केरळराज्यम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(केरलराज्यम् इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search
केरळम्
കേരളം
—  राज्यम्  —
विशेषरूपेण निर्मितम् केरळीय-नौगृहम्

लाञ्छनम्
Nickname(s): भगवतः स्वदेशः, लैण्ड अफ् हरताल्
भारतस्य भूपटे केरलराज्यम्
केरलराज्यस्य भूपटः
Coordinates (तिरुवनन्तपुरम्): ८°३०′२७″उत्तरदिक् ७६°५८′१९″पूर्वदिक् / 8.5074°उत्तरदिक् 76.972°पूर्वदिक् / ८.५०७४; ७६.९७२
देशः  भारतम्
क्षेत्रम् दक्षिणभारतम्
स्थापना १ नेवम्बर् १९५६
राजधानी तिरुवनन्तपुरम्
बृहत्तमनगरम् तिरुवनन्तपुरम्
मण्डलानि १४
सर्वकारः
 • Body राज्यसर्वकारः
 • राज्यपालः निखिल कुमारः
 • मुख्यमन्त्री औम्मेन् चण्डी (काङ्ग्रेस्)
 • विधानसभाकेन्द्राणि १४१ केन्द्राणि
 • लोकसभाकेन्द्राणि २०
 • उच्चन्यायालयः केरळ-उच्चन्यायालयः
विस्तीर्णता
 • संहतिः <
क्षेत्रविस्तारः २१तम
जनसङ्ख्या (२०११)
 • संहतिः ३,३३,८७,६७७
 • रैङ्क् १२ तम
भारतीय-मान-समयः (UTC+०५:३०)
ऐ एस् ओ ३१६६ कोड् IN-KL
मानवसम्पद-विकाशस्तरः ०.७९० (उच्चस्तरः)
मानवसम्पद-विकाशस्थानम् प्रथमराज्यम् (२०११)
साक्षरता ९४.५९% (भारते प्रथमराज्यम्)
आधिकारिकभाषा मलयाळम्‌, आङ्ग्लभाषा
जालस्थानम् kerala.gov.in
१४० निर्वाचितप्रतिनिधयः, १ नियोजित


केरळ-राज्यं भारतस्य दक्षिण-पश्चिमदिशि स्थितम् अस्ति । अस्य मूलनाम “केरालयम्” इति आसीत् । मलयाळ-भाषायां “नारिकेलस्य देशः” इति तस्य अर्थः भवति । पुरा “मलनाडु”, “भार्गवक्षेत्रं”, “चेरल” च अस्य राज्यस्य नामानि आसन् । मौर्यशासकस्य अशोकस्य कस्मिंश्चित् शिखालेखे अस्य राज्यविषये “केरळस्य पुत्रः” इति उल्लेखितम् अस्ति [१]। केरळराज्ये कैरळी अथवा मलयाळम् इत्येषा भाषा उपयुज्यते‌। केरळराज्यस्य सीमा पश्चिमे अरबीयसमुद्रः, पूर्वे दक्षिणे च तमिऴ्‌नाडु, उत्तरे कर्णाटकं च।

अन्तर्विषयाः

भौगोलिकविवरणम्[सम्पादयतु]

गोकर्णम् आरभ्य कन्याकुमारीक्षेत्रं यावत् भूभागः कदाचित् केरळभूमिरासीत् । परन्तु, उत्तरतः दक्षिणं यावत् केचन भागाः अन्यत्र योजिताः । अतः अवशिष्टः मध्यभागः एव सम्प्रति केरळराज्यं वर्तते ।

केरळराज्यस्य मानचित्रम्

भारतस्य दक्षिणभागे पश्चिमकोणे उत्तराक्षांशः 8°18'-12°48'–मध्ये, पूर्वरेखांशः 74°52'-77°22'-मध्ये[२] एव केरळराज्यम् वर्तते । केरळराज्ये वत्सरस्य अर्धाधिकं कालं मेघो वर्षति । प्रवहन्ति प्रभूतजलाः नद्यो भूयस्यः । भूप्रकृतिमनुसृत्य केरळं मलनाड् (गिरिप्रदेशः), इडनाड् (मध्यपदेशः), तीरसमतलम् इति त्रिधा विभक्तं वर्तते । पूर्वसीमि सह्याचलप्रदेशः एव मलनाट् (गिरिप्रदेशः) । पश्चिमे भागे समुद्रतीरसमीपस्थितस्य समतलस्य तथा मलनाड् इत्यस्य च मध्ये वर्तमानः निम्नोन्नतप्रदेशः एव इडनाड् । मलनाड् भागस्य विस्तृतिः २१८५० च.कि.मी इदं केरळविस्तृते ५६% भवति । औनत्ये प्रथमं स्थानं हिमालयस्थानां शृङ्गाणामेव । द्वितीयं स्थानं केरळस्य पश्चिमघट्टे स्थितस्य आनमुडि शॄङ्गस्यैव (२६९४ मीटर्)।

जलवायुः[सम्पादयतु]

केरळ-राज्यस्य जलवायुः उष्णकटिबन्धीयः अस्ति । इदं राज्यं भूमध्यरेखायाः समीपे स्थितम् अस्ति । अतः अस्मिन् राज्ये उष्णतायाः आधिक्यं भवति । किन्तु अरब-महासागरस्य जलवायुः आर्द्रः भवति । तेन कारणेन उष्णतायां न्यूनता भवति । फरवरी-मासतः मई-मासपर्यन्तं ग्रीष्मर्तुः भवति । जून-मासतः सितम्बर-मासपर्यन्तं वर्षर्तुः भवति । शीतर्तौ अस्य नगरस्य तापमानं २२ डिग्री से. तः ३२ डिग्री से. पर्यन्तं भवति । पेरियार, भारतपूजहा, पाम्बा, चालाकुडी च इत्यादयः केरळ-राज्यस्य प्रमुखाः नद्यः सन्ति । अस्य राज्यस्य दक्षिणभागे अल्पमात्रायां वर्षा भवति । किन्तु औत्तराहभागेषु वर्षायाः आधिक्यं भवति । आवर्षं ४० तः २०० इन्च् मात्रात्मिकाः वर्षाः भवन्ति । अनेन कारणेन अस्य राज्यस्य नद्यः जलेन परिपूर्णाः भवन्ति । एवं च परिवहनाय नदीमार्गाः अपि प्रयुज्यन्ते [३]

नद्यः[सम्पादयतु]

केरळे ४४ नद्यः सन्ति । तासु ४१ नद्यः पूर्वभागात् पश्चिमदिशि अरबसागरेण ततलयं प्राप्नुवाद्भिः कासारैश्च मिलन्ति । दीर्घा नदी- निळा (भारतप्पुळा) ह्रस्वे नद्यौ- पूरप्परम्पनदी, कलनाटनदी च ।

आनमला (तमिळ्नाड) एव निळायाः उद्भवस्थानम् । गायत्री, कण्णगी, कल्पाली, नूता च निळायाः पोषकनद्यः । पेरियार (चूणी/पूर्णा) देविकुलसमीपस्थात् शिवगिरेः उद्भूय पीरुमेट देविकुलं तोटुपुळा, मूवाट्टुपुळा कुन्नलुनाट परवूरु उपमण्डलैः आलुवां प्राप्य द्विधा भवति । ततः नद्याः एका शाखा चालक्कुटीनद्या मिलति । अपरा तु वेम्पनाटकासरेण च मिलति ।

चालियार् नदी एलम्परलिगिरेः उदभवति । बेप्पूरागत्य सागरेण मिलति । पम्पा शबरिगिरेः समीपस्थात् पीरुमेडुतः उद्भवति । कतलटयार् नदी कुललूजुषागिरेः उद् भूय अष्टमुडिकासारेण मिलति । पूर्वगामिनिषु नदीषु पाम्पार, भवानी च तामिळ्नाड् राज्यं प्रति, कबनी कर्णाटकं प्रति च गच्छति ।

नदीनां नामानि[सम्पादयतु]

पाश्चिमवाहिन्यः

विशेषकला कथाकेळिः
क्रमसंख्या नाम दैर्घ्यम्
नेय्यार् ५६
करमना ६७
वामनपुरम् ८०
इल्लिक्करा ५६
कतलटा १२०
अच्चनकोविल १२८
पम्पा १७६
मणिमला ९१
मीनाच्चिल् ६७
१० मूवाट्टुपुषा १२०
११ पेरियार् (पूर्णा) २२७
१२ चालक्कुटी १४४
१३ करुवण्णूरु ४८
१४ कीच्चेरी ४३
१५ भारतप्पुषा (निला) ३७४.४०
१६ तिरुरु ४८
१७ पूरप्परम्प
१८ कटलुण्टी १३०
१९ चालियार् १६८
२० कल्लाय २२
२१ कोरप्पुषा ४०
२२ कुट्टयाटी ७३
२३ माही ५४
२४ तलशशेटी २८
२५ अञ्चरल्लण्टी ६४
२६ वलपट्ट्णम् ११२
२७ कुप्पम् ७०
२८ रामपुरम् १९
२९ पेरुम्पा ४०
३० कव्याय २२
३१ कार्यङ्कोट् ६४
३२ नीलेश्वरम् ४६
३३ चिट्टार् २५
३४ बेक्कल १०
३५ कलनाट
३६ चन्द्रगिरिः १०४
३७ मोग्राल् ३३
३८ कुम्पला १०
३९ षिरिया ६०
४० उप्पला ५०
४१ मञ्चेश्वरम् १६

पूर्वगामिन्यः[सम्पादयतु]

१.पारपार २.भवानी ३.कबनी

कासाराः[सम्पादयतु]

२६० च.कि.मी दैर्घ्ययुतः वेम्पानाटकासारः एव कासारेषु प्रथमस्थानम् आप्नोति । अष्टमुडिकासारस्य दैर्घ्यं ५५ च कि.मी । अन्ये कासारास्तु वेली, कटिनंकुलं अञ्चुतेड्डु इटवा, नटयरा, परवूरु, कायङ्कुलं कोटिङ्गुल्लूरु इत्येत् ।

प्रकृतिदत्तशुद्धजलकासारो भवति शास्ताङ्कोट्टा। विस्तृतिः ४-च.कि.मी अगधता ४७ पादमिता ।

इतिहासः[सम्पादयतु]

रामायण-महाभारत-आदिकाव्ययोः अस्य राज्यस्य उल्लेखः प्राप्यते । प्रथमपञ्चशताब्द्यां केरळ-राज्यं तमिऴकाम-क्षेत्रस्य कश्चन भागः आसीत् । तस्मिन् क्षेत्रे पाण्ड्य-शासकानां, चौल-शासकानां, चेर-शासकानां च शासनम् आसीत् । ये अरबव्यापारिणः आसन्, तैः षष्ठशताब्दीतः अष्टमशताब्दीपर्यन्तम् अस्मिन् क्षेत्रे इस्लाम-धर्मस्य प्रभावः स्थापितः आसीत् । अष्टमशताब्दीतः द्वादशशताब्दीपर्यन्तं कुलशेखर-राजवंशस्य शासनम् आसीत् । तस्मिन् काले अस्य क्षेत्रस्य प्रमुखा भाषा “मलयाळम्” अभवत् । ई. स. १४९८ तमे वर्षे पुर्तगालदेशीयः वास्कोडिगामा इत्याख्यः व्यापारी कालीकट-तटं प्राप्तवान् । सः प्रथमः व्यापारी आसीत्, यः समुद्रमार्गेण भारतम् आगतवान् आसीत् । तदनन्तरं हॉलेण्ड्, फ्रान्स्, इङ्ग्लैण्ड् इत्यादिभ्यः देशेभ्यः व्यापारिणः समागतवन्तः । यूरोपदेशीयाः समूहाः अत्र आगत्य यन्त्रागारान् स्थापितवन्तः । भारतस्य स्वातन्त्र्यप्राप्त्यनन्तरम् ई. स. १९४९ तमस्य वर्षस्य जुलाई-मासस्य १ दिनाङ्के त्रावणकोरराज्यं, कॊच्चीनराज्यं च स्थापितम् । ई. स. १९५६ तमे वर्षे द्वयोः राज्ययोः सम्मेलनेन केरळ-राज्यस्य निर्माणं कृतम् [४]

प्राथमिकविवरणानि[सम्पादयतु]

राजधानी श्री अनन्तपुरम् (तिरुवनन्तपुरम्)
विस्तृतिः ३८८६३ च.कि.मी
जनसंख्या ३१, ८४१,३७४(२००८)
स्त्रियः १६.३६,९५,५५ (२००८)
- १७३६६३८७ (२०११)
पुरुषाः १५,४७१,४२० (२००८)
- १६०२१२९० (२०११)
स्त्री-पुरुषानुपातः १०३६ स्त्रीणां १००० पुरुषाः
जननप्रतिशतम् १००० जनानां १७.०% (१९९५)
- १४.६% (२००८)
मरणप्रतिशतम् १०००जनानां ६.०% (१९९५)
- ६.६% (२००८)
आयुर्दैर्ध्यम् ६९(१९९५), ७१ (२००८)
अधिकजनसंख्यायुतजनपदः मलप्पुऱम्
अल्पजनसंख्यायुक्तजनपदः वयनाड्
नियमसभामण्डलानि १४०
लोकसभामण्डलानि २०
राज्यसभास्थानानि
पञ्चायताः ९७८
विकसनब्लोकृ १५२
ग्रामाः १०१८
उपमण्डलानि ६३
सुशिक्षितजनप्रतिशतम् ९३.९१ (२०११)
कार्पोरेशन्
नगरसभाः ५३
तीरदेशदैर्घ्यम् ५८० कि.मी
नद्यः ४४
पाश्चिमगामिन्यः ४१
उत्तरगामिन्यः
राज्यपशुः गजः
राज्यभाषा मलयाळम्
राज्यपक्षी चातकः
राज्यवृक्षः नालिकेरः
राज्यपुष्पम् कर्णिकारः
दीर्घा नदी निळा (भारतपुऴा) -२५१ कि.मी
उन्नतनदी आनमुटी – २६५२३
प्रतिशीर्षवार्षिकादयः ९००० रु
केरळस्य सुन्दरः परिसरः

मण्डलानि[सम्पादयतु]

केरळराज्ये १४ मण्डलानि सन्ति ।

विभाग सङ्केतः मण्डलम् केन्द्रम् जनसङ्ख्या (२००१) विस्तीर्णता (किमी²) सान्द्रता (प्रती किमी²)
KL AL आलप्पुऴा आलप्पुऴा २,१०५,३४९ १,४१४ १,४८९
KL ER ऎरणाकुळम् कॊच्ची ३,०९८,३७८ २,९५१ १,०५०
KL ID इटुक्की पैनाव् १,१२८,६०५ ४,४७९ २५२
KL KL कॊल्लम् कॊल्लम् २,५८४,११८ २,४९८ १,०३४
KL KN कण्णूर् कण्णूर् २,४१२,३६५ २,९६६ ८१३
KL KS कासरकोट् कासरकोट् १,२०३,३४२ १,९९२ ६०४
KL KT कोट्टयम् कोट्टयम् १,९५२,९०१ २,२०३ ८८६
KL KZ कोऴिक्कोट् कोऴिक्कोट् २,८७८,४९८ २,३४५ १,२२८
KL MA मलप्पुऱम् मलप्पुऱम् ३,६२९,६४० ३,५५० १,०२२
KL PL पालक्काट् पालक्काट् २,६१७,०७२ ४,४८० ५८४
KL PT पत्तनंतिट्टा पत्तनंतिट्टा १,२३१,५७७ २,४६२ ५००
KL TS तृश्शूर् तृश्शूर् २,९७५,४४० ३,०३२ ९८१
KL TV तिरुवनन्तपुरम् तिरुवनन्तपुरम् ३,२३४,७०७ २,१९२ १,४७६
KL WA वयनाट् कल्पेट्टा ७८६,६२७ २,१३१ ३६९

राजनीतिः[सम्पादयतु]

केरळ-राज्यं भारतस्य राजनैतिकप्रयोगशाला कथ्यते । भारतदेशे यान्त्रिकीमतदानस्य प्रयोगः केरळ-राज्ये एव सर्वप्रथम् अभवत् । केरळ-राज्ये एकसदनात्मकं विधानमण्डलम् अस्ति । अस्मिन् राज्ये विधानसभायाः १४० स्थानानि सन्ति । केरळराज्ये लोकसभायाः २० स्थानानि, राज्यसभायाः च ९ स्थानानि च सन्ति । विधानसभायाम् एङ्ग्लो-इण्डियन्-समूहस्य एकः प्रतिनिधिः नियोज्यते । केरळ-राज्ये बहूनि राजनैतिकसमूहाः, सङ्घटनानि च सन्ति । यथा - “भारतीय कम्युनिस्ट पार्टी”, “भारतीय राष्ट्रीय कॉङ्ग्रेस्”, “भारतीय जनता पार्टी”, “मुस्लिम लीग केरळ स्टेट् कमेटी”, “केरळ कॉङ्ग्रेस्”, “जनता दल (सेक्युलर)”, “रिवोल्यूशनरी सोशलिस्ट् पार्टी” च इत्यादयः केरळ-राज्यस्य राजनैतिकसमूहाः सन्ति । “ई. एम्. एस्. नम्बूदरीपाद” इत्याख्यः केरळ-राज्यस्य प्रथमः मुख्यमन्त्री आसीत् । सः भारतस्य “कम्युनिस्ट पार्टी (मार्क्सवादी) इत्यस्य समूहस्य नेता आसीत् [५]

जनसङ्ख्या[सम्पादयतु]

ई. स. १९६१ तमे वर्षे केरळ-राज्यस्य स्थापना अभवत् । ई. स. १८८१ तमे वर्षे केरळ-राज्यस्य जनगणना कृता । सप्तदशशताब्द्याः प्रारम्भे केरळ-राज्यस्य जनसङ्ख्या प्रायः त्रिंशल्लक्षम् आसीत् । ई. स. १८५० तमे वर्षे पञ्चचत्वारिंशल्लक्षम् अभवत् । १९०१ तमे वर्षे चतुष्षष्टीलक्षम् आसीत् । १९९१ तमस्य वर्षस्य जनसङ्ख्या २९१ लक्षम् आसीत् । २००१ वर्षस्य जनगणनायां केरळ-राज्यस्य जनसङ्ख्या ३,१८,४१,३७४ अभवत् । २०११ तमस्य वर्षस्य जनगणनायाम् अस्य राज्यस्य जनसङ्ख्या ३,३३,८७,६७७ अस्ति । तेषु १,६०,२१,२९० पुरुषाः, १,७३,६६,३८७ महिलाः च सन्ति । [६]

भाषा[सम्पादयतु]

“मलयाळम्” केरळ-राज्यस्य प्रमुखा भाषा अस्ति । इयं द्रविडपरिवारस्य भाषासु अन्यतमा वर्तते । अस्याः भाषायाः उत्पत्तिविषयकानि विभिन्नमतानि सन्ति । उच्यते यत् – “भौगोलिककारणैः द्रविडभाषायाः स्वतन्त्ररूपेण समुद्भूता एषा मलयाळ-भाषा । अपरं मतम् अस्ति यत् – “तमिऴ-भाषायाः मलयाळ-भाषायाः उत्पत्तिः जाता । तमिऴ-संस्कृत-भाषाभ्यां सह मलयाळ-भाषायाः सम्बन्धः घनिष्ठः अस्ति । मलयाळ-भाषायाः साहित्यानि अपि अतीव पुरातनानि सन्ति । किन्तु त्रयोदशशताब्दीतः साहित्यिकभाषारूपेण अस्याः भाषायाः विकासः जातः । तस्मिन् काले लिखितं “रामचरितम्” मलयाळम्-भाषायाः आदिकाव्यं मन्यते ।

साहित्यम्[सम्पादयतु]

मलयाळ-भाषायाः साहित्यम् अष्टशताद्या प्राचीनम् अस्ति । किन्तु मलयाळ-साहित्यस्य प्राचीनतायाः प्रमाणं कस्यापि ग्रन्थे न प्राप्यते । “प्रारम्भिककाले लोकसाहित्यस्य प्रभावः आसीत्” इति मन्यते । मलयाळ-साहित्यकाराणां तमिऴ-भाषायै, संस्कृत-भाषायै महत्त्वपूर्णं योगदानम् अस्ति । केरळ-राज्यस्य बहुभिः विद्वद्भिः कन्नड-भाषायां, तुळु-भाषायां, कोङ्कणी-भाषायां, हिन्दी-भाषायां च अपि साहित्यानि रचितानि । एकोनविंशतिशताब्द्यां काव्यानि एव रचितानि आसन् । “रामचरितम्” इत्येतत् काव्यं मलयाळम्-साहित्यस्य प्रारम्भिकदशाम् अवबोधयति । “रामचरितम्” मलयाळ-भाषायाः प्रारम्भिककाव्यं मन्यते । तथापि केरळ-राज्यस्य साहित्यिकपरम्परा तस्मादपि प्राचीना अस्ति । पुरा केरळ-राज्यस्य साहित्यं तमिळ-भाषया सह सम्बद्धम् आसीत् । तमिऴ-भाषायाः प्रारम्भिकाणि साहित्यानि “सङ्गमकृतयः” इति नाम्ना ज्ञायन्ते । सङ्गमकालीनरचनानां प्राचीनकालस्य चेर-साम्राज्येन सह सम्बन्धः आसीत् । “पतिट्टिप्पत्तु” नामिका सङ्गमकालीना रचना अस्ति । तस्यां रचनायां चेर-राज्ञां प्रशस्तिगीतानि सन्ति । “सिलप्पदिकारं” इति नामकं महाकाव्यं “इलङ्गो अडिगल” इत्याख्येन कविना कृतम् आसीत् । तस्य जन्म अपि चेर-देशे अभवत् । “सिलप्पदिकारं” महाकाव्यस्य खण्डत्रयम् अस्ति । तेषु खण्डेषु “वञ्चिक्काण्डम्” नामके खण्डे चेर-देशस्य घटनानाम् उल्लेखः अस्ति । “नाबूदीरी”, “राम पणिक्कर” इत्याख्यौ तमिऴ-भाषायाः साहित्यकारौ आस्ताम् । अपरं च “एषुत्तच्छन” इत्याख्यः साहित्यकारः तमिऴ-भाषायाः जनकः मन्यते । ई. स. १९६५ तमे वर्षे “जी. शङ्कर कुरुप” इत्याख्येन “ज्ञानपीठपुरस्कारः” प्राप्तः । “सरदार पणिक्कर”, “शिवशङ्कर पिल्लै”, “वैकम” च इत्यादयः मलयाळम्-भाषायाः गद्यकाराः सन्ति [७]

शिक्षणम्[सम्पादयतु]

२०११ वर्षस्य जनगणनानुसारं केरळ-राज्यस्य साक्षरतामानं ९४ प्रतिशतम् अस्ति । अतः भारतस्य सर्वाधिकं साक्षरतामानम् अपि केरळ-राज्यस्य एव अस्ति । तेषु पुरुषाणां साक्षरतामानं ९६.०३ प्रतिशतं, महिलानां च साक्षरतामानं ९१.९८ प्रतिशतम् अस्ति । भारतस्य प्रथमं पूर्णसाक्षरनगरं केरळ-राज्यस्य कोट्टयम्-नगरम् अस्ति । एवं च भारतस्य प्रथमं पूर्णसाक्षरमण्डलम् अपि केरळ-राज्यस्य एर्णाकुल-मण्डलम् अस्ति । केरळ-राज्ये बहूनि शैक्षणिकसंस्थानानि सन्ति । “भारतीय प्रबन्धन संस्थानम्, कोझीकोड”, “केरळविश्वविद्यालयः, तिरुवनन्तपुरम्”, “कालीकटविश्वविद्यालयः,कोझीकोड”, “महात्मा गान्धी विश्वविद्यालयः, कोट्टयम्”, “कन्नौरविश्वविद्यालय, कन्नौर”, “सेण्ट्रल् मरीन् फिशरीज् रिसर्च् संस्थानम्, कॊच्ची”, “केन्द्रीय मत्स्य संस्थानम्”, “नॉटिकल् एण्ड् इञ्जीनियरिङ्ग् ट्रेनिङ्ग्, कॊच्ची”, “केरळ कृषि विश्वविद्यालयः, तृश्शूर्”, “केरळ इन्स्टीट्यूट् ऑफ् टूरिज्म् स्टडीज्, तिरुवनन्तपुरम्” च इत्यादीनि केरळ-राज्यस्य प्रमुखाणि शैक्षणिकसंस्थानानि सन्ति [८]

अर्थव्यवस्था, कृषिः च[सम्पादयतु]

केरळ-नगरस्य अर्थव्यवस्था कृष्याधारिता अस्ति । अस्य राज्यस्य ५० प्रतिशतं जनाः कृष्याधारिताः सन्ति । अस्मिन् राज्ये निर्यासस्य (Rubber) ९२ प्रतिशतं, एलायाः ७० प्रतिशतं, श्यामवल्याः ९८ प्रतिशतम् उत्पादनं भवति । राज्येऽस्मिन् अन्ये उपस्कराः अपि उत्पाद्यन्ते । तेषु श्यामवल्ली महत्त्वपूर्णा वर्तते । केरळ-राज्यम् “उपस्कराणां प्रदेशः” कथ्यते । अस्य राज्यस्य कृषिपद्धतिः अन्येषां राज्यानाम् अपेक्षया भिन्ना वर्तते । भारतस्य अन्येषां राज्यानाम् अपेक्षया अल्पजन्मवृद्धिमानं, अल्पशिशुमृत्युमानं, उच्चसाक्षरता, उच्चशिक्षणं च इत्यादिषु क्षेत्रेषु प्रगतिशीलम् अस्ति । एतानि सर्वाणि आर्थिकप्रगतेः कारणानि सन्ति । वाणिज्यिकः वित्तकोषः, सर्वकारीयः वित्तकोषः, मुद्रा विनिमय व्यवस्था, यातायातस्य विकासः, शिक्षास्वास्थ्यादिषु क्षेत्रेषु प्रगतिः इत्यादयः केरळ-राज्यस्य अर्थव्यवस्थायाः आधारः अस्ति [९]

उद्योगाः[सम्पादयतु]

केरळ-राज्यस्य उद्योगाः प्राकृतिकसंसाधनाधारिताः सन्ति । हस्तशिल्पः, हस्तकला, मृत्पात्राणि, नारिकेलं, मत्स्यतैलं च इत्यादयः प्रमुखाः उद्योगाः सन्ति । केरळ-राज्ये तिरुवनन्तपुरम-नगरे “सॉफ्टवेर् टेक्नोलॉजी पार्क् ऑफ् इण्डिया” इत्यस्यां संस्थायाः परिसरे सप्त घटकाः सन्ति । केरळ-राज्ये “नेशनल टेक्सटाइल् कॉर्पोरेश्न्” इत्यस्याः संस्थायाः पञ्च वस्त्रागाराः सन्ति । “कॊच्ची ऑयल् रिफाइनरी”, “कॊच्ची शिप् यार्ड्”, “फर्टीलाइजर् एण्ड् केमिकल्स् ट्रावणकोर लिमिटेड्”, “हिन्दुस्तान लैटेक्स् लिमिटेड्”, “इण्डियन् रेयर् एर्थ्स् लिमिटेड्, एर्णाकुलम्”, “इण्डियन् टेलिफोन् इण्डस्ट्रिज्, पालक्काट्”, “इन्स्टुमेंशन् लिमिटेड, पालक्काट्”, “हिन्दुस्तान इन्सेक्टिसाइड्स् लिमिटेड् एर्णाकुलम”, “बामर लॉरी कम्पनी लिमिटेड्, एर्णाकुलम”, “हिन्दुस्तान ऑर्गेनिक् केमिकल्स् लिमिटेड्, एर्णाकुलम”, “कण्णूर स्पिन्निङ्ग् एण्ड् वीविङ्ग् मिल्स्”, “विजयमोहिनी मिल्स्, तिरुवनन्तपुरम”, “पार्वती मिल्स्, कोल्ल्म”, “केरळ लक्ष्मी मिल्स्, तृश्शूर्”, “अलगप्पा टेक्स्टाइल् मिल्स्, तृश्शूर्” च इत्यादीनि केन्द्रियव्यावसायिकसंस्थानानि सन्ति [१०]

खानिजाः[सम्पादयतु]

इल्मनैट रुट्टल्, मोणोसैट्ट, सिर्कोण्, गार्नैट्ट, सिलिमनैट्ट, माग्नट्टैट्ट इत्येते धातवः केरळस्य् तीरप्रदेशेवु सन्ति । ग्रफैट्टः तिरुवनन्तपुरं ननपदस्य वेतलनाट चाङ्डभाषेषु कोतलं जनपदस्य पिरालिमट्टे पेरिङ्डालायां चिडूरे मणवकलाटे च ग्राफैट्ट निक्षेपोऽस्ति ग्लाससिकताः –आलप्पुषायां चेर्तला, पालिप्पुर पाणावतली, कोलकोतमङ्गलं प्रदेशेषु दृश्यते । बोळसैट- वटक्कुम्मरी, चिट्टवट्टं शूरनाट, आदिच्चनतनूरु ग्रामेषु ।

जनाः[सम्पादयतु]

अस्य राज्यस्य जनाः मलयाळम्-भाषया व्यवहरन्ति । इयं द्रविड-परिवास्य प्रमुखा भाषा अस्ति । अस्मिन् राज्ये विभिन्न धर्माणां, जातीनां च जनाः निवसन्ति । अत्र आदिवासिनः अपि अधिकाः सन्ति । हिन्दुधर्मः, ईसाई-धर्मः, इस्लाम-धर्मः च केरळ-राज्यस्य प्रमुखाः धर्माः सन्ति । तत्र बौद्ध-धर्मस्य, जैन-धर्मस्य, पारसी-धर्मस्य, सिक्ख-धर्मस्य, बहाई-धर्मस्य च अनुयायिनः अपि निवसन्ति । अष्टमशताब्द्याः केरळ-राज्ये जातिव्यवस्था प्रचलन्ती अस्ति । अनुसूचितजातिः, अनुसूचितजनजातिः च अपि जातिव्यस्थायां सम्मिलिता सन्ति । जातिव्यवस्थायाः कारणादेव राज्ये उच्चनीचभावः उद्भूतः । किन्तु वर्तमानकेरळीयसमाजे उच्चनीचभावः नास्ति । किन्तु जातिव्यवस्था तु अस्ति एव । केरळ-राज्ये विभिन्नधर्माणां मन्दिराणि स्थितानि सन्ति । तेषां धर्माणाम् अनुष्ठानैः केरळ-राज्यस्य संस्कृतिः परिपुष्टा जाता । साहित्यस्य, कलायाः च विकासे तैः धर्मैः महत्त्वपूर्णाणि कार्याणि कृतानि सन्ति । तेन केरळ-राज्यस्य संस्कृतेः विकासः अपि भवति ।

कला, संस्कृतिः च[सम्पादयतु]

केरळ-राज्ये पञ्चाशताधिकानि लोकनृत्यानि प्रचलितानि सन्ति । तेषु नृत्येषु कलीपट्टम, कोलम, कोलकली, वेलाकलील, थाप्पुकली, कुरावरकली च इत्यादयः प्रमुखाणि लोकनृत्यानि सन्ति । भारतीयशास्त्रीयेषु षण्नृत्येषु कथाकली-नृत्यं केरळ-राज्येन सह सम्बद्धम् अस्ति । केरळ-राज्ये चण्डा, मदालम, चेङ्गाला इत्यादीनि प्रमुखाणि वाद्ययन्त्राणि सन्ति । अस्य प्रदेशस्य स्त्रियः अन्यप्रदेशानां स्त्रीणाम् अपेक्षया अधिकाः स्वतन्त्राः, शिक्षिताः च सन्ति । केरळ-राज्ये विभिन्नसंस्कृतीनां, धर्माणां जनाः निवसन्ति । केरळ-राज्ये बहूनि पर्वाणि, उत्सवाः च आचर्यन्ते । एतेषु उत्सवेषु बहवः उत्सवाः धार्मिकाः सन्ति । ते उत्सवाः हिन्दुपरम्पराधारिताः सन्ति । अस्य राज्यस्य प्रत्येकं राज्यानां भिन्न-भिन्नोत्सवाः भवन्ति । “ओणम” केरळ-राज्यस्य प्रसिद्धः उत्सवः वर्तते । अयम् उत्सवः सम्पूर्णे भारते प्रसिद्धः अस्ति । सस्यानां कर्तनकाले अयम् उत्सवः आचर्यते । केरळ-राज्ये नवरात्रिपर्व सरस्वतीपूजनरूपेण आचर्यते । अपरं च महाशिवरात्रिपर्व अपि पेरियारनद्याः तटे उत्साहपूर्वकम् आचर्यते । ये मुस्लिम-जनाः भवन्ति ते बकरीद, मुहरम, मिलाद-ए-शरीफ, रमजान इत्यादयः उत्सवान् आचरन्ति । अस्मिन् राज्ये हिन्दु-धर्मस्य, मुस्लिम-धर्मस्य, ईसाई-धर्मस्य च देवालयाः सन्ति । सर्वे जनाः स्वदेवालयेषु उत्सवान् आचरन्ति[११]

महानगराणि[सम्पादयतु]

केरळ-राज्ये मुख्यतः त्रीणि बृहन्नगराणि सन्ति । तानि - कॊच्ची-नगरं, कोऴिक्कोट्-नगरं (कालीकट), पालक्कड-नगरं च ।

कॊच्ची[सम्पादयतु]

कॊच्ची-महानगरं केरळ-राज्यस्य ऎरणाकुळम्-मण्डलस्य कश्चन भागः अस्ति । इदं नगरं “कॊच्चीन” इति गोश्री इत्यपि नाम्ना ज्ञायते । कॊच्ची-महानगरं समुद्रतटे स्थितम् अस्ति । नगरमिदं केरळ-राज्यस्य पोताश्रयः वर्तते । “कोचु अजहि” इति शब्दयोः कॊच्ची इति नामकरणम् अभवत् । अस्य नगरस्य उल्लेखः प्राचीनयात्रिकाणां लिखितेषु लेखेषु प्राप्यते । विश्वस्य विभिन्नदेशेभ्यः जनाः तत्र भ्रमणार्थं गच्छन्ति । अस्मिन् नगरे पुर्तगाली-जनाः अधिकमात्रायां निवसन्ति । अस्य नगरस्य इतिहासः अतीवपुरातनः अस्ति । चतुर्दशशताब्द्याम् इदं नगरम् आविर्भूतम् । बहुभिः यात्रिकैः ऐतिहासिकलेखेषु अस्य वर्णनं कृतम् अस्ति । खाद्यपदार्थानां व्यापारस्य केन्द्रम् आसीत् इदं नगरम् । उपस्कराणाम्, औषधीनां च विशेषरूपेण व्यापारः क्रियते स्म । पुरा यहुदी-जनाः, चीनी-जनाः, पुर्तगाली-जनाः, यूनानी-जनाः, अरबदेशीयाः, रोमनदेशीयाः च अत्र आगत्य व्यापारं कुर्वन्ति स्म । अतः अस्य नगरस्य संस्कृतिः नैकधा वर्तते । अस्य नगरस्य स्थानीयजनेषु वैदेशिकसंस्कृतीनाम् अत्यधिकः प्रभावः जातः । अनेन कारणेन अस्य नगरस्य संस्कृतिः मिश्रिता अस्ति ।

कॊच्ची-महानगरे नैकाः भोजनालयाः सन्ति । ये जनाः भारतस्य विभिन्नराज्येभ्यः कॊच्ची-महानगरं गच्छन्ति, ते अस्य नगरस्य विभिन्नप्रकारकाणि व्यञ्जनानि खादितुं भोजनालयं गच्छन्ति । कॊच्ची-महानगरे पर्यटनाय अपि बहूनि ऐतिहासिकस्थलानि, मन्दिराणि, उद्यानानि च सन्ति । ये जनाः प्रकृतिप्रेमिणः सन्ति, तेभ्यः तु भ्रमणार्थम् उत्तमं नगरम् अस्ति । नगरस्य समीपे अथिरापल्ली-जलप्रपातः वर्तते । अस्य जलप्रपातस्य प्राकृतिकं सौन्दर्यम् अपि दर्शनीयं भवति । बैकवॉटर्स्-स्थलं कॊच्ची-नगरस्य रमणीयं स्थलं वर्तते । तत्स्थलं वेम्बनाद-तडागस्य कश्चन भागः एव अस्ति । वेम्बनाद-तडागः केरळ-राज्यस्य बृहत्तमः तडागः वर्तते । अरबसागरस्य तटे “मरीन ड्राइव” इत्येतत् स्थलं युगलेभ्यः महत्त्वपूर्णम् अस्ति । कॊच्ची-नगरे एकः दुर्गः अपि अस्ति । सः दुर्गः मतञ्चेर्री-प्रायद्वीपे स्थितः अस्ति । अस्मिन् स्थले “मतंचेर्री महल”, “सान्ता क्रूज् बेसीलिका” च इत्येते स्थले आकर्षणस्य केन्द्रे स्तः । अस्य नगरस्य वातावरणं सर्वदा अनूकूलं भवति । अतः कस्मिँश्चिदपि काले यात्रां कर्तुं शक्यते । मई-मासे तत्र उष्णतायाः आधिक्यं भवति । वर्षर्तौ अपि कॊच्ची-नगरे वृष्टिः अधिका भवति ।

कॊच्ची-महानगरं राष्ट्रियराजमार्गेण भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । कॊच्ची-नगरे द्वे रेलस्थानके स्तः । ऎरणाकुळम्-जङ्क्शन, ऎरणाकुळम् टाउन् च । ऎरणाकुळम्-जङ्क्शन दक्षिणभागस्य रेलस्थानकम् अस्ति । ऎरणाकुळम्-टाउन् उत्तरभागस्य रेलस्थानकम् अस्ति । ते रेलस्थानके भारतस्य विभिन्ननगरैः सह सम्बद्धे स्तः । नेदुम्बस्सेरी-स्थले कॊच्चीन-नगरस्य विमानस्थानकं स्थितम् अस्ति । तद्विमानस्थानकं कॊच्ची-नगरात् २५ किलोमीटर्मिते दूरे स्थितम् अस्ति । एतद्विमानस्थानकम् अन्ताराष्ट्रियविमानस्थानकम् अपि अस्ति । विमानस्थानकात् कॊच्ची-नगरं गन्तुं भाटकयानानि प्राप्यन्ते ।

कोऴिक्कोट्[सम्पादयतु]

कोऴिक्कोट्-नगरं केरळ-राज्यस्य कोऴिक्कोट्-मण्डलस्य मुख्यालयम् अस्ति । नगरमिदं “कालीकट” इति नाम्ना अपि ख्यातम् अस्ति । इदं केरळ-राज्यस्य दक्षिण-पश्चिमतटे स्थितमस्ति । पुरा नगरमिदं व्यापारकेन्द्रम् आसीत् । इतिहासकाराः कथयन्ति यत् – इदं नगरम् उपस्करेभ्यः, कौशेयोत्पादनाय च प्रसिद्धम् आसीत् । अतः एव हिन्दमहासागरस्य बहुभिः देशैः सह अस्य नगरस्य व्यापारिकसम्बन्धः आसीत् । अस्मिन् नगरे प्राचीनैतिहासिककालस्य पाषाणगुहाः प्राप्ताः । त्रयोदशशताब्द्याः अस्य नगरस्य अस्तित्त्वं प्राप्यते । इरनाड-राज्यस्य राज्ञा उदयावर-इत्याख्येन कोऴिक्कोट्-नगरं, पोन्नियङ्कर-नगरं च जितम् । तत्र तेन एकः दुर्गः अपि निर्मापितः । सः दुर्गः वेलापुरम् इति नाम्ना ज्ञायते । ई. स १४९८ तमे वर्षे “वास्कोडिगामा” इत्याख्यः पुर्गगालदेशीयः नाविकः तत्र सर्वप्रथमं समागतः । सः यूरोप-देशीयः आसीत् । अनन्तरम् अन्येभ्यः देशेभ्यः यात्रिकाः समागताः । समयान्तरे इदं नगरं जमोरिन-साम्राज्यस्य राजधानी अभवत् । अस्मिन् नगरे बहूनि साहित्यिकान्दोलनानि अपि जातानि । तेन बहवः क्षेत्रियलेखकाः समुद्भूताः । अस्मिन् नगरे नैकानि मन्दिराणि, चर्च्, उद्यानानि च सन्ति । “थिक्कोटी लाईट् हाउस्”, “मनाचिरा स्क्वेयर्”, “पजस्सीराजा-सङ्ग्रहालयः”, “कलिपोयिका लॉयन्स् पार्क्”, “तलीमन्दिरं”, “कक्कयम”, “कृष्णा मेनन सङ्ग्रहालयः”, “ताराघर”, “बीपोर”, “वाडाकर”, “तुषारगिरी”, “सायन्स् प्लेनेटोरियम्”, “पूकोट-तडागः” च इत्यादीनि अस्य नगरस्य वीक्षणीयस्थलानि सन्ति ।

कोऴिक्कोट्-नगरं केरळ-राज्यस्य प्रमुखनगरैः सह राष्ट्रियराजमार्गेण सम्बद्धम् अस्ति । मोफुस्सिल्-नामकं कोऴिक्कोट्-नगरे बसस्थानकम् अस्ति । कन्नूर, थलस्सेरी, पालक्काट्, ऎरणाकुळम् च इत्यादिभ्यः नगरेभ्यः ततः बसयानानि प्राप्यन्ते । अस्मिन् नगरे एकं रेलस्थानकम् अस्ति । चेन्नै, कोयम्बटूर, बेङ्गळूरु, देहली, हैदराबाद, तिरूवनन्तपुरम, कॊच्ची, पालक्काट्, कन्नूर इत्यादिभ्यः नगरेभ्यः नियमितरूपेण तस्मात् रेलस्थानकात् रेलयानानि प्राप्यन्ते । अस्य नगरस्य विमानस्थानकं करीपुर-इति नाम्ना प्रसिद्धम् अस्ति । एतद्विमानस्थानकं भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । कोझीकोड-नगरात् विमानस्थानकं २५ किलोमीटर्मिते दूरे स्थितम् अस्ति । ततः भाटकयानानि, बसयानानि च प्राप्यन्ते ।

पालक्काट्[सम्पादयतु]

पालक्काट्-नगरं पुरा पालघाट इति नाम्ना ज्ञायते स्म । इदं नगरं केरळ-राज्यस्य पालक्काट्-मण्डलस्य मुख्यालयः अस्ति । इदं नगरं केरळ-राज्यस्य पश्चिमभागे पर्वतीयक्षेत्रेषु स्थितम् अस्ति । पालक्काट्-नगरे व्रीहेः कृषिः क्रियते । अतः पलक्क्ड-नगरं “केरळ का धान का कटोरा”, “केरळ का अन्न भण्डार” वा इति कथ्यते । अस्मिन् मण्डले तमिऴ-जनाः अपि निवसन्ति । अतः अस्य मण्डलस्य संस्कृतिः, भोजनपद्धतिः च अपि भिन्ना वर्तते । कर्णाटकसङ्गीतक्षेत्रे “चेम्बई वैद्यनाथ भागावतार”, “पालक्कड मणि अय्यर” च इत्येतौ द्वौ प्रसिद्धौ सङ्गीतकारौ अभवताम् । इदं नगरम् तयोः जन्मस्थलं वर्तते । अतः पालक्काट्-नगरम् भारते प्रसिद्धम् अस्ति । पालक्काट्-मण्डले दुर्गाः, मन्दिराणि, जलबन्धाः, वन्यजीवाभयारण्यानि, जलप्रपाताः, उद्यानानि च सन्ति । अतः आवर्षं जनाः पर्यटनाय तत्र गच्छन्ति । मालमपुझा-जलबन्धः अपि आकर्षणस्य प्रमुखकेन्द्रम् अस्ति । “नेलियमपत्थी हिल स्टेशन”, “साइलेण्ट् वैली नेशनल् पार्क्”, “परम्बिकुलम वन्यजीव अभयारण्य”, “कञ्जिरापुझा-जलप्रपातः”, “धोनी-जलप्रपातः”, च अस्य स्थलस्य प्राकृतिकानि, वीक्षणीयानि स्थलानि सन्ति । पालक्काट्-नगरं केरळ-राज्यस्य प्रमुखनगरैः सह भूमार्गेण सम्बद्धम् अस्ति । कोयम्बटूर, कॊच्ची, कोऴिक्कोट्, तृश्शूर् इत्यादिभ्यः नगरेभ्यः अपि बसयानानि प्राप्यन्ते । केरळसर्वकारेण बसयानानि प्रचालितानि सन्ति । पालक्काट्-नगरे एकं रेलस्थानकम् अस्ति । तत् “ओलवक्कोड जङ्क्शन्” इत्यपि कथ्यते । बेङ्गळूरु, चेन्नै, देहली, मुम्बई, हैदराबाद इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः ततः रेलयानानि प्राप्यन्ते । अस्मिन् नगरे विमानस्थानकं नास्ति । कोयम्बटूर-नगरे अस्य नगरस्य निकटतमं विमानस्थानकम् अस्ति । पालक्काट्-नगरात् ५० किलोमीटर्मिते दूरे स्थितम् अस्ति कोयम्बटूर-नगरम् । कोयम्बटूर-नगरात् पालक्काट्-नगराय बसयानानि, भाटकयानानि च प्राप्यन्ते । कॊच्ची-विमानस्थानकम् अपि १६० किलोमीटर्मिते दूरे स्थितम् अस्ति । एवं च कोऴिक्कोट्-विमानस्थानकं ११० किलोमीटर्मिते दूरे स्थितम् अस्ति ।

वीक्षणीयस्थलानि[सम्पादयतु]

केरळ-राज्यं “दक्षिण का कश्मीर” इति कथ्यते । स्वस्य प्राकृतिकसौन्दर्येण इदं राज्यं देवतानां देशः अपि कथ्यते । केरळ-राज्यस्य कोवलमसमुद्रतटं विश्वस्मिन् प्रसिद्धम् अस्ति । तिरुवनन्तपुरम-नगरस्य पद्मनाभस्वामीमन्दिरं दक्षिणभारतीयवास्तुकलायाः प्रतिकृतिः अस्ति । केरळ-राज्यस्य कॊच्ची-महानगरं “अरबसागर की रानी” इति कथ्यते । केरळ-राज्यं पर्यटनस्थलानां केन्द्रं मन्यते । जगद्गुरुशङ्कराचार्यस्य कालटी-नामकं जन्मस्थलं केरळ-राज्ये स्थितम् अस्ति । अस्य राज्यस्य जलवायुः ऊष्णकटिबन्धीयः भवति । अतः अधिकमात्रायां पर्यटकाः तत्र गच्छन्ति । केरळ-राज्यं समुद्रतटे स्थितम् अस्ति अतः अधिकाधिकानि वीक्षणीयस्थलानि समुद्रतटे स्थितानि सन्ति । जनाः समुद्रतटस्य मनोहरं दृश्यं दृष्टुं गच्छन्ति । केरळ-राज्ये बहूनि पर्यटनस्थलानि सन्ति । कास्रगोड, कन्नूर, वयनाट्, कोझीकोड, मालाप्पुरम्, पालक्काट्, त्रिशुर, ऎरणाकुळम्, इडुकी, कोट्टयम्, अलप्पुझा, पथानमथीट्टा, कोल्ल्म, तिरूवनन्तपुरम् च इत्यादीनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । अस्मिन् राज्ये अधिकानि पर्यटनस्थलानि सन्ति । अतः इदं राज्यं भारते प्रसिद्धम् अस्ति । अस्य राज्यस्य मण्डलानि अपि सुन्दराणि सन्ति । राज्येऽस्मिन् मनोहराणि प्राकृतिकदृश्यानि सन्ति । तानि दृश्यानि दृष्ट्वा जनाः मुग्धाः भवन्ति [१२] [१३]

पॊन्नानी[सम्पादयतु]

केरळ-राज्यस्य मलाप्पुरम्-मण्डले स्थितः अयं पॊन्नानी-ग्रामः । अयं ग्रामः अत्यन्तं सुन्दरः वर्तते । भरतपुजा-नद्याः तटे स्थितः अस्ति पुनानी-ग्रामः । भरतपुजा-नदी केरळ-राज्यस्य दीर्घतमासु नदीषु द्वितीया अस्ति । अस्य ग्रामस्य पश्चिमदिशि अरब-सागरः स्थितः अस्ति । अतः मत्स्योद्योगस्य प्रमुखकेन्द्रम् अपि विद्यते । अरबसमुद्रस्य तटे स्थितस्य मालाबार-पोताश्रयस्य मुख्यक्षेत्रम् अपि अस्ति अयं ग्रामः । इदं समुद्रतटं विस्तृतं वर्तते । अस्मिन् तटे इस्लाम-उपसनागृहाणि अपि स्थितानि सन्ति । अयं ग्रामः मालाबार-तटीयक्षेत्रेण सह विशिष्टतया सम्बद्धः अस्ति । मालाबार-पोताश्रयः दक्षिणभारतस्य प्राचीनतमेषु पोताश्रयेषु अन्यतमः वर्तते । मालाबार-पोताश्रयस्य व्यापारे, अर्थव्यवस्थायां च अस्य ग्रामस्य महद्योगदानम् अस्ति । पॊन्नानी-ग्रामः “दक्षिणभारतस्य मक्का” इति नाम्ना अपि ज्ञायते । यतः पुरातनकालादेव अयं ग्रामः इस्लामधर्मस्य शिक्षायाः केन्द्रम् आसीत् । अस्मिन् ग्रामे हिन्दु-जनाः, मुस्लिमजनाः च निवसन्ति । अतः अस्य ग्रामस्य संस्कृतिः, धर्मश्च मिश्रितः वर्तते ।

पॊन्नानी-ग्रामस्य इतिहासः अतीव प्राचीनः वर्तते । “विलियम लोगान” इत्याख्यस्य इतिहासकारस्य लेखे पॊन्नानी-ग्रामे स्थितस्य “जुमा मुस्लिम उपासनागृहस्य” उल्लेखः प्राप्यते । पुरा अयं ग्रामः मालाबार-क्षेत्रस्य राजधानी आसीत् । समूथिरि-शासकानां राजक्षेत्रम् अपि आसीत् । भारतीयस्वातन्त्र्यान्दोलनस्य इतिहासे अपि अस्य ग्रामस्य नामोल्लेखः प्राप्यते । स्वातन्त्र्यान्दोलनस्य बहवः क्रान्तिकारिणः अनेन ग्रामेण सह सम्बद्धाः सन्ति । पॊन्नानी-ग्रामे नैकानि वीक्षणीयस्थलानि सन्ति । “पॊन्नानी जुमा मस्जिद्”, “पॊन्नानी प्रकाशस्तम्भः”, “सरस्वतीमन्दिरं” च इत्येतानि आकर्षणस्य केन्द्राणि सन्ति । भरतपुजा-तिरुर-नद्योः सङ्गमः अस्ति अस्मिन् ग्रामे । अनन्तरं ते नद्यौ अरबसागरे मिलतः । “बियम कयल की झील” इत्येतत् स्थलम् अपि पॊन्नानी-ग्रामस्य प्रमुखं पर्यटनस्थलं वर्तते । पॊन्नानी-ग्रामस्य जलवायुः उष्णकटिबन्धीयः वर्तते । जनाः तत्र गत्वा आनन्दं प्राप्नुवन्ति । सः ग्रामः ऐतिहासिकः, सांस्कृतिकः च वर्तते । ग्रामः अयं लघुः अस्ति, तथापि अस्य ग्रामस्य सौन्दर्यं मनोहरम् अस्ति ।

पॊन्नानी-ग्रामः कॊच्ची-कोझीकोड-भूमार्गे स्थितः अस्ति । कोझीकोड-नगरं पॊन्नानी-ग्रामात् ८० किलोमीटर्मिते दूरे स्थितम् अस्ति । अस्मिन् ग्रामे यातायाताय नियमितरूपेण बसयानानि प्राप्यन्ते । ग्रामे भाटकयानानि अपि भवन्ति । तैः यानैः यात्रायां सौकर्यं भवति । कुट्टीपुरम्-नगरे पॊन्नानी-ग्रामस्य निकटतमं रेलस्थानकम् अस्ति । कुट्टीपुरम्-नगरं पॊन्नानी-ग्रामात् २० किलोमीटर्मिते दूरे अस्ति । यद्यपि कुट्टीपुरम्-नगरे अल्पसङ्ख्यकानि रेलयानानि भवन्ति । अतः तिरुर-नगरे, कोझीकोड-नगरे च अपि रेलस्थानकानि सन्ति । ताभ्यां नगराभ्याम् अपि पॊन्नानी-ग्रामाय बसयानानि प्राप्यन्ते । पॊन्नानी-ग्रामात् ६० किलोमीटर्मिते दूरे कालीकट-विमानस्थानकम् अस्ति । तदन्ताराष्ट्रियविमानस्थानकम् अस्ति । कालीकट-विमानस्थानकं भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । कालीकट-नगरात् पॊन्नानी-ग्रामाय भाटकवाहनि, बसयानानि च प्राप्यन्ते ।

कासरकोट्[सम्पादयतु]

कासरकोट्-नगरं केरळ-राज्यस्य कासरकोट्-मण्डलस्य मुख्यालयः अस्ति । इदं नगरं केरळ-राज्यस्य उत्तरभागे स्थितम् अस्ति । नगरमिदम् ऐतिहासिकं, पुरातात्त्विकं च विद्यते । अतः जनाः भ्रमणार्थं तत्र गच्छन्ति । बेकल-दुर्गः अस्य नगरस्य ऐतिहासिकं स्थलं वर्तते । सः दुर्गः स्मारकत्वेन स्थितः अस्ति । “कासरकोट्” इतीदं नाम शब्दद्वयेन निर्मितम् अस्ति । “कासरा”, “क्रोडा” च । “कासरा” इत्यस्य अर्थः तडागः, “क्रोडा” इत्यस्य अर्थः संरक्षणस्थलं च भवति । एवं च “अस्मिन् नगरे कासरका-नामकाः वृक्षाः अपि सन्ति । तेन कारणेन अपि अस्य नाम “कारसगोड” अभवत्” इति कथ्यते । तत्र नारिकेलस्य वृक्षाः सन्ति । अस्य नगरस्य संस्कृतिः विशिष्टा अस्ति । अतः तस्यै संस्कृतये इदं नगरं प्रसिद्धम् अस्ति । तत्र कम्बाला ( महिषयुद्धम् ), कुक्कुतयुद्धं च प्रचलितम् अस्ति । “थेय्यम” इत्याख्यस्य देवस्य प्रसन्नतायै एते उत्सवाः आयोज्यन्ते । अस्मिन् नगरे हिन्दुधर्मस्य, मुस्लिम-धर्मस्य, ईसाई-धर्मस्य च जनाः निवसन्ति । तथापि इदं मण्डलं धार्मिकप्रवृत्तिभ्यः ज्ञायते । तत्र मलयाळ-भाषायां, टुलू-भाषायां, कोङ्कणी-भाषायां, तमिऴ-भाषायां च व्यवहरन्ति जनाः । तत्र “गोविन्द पाई मेमोरियल्”, “मदियाँ कुलम मन्दिर”, “मालिक दीनार मस्जिद” च इत्यादीनि अस्य नगरस्य मुख्यपर्यटनस्थलानि सन्ति । बेकल, कन्नूर, थालास्सेरी, पय्योली च इत्यादीनि अस्य नगरस्य समीपस्थानि वीक्षणीयस्थलानि सन्ति ।

कासरकोट्-नगरे सर्वकारप्रचालितानि बसयानानि प्रचलन्ति । तैः यानैः भ्रमणं कर्तुं शक्यते । कासरकोट्-नगरे एकं रेलस्थानकं विद्यते । तद्रेलस्थानकं दक्षिणोत्तरभारतयोः विभिन्ननगरैः सह सम्बद्धम् अस्ति । अतः रेलमार्गेण अपि कासरकोट्-नगरं प्राप्तुं शक्यते । कासरकोट्-नगरात् कर्णाटकराज्यस्य मेङ्गलौर-नगरस्य विमानस्थानकं समीपे स्थितम् अस्ति । कासरकोट्-नगरात् मेङ्गलौर-विमानस्थानकं ५० किलोमीटर्मिते दूरे स्थितम् अस्ति । दक्षिणदिशि कॊच्ची-नगरे अपि अन्ताराष्ट्रियविमानस्थानकं विद्यते । तद्विमानस्थानकं कासरकोट्-नगरात् ४२० किलोमीटर्मिते दूरे स्थितम् अस्ति । कासरकोट्-नगराय भाटकवाहनानि अपि नियमितरूपेण प्राप्यन्ते । कासरकोट्-नगरं गन्तुं जनाः कदापि कष्टम् नानुभवन्ति ।

अतिरप्पिळ्ळी[सम्पादयतु]

अतिरप्पिळ्ळी-ग्रामः केरळराज्यस्य तृश्शूर्मण्डलस्य मुकुन्दपुरम्-उपमण्डले स्थितः अस्ति । ग्रामः अयं तृश्शूर्-नगरात् ६० किलोमीटर्मिते, कॊच्ची-नगरात् ७० किलोमीटर्मिते च दूरे स्थितः अस्ति । अस्य ग्रामस्य समीपे जलप्रपाताः, वर्षावनानि च सन्ति । ग्रामेऽस्मिन् जैववैविध्यम् अपि प्राप्यते । केरळ-राज्यस्य पर्यावरण-मन्त्री “जयराम रमेश” इत्याख्यः अस्ति । सः इमं ग्रामं “साइलेण्ट् वैली” इति कथयति । अतिरप्पिळ्ळी इत्यत्र वाजहाचल, चारपा च इत्याख्यौ जलप्रपातौ स्तः । इदं क्षेत्रं पश्चिमघट्टे स्थितम् अस्ति । तस्मिन् क्षेत्रे बहूनि वनानि सन्ति । अतः इदं क्षेत्रम् “अतिरप्पिळ्ळी-वाजहाचलक्षेत्रत्वेन ज्ञायते । तेषु वनेषु विविधाः दुर्लभाः वन्यजीवाः, विहगाः च प्राप्यन्ते । एतेषु वनेषु गजानां संरक्षणाय प्रयासाः जायमानाः सन्ति । तेषु वनेषु विभिन्नप्रकारकाः वनस्पतयः, औषधयः च अपि प्राप्यन्ते । अतः “एशियाई प्रकृति संरक्षण फाउण्डेशन्” इत्यनया संस्थया प्रस्तावः प्रस्थापितः यत् – “इदं क्षेत्रं राष्ट्रियोद्यानं, राष्ट्रियाभयारण्यं वा भावितव्यम्” इति । इदं वनं पञ्चविभागेषु विभक्तम् अस्ति । ते – १ अतिरप्पिळ्ळी, २ वाजहाचल, ३ चारपा, ४ कोल्लाथिरुमेदु, ५ शोलायार च । वनेषु बह्व्यः नद्यः सन्ति । वनेषु आदिवासिनः निवसन्ति । ते वनात् औषधयः, वनस्पतयः च एकीकुर्वन्ति । ते औषधीनां विशेषज्ञाः भवन्ति । वर्षर्तौ, शीतर्तौ च जनाः तत्र भ्रमणार्थं गच्छन्ति ।

अतिरप्पिळ्ळी-ग्रामात् कॊच्ची-नगरं ५५ किलोमीटर्मिते दूरे स्थितम् अस्ति । भूमार्गात् कॊच्ची-नगरं सरलतया प्राप्तुं शक्यते । तत्र राज्यसर्वकारप्रचालितानि बसयानानि अपि प्रचलन्ति । कर्णाटकराज्यस्य बेङ्गळूरु-महानगरात् अपि बसयानानि प्राप्यन्ते । तृश्शूर्-नगरे कॊच्ची-नगरे च रेलस्थानकम् अस्ति । अतिरप्पिळ्ळी-ग्रामात् तृश्शूर्-नगरं ७८ किलोमीटर्मिते, कॊच्ची-नगरं ६६ किलोमीटर्मिते च दूरे स्थितम् अस्ति । चलाकुद्द्य-रेलस्थानकं निकटतमं रेलस्थानकम् अस्ति । तत् ३१ किलोमीटर्मिते दूरे स्थितम् अस्ति । ततः बसयानैः अतिरप्पिळ्ळी-ग्रामं प्राप्तुं शक्यते । अतिरप्पिळ्ळी-ग्रामात् ५५ किलोमीटर्मिते दूरे कॊच्चीन-विमानस्थानकं विद्यते । तद्विमानस्थानकम् अन्ताराष्ट्रियं वर्तते । भाटकयानैः अतिरप्पिळ्ळी-ग्रामः गम्यते ।

मारारिक्कुळम्[सम्पादयतु]

मारारिक्कुळम् एकः सुन्दरग्रामः अस्ति । तत्र पीतवर्णीयं सिकतामयं समुद्रतटं वर्तते । अतः एव अयं ग्रामः ख्यातः वर्तते । अस्य ग्रामस्य जनाः पारम्परिकाः सन्ति । शतवर्षाणि पुरातनायाः परम्परायाः पालनं कुर्वन्ति ते । अस्य ग्रामस्य वातावरणं शान्तं भवति । ग्रामेऽस्मिन् मत्स्यपालकाः निवसन्ति । ते मत्स्योद्योगं कुर्वन्ति । अस्य ग्रामस्य तापमानं सन्तुलितं भवति । तत्र “कोक्कामंगलम चर्च” अस्ति । तदुपासनागृहं “सेण्ट् थॉमस्” इत्याख्येन स्थापितम् आसीत् । तत् प्रमुखतीर्थस्थलेषु अन्यतमम् अस्ति । शिवमन्दिरं, कोक्कामंगलम सेण्ट् एपोस्ले चर्च्, अरूर, अरुतंकल, पुच्छाक्कल, पानावली, वेलोरवट्टम, अर्थुंकल च अस्य ग्रामस्य पर्यटनस्थलानि सन्ति । एतेषु शिवमन्दिरस्य वास्तुकला विशिष्टा वर्तते । तत्र “चेरथला कार्तियेनी मन्दिरम्” अपि अस्ति । अस्मिन् मन्दिरे कार्तियेनीदेवी विद्यमाना अस्ति । एवं च काञ्चिकुङ्गलारा-मन्दिरं प्रसिद्धम् अस्ति । तस्मिन् मन्दिरे भगवतीदेव्याः प्रतिमा स्थिता अस्ति । अपि च पुच्छाक्कल-क्षेत्रस्य समीपे अपि बहूनि मन्दिराणि विद्यमानानि सन्ति । शीतर्तौ जनाः तत्र भ्रमणार्थं गच्छन्ति । मारारिक्कुळम् राष्ट्रियराजमार्गे स्थितः अस्ति । सः राजमार्गः मरारीकुलम-ग्रामात् ५ किलोमीटर्मिते पूर्वदिशि स्थितः अस्ति । मरारीकुलम-ग्रामात् कॊच्ची-नगरं ३० किलोमीटर्मिते दूरे स्थितम् अस्ति । केरळसर्वकारेण बसयानानि अपि प्रचालितानि सन्ति । मरारीकुलम-ग्रामे एकं रेलस्थानकम् अस्ति । तद्रेलस्थानकं केरळ-राज्यस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । कॊच्चीन-नगरे अन्ताराष्ट्रियविमानस्थानकं विद्यते । तद्विमानस्थानकम् मारारिक्कुळम्-ग्रामस्य निकटतमं विमानस्थानकम् अस्ति । इदं विमानस्थानकं भारत-देशस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । कॊच्चीन-नगरात् मरारीकुलम-ग्रामाय बसयानानि, भाटकयानानि च प्राप्यन्ते ।

ऎरणाकुळम्[सम्पादयतु]

ऎरणाकुळम्-नगरं केरळ-राज्यस्य ऎरणाकुळम्-मण्डलस्य केन्द्रं विद्यते । तस्मिन् नगरे “एर्नाकुलाथाप्पन-शिवमन्दिरं विद्यते । अतः एव अस्य नाम ऎरणाकुळम् इत्यभवत् । इदं नगरं केरळ-राज्यस्य “व्यावसायिकराजधानी” अस्ति । केरळ-राज्यस्य इतिहासे अस्य नगरस्य महत्त्वपूर्णं स्थानं वर्तते । अस्य नगरस्य संस्कृतिः, परम्परा, उत्सवाः च जनान् आकर्षन्ति । ऎरणाकुळम्-नगरं केरळराज्यस्य पर्यटनकेन्द्रं विद्यते । राजकुमारी स्ट्रीट्, बोल्घटी पैलेस्, कॊच्ची समुद्रतटं, चोट्टानिक्करा-मन्दिरं च इत्येतानि ऎरणाकुळम्-नगरस्य पर्यटनस्थलानि सन्ति । “इदं स्थलं धूम्रपानमुक्तस्थलम् वर्तते” इति आश्चर्यम् ।

ऎरणाकुळम्-नगरं भूमार्गैः सम्पूर्णतया सम्बद्धम् अस्ति । राज्यसर्वकारेण प्रचालितैः बसयानैः अपि ऎरणाकुळम्-नगरं प्राप्तुं शक्यते । वैयक्तिकयानैः, भाटकयानैः च ऎरणाकुळम्-नगरं प्राप्यते । ऎरणाकुळम्-नगरे रेलस्थानकद्वयं विद्यते । ऎरणाकुळम्-जङ्क्शन्, ऎरणाकुळम्-टाउन् च । ऎरणाकुळम्-जङ्क्शन् दक्षिणरेलस्थानकम् अस्ति । ऎरणाकुळम्-टाउन् उत्तररेलस्थानकम् अस्ति । ऎरणाकुळम्-नगरात् कॊच्चीन-विमानस्थानकं २३ किलोमीटर्मिते दूरे स्थितम् अस्ति । इदं विमानस्थानकम् अन्ताराष्ट्रियविमानस्थानकम् अपि विद्यते । अतः भारतस्य विभिन्ननगरैः सह इदं सम्बद्धम् अस्ति । ततः ऎरणाकुळम्-नगराय यानानि प्राप्यन्ते ।

तिरुवल्ला[सम्पादयतु]

केरळ-राज्यस्य पत्तनंतिट्टामण्डले तिरुवल्ला-नगरं स्थितम् अस्ति । नगरमिदं मणिमला-नद्याः तटे स्थितम् अस्ति । अस्मिन् नगरे बहूनि मन्दिराणि सन्ति । अतः इदं नगरं “मन्दिराणां नगरम्” इति नाम्ना ज्ञायते । नगरमिदम् ऐतिहासिकं, सांस्कृतिकं च वर्तते । अस्मिन् नगरे हिन्दु-धर्मस्य, मुस्लिम-धर्मस्य, ईसाई-धर्मस्य च जनाः निवसन्ति । तिरुवल्ला-नगरे त्रयाणां धर्माणाम् उपासनागृहाणि सन्ति । अस्य नगरस्य समीपे बहूनि वीक्षणीयस्थलानि अपि सन्ति । अस्मिन् नगरे “श्रीवल्लभमन्दिरं” स्थितम् अस्ति । एतद् मन्दिरं “दक्षिणतिरुपतिः” इति नाम्ना ख्यातम् अस्ति । अतः भारतदेशस्य विभिन्ननगरेभ्यः जनाः दर्शनार्थं तत्र गच्छन्ति । तत्र “पलियक्करा चर्च्” अस्ति । तदुपासनागृहं पुरातनम् अस्ति । यदा केरळ-राज्ये ईसाईधर्मस्य उद्भवः जातः, तत्कालस्य तद् ईसाई-उपासनागृहं विद्यते । मन्यते यत् – यदा तिरुवतम्कूर-राज्ञः शासनकालः आसीत्, तदा अस्य नगरस्य नाम वल्लभपुरम् इति आसीत् । अनन्तरं तिरुवल्लभपुरम् इति नाम परिवर्तितम् । समयान्तरे अपभ्रंशत्वात् तिरुवल्ला इति नाम अभवत् । अस्य नगरविषयिण्यः बहव्यः मान्यताः सन्ति । कथ्यते यत् – “तिरुवल्ला इति नाम भगवतः विष्णोः नाम्ना कृतम् आसीत् । अनेन प्रकारेण इदं नगरं “विष्णोः नगरम्” इति नाम्ना ज्ञायते । अस्य नगरस्य वातावरणं मनोहरं, रमणीयं च भवति । अतः जनाः आनन्दं प्राप्तुं भ्रमणार्थं तत्र गच्छन्ति । तिरुवल्ला-नगरस्य जलवायुः सामान्यतः उष्णः भवति । वर्षर्तौ अस्य नगरस्य भ्रमणं श्रेष्ठं भवति ।

तिरुवल्ला-नगरे राज्यसर्वकारप्रचालितानि बसयानानि नियमितरूपेण कार्यरतानि सन्ति । बसयानेन सरलतया तिरुवल्ला-नगरं प्राप्तुं शक्यते । कोझीकोड, तिरूवनन्तपुरम्, कॊल्लम्् कन्नूर, कॊच्ची, कोयम्बतूर, चेन्नै, मदुरै, बेङ्गळूरु, मेङ्गलोर च इत्येतैः नगरैः सह तिरुवल्ला-नगरं भूमार्गेण सम्बद्धम् अस्ति । तिरुवल्ला-नगरे एकं रेलस्थानकम् अस्ति । इदं रेलस्थानकं भारतस्य विभिन्नमहानगरैः, नगरैः च सह सम्बद्धम् अस्ति । तिरुवल्ला-नगरात् पालक्काट्-नगराय, तिरुवनन्तपुरम्-नगराय, कॊच्ची-नगराय च नियमितरूपेण रेलयानानि प्राप्यन्ते । तिरुवल्ला-नगरे विमानस्थानकं नास्ति । किन्तु कॊच्ची-नगरे स्थितं विमानस्थानकं तिरुवल्ला-नगरस्य निकटतमं विमानस्थानकम् अस्ति । तिरुवल्ला-नगरात् कॊच्ची-नगरं ९० किलोमीटर्मिते दूरे स्थितम् अस्ति । तिरुवनन्तपुरम्-नगरे अपि विमानस्थानकं विद्यते । तद्विमानस्थानकं तिरुवल्ला-नगरात् १४० किलोमीटर्मिते दूरे स्थितम् अस्ति ।

मलप्पुऱम्[सम्पादयतु]

केरळराज्यस्य मलप्पुऱम्-मण्डलस्य केन्द्रम् अस्ति मलप्पुऱम्-नगरम् । नगरमिदं लघुपर्वतीयक्षेत्रम् अस्ति । मलप्पुऱम्-मण्डलस्य आर्थिकदृष्ट्या, धार्मिकदृष्ट्या, सामाजिकदृष्ट्या, सांस्कृतिकदृष्ट्या च विशिष्टं स्थानम् अस्ति । अत्र चलियार-नदी, भारथापुज्हा-नदी, कदलुंदी-नदी एताः तिस्रः नद्यः प्रवहन्ति । केरळ-राज्यस्य सांस्कृतिकराजनैतिकसाहित्यिकपरम्परासु मलप्पुऱम्-मण्डलस्य लघुनगराणां महद्योगदानम् आसीत् । मलप्पुऱम्-मण्डले स्थितं थिरुनावाया-नगरं मध्यकाले वैदिकशिक्षणस्य केन्द्रम् आसीत् । एवं च कोत्ताक्कल-नगरात् आयुर्वेदस्य पारम्परिकचिकित्साप्रणाल्याः उत्पत्तिः जाता । “कदलुंदी पक्षी अभयारण्य”, “केरालादेश्पुरम्-मन्दिरं”, “थिरुनावाया-मन्दिरं” च इत्येतानि मलप्पुऱम्-नगरस्य पर्यटनस्थलानि सन्ति । अस्मिन् क्षेत्रे बहूनि मन्दिराणि, मुस्लिम-उपासनागृहाणि च सन्ति । यथा – “मलप्पुऱम् जुमा मस्जिद्”, “मन्नूर शिवमन्दिरं”, “थिरुप्पुरन्थाका-मन्दिरं”, “वेत्ताकोरुमाकन-मन्दिरं” च इत्येतानि तीर्थस्थलानि सन्ति । मलप्पुऱम्-नगरस्य वातावरणं सामान्यतः सन्तुलितं भवति । अतः एव जनाः भ्रमणार्थं गच्छन्ति । मलप्पुऱम्-नगरस्य प्राकृतिकं सौन्दर्यं, इतिहासः, वैदिशिकानि व्यञ्जनानि च जनान् आकर्षन्ति ।

केरळ-राज्यस्य सर्वकारेण मार्गपरिवहनाय बसयानानि प्रचालितानि सन्ति । अतः एव मलप्पुऱम्-नगरम् अन्यनगरैः सह सम्बद्धम् अस्ति । मलप्पुऱम्-नगरात् बेङ्गळूरु-महानगराय, कॊच्ची-नगराय, तिरुवनन्तपुरम्-नगराय च नियमितरूपेण बसयानानि प्राप्यन्ते । मलप्पुऱम्-नगरे रेलस्थानकं नास्ति । किन्तु मलप्पुऱम्-मण्डलस्य अन्गादिपुरम्, तिरुर, तनूर, कुत्तिप्पुरम्, परप्पनान्गादी च इत्यादिषु नगरेषु रेलस्थानकानि सन्ति । अतः तेभ्यः नगरेभ्यः मलप्पुऱम्-नगरं सम्बद्धम् अस्ति । मलप्पुऱम्-नगरात् कालीकट-रेलस्थानकं ५० किलोमीटर्मिते दूरे स्थितम् अस्ति । इदं रेलस्थानकं निकटतमं रेलस्थानकम् अस्ति । कालीकट-नगरे विमानस्थानकम् अस्ति । तद्विमानस्थानकं “करिपुर-अन्ताराष्ट्रियविमानस्थानकम्” इति नाम्ना ख्यातम् अस्ति । इदं निकटतमं विमानस्थानकं वर्तते । तत् २५ किलोमीटर्मिते दूरे स्थितम् अस्ति । कालीकट-विमानस्थानकात् भारतस्य प्रमुखनगरेभ्यः वायुयानानि प्राप्यन्ते ।

काञ्ञिरप्पळ्ळी[सम्पादयतु]

काञ्ञिरप्पळ्ळी-नगरं केरळ-राज्यस्य कोट्टयम्-मण्डले स्थितम् अस्ति । इदं नगरम् उपमण्डलत्वेन विद्यते । अस्मिन् नगरे हिन्दु-धर्मस्य, मुस्लिम-धर्मस्य जनाः निवसन्ति । अस्य नगरस्य संस्कृतिः अपि विशिष्टा वर्तते । अस्मिन् नगरे कञ्जिम-नामकाः वृक्षाः भवन्ति । अतः एव अस्य नाम “काञ्ञिरप्पळ्ळी” इति नाम अभवत् । नगरेऽस्मिन् कोय्यिन इति आदिवासिनः निवसन्ति । ते प्रारम्भादेव अस्मिन् नगरे निवसन्तः सन्ति । अनन्तरं तमिऴ-अधिवासिनः तत्र समागतवन्तः । पुरा अस्मिन् क्षेत्रे पाण्ड्य-शासकानां शासनम् आसीत् । तैः शासकैः प्रवासकार्यं स्थगितम् । प्रवासे तमिऴव्यापारिणः अधिकाः आसन् । अतः तत्र गत्वा तैः कृषिकार्यम् आरब्धम् । ते तमिऴ-अधिवासिनः “कन्नान्नुर चेट्टीस्” इति नाम्ना ज्ञायन्ते स्म । गणपतियर कोविल, सेण्ट् मेरिज् चर्च्, मदुरै मीनाक्षी मन्दिरं, नैनारू मस्जिद्, सेण्ट् डोमिनिक्स्, “सिरो मालाबार कैथोलिक् कैथेड्रल्” च इत्यादीनि अस्य नगरस्य वीक्षणीयस्थलानि सन्ति । गणपरियर-मन्दिरम् अस्य क्षेत्रस्य प्राचीनं मन्दिरं विद्यते । अत्र ईसाई-धर्मानुयायीनाम् अपि महती सङ्ख्या अस्ति । एतेषाम् ईसाई-जनानां पूर्वजाः निलाक्कल-नामके क्षेत्रे निवसन्ति स्म । तच्छेत्रं पुरा व्यापारकेन्द्रम् आसीत् । तत्र पजहायापल्ली-नामकम् ईसाई-उपासनागृहं विद्यते । तदुपासनागृहमपि प्राचीनम् अस्ति । तस्य निर्माणम् ई. स. १४४९ तमे वर्षे अभवत् । “नैनारू चर्च्” अस्य नगरस्य आकर्षणस्य केन्द्रम् अस्ति । काञ्ञिरप्पळ्ळी-नगरात् कॊच्ची-नगरं १०१ किलोमीटर्मिते दूरे स्थितम् अस्ति । भूमार्गेण कॊच्ची-नगरात् काञ्ञिरप्पळ्ळी-नगरं प्राप्यते । तत्र भाटकयानानि, बसयानानि च प्राप्यन्ते । कोट्टयम्-नगरे काञ्ञिरप्पळ्ळी-नगरस्य निकटतमं रेलस्थानकं विद्यते । चेन्नै-महानगराय, त्रिवेन्द्रम-नगराय, बेङ्गळूरु-महानगराय, मेङ्गलौर-नगराय, कॊच्चीन-नगराय, देहली-महानगराय च इत्यादिभ्यः नगरेभ्यः ततः रेलयानानि प्राप्यन्ते । कॊच्चीन-नगरे अन्ताराष्ट्रियविमानस्थानकम् अपि अस्ति । काञ्ञिरप्पळ्ळी-नगरात् कॊच्चीन-नगरं ७२ किलोमीटर्मिते दूरे स्थितम् अस्ति । कॊच्चीन-नगरात् बसयानैः, भाटकयानैः वा काञ्ञिरप्पळ्ळी-नगरं प्राप्यत् ।

अटूर्[सम्पादयतु]

इदं नगरं केरळ-राज्यस्य पत्तनंतिट्टा-मण्डले स्थितम् अस्ति । अस्य नगरस्य संस्कृतिः, मन्दिराणि, उत्सवाः, तीर्थस्थलानि च केरळ-राज्ये प्रसिद्धानि सन्ति । अटूर्-नगरं तिरुवनन्तपुरम्-नगरात् १०० किलोमीटर्मितं, ऎरणाकुळम्-नगरात् १४० किलोमीटर्मितं च दूरे स्थितम् अस्ति । अस्य नगरस्य मन्दिराणि अतीव पुरातनानि सन्ति । तेषु मन्दिरेषु विभिन्नाः उत्सवाः अपि आचर्यन्ते । नगरेऽस्मिन् पार्थसारथि-मन्दिरं स्थितम् अस्ति । अस्मिन् मन्दिरे भगवतः कृष्णस्य प्रतिमा स्थिता अस्ति । मन्दिरमिदम् अस्य नगरस्य आकर्षणकेन्द्रम् अस्ति । पन्तळम्-महादेवमन्दिरं, पट्टूपुराक्कल-देवीमन्दिरं, पुतेनकविलभगवती-मन्दिरं, श्रीनारायणपुरम्-महाविष्णुमन्दिरं च अटूर्-नगरस्य प्रमुखाणि तीर्थस्थलानि सन्ति । बहवः श्रद्धालवाः दर्शनार्थं तत्र गच्छन्ति । तत्र “सेण्ट् जॉर्ज् ऑर्थोडॉक्स् चर्च्”, “सेण्ट् मेरिज् ऑर्थोडॉक्स् सीरियन् कैथेड्रल्” च इत्येते द्वे प्रमुखे ईसाई-धर्मस्य उपासनागृहे स्तः । अस्य नगरस्य जलवायुः उष्णकटिबन्धीयः भवति । अतः शीतर्तौ एव जनाः तत्र पर्यटनाय गच्छन्ति ।

अटूर्-नगरं केरळ-राज्यस्य प्रमुखनगरैः सह भूमार्गेण सम्बद्धम् अस्ति । अटूर्-नगरात् ऎरणाकुळम्-नगराय, तिरुवनन्तपुरम्-नगराय, कॊच्ची-नगराय च बसयानानि प्राप्यन्ते । कायमकुलम, पुनलूर, पत्तनंतिट्टा, कोट्टारक्करा, गुरुवायूर, चवर, कॊल्लम्, करुनागपल्ली च इत्यादीनि नगराणि अपि अटूर्-नगरेण सह सम्बद्धानि सन्ति । अटूर्-नगरात् १२५ किलोमीटर्मिते दूरे ऎरणाकुळम्-नगरस्य रेलस्थानकं विद्यते । एनार्कुल-नगरे रेलयानस्य प्रमुखमुख्यालयः वर्तते । भारतदेशस्य प्रमुखनगरेभ्यः रेलयानानि प्राप्यन्ते । ऎरणाकुळम्-नगरात् भाटकयानैः, बसयानैः च अटूर््-नगरं प्राप्यते । अटूर््-नगरात् कॊच्ची-नगरं १४० किलोमीटर्मिते दूरे स्थितम् अस्ति । कॊच्ची-नगरे अन्ताराष्ट्रियविमानस्थानकम् अस्ति । तद्विमानस्थानकं चेन्नै, बेङ्गळूरु, देहली, हैदराबाद च इत्यादिभिः भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । अनेन प्रकारेण अटूर्-नगरं गन्तुं बसयानानि, रेलयानानि, वायुयानानि च सरलतया प्राप्तुं शक्यन्ते ।

पत्तनंतिट्टा[सम्पादयतु]

पत्तनंतिट्टा-मण्डलं केरळ-राज्यस्य दक्षिणभागे स्थितम् अस्ति । इदं केरळराज्यस्य लघुत्तमं मण्डलं विद्यते । ई. स. १९८२ तमस्य वर्षस्य नवम्बर-मासस्य १ दिनाङ्के (१ नवम्बर १९८२) इदं मण्डलं निर्मापितम् । यतः इदं क्षेत्रं प्रगतिशीलं वर्तते । पत्तनंतिट्टा-नगरं व्यावसायिकं नगरम् अपि अस्ति । नौकास्पर्धायै इदं मण्डलं प्रसिद्धम् अस्ति । अस्मिन् मण्डले बहूनि वीक्षणीयस्थलानि सन्ति । तत्र बहूनि धार्मिकस्थलानि सन्ति । अतः इदं “केरळ-राज्यस्य धार्मिकराजधानी” अपि कथ्यते । दक्षिणभारते जनाः अयप्पा-देवं पूजयन्ति । सबरीमाला-मन्दिरम् अयप्पा-देवस्य गृहं मन्यते । तत्स्थलम् अपि तत्रैव स्थितम् अस्ति । अतः लक्षाधिकाः जनाः तत्र प्रतिवर्षं दर्शनार्थं गच्छन्ति । अस्य मण्डलस्य कला, संस्कृतिः, परम्परा च विशिष्टा वर्तते । तत्र “कदमानित्ता-देवीमन्दिरं” स्थितम् अस्ति । अस्मिन् मन्दिरे दशदिनात्मकः नृत्योत्सवः आयोज्यते । पत्तनंतिट्टा-नगरे वास्तुविद्यागुरुकुलम् अपि विद्यते । एतद् गुरुकुलम् भारते प्रसिद्धम् अस्ति । वास्तुविद्यायाः, भित्तिचित्राणां च संरक्षणाय इदं गुरुकुलं प्रचलति । श्रीवल्लभमन्दिरं, मलङ्करा चर्च, कोडूमॉन् चिलन्थियम्बलम्, पलियक्कारा चर्च्, कवियूर-महादेवमन्दिरं च पत्तनंतिट्टा-नगरस्य वीक्षणीयस्थलानि सन्ति । अस्य नगरस्य जलवायुः उष्णकटिबन्धीयः वर्तते । अतः शीर्ततुः अस्य नगरस्य यात्रायै उत्तमा वर्तते । पत्तनंतिट्टा-नगरं राजकीयराजमार्गे स्थितम् अस्ति । अतः केरळ-राज्यस्य नगराणि पत्तनंतिट्टा-नगरेण सह सरलतया सम्बद्धानि सन्ति । केरळसर्वकारेण बसयानानि अपि प्रचालितानि सन्ति । चेङ्गन्नूर-नगरे, थिरुवल्ला-नगरे च रेलस्थानकम् अस्ति । पत्तनंतिट्टा-नगरात् चेङ्गन्नूर-नगरं २६ किलिमीटर्मिते, थिरुवल्ला-नगरं ३० किलोमीटर्मिते च दूरे स्थितम् अस्ति । ते रेलस्थानके भारतस्य प्रमुखनगरैः सह सम्बद्धे स्तः । तिरूवनन्तपुरम्-नगरे अन्ताराष्ट्रियविमानस्थानकं विद्यते । पत्तनंतिट्टा-नगरात् तिरूवनन्तपुरम्-नगरं ११३ किलोमीटर्मिते दूरे स्थितम् अस्ति । ततः भाटकवाहनैः, बसयानैः वा पत्तनंतिट्टा-नगरं गन्तुं शक्यते । कॊच्चीन-नगरस्य अन्ताराष्ट्रियविमानस्थानकम् अपि पत्तनंतिट्टा-नगरात् १४२ किलोमीटर्मिते दूरे स्थितम् अस्ति ।

तृश्शूर्[सम्पादयतु]

तृश्शूर्-नगरं केरळ-राज्यस्य सांस्कृतिकराजधानी कथ्यते । अस्य नगरस्य प्राकृतिकं सौन्दर्यं मनोहरम् अस्ति । अतः एव जनाः तत्र भ्रमणार्थं गच्छन्ति । “वडक्कुम्नाथन” अस्य नगरस्य इष्टदेवः अस्ति । “त्रिशिवापेरुर” इति अस्य पूर्णनाम अस्ति । त्रिशिवापेरुर- इत्यस्य अर्थः भवति यत् – “भगवच्छिवनामकं नगरं” इति । तत्र “द बाईबल् टॉवर्”, “केरळकलामण्डलम्”, “चावक्कड-समुद्रतटं” च इत्येतानि अस्य नगरस्य पर्यटनस्थलानि सन्ति । अस्मिन् नगरे पुर्तगाली-जनानां, डच्-जनानां, आङ्ग्लजनानां शासनम् आसीत् । अतः नगरमिदम् ऐतिहासिकम् अपि अस्ति । प्राकृतिकदृष्ट्या, सांस्कृतिकदृष्ट्या च इदं नगरं प्रसिद्धम् अस्ति । अक्टूबर-मासतः फरवरी-मासपर्यन्तम् अस्य नगरस्य भ्रमणाय उत्तमकालः भवति । शीतर्तौ जनाः तत्र भ्रमणार्थं गच्छन्ति ।

तृश्शूर्-नगरं राष्ट्रियराजमार्गे स्थितम् अस्ति । अतः कॊच्ची, कोझीकोड, चेन्नै, बेङ्गळूरु, कोयम्बटूर, मदुरै, पोल्लची च इत्यादिभिः नगरैः सह सम्बद्धम् अस्ति । केरळ-राज्यस्य प्रमुखनगरेभ्यः तृश्शूर्-नगराय बसयानानि प्राप्यन्ते । तृश्शूर्-नगरे रेलस्थानकम् अस्ति । अतः मुम्बई, देहली, कोलकाता, मेङ्गलौर, चेन्नै, हैदराबाद च इत्यादिभिः प्रमुखनगरेभ्यः नियमितरूपेण रेलयानानि प्राप्यन्ते । नगरेऽस्मिन् विमानस्थानकं नास्ति । किन्तु कॊच्ची-नगरे निकटतमं विमानस्थानकम् अस्ति । कॊच्ची-नगरं तृश्शूर्-नगरात् ५८ किलोमीटर्मिते दूरे स्थितमस्ति । कॊच्ची-नगरात् भारतस्य विभिन्ननगरेभ्यः वायुयानानि प्राप्यन्ते ।

कोडुङ्गल्लुर[सम्पादयतु]

कोडुङ्गल्लुर-नगरं केरळराज्यस्य तृश्शूर्-मण्डलस्य लघुनगरं वर्तते । नगरमिदं मालाबार-समुद्रतटे स्थितम् अस्ति । अस्मिन् नगरे भगवतीदेवीमन्दिरम् अस्ति । नगरमिदम् ऐतिहासिकम् अपि अस्ति । सप्तमशताब्द्यां चेरमन-राज्ञां राजधानी आसीत् इदं नगरम् । इदं नगरं समुद्रस्य समीपम् अस्ति । अतः हिन्दमहासागरस्य व्यापारिकं केन्द्रम् अपि अस्ति । “पुरा अस्य नगरस्य सीरिया-देशेन, मिस्र-देशेन च सह व्यापारिकसम्बन्धः आसीत्” इति इतिहासकाराः कथयन्ति । प्राचीनकालादेव इदं नगरम् उपस्कराणां (Spices) निर्यातकत्वेन विराजते । अस्मात् नगरात् मुख्यतः श्यामवल्ल्यः (Black Pepper) निर्यातं भवति स्म । श्यामवल्ली “यवनप्रिया” इति नाम्ना ज्ञायते स्म । तत्र एकः प्राचीनः पोताश्रयः अपि स्थितः अस्ति । तत्र “चेरमन जुमा मस्जिद्” अस्ति । तदुपासनागृहम् ई. स. ६२९ तमे वर्षे निर्मापितम् आसीत् । तत् उपासनागृहं भारतस्य प्रथमं मुस्लिम-पूजास्थलं मन्यते । अस्मिन् नगरे समुद्रतटम् अस्ति । अतः यात्रिकाः समुद्रक्रीडां कर्तुं तत्र गच्छन्ति । अस्य नगरस्य प्राकृतिकं सौन्दयम् अपि मनोहरं भवति । नगरेऽस्मिन् कुरुम्बादेवीमन्दिरम् अस्ति । अस्मिन् मन्दिरे भद्रकालीदेव्याः प्रतिमा स्थापिता अस्ति । इदं मन्दिरम् अस्य नगरस्य प्रमुखतीर्थस्थलम् अस्ति । कीज्हथालीमहादेवमन्दिरं, कूदाल्मानिक्यममन्दिरं, मार् थोमा, तिरुवञ्चिक्कुलममहादेवमन्दिरं, त्रिपायरश्रीराममन्दिरं च अस्य नगरस्य वीक्षणीयस्थलानि सन्ति । कोडुङ्गल्लुर-नगरस्य जलवायुः उष्णकटिबन्धीयः भवति । अतः वातावरणं प्रायः उष्णं भवति । किन्तु नगरमिदं समुद्रतटे स्थितम् अस्ति अतः जलवायुः अनुकूलः भवति । कोडुङ्गुल्लुर-नगरात् कॊच्ची-नगरं ३५ किलोमीटर्मिते, तृश्शूर्-नगरं ३८ किलोमीटर्मिते, गुरुवायूर-नगरं ४५ किल्ल्लोमीटर्मिते च दूरे स्थितम् अस्ति । अतः तेभ्यः नगरेभ्यः कोडुङ्गुल्लुर-नगराय बसयानानि प्राप्यन्ते । कोडुङ्गुल्लुर-नगरात् इरिगालाकुदा-नगरं १६ किलोमीटर्मिते दूरे अस्ति । अस्मिन् नगरे निकटतमं रेलस्थानकम् अस्ति । ततः केरळ-राज्यस्य विभिन्ननगरेभ्यः नियमितत्वेन रेलयानानि प्राप्यन्ते । कॊच्ची-नगरे कोडुङ्गुल्लुर-नगरस्य निकटतमं विमानस्थानकम् अस्ति । कॊच्ची-नगरं कोडुङ्गुल्लुर-नगरात् ३५ किलोमीटर्मिते दूरे स्थितम् अस्ति । कॊच्ची-विमानस्थानकात् चेन्नै, मुम्बई, बेङ्गळूरु, देहली, हैदराबाद इत्यादिभ्यः नगरेभ्यः नियमितरूपेण वायुयानानि प्राप्यन्ते ।

सुल्तान बत्तेरि[सम्पादयतु]

सुल्तानबत्तेरी-नगरं केरळराज्यस्य वयनाट्-मण्डले स्थितम् अस्ति । इदम् ऐतिहासिकं स्थलम् अस्ति । केरळ-कर्णाटकराज्ययोः सीमायां स्थितम् अस्ति इदं नगरम् । मैसूर-राज्यस्य राज्ञा टीपू सुल्तान् इत्याख्येन तत्र आक्रमणं कृतम् आसीत् । अतः एव अस्य नाम “सुल्तान बत्तेरी” इति अभवत् । तेन अस्मिन् नगरे एकः भव्यः दुर्गः निर्मापितः आसीत् । किन्तु साम्प्रतं सः दुर्गः न उपलभ्यते । अस्मिन् नगरे पर्वतीयक्षेत्रम् अपि अस्ति । तत् पर्वतीयक्षेत्रं पर्यटनाय उत्तमम् अस्ति । वयनाट्-मण्डलस्य वाणिज्यकेन्द्रत्वेन इदं नगरं प्रसिद्धम् अस्ति । तत्र जनाः पर्यतनमाध्यमेन, कृषिमाध्यमाध्मेन च जीवनं यापयन्ति । एडक्कल-गुहाः, वयनाट्वन्यजीवाभयारण्यं च सुल्तानबत्तेरी-नगरस्य समीपस्थे वीक्षणीयस्थले स्तः । मैसूर, बेङ्गळूरु, कालीकट इत्यादिभ्यः नगरेभ्यः “सुल्तान बत्तेरि” नगराय बसयानानि प्राप्यन्ते । नगरमिदं राज्यसीमायां स्थितम् अस्ति । अतः कर्णाटकराज्यस्य, केरळराज्यस्य च बसयानानि प्राप्यन्ते । अस्मात् नगरात् कोझीकोड-नगरं ११० किलोमीटर्मिते दूरे स्थितम् अस्ति । तस्मिन् नगरे एकं रेलस्थानकम् अस्ति । कोझीकोड-नगरात् बसयानैः, भाटकयानैः च सुल्तानबत्तेरि-नगरं गन्तुं शक्यते । कालीकट-नगरस्य अन्ताराष्ट्रियविमानस्थानकम् अस्य नगरस्य समीपस्थं विमानस्थानकम् अस्ति । अस्मात् नगरात् कालीकट-नगरम् १०० किलोमीटर्मिते दूरे अस्ति । कालीकट-विमानस्थानकात् भारतस्य प्रमुखनगरेभ्यः वायुयानानि प्राप्यन्ते ।

पुनलूर्[सम्पादयतु]

केरळतमिळनाडुराज्ययोः सीमायां स्थितम् अस्ति पुनलूर्-नगरम् । नगरे प्राकृतिकं सौन्दर्यं प्राप्यते । कल्लादा-नद्याः तटे स्थितम् अस्ति इदं नगरम् । पुनलूर्-नगरे कर्गजयन्त्रागारम् अपि अस्ति । पुनलूर् इति नाम शब्दद्वयेन निर्मितम् अस्ति । पुनल, ऊरु च । पुनलूर् अर्थात् “जलनगरम्” इति । नगरमिदं दक्षिणभारतस्य बृहत्तमेषु नगरेषु पञ्चमम् अस्ति । पुनलूर्-नगरे कृष्णवल्याः, काष्ठस्य च व्यापारः भवति । एकोनविंशतिशताब्द्याम् आङ्ग्लैः एकः सेतुः निर्मापितः आसीत् । सः सेतुः साम्प्रतं राष्ट्रियस्मारकत्वेन उद्घोषितः अस्ति । वर्तमाने अस्य सेतोः उपयोगः न क्रियते । कल्लादा-नद्याः समीपे बहूनि पर्यटनस्थलानि सन्ति । जनाः आनन्दं प्राप्तुं तत्र गच्छन्ति । शेन्थुनी-वनम् अस्य नगरस्य आकषणकेन्द्रम् अस्ति । पलरुवी-जलप्रपातः, कुट्रालम-जलप्रपातः, पट्टजीदेवीमन्दिरं च अस्य नगरस्य समीपस्थानि स्थलानि सन्ति । पुनलूर्-नगरं केरळ-राज्यस्य राजकीयराजमार्गे स्थितम् अस्ति । अयं राजमार्गः पुनलूर्-नगरं केरळ-राज्यस्य अन्यनगरैः सह सञ्योजयति । पुनलूर्-नगरे एकं रेलस्थानकम् अस्ति । किन्तु अस्मिन् रेलस्थानके अल्पमात्रायां रेलयानानि प्राप्यन्ते । पुनलूर्-नगरात् तिरुवनन्तपुरम्-नगरं ७५ किलोमीटर्मिते दूरे स्थितम् अस्ति । तिरुवनन्तपुरम्-नगरे अन्ताराष्ट्रियविमानस्थानकम् अस्ति । तद्विमानस्थानकं भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । ततः देहली, मुम्बई, कोलकाता, चेन्नै इत्यादिभ्यः नगरेभ्यः वायुयानानि प्राप्यन्ते ।

पीरुमेट्[सम्पादयतु]

पीरुमेट्-स्थलं केरळ-राज्यस्य श्रेष्ठतमेषु पर्वतीयक्षेत्रेषु अन्यतमम् अस्ति । कोट्टयम्-नगरात् ८५ किलोमीटर्मितं पूर्वदिशि स्थितम् अस्ति इदं स्थलम् । पर्वतारोहणाय इदं स्थलम् अत्यधिकं प्रसिद्धम् अस्ति । अस्मिन् नगरे बहूनि उद्यनानि सन्ति । तत्र पुरा “पीर मोहम्मद” इत्याख्यः मुस्लिमसन्तः अभवत् । तस्यैव नाम्ना अस्य नगर नामकरणम् अभवत् । ट्रावनकोर-क्षेत्रस्य राजकुलेन सह तस्य घनिष्ठसम्बन्धः आसीत् । इदं स्थलं समुद्रतलात् ९१५ मीटर्मितम् उन्नतम् अस्ति । “पेरियार टाईगर् रिजर्व”, जलप्रपाताः च अस्य नगरस्य समीपस्थानि आकर्षणस्य केन्द्राणि सन्ति । अस्य नगरस्य वातावरणम् सदैव शीतलं भवति । यतः स्थलमिदम् औन्नत्ये स्थितम् अस्ति । तत्र उद्यानेषु चायस्य, काफीपेयस्य, एलायाः च कृषिः भवति । सर्वत्र हरितवर्णीयानि क्षेत्राणि दृश्यते । तद्दृश्यम् अपि मनोहरं भवति ।

पीरुमेट्-नगरात् समीपस्थेभ्यः नगरेभ्यः बसयानानि प्राप्यन्ते । कॊच्ची, थेक्कडी, कुमिली इत्यादिभिः नगरैः सह इदं नगरं सम्बद्धम् अस्ति । कोट्टयम्-नगरस्य रेलस्थानकं पीरुमेट्-नगरस्य समीपस्थं रेलस्थानकम् अस्ति । कोट्टयम्-रेलस्थानकात् चेन्नै, बेङ्गळूरु, हैदराबाद, देहली, मुम्बई च इत्यादिभ्यः नगरेभ्यः रेलयानानि प्राप्यन्ते । पीरुमेट्-नगरस्य समीपे कॊच्ची-नगरे विमानस्थानकम् अस्ति । तद्विमानस्थानकं भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । कॊच्ची-नगरात् पीरुमेट्-नगराय नियमितरूपेण बसयानानि प्राप्यन्ते । जनाः सरलतया पीरुमेट्-नगरं प्राप्तुं शक्नुवन्ति ।

परिवहनम्[सम्पादयतु]

भूमार्गः[सम्पादयतु]

केरळ-राज्यस्य मार्गाः १,४५,७०४ किलोमीटर्मिताः दीर्घाः सन्ति । राष्ट्रियराजमार्गाः १,५२४ किलोमीटर्मितं दीर्घाः सन्ति । राजकीजराजामार्गाः ४३४१ किलोमीटर्मिताः दीर्घाः सन्ति । केरळ-सर्वकारेण जनसेवायै बसयानानि प्रचालितानि सन्ति । सम्पूर्णे केरळ-प्रदेशे बसयानानि प्रचलन्ति । तेन जनाः सरलतया एकस्मात् स्थानात् अन्यत्र गन्तुं शक्नुवन्ति ।

धूमशकटमार्गः[सम्पादयतु]

केरळ-राज्ये बहूनि महानगराणि सन्ति । तिरुवनन्तरपुरं, पालक्काट्, ऎरणाकुळम्, कन्नूर, तृश्शूर्, अलप्पुझा, पुनलूर्, कोट्टयम् एतेषु नगरेषु प्रमुखाणि रेलस्थानकानि सन्ति । तेभ्यः नगरेभ्यः भारतस्य प्रमुखनगरेभ्यः रेलयानानि प्राप्यन्ते । रेलस्थानकेभ्यः केरळ-राज्यस्य पर्यटनस्थलानि गन्तुं भाटकयानानि, बसयानानि च प्राप्यन्ते । केरळ-राज्यस्य बहुषु लघुनगरेषु ग्रामेषु अपि रेलस्थानकानि सन्ति ।

वायुमार्गः[सम्पादयतु]

केरळ-राज्ये चत्वारि अन्ताराष्ट्रियविमानस्थानकानि सन्ति । त्रिवेन्द्रम-नगरे, कॊच्ची-महानगरे, कालीकट-नगरे च पुरातनानि अन्ताराष्ट्रियविमानस्थानकानि सन्ति । कन्नूर-नगरे अपि अपरम् अन्ताराष्ट्रियविमानस्थानकं निर्मापितम् अस्ति । एतद्विमानस्थानकं केरळ-राज्यस्य बृहत्तमं विमानस्थानकम् अस्ति । इतः परं राजकीयविमानस्थानकानि अपि सन्ति । एतानि विमानस्थानकानि भारतस्य प्रमुखनगरैः, विभिन्नदेशैः च सह सम्बद्धानि सन्ति । तेभ्यः विमानस्थानकेभ्यः केरळ-राज्यस्य प्रमुखनगरेभ्यः बसयानानि, भाटकयानानि च प्राप्यन्ते ।

सम्बद्धाः लेखाः[सम्पादयतु]

बाह्यानुबन्धः[सम्पादयतु]


सन्दर्भाः[सम्पादयतु]

  1. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. - २२७
  2. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. - २२७
  3. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. - २३२
  4. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. - २२९
  5. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. - २२९
  6. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. - २२६
  7. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. - २३४
  8. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. - २३३
  9. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. - २३२
  10. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. - २३३
  11. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. - २३३
  12. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. - २३५
  13. http://hindi.nativeplanet.com/sitemap/
"https://sa.wikipedia.org/w/index.php?title=केरळराज्यम्&oldid=438594" इत्यस्माद् पुनः प्राप्तिः