्मारकम् अभवत् । सा.श.१९७९ तमे वर्षे प्रधानमन्त्री श्री मोरारजी देसायी अत्रागत्य हुतात्मभ्यः श्रध्दाञ्जलिम् अर्पितवान् । इदानीम् अत्र जनाः दर्शनार्थम् आगच्छन्ति । सायङ्काले अत्र दीपालङ्कारः भवति । सागरतीरे प्रकाशमानं भवनं मेरिनाबीच् गान्धीपार्क इत्यादीनि आकर्षणीयानि स्थानानि सन्ति ।

पर्यटककेन्द्रम्[सम्पादयतु]

अत्र कश्चन वस्तुसङ्ग्रहालयः अस्ति । स्वातन्त्र्यवीराणां नामानि लिखितानि सन्ति । सदा स्वातन्त्र्यज्योतिः ज्वलन्ती अस्ति । सागरतीरे नारिकेलवृक्षाणा पङ्क्तिः प्रवलपर्वतः हरिद्वर्णवनपर्वताः सर्वाणि सुन्दराणि सन्ति । सागरे तरणं विहारः स्नानम् इत्यादीनि आनन्ददायकानि भवन्ति । द्वीपानां प्रवासः अत्रायोजितः भवति । द्वीपविहारिणां नौकाद्वारा ह्यावलाक् द्वीपः, चेतां सामिल्(एशियाखण्डे एव बृहत्), विङ्को कार्यागारः इत्यादीन् दर्शयन्ति । त्रिषु दिनेषु एकवारं प्रवासव्यवस्था अस्ति ।

विमानमार्गः[सम्पादयतु]

पोर्ट ब्लेयर पर्यन्तं विमानसम्पर्कःअस्ति ।

जलमार्गः[सम्पादयतु]

चेन्नैतः विशाखापत्तणतः कोलकातातः च नौकाः गच्छन्ति । द्वीपे सञ्चाराय फेरीसर्विस् नौकाव्यवस्थाः सन्ति ।

वसतिः[सम्पादयतु]

वसत्याः कृते अनेकानि उपाहारवसति गृहाणि सन्ति । सर्वकारीयवसतिगृहाण्यपि सन्ति ।

दूरम्[सम्पादयतु]

कोलकातातः १२०५ कि.मी. दूरे चेन्नैतः ११९१ कि.मी. दूरे एतदस्ति ।

कालः[सम्पादयतु]

अक्टोबरमसतः मेमासपर्यन्तं प्रवासार्थं सुकालः ।

सम्बद्धाः-विषया: